MBh, 5, 14
Select a line for its word-by-word analysis.
अथैनां रूपिणीं साध्वीम् उपातिष्ठद् उपश्रुतिः । (१।२)
athaināṃ rūpiṇīṃ sādhvīm upātiṣṭhad upaśrutiḥ |
तां वयोरूपसम्पन्नां दृष्ट्वा देवीम् उपस्थिताम् ॥ (१।३)
tāṃ vayorūpasampannāṃ dṛṣṭvā devīm upasthitām ||
इन्द्राणी सम्प्रहृष्टा सा सम्पूज्यैनाम् अपृच्छत । (२।१)
indrāṇī samprahṛṣṭā sā sampūjyainām apṛcchata |
इच्छामि त्वाम् अहं ज्ञातुं का त्वं ब्रूहि वरानने ॥ (२।२)
icchāmi tvām ahaṃ jñātuṃ kā tvaṃ brūhi varānane ||
दर्शनं चैव सम्प्राप्ता तव सत्येन तोषिता ॥ (३।३)
darśanaṃ caiva samprāptā tava satyena toṣitā ||
क्षिप्रम् अन्वेहि भद्रं ते द्रक्ष्यसे सुरसत्तमम् ॥ (४।३)
kṣipram anvehi bhadraṃ te drakṣyase surasattamam ||
ततस्तां प्रस्थितां देवीम् इन्द्राणी सा समन्वगात् । (५।२)
tatastāṃ prasthitāṃ devīm indrāṇī sā samanvagāt |
देवारण्यान्यतिक्रम्य पर्वतांश्च बहूंस्ततः । (५।३)
devāraṇyānyatikramya parvatāṃśca bahūṃstataḥ |
हिमवन्तम् अतिक्रम्य उत्तरं पार्श्वम् आगमत् ॥ (५।४)
himavantam atikramya uttaraṃ pārśvam āgamat ||
तत्रापश्यत् सरो दिव्यं नानाशकुनिभिर् वृतम् । (७।१)
tatrāpaśyat saro divyaṃ nānāśakunibhir vṛtam |
बिसतन्तुप्रविष्टं च तत्रापश्यच्छतक्रतुम् ॥ (९।२)
bisatantupraviṣṭaṃ ca tatrāpaśyacchatakratum ||
तं दृष्ट्वा च सुसूक्ष्मेण रूपेणावस्थितं प्रभुम् । (१०।१)
taṃ dṛṣṭvā ca susūkṣmeṇa rūpeṇāvasthitaṃ prabhum |
इन्द्रं तुष्टाव चेन्द्राणी विश्रुतैः पूर्वकर्मभिः । (११।१)
indraṃ tuṣṭāva cendrāṇī viśrutaiḥ pūrvakarmabhiḥ |
किमर्थम् असि सम्प्राप्ता विज्ञातश्च कथं त्वहम् । (१२।१)
kimartham asi samprāptā vijñātaśca kathaṃ tvaham |
इन्द्रत्वं त्रिषु लोकेषु प्राप्य वीर्यमदान्वितः । (१३।१)
indratvaṃ triṣu lokeṣu prāpya vīryamadānvitaḥ |
दर्पाविष्टश्च दुष्टात्मा माम् उवाच शतक्रतो । (१३।२)
darpāviṣṭaśca duṣṭātmā mām uvāca śatakrato |
उपतिष्ठ माम् इति क्रूरः कालं च कृतवान्मम ॥ (१३।३)
upatiṣṭha mām iti krūraḥ kālaṃ ca kṛtavānmama ||
यदि न त्रास्यसि विभो करिष्यति स मां वशे । (१४।१)
yadi na trāsyasi vibho kariṣyati sa māṃ vaśe |
एतेन चाहं संतप्ता प्राप्ता शक्र तवान्तिकम् । (१४।२)
etena cāhaṃ saṃtaptā prāptā śakra tavāntikam |
तेजः समाप्नुहि विभो देवराज्यं प्रशाधि च ॥ (१५।२)
tejaḥ samāpnuhi vibho devarājyaṃ praśādhi ca ||
Data courtesy of The Digital Corpus of Sanskrit.