MBh, 13, 86
Select a line for its word-by-word analysis.
विस्तरेण प्रदानस्य ये गुणाः श्रुतिलक्षणाः ॥ (१।३)
vistareṇa pradānasya ye guṇāḥ śrutilakṣaṇāḥ ||
यत् तु कारणम् उत्पत्तेः सुवर्णस्येह कीर्तितम् । (२।१)
yat tu kāraṇam utpatteḥ suvarṇasyeha kīrtitam |
स कथं तारकः प्राप्तो निधनं तद् ब्रवीहि मे ॥ (२।२)
sa kathaṃ tārakaḥ prāpto nidhanaṃ tad bravīhi me ||
न च तस्येह ते मृत्युर् विस्तरेण प्रकीर्तितः ॥ (३।२)
na ca tasyeha te mṛtyur vistareṇa prakīrtitaḥ ||
एतद् इच्छाम्यहं श्रोतुं त्वत्तः कुरुकुलोद्वह । (४।१)
etad icchāmyahaṃ śrotuṃ tvattaḥ kurukulodvaha |
कार्त्स्न्येन तारकवधं परं कौतूहलं हि मे ॥ (४।२)
kārtsnyena tārakavadhaṃ paraṃ kautūhalaṃ hi me ||
षण्णां तासां ततः प्रीतः पावको गर्भधारणात् । (७।१)
ṣaṇṇāṃ tāsāṃ tataḥ prītaḥ pāvako garbhadhāraṇāt |
तास्तु षट् कृत्तिका गर्भं पुपुषुर् जातवेदसः । (८।१)
tāstu ṣaṭ kṛttikā garbhaṃ pupuṣur jātavedasaḥ |
षट्सु वर्त्मसु तेजो ऽग्नेः सकलं निहितं प्रभो ॥ (८।२)
ṣaṭsu vartmasu tejo 'gneḥ sakalaṃ nihitaṃ prabho ||
ततस्तेजःपरीताङ्ग्यः सर्वाः काल उपस्थिते । (१०।१)
tatastejaḥparītāṅgyaḥ sarvāḥ kāla upasthite |
समं गर्भं सुषुविरे कृत्तिकास्ता नरर्षभ ॥ (१०।२)
samaṃ garbhaṃ suṣuvire kṛttikāstā nararṣabha ||
ततस्तं षडधिष्ठानं गर्भम् एकत्वम् आगतम् । (११।१)
tatastaṃ ṣaḍadhiṣṭhānaṃ garbham ekatvam āgatam |
स गर्भो दिव्यसंस्थानो दीप्तिमान् पावकप्रभः । (१२।१)
sa garbho divyasaṃsthāno dīptimān pāvakaprabhaḥ |
दिव्यं शरवणं प्राप्य ववृधे प्रियदर्शनः ॥ (१२।२)
divyaṃ śaravaṇaṃ prāpya vavṛdhe priyadarśanaḥ ||
ददृशुः कृत्तिकास्तं तु बालं वह्निसमद्युतिम् । (१३।१)
dadṛśuḥ kṛttikāstaṃ tu bālaṃ vahnisamadyutim |
जातस्नेहाश्च सौहार्दात् पुपुषुः स्तन्यविस्रवैः ॥ (१३।२)
jātasnehāśca sauhārdāt pupuṣuḥ stanyavisravaiḥ ||
अभवत् कार्त्तिकेयः स त्रैलोक्ये सचराचरे । (१४।१)
abhavat kārttikeyaḥ sa trailokye sacarācare |
स्कन्नत्वात् स्कन्दतां चाप गुहावासाद् गुहो ऽभवत् ॥ (१४।२)
skannatvāt skandatāṃ cāpa guhāvāsād guho 'bhavat ||
ततो देवास्त्रयस्त्रिंशद् दिशश्च सदिगीश्वराः । (१५।१)
tato devāstrayastriṃśad diśaśca sadigīśvarāḥ |
रुद्रो धाता च विष्णुश्च यज्ञः पूषार्यमा भगः ॥ (१५।२)
rudro dhātā ca viṣṇuśca yajñaḥ pūṣāryamā bhagaḥ ||
अंशो मित्रश्च साध्याश्च वसवो वासवो ऽश्विनौ । (१६।१)
aṃśo mitraśca sādhyāśca vasavo vāsavo 'śvinau |
आपो वायुर् नभश्चन्द्रो नक्षत्राणि ग्रहा रविः ॥ (१६।२)
āpo vāyur nabhaścandro nakṣatrāṇi grahā raviḥ ||
पृथग् भूतानि चान्यानि यानि देवार्पणानि वै । (१७।१)
pṛthag bhūtāni cānyāni yāni devārpaṇāni vai |
आजग्मुस्तत्र तं द्रष्टुं कुमारं ज्वलनात्मजम् । (१७।२)
ājagmustatra taṃ draṣṭuṃ kumāraṃ jvalanātmajam |
ऋषयस्तुष्टुवुश्चैव गन्धर्वाश्च जगुस्तथा ॥ (१७।३)
ṛṣayastuṣṭuvuścaiva gandharvāśca jagustathā ||
षडाननं कुमारं तं द्विषडक्षं द्विजप्रियम् । (१८।१)
ṣaḍānanaṃ kumāraṃ taṃ dviṣaḍakṣaṃ dvijapriyam |
शयानं शरगुल्मस्थं दृष्ट्वा देवाः सहर्षिभिः । (१९।१)
śayānaṃ śaragulmasthaṃ dṛṣṭvā devāḥ saharṣibhiḥ |
क्रीडतः क्रीडनीयानि ददुः पक्षिगणांश्च ह ॥ (२०।२)
krīḍataḥ krīḍanīyāni daduḥ pakṣigaṇāṃśca ha ||
सुपर्णो ऽस्य ददौ पत्रं मयूरं चित्रबर्हिणम् । (२१।१)
suparṇo 'sya dadau patraṃ mayūraṃ citrabarhiṇam |
कुक्कुटं चाग्निसंकाशं प्रददौ वरुणः स्वयम् । (२२।१)
kukkuṭaṃ cāgnisaṃkāśaṃ pradadau varuṇaḥ svayam |
चन्द्रमाः प्रददौ मेषम् आदित्यो रुचिरां प्रभाम् ॥ (२२।२)
candramāḥ pradadau meṣam ādityo rucirāṃ prabhām ||
छागम् अग्निर् गुणोपेतम् इला पुष्पफलं बहु ॥ (२३।२)
chāgam agnir guṇopetam ilā puṣpaphalaṃ bahu ||
वरुणो वारुणान् दिव्यान् भुजंगान् प्रददौ शुभान् । (२४।२)
varuṇo vāruṇān divyān bhujaṃgān pradadau śubhān |
सिंहान् सुरेन्द्रो व्याघ्रांश्च द्वीपिनो ऽन्यांश्च दंष्ट्रिणः ॥ (२४।३)
siṃhān surendro vyāghrāṃśca dvīpino 'nyāṃśca daṃṣṭriṇaḥ ||
श्वापदांश्च बहून् घोरांश्छत्राणि विविधानि च । (२५।१)
śvāpadāṃśca bahūn ghorāṃśchatrāṇi vividhāni ca |
राक्षसासुरसंघाश्च ये ऽनुजग्मुस्तम् ईश्वरम् ॥ (२५।२)
rākṣasāsurasaṃghāśca ye 'nujagmustam īśvaram ||
वर्धमानं तु तं दृष्ट्वा प्रार्थयामास तारकः । (२६।१)
vardhamānaṃ tu taṃ dṛṣṭvā prārthayāmāsa tārakaḥ |
उपायैर् बहुभिर् हन्तुं नाशकच्चापि तं विभुम् ॥ (२६।२)
upāyair bahubhir hantuṃ nāśakaccāpi taṃ vibhum ||
शशंसुर् विप्रकारं तं तस्मै तारककारितम् ॥ (२७।२)
śaśaṃsur viprakāraṃ taṃ tasmai tārakakāritam ||
स विवृद्धो महावीर्यो देवसेनापतिः प्रभुः । (२८।१)
sa vivṛddho mahāvīryo devasenāpatiḥ prabhuḥ |
सुरेन्द्रः स्थापितो राज्ये देवानां पुनर् ईश्वरः ॥ (२९।२)
surendraḥ sthāpito rājye devānāṃ punar īśvaraḥ ||
स सेनापतिर् एवाथ बभौ स्कन्दः प्रतापवान् । (३०।१)
sa senāpatir evātha babhau skandaḥ pratāpavān |
ईशो गोप्ता च देवानां प्रियकृच्छंकरस्य च ॥ (३०।२)
īśo goptā ca devānāṃ priyakṛcchaṃkarasya ca ||
सदा कुमारो देवानां सेनापत्यम् अवाप्तवान् ॥ (३१।२)
sadā kumāro devānāṃ senāpatyam avāptavān ||
तस्मात् सुवर्णं मङ्गल्यं रत्नम् अक्षय्यम् उत्तमम् । (३२।१)
tasmāt suvarṇaṃ maṅgalyaṃ ratnam akṣayyam uttamam |
सहजं कार्त्तिकेयस्य वह्नेस्तेजः परं मतम् ॥ (३२।२)
sahajaṃ kārttikeyasya vahnestejaḥ paraṃ matam ||
रामः सुवर्णं दत्त्वा हि विमुक्तः सर्वकिल्बिषैः । (३४।१)
rāmaḥ suvarṇaṃ dattvā hi vimuktaḥ sarvakilbiṣaiḥ |
त्रिविष्टपे महत् स्थानम् अवापासुलभं नरैः ॥ (३४।२)
triviṣṭape mahat sthānam avāpāsulabhaṃ naraiḥ ||
Data courtesy of The Digital Corpus of Sanskrit.