महाभारतMahābhārata

MBh, 1, 65

65 of 1995 · 129 verses

Select a line for its word-by-word analysis.

1.1१.१

वैशंपायन उवाच । (१।१)

vaiśaṃpāyana uvāca

1.2१.२

ततो गच्छन्महाबाहुर् एको ऽमात्यान् विसृज्य तान् । (१।२)

tato gacchanmahābāhur eko 'mātyān visṛjya tān |

1.3१.३

नापश्यद् आश्रमे तस्मिंस्तम् ऋषिं संशितव्रतम् ॥ (१।३)

nāpaśyad āśrame tasmiṃstam ṛṣiṃ saṃśitavratam ||

2.1२.१

सो ऽपश्यमानस्तम् ऋषिं शून्यं दृष्ट्वा तम् आश्रमम् । (२।१)

so 'paśyamānastam ṛṣiṃ śūnyaṃ dṛṣṭvā tam āśramam |

2.2२.२

उवाच क इहेत्युच्चैर् वनं संनादयन्न् इव ॥ (२।२)

uvāca ka ihetyuccair vanaṃ saṃnādayann iva ||

3.1३.१

श्रुत्वाथ तस्य तं शब्दं कन्या श्रीर् इव रूपिणी । (३।१)

śrutvātha tasya taṃ śabdaṃ kanyā śrīr iva rūpiṇī |

3.2३.२

निश्चक्रामाश्रमात् तस्मात् तापसीवेषधारिणी । (३।२)

niścakrāmāśramāt tasmāt tāpasīveṣadhāriṇī |

3.3३.३

सुव्रताभ्यागतं तं तु पूज्यं प्राप्तम् अथेश्वरम् । (३।३)

suvratābhyāgataṃ taṃ tu pūjyaṃ prāptam atheśvaram |

3.4३.४

रूपयौवनसम्पन्ना शीलाचारवती शुभा । (३।४)

rūpayauvanasampannā śīlācāravatī śubhā |

3.5३.५

सा तम् आयतपद्माक्षं व्यूढोरस्कं सुसंहितम् । (३।५)

sā tam āyatapadmākṣaṃ vyūḍhoraskaṃ susaṃhitam |

3.6३.६

सिंहस्कन्धं दीर्घभुजं सर्वलक्षणपूजितम् । (३।६)

siṃhaskandhaṃ dīrghabhujaṃ sarvalakṣaṇapūjitam |

3.7३.७

स्पष्टं मधुरया वाचा साब्रवीज्जनमेजय ॥ (३।७)

spaṣṭaṃ madhurayā vācā sābravījjanamejaya ||

4.1४.१

सा तं दृष्ट्वैव राजानं दुःषन्तम् असितेक्षणा । (४।१)

sā taṃ dṛṣṭvaiva rājānaṃ duḥṣantam asitekṣaṇā |

4.2४.२

स्वागतं त इति क्षिप्रम् उवाच प्रतिपूज्य च ॥ (४।२)

svāgataṃ ta iti kṣipram uvāca pratipūjya ca ||

5.1५.१

आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि । (५।१)

āsanenārcayitvā ca pādyenārghyeṇa caiva hi |

5.2५.२

पप्रच्छानामयं राजन् कुशलं च नराधिपम् ॥ (५।२)

papracchānāmayaṃ rājan kuśalaṃ ca narādhipam ||

6.1६.१

यथावद् अर्चयित्वा सा पृष्ट्वा चानामयं तदा । (६।१)

yathāvad arcayitvā sā pṛṣṭvā cānāmayaṃ tadā |

6.2६.२

उवाच स्मयमानेव किं कार्यं क्रियताम् इति । (६।२)

uvāca smayamāneva kiṃ kāryaṃ kriyatām iti |

6.3६.३

आश्रमस्याभिगमने किं त्वं कार्यं चिकीर्षसि । (६।३)

āśramasyābhigamane kiṃ tvaṃ kāryaṃ cikīrṣasi |

6.4६.४

कस्त्वम् अद्येह सम्प्राप्तो महर्षेर् आश्रमं शुभम् ॥ (६।४)

kastvam adyeha samprāpto maharṣer āśramaṃ śubham ||

7.1७.१

ताम् अब्रवीत् ततो राजा कन्यां मधुरभाषिणीम् । (७।१)

tām abravīt tato rājā kanyāṃ madhurabhāṣiṇīm |

7.2७.२

दृष्ट्वा सर्वानवद्याङ्गीं यथावत् प्रतिपूजितः । (७।२)

dṛṣṭvā sarvānavadyāṅgīṃ yathāvat pratipūjitaḥ |

7.3७.३

दुःषन्तः । (७।३)

duḥṣantaḥ |

7.4७.४

राजर्षेर् अस्मि पुत्रो ऽहम् इलिलस्य महीपतेः । (७।४)

rājarṣer asmi putro 'ham ililasya mahīpateḥ |

7.5७.५

दुःषन्त इति मे नाम सत्यं पुष्करलोचने । (७।५)

duḥṣanta iti me nāma satyaṃ puṣkaralocane |

7.6७.६

स्वागतं ते महाराज फलमूलोदकं च नः । (७।६)

svāgataṃ te mahārāja phalamūlodakaṃ ca naḥ |

7.7७.७

परिगृह्योपभुङ्क्ष्व त्वं किं च ते करवाण्यहम् ॥ (७।७)

parigṛhyopabhuṅkṣva tvaṃ kiṃ ca te karavāṇyaham ||

8.1८.१

आगतो ऽहं महाभागम् ऋषिं कण्वम् उपासितुम् । (८।१)

āgato 'haṃ mahābhāgam ṛṣiṃ kaṇvam upāsitum |

8.2८.२

क्व गतो भगवान् भद्रे तन् ममाचक्ष्व शोभने । (८।२)

kva gato bhagavān bhadre tan mamācakṣva śobhane |

8.3८.३

द्विजश्रेष्ठ नमो भद्रे मुनिः कण्वः प्रतापवान् ॥ (८।३)

dvijaśreṣṭha namo bhadre muniḥ kaṇvaḥ pratāpavān ||

9.1९.१

शकुन्तलोवाच । (९।१)

śakuntalovāca |

9.2९.२

गतः पिता मे भगवान् फलान्याहर्तुम् आश्रमात् । (९।२)

gataḥ pitā me bhagavān phalānyāhartum āśramāt |

9.3९.३

मुहूर्तं सम्प्रतीक्षस्व द्रक्ष्यस्येनम् इहागतम् ॥ (९।३)

muhūrtaṃ sampratīkṣasva drakṣyasyenam ihāgatam ||

10.1१०.१

वैशंपायन उवाच । (१०।१)

vaiśaṃpāyana uvāca

10.2१०.२

अपश्यमानस्तम् ऋषिं तया चोक्तस्तथा नृपः । (१०।२)

apaśyamānastam ṛṣiṃ tayā coktastathā nṛpaḥ |

10.3१०.३

तां च दृष्ट्वा वरारोहां श्रीमतीं चारुहासिनीम् ॥ (१०।३)

tāṃ ca dṛṣṭvā varārohāṃ śrīmatīṃ cāruhāsinīm ||

11.1११.१

विभ्राजमानां वपुषा तपसा च दमेन च । (११।१)

vibhrājamānāṃ vapuṣā tapasā ca damena ca |

11.2११.२

रूपयौवनसम्पन्नाम् इत्युवाच महीपतिः ॥ (११।२)

rūpayauvanasampannām ityuvāca mahīpatiḥ ||

12.1१२.१

कासि कस्यासि सुश्रोणि किमर्थं चागता वनम् । (१२।१)

kāsi kasyāsi suśroṇi kimarthaṃ cāgatā vanam |

12.2१२.२

एवंरूपगुणोपेता कुतस्त्वम् असि शोभने ॥ (१२।२)

evaṃrūpaguṇopetā kutastvam asi śobhane ||

13.1१३.१

दर्शनाद् एव हि शुभे त्वया मे ऽपहृतं मनः । (१३।१)

darśanād eva hi śubhe tvayā me 'pahṛtaṃ manaḥ |

13.2१३.२

इच्छामि त्वाम् अहं ज्ञातुं तन् ममाचक्ष्व शोभने । (१३।२)

icchāmi tvām ahaṃ jñātuṃ tan mamācakṣva śobhane |

13.3१३.३

स्थितो ऽस्म्यमितसौभाग्ये विवक्षुश्चास्मि किंचन । (१३।३)

sthito 'smyamitasaubhāgye vivakṣuścāsmi kiṃcana |

13.4१३.४

शृणु मे नागनासोरु वचनं मत्तकाशिनि । (१३।४)

śṛṇu me nāganāsoru vacanaṃ mattakāśini |

13.5१३.५

राजर्षेर् अन्वये जातः पूरोर् अस्मि विशेषतः । (१३।५)

rājarṣer anvaye jātaḥ pūror asmi viśeṣataḥ |

13.6१३.६

वृणे त्वाम् अद्य सुश्रोणि दुःषन्तो वरवर्णिनि । (१३।६)

vṛṇe tvām adya suśroṇi duḥṣanto varavarṇini |

13.7१३.७

न मे ऽन्यत्र क्षत्रियाया मनो जातु प्रवर्तते । (१३।७)

na me 'nyatra kṣatriyāyā mano jātu pravartate |

13.8१३.८

ऋषिपुत्रीषु चान्यासु नावर्णास्वपरासु च । (१३।८)

ṛṣiputrīṣu cānyāsu nāvarṇāsvaparāsu ca |

13.9१३.९

एवं प्रणिहितात्मानं विद्धि मां कलभाषिणि । (१३।९)

evaṃ praṇihitātmānaṃ viddhi māṃ kalabhāṣiṇi |

13.10१३.१०

तस्य मे त्वयि भावो ऽस्ति क्षत्रिया ह्यसि का वद । (१३।१०)

tasya me tvayi bhāvo 'sti kṣatriyā hyasi kā vada |

13.11१३.११

न हि मे भीरु विप्रायां मनः प्रसहते गतिम् । (१३।११)

na hi me bhīru viprāyāṃ manaḥ prasahate gatim |

13.12१३.१२

भजे त्वाम् आयतापाङ्गे भक्तं भजितुम् अर्हसि । (१३।१२)

bhaje tvām āyatāpāṅge bhaktaṃ bhajitum arhasi |

13.13१३.१३

भुङ्क्ष्व राज्यं विशालाक्षि बुद्धिं मा त्वन्यथा कृथाः ॥ (१३।१३)

bhuṅkṣva rājyaṃ viśālākṣi buddhiṃ mā tvanyathā kṛthāḥ ||

14.1१४.१

एवम् उक्ता तदा कन्या तेन राज्ञा तदाश्रमे । (१४।१)

evam uktā tadā kanyā tena rājñā tadāśrame |

14.2१४.२

उवाच हसती वाक्यम् इदं सुमधुराक्षरम् ॥ (१४।२)

uvāca hasatī vākyam idaṃ sumadhurākṣaram ||

15.1१५.१

कण्वस्याहं भगवतो दुःषन्त दुहिता मता । (१५।१)

kaṇvasyāhaṃ bhagavato duḥṣanta duhitā matā |

15.2१५.२

ताम् उवाच ततो राजा कन्यां राजीवलोचनाम् । (१५।२)

tām uvāca tato rājā kanyāṃ rājīvalocanām |

15.3१५.३

तपस्विनो धृतिमतो धर्मज्ञस्य यशस्विनः । (१५।३)

tapasvino dhṛtimato dharmajñasya yaśasvinaḥ |

15.4१५.४

अस्वतन्त्रास्मि राजेन्द्र काश्यपो मे गुरुः पिता । (१५।४)

asvatantrāsmi rājendra kāśyapo me guruḥ pitā |

15.5१५.५

तम् एव प्रार्थय स्वार्थं नायुक्तं कर्तुम् अर्हसि ॥ (१५।५)

tam eva prārthaya svārthaṃ nāyuktaṃ kartum arhasi ||

16.1१६.१

दुःषन्त उवाच । (१६।१)

duḥṣanta uvāca

16.2१६.२

ऊर्ध्वरेता महाभागो भगवांल्लोकपूजितः । (१६।२)

ūrdhvaretā mahābhāgo bhagavāṃllokapūjitaḥ |

16.3१६.३

चलेद्धि वृत्ताद् धर्मो ऽपि न चलेत् संशितव्रतः ॥ (१६।३)

caleddhi vṛttād dharmo 'pi na calet saṃśitavrataḥ ||

17.1१७.१

कथं त्वं तस्य दुहिता सम्भूता वरवर्णिनी । (१७।१)

kathaṃ tvaṃ tasya duhitā sambhūtā varavarṇinī |

17.2१७.२

संशयो मे महान् अत्र तं मे छेत्तुम् इहार्हसि ॥ (१७।२)

saṃśayo me mahān atra taṃ me chettum ihārhasi ||

18.1१८.१

शकुन्तलोवाच । (१८।१)

śakuntalovāca |

18.2१८.२

यथायम् आगमो मह्यं यथा चेदम् अभूत् पुरा । (१८।२)

yathāyam āgamo mahyaṃ yathā cedam abhūt purā |

18.3१८.३

अन्यथा सन्तम् आत्मानम् अन्यथा सत्सु भाषते । (१८।३)

anyathā santam ātmānam anyathā satsu bhāṣate |

18.4१८.४

स पापेनावृतो मूर्खस्तेन आत्मापहारकः । (१८।४)

sa pāpenāvṛto mūrkhastena ātmāpahārakaḥ |

18.5१८.५

शृणु राजन् यथातत्त्वं यथास्मि दुहिता मुनेः ॥ (१८।५)

śṛṇu rājan yathātattvaṃ yathāsmi duhitā muneḥ ||

19.1१९.१

ऋषिः कश्चिद् इहागम्य मम जन्माभ्यचोदयत् । (१९।१)

ṛṣiḥ kaścid ihāgamya mama janmābhyacodayat |

19.2१९.२

ऊर्ध्वरेता यथासि त्वं कुतस्तेयं शकुन्तला । (१९।२)

ūrdhvaretā yathāsi tvaṃ kutasteyaṃ śakuntalā |

19.3१९.३

पुत्री त्वत्तः कथं जाता तत् त्वं मे ब्रूहि काश्यप । (१९।३)

putrī tvattaḥ kathaṃ jātā tat tvaṃ me brūhi kāśyapa |

19.4१९.४

तस्मै प्रोवाच भगवान् यथा तच्छृणु पार्थिव ॥ (१९।४)

tasmai provāca bhagavān yathā tacchṛṇu pārthiva ||

20.1२०.१

तप्यमानः किल पुरा विश्वामित्रो महत् तपः । (२०।१)

tapyamānaḥ kila purā viśvāmitro mahat tapaḥ |

20.2२०.२

सुभृशं तापयामास शक्रं सुरगणेश्वरम् ॥ (२०।२)

subhṛśaṃ tāpayāmāsa śakraṃ suragaṇeśvaram ||

21.1२१.१

तपसा दीप्तवीर्यो ऽयं स्थानान् मां च्यावयेद् इति । (२१।१)

tapasā dīptavīryo 'yaṃ sthānān māṃ cyāvayed iti |

21.2२१.२

भीतः पुरंदरस्तस्मान् मेनकाम् इदम् अब्रवीत् ॥ (२१।२)

bhītaḥ puraṃdarastasmān menakām idam abravīt ||

22.1२२.१

गुणैर् दिव्यैर् अप्सरसां मेनके त्वं विशिष्यसे । (२२।१)

guṇair divyair apsarasāṃ menake tvaṃ viśiṣyase |

22.2२२.२

श्रेयो मे कुरु कल्याणि यत् त्वां वक्ष्यामि तच्छृणु ॥ (२२।२)

śreyo me kuru kalyāṇi yat tvāṃ vakṣyāmi tacchṛṇu ||

23.1२३.१

असावादित्यसंकाशो विश्वामित्रो महातपाः । (२३।१)

asāvādityasaṃkāśo viśvāmitro mahātapāḥ |

23.2२३.२

तप्यमानस्तपो घोरं मम कम्पयते मनः । (२३।२)

tapyamānastapo ghoraṃ mama kampayate manaḥ |

23.3२३.३

तपस्तस्य महाघोरं ब्रह्मचर्यं च संश्रितम् ॥ (२३।३)

tapastasya mahāghoraṃ brahmacaryaṃ ca saṃśritam ||

24.1२४.१

मेनके तव भारो ऽयं विश्वामित्रः सुमध्यमे । (२४।१)

menake tava bhāro 'yaṃ viśvāmitraḥ sumadhyame |

24.2२४.२

संशितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते ॥ (२४।२)

saṃśitātmā sudurdharṣa ugre tapasi vartate ||

25.1२५.१

स मां न च्यावयेत् स्थानात् तं वै गत्वा प्रलोभय । (२५।१)

sa māṃ na cyāvayet sthānāt taṃ vai gatvā pralobhaya |

25.2२५.२

चर तस्य तपोविघ्नं कुरु मे प्रियम् उत्तमम् ॥ (२५।२)

cara tasya tapovighnaṃ kuru me priyam uttamam ||

26.1२६.१

रूपयौवनमाधुर्यचेष्टितस्मितभाषितैः । (२६।१)

rūpayauvanamādhuryaceṣṭitasmitabhāṣitaiḥ |

26.2२६.२

लोभयित्वा वरारोहे तपसः संनिवर्तय ॥ (२६।२)

lobhayitvā varārohe tapasaḥ saṃnivartaya ||

27.1२७.१

मेनकोवाच । (२७।१)

menakovāca |

27.2२७.२

महातेजाः स भगवान् सदैव च महातपाः । (२७।२)

mahātejāḥ sa bhagavān sadaiva ca mahātapāḥ |

27.3२७.३

कोपनश्च तथा ह्येनं जानाति भगवान् अपि ॥ (२७।३)

kopanaśca tathā hyenaṃ jānāti bhagavān api ||

28.1२८.१

तेजसस्तपसश्चैव कोपस्य च महात्मनः । (२८।१)

tejasastapasaścaiva kopasya ca mahātmanaḥ |

28.2२८.२

त्वम् अप्युद्विजसे यस्य नोद्विजेयम् अहं कथम् ॥ (२८।२)

tvam apyudvijase yasya nodvijeyam ahaṃ katham ||

29.1२९.१

महाभागं वसिष्ठं यः पुत्रैर् इष्टैर् व्ययोजयत् । (२९।१)

mahābhāgaṃ vasiṣṭhaṃ yaḥ putrair iṣṭair vyayojayat |

29.2२९.२

क्षत्रे जातश्च यः पूर्वम् अभवद् ब्राह्मणो बलात् ॥ (२९।२)

kṣatre jātaśca yaḥ pūrvam abhavad brāhmaṇo balāt ||

30.1३०.१

शौचार्थं यो नदीं चक्रे दुर्गमां बहुभिर् जलैः । (३०।१)

śaucārthaṃ yo nadīṃ cakre durgamāṃ bahubhir jalaiḥ |

30.2३०.२

यां तां पुण्यतमां लोके कौशिकीति विदुर् जनाः ॥ (३०।२)

yāṃ tāṃ puṇyatamāṃ loke kauśikīti vidur janāḥ ||

31.1३१.१

बभार यत्रास्य पुरा काले दुर्गे महात्मनः । (३१।१)

babhāra yatrāsya purā kāle durge mahātmanaḥ |

31.2३१.२

दारान् मतङ्गो धर्मात्मा राजर्षिर् व्याधतां गतः ॥ (३१।२)

dārān mataṅgo dharmātmā rājarṣir vyādhatāṃ gataḥ ||

32.1३२.१

अतीतकाले दुर्भिक्षे यत्रैत्य पुनर् आश्रमम् । (३२।१)

atītakāle durbhikṣe yatraitya punar āśramam |

32.2३२.२

मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः ॥ (३२।२)

muniḥ pāreti nadyā vai nāma cakre tadā prabhuḥ ||

33.1३३.१

मतङ्गं याजयांचक्रे यत्र प्रीतमनाः स्वयम् । (३३।१)

mataṅgaṃ yājayāṃcakre yatra prītamanāḥ svayam |

33.2३३.२

त्वं च सोमं भयाद् यस्य गतः पातुं शुरेश्वर ॥ (३३।२)

tvaṃ ca somaṃ bhayād yasya gataḥ pātuṃ śureśvara ||

34.1३४.१

अति नक्षत्रवंशांश्च क्रुद्धो नक्षत्रसंपदा । (३४।१)

ati nakṣatravaṃśāṃśca kruddho nakṣatrasaṃpadā |

34.2३४.२

प्रति श्रवणपूर्वाणि नक्षत्राणि ससर्ज यः । (३४।२)

prati śravaṇapūrvāṇi nakṣatrāṇi sasarja yaḥ |

34.3३४.३

गुरुशापहतस्यापि त्रिशङ्कोः शरणं ददौ । (३४।३)

guruśāpahatasyāpi triśaṅkoḥ śaraṇaṃ dadau |

34.4३४.४

ब्रह्मर्षिशापं राजर्षिः कथं मोक्ष्यति कौशिकः । (३४।४)

brahmarṣiśāpaṃ rājarṣiḥ kathaṃ mokṣyati kauśikaḥ |

34.5३४.५

अवमत्य तदा देवैर् यज्ञाङ्गं तद्विनाशितम् । (३४।५)

avamatya tadā devair yajñāṅgaṃ tadvināśitam |

34.6३४.६

अन्यानि च महातेजा यज्ञाङ्गान्यसृजत् प्रभुः । (३४।६)

anyāni ca mahātejā yajñāṅgānyasṛjat prabhuḥ |

34.7३४.७

निनाय च तदा स्वर्गं त्रिशङ्कुं स महातपाः ॥ (३४।७)

nināya ca tadā svargaṃ triśaṅkuṃ sa mahātapāḥ ||

35.1३५.१

एतानि यस्य कर्माणि तस्याहं भृशम् उद्विजे । (३५।१)

etāni yasya karmāṇi tasyāhaṃ bhṛśam udvije |

35.2३५.२

यथा मां न दहेत् क्रुद्धस्तथाज्ञापय मां विभो ॥ (३५।२)

yathā māṃ na dahet kruddhastathājñāpaya māṃ vibho ||

36.1३६.१

तेजसा निर्दहेल्लोकान् कम्पयेद् धरणीं पदा । (३६।१)

tejasā nirdahellokān kampayed dharaṇīṃ padā |

36.2३६.२

संक्षिपेच्च महामेरुं तूर्णम् आवर्तयेत् तथा । (३६।२)

saṃkṣipecca mahāmeruṃ tūrṇam āvartayet tathā |

36.3३६.३

संशोषेच्च महोदधिम् । (३६।३)

saṃśoṣecca mahodadhim |

36.4३६.४

संक्षिपेच्च महानद्रिं ॥ (३६।४)

saṃkṣipecca mahānadriṃ ||

37.1३७.१

तादृशं तपसा युक्तं प्रदीप्तम् इव पावकम् । (३७।१)

tādṛśaṃ tapasā yuktaṃ pradīptam iva pāvakam |

37.2३७.२

कथम् अस्मद्विधा बाला जितेन्द्रियम् अभिस्पृशेत् ॥ (३७।२)

katham asmadvidhā bālā jitendriyam abhispṛśet ||

38.1३८.१

हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम् । (३८।१)

hutāśanamukhaṃ dīptaṃ sūryacandrākṣitārakam |

38.2३८.२

कालजिह्वं सुरश्रेष्ठ कथम् अस्मद्विधा स्पृशेत् ॥ (३८।२)

kālajihvaṃ suraśreṣṭha katham asmadvidhā spṛśet ||

39.1३९.१

यमश्च सोमश्च महर्षयश्च साध्या विश्वे वालखिल्याश्च सर्वे । (३९।१)

yamaśca somaśca maharṣayaśca sādhyā viśve vālakhilyāśca sarve |

39.2३९.२

एते ऽपि यस्योद्विजन्ते प्रभावात् कस्मात् तस्मान् मादृशी नोद्विजेत ॥ (३९।२)

ete 'pi yasyodvijante prabhāvāt kasmāt tasmān mādṛśī nodvijeta ||

40.1४०.१

त्वयैवम् उक्ता च कथं समीपम् ऋषेर् न गच्छेयम् अहं सुरेन्द्र । (४०।१)

tvayaivam uktā ca kathaṃ samīpam ṛṣer na gaccheyam ahaṃ surendra |

40.2४०.२

रक्षां तु मे चिन्तय देवराज यथा त्वदर्थं रक्षिताहं चरेयम् ॥ (४०।२)

rakṣāṃ tu me cintaya devarāja yathā tvadarthaṃ rakṣitāhaṃ careyam ||

41.1४१.१

कामं तु मे मारुतस्तत्र वासः प्रक्रीडिताया विवृणोतु देव । (४१।१)

kāmaṃ tu me mārutastatra vāsaḥ prakrīḍitāyā vivṛṇotu deva |

41.2४१.२

भवेच्च मे मन्मथस्तत्र कार्ये सहायभूतस्तव देवप्रसादात् ॥ (४१।२)

bhavecca me manmathastatra kārye sahāyabhūtastava devaprasādāt ||

42.1४२.१

वनाच्च वायुः सुरभिः प्रवायेत् तस्मिन् काले तम् ऋषिं लोभयन्त्याः । (४२।१)

vanācca vāyuḥ surabhiḥ pravāyet tasmin kāle tam ṛṣiṃ lobhayantyāḥ |

42.2४२.२

तथेत्युक्त्वा विहिते चैव तस्मिंस्ततो ययौ साश्रमं कौशिकस्य ॥ (४२।२)

tathetyuktvā vihite caiva tasmiṃstato yayau sāśramaṃ kauśikasya ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 1, 65

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit