MBh, 5, 109
Select a line for its word-by-word analysis.
यस्माद् उत्तार्यते पापाद् यस्मान्निःश्रेयसो ऽश्नुते । (१।२)
yasmād uttāryate pāpād yasmānniḥśreyaso 'śnute |
तस्माद् उत्तारणफलाद् उत्तरेत्युच्यते बुधैः ॥ (१।३)
tasmād uttāraṇaphalād uttaretyucyate budhaiḥ ||
मार्गः पश्चिमपूर्वाभ्यां दिग्भ्यां वै मध्यमः स्मृतः ॥ (२।२)
mārgaḥ paścimapūrvābhyāṃ digbhyāṃ vai madhyamaḥ smṛtaḥ ||
अस्यां दिशि वरिष्ठायाम् उत्तरायां द्विजर्षभ । (३।१)
asyāṃ diśi variṣṭhāyām uttarāyāṃ dvijarṣabha |
नासौम्यो नाविधेयात्मा नाधर्म्यो वसते जनः ॥ (३।२)
nāsaumyo nāvidheyātmā nādharmyo vasate janaḥ ||
बदर्याम् आश्रमपदे तथा ब्रह्मा च शाश्वतः ॥ (४।२)
badaryām āśramapade tathā brahmā ca śāśvataḥ ||
अत्र वै हिमवत्पृष्ठे नित्यम् आस्ते महेश्वरः । (५।१)
atra vai himavatpṛṣṭhe nityam āste maheśvaraḥ |
अत्र राज्येन विप्राणां चन्द्रमाश्चाभ्यषिच्यत ॥ (५।२)
atra rājyena viprāṇāṃ candramāścābhyaṣicyata ||
अत्र गङ्गां महादेवः पतन्तीं गगनाच्च्युताम् । (६।१)
atra gaṅgāṃ mahādevaḥ patantīṃ gaganāccyutām |
अत्र चैत्ररथं रम्यम् अत्र वैखानसाश्रमः । (९।१)
atra caitrarathaṃ ramyam atra vaikhānasāśramaḥ |
अत्र सौगन्धिकवनं नैरृतैर् अभिरक्ष्यते । (१०।१)
atra saugandhikavanaṃ nairṛtair abhirakṣyate |
शाड्वलं कदलीस्कन्धम् अत्र संतानका नगाः ॥ (१०।२)
śāḍvalaṃ kadalīskandham atra saṃtānakā nagāḥ ||
अत्र संयमनित्यानां सिद्धानां स्वैरचारिणाम् । (११।१)
atra saṃyamanityānāṃ siddhānāṃ svairacāriṇām |
अत्र तिष्ठति वै स्वातिर् अत्रास्या उदयः स्मृतः ॥ (१२।२)
atra tiṣṭhati vai svātir atrāsyā udayaḥ smṛtaḥ ||
अत्र यज्ञं समारुह्य ध्रुवं स्थाता पितामहः । (१३।१)
atra yajñaṃ samāruhya dhruvaṃ sthātā pitāmahaḥ |
ज्योतींषि चन्द्रसूर्यौ च परिवर्तन्ति नित्यशः ॥ (१३।२)
jyotīṃṣi candrasūryau ca parivartanti nityaśaḥ ||
अत्र गायन्तिकाद्वारं रक्षन्ति द्विजसत्तमाः । (१४।१)
atra gāyantikādvāraṃ rakṣanti dvijasattamāḥ |
न तेषां ज्ञायते सूतिर् नाकृतिर् न तपश्चितम् । (१५।१)
na teṣāṃ jñāyate sūtir nākṛtir na tapaścitam |
न तत् केनचिद् अन्येन गतपूर्वं द्विजर्षभ । (१७।१)
na tat kenacid anyena gatapūrvaṃ dvijarṣabha |
ऋते नारायणं देवं नरं वा जिष्णुम् अव्ययम् ॥ (१७।२)
ṛte nārāyaṇaṃ devaṃ naraṃ vā jiṣṇum avyayam ||
अत्र कैलासम् इत्युक्तं स्थानम् ऐलविलस्य तत् । (१८।१)
atra kailāsam ityuktaṃ sthānam ailavilasya tat |
अत्र विद्युत्प्रभा नाम जज्ञिरे ऽप्सरसो दश ॥ (१८।२)
atra vidyutprabhā nāma jajñire 'psaraso daśa ||
अत्र विष्णुपदं नाम क्रमता विष्णुना कृतम् । (१९।१)
atra viṣṇupadaṃ nāma kramatā viṣṇunā kṛtam |
त्रिलोकविक्रमे ब्रह्मन्न् उत्तरां दिशम् आश्रितम् ॥ (१९।२)
trilokavikrame brahmann uttarāṃ diśam āśritam ||
अत्र राज्ञा मरुत्तेन यज्ञेनेष्टं द्विजोत्तम । (२०।१)
atra rājñā maruttena yajñeneṣṭaṃ dvijottama |
जीमूतस्यात्र विप्रर्षेर् उपतस्थे महात्मनः । (२१।१)
jīmūtasyātra viprarṣer upatasthe mahātmanaḥ |
ब्राह्मणेषु च यत् कृत्स्नं स्वन्तं कृत्वा धनं महत् । (२२।१)
brāhmaṇeṣu ca yat kṛtsnaṃ svantaṃ kṛtvā dhanaṃ mahat |
वव्रे वनं महर्षिः स जैमूतं तद् वनं ततः ॥ (२२।२)
vavre vanaṃ maharṣiḥ sa jaimūtaṃ tad vanaṃ tataḥ ||
अत्र नित्यं दिशापालाः सायं प्रातर् द्विजर्षभ । (२३।१)
atra nityaṃ diśāpālāḥ sāyaṃ prātar dvijarṣabha |
कस्य कार्यं किम् इति वै परिक्रोशन्ति गालव ॥ (२३।२)
kasya kāryaṃ kim iti vai parikrośanti gālava ||
एवम् एषा द्विजश्रेष्ठ गुणैर् अन्यैर् दिग् उत्तरा । (२४।१)
evam eṣā dvijaśreṣṭha guṇair anyair dig uttarā |
चतस्रः क्रमयोगेन कामाशां गन्तुम् इच्छसि ॥ (२५।२)
catasraḥ kramayogena kāmāśāṃ gantum icchasi ||
उद्यतो ऽहं द्विजश्रेष्ठ तव दर्शयितुं दिशः । (२६।१)
udyato 'haṃ dvijaśreṣṭha tava darśayituṃ diśaḥ |
पृथिवीं चाखिलां ब्रह्मंस् तस्माद् आरोह मां द्विज ॥ (२६।२)
pṛthivīṃ cākhilāṃ brahmaṃs tasmād āroha māṃ dvija ||
Data courtesy of The Digital Corpus of Sanskrit.