महाभारतMahābhārata

MBh, 1, 192

192 of 1995 · 345 verses

Select a line for its word-by-word analysis.

1.1१.१

वैशंपायन उवाच । (१।१)

vaiśaṃpāyana uvāca

1.2१.२

ततो राज्ञां चरैर् आप्तैश्चारः समुपनीयत । (१।२)

tato rājñāṃ carair āptaiścāraḥ samupanīyata |

1.3१.३

पाण्डवैर् उपसंपन्ना द्रौपदी पतिभिः शुभा ॥ (१।३)

pāṇḍavair upasaṃpannā draupadī patibhiḥ śubhā ||

2.1२.१

येन तद् धनुर् आयम्य लक्ष्यं विद्धं महात्मना । (२।१)

yena tad dhanur āyamya lakṣyaṃ viddhaṃ mahātmanā |

2.2२.२

सो ऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः ॥ (२।२)

so 'rjuno jayatāṃ śreṣṭho mahābāṇadhanurdharaḥ ||

3.1३.१

यः शल्यं मद्रराजानम् उत्क्षिप्याभ्रामयद् बली । (३।१)

yaḥ śalyaṃ madrarājānam utkṣipyābhrāmayad balī |

3.2३.२

त्रासयंश्चापि संक्रुद्धो वृक्षेण पुरुषान् रणे ॥ (३।२)

trāsayaṃścāpi saṃkruddho vṛkṣeṇa puruṣān raṇe ||

4.1४.१

न चापि संभ्रमः कश्चिद् आसीत् तत्र महात्मनः । (४।१)

na cāpi saṃbhramaḥ kaścid āsīt tatra mahātmanaḥ |

4.2४.२

स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः । (४।२)

sa bhīmo bhīmasaṃsparśaḥ śatrusenāṅgapātanaḥ |

4.3४.३

यो ऽसावत्यक्रमीद् युद्धे युध्यन् दुर्योधनं तदा । (४।३)

yo 'sāvatyakramīd yuddhe yudhyan duryodhanaṃ tadā |

4.4४.४

स राजा पाण्डवश्रेष्ठः श्रेष्ठभाग् बुद्धिवर्धनः । (४।४)

sa rājā pāṇḍavaśreṣṭhaḥ śreṣṭhabhāg buddhivardhanaḥ |

4.5४.५

दुर्योधनाद् अवरजैर् यौ युध्येतां प्रतीतवत् । (४।५)

duryodhanād avarajair yau yudhyetāṃ pratītavat |

4.6४.६

तौ यमौ वृत्तसम्पन्नौ सम्पन्नबलविक्रमौ । (४।६)

tau yamau vṛttasampannau sampannabalavikramau |

4.7४.७

चारैः प्रणिहिते चारे राजानो विगतज्वराः ॥ (४।७)

cāraiḥ praṇihite cāre rājāno vigatajvarāḥ ||

5.1५.१

ब्रह्मरूपधराञ् श्रुत्वा पाण्डुराजसुतांस्तदा । (५।१)

brahmarūpadharāñ śrutvā pāṇḍurājasutāṃstadā |

5.2५.२

कौन्तेयान् मनुजेन्द्राणां विस्मयः समजायत ॥ (५।२)

kaunteyān manujendrāṇāṃ vismayaḥ samajāyata ||

6.1६.१

सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता । (६।१)

saputrā hi purā kuntī dagdhā jatugṛhe śrutā |

6.2६.२

सर्वभूमिपतीनां च राष्ट्राणां च यशस्विनाम् । (६।२)

sarvabhūmipatīnāṃ ca rāṣṭrāṇāṃ ca yaśasvinām |

6.3६.३

पुनर्जातान् इति स्मैतान् मन्यन्ते सर्वपार्थिवाः ॥ (६।३)

punarjātān iti smaitān manyante sarvapārthivāḥ ||

7.1७.१

धिक् कुर्वन्तस्तदा भीष्मं धृतराष्ट्रं च कौरवम् । (७।१)

dhik kurvantastadā bhīṣmaṃ dhṛtarāṣṭraṃ ca kauravam |

7.2७.२

कर्मणा सुनृशंसेन पुरोचनकृतेन वै । (७।२)

karmaṇā sunṛśaṃsena purocanakṛtena vai |

7.3७.३

वैशंपायनः । (७।३)

vaiśaṃpāyanaḥ |

7.4७.४

शकुनिः । (७।४)

śakuniḥ |

7.5७.५

वैशंपायनः । (७।५)

vaiśaṃpāyanaḥ |

7.6७.६

वैशंपायनः । (७।६)

vaiśaṃpāyanaḥ |

7.7७.७

धार्मिकान् वृत्तसम्पन्नान् मातुः प्रियहिते रतान् । (७।७)

dhārmikān vṛttasampannān mātuḥ priyahite ratān |

7.8७.८

यदा तान् ईदृशान् पार्थान् उत्सादयितुम् अर्हति । (७।८)

yadā tān īdṛśān pārthān utsādayitum arhati |

7.9७.९

ततः स्वयंवरे वृत्ते धार्तराष्ट्राः स्म भारत । (७।९)

tataḥ svayaṃvare vṛtte dhārtarāṣṭrāḥ sma bhārata |

7.10७.१०

मन्त्रयन्ते ततः सर्वे कर्णसौबलदूषिताः । (७।१०)

mantrayante tataḥ sarve karṇasaubaladūṣitāḥ |

7.11७.११

कश्चिच्छत्रुः कर्शनीयः पीडनीयस्तथा परः । (७।११)

kaścicchatruḥ karśanīyaḥ pīḍanīyastathā paraḥ |

7.12७.१२

उत्सादनीयाः कौन्तेयाः सर्वे क्षत्रस्य मे मताः । (७।१२)

utsādanīyāḥ kaunteyāḥ sarve kṣatrasya me matāḥ |

7.13७.१३

एवं पराजिताः सर्वे यदि यूयं गमिष्यथ । (७।१३)

evaṃ parājitāḥ sarve yadi yūyaṃ gamiṣyatha |

7.14७.१४

अकृत्वा संविदं कांचित् तद् वस्तप्स्यत्यसंशयम् । (७।१४)

akṛtvā saṃvidaṃ kāṃcit tad vastapsyatyasaṃśayam |

7.15७.१५

अयं देशश्च कालश्च पाण्डवोद्धरणाय नः । (७।१५)

ayaṃ deśaśca kālaśca pāṇḍavoddharaṇāya naḥ |

7.16७.१६

न चेद् एवं करिष्यध्वं लोके हास्या भविष्यथ । (७।१६)

na ced evaṃ kariṣyadhvaṃ loke hāsyā bhaviṣyatha |

7.17७.१७

यम् एते संश्रिता वस्तुं कामयन्ते च भूमिपम् । (७।१७)

yam ete saṃśritā vastuṃ kāmayante ca bhūmipam |

7.18७.१८

सो ऽल्पवीर्यबलो राजा द्रुपदो वै मतो मम । (७।१८)

so 'lpavīryabalo rājā drupado vai mato mama |

7.19७.१९

यावद् एतान् न जानन्ति जीवतो वृष्णिपुंगवाः । (७।१९)

yāvad etān na jānanti jīvato vṛṣṇipuṃgavāḥ |

7.20७.२०

चैद्यश्च पुरुषव्याघ्रः शिशुपालः प्रतापवान् । (७।२०)

caidyaśca puruṣavyāghraḥ śiśupālaḥ pratāpavān |

7.21७.२१

एकीभावं गता राज्ञा द्रुपदेन महात्मना । (७।२१)

ekībhāvaṃ gatā rājñā drupadena mahātmanā |

7.22७.२२

दुराधर्षतरा राजन् भविष्यन्ति न संशयः । (७।२२)

durādharṣatarā rājan bhaviṣyanti na saṃśayaḥ |

7.23७.२३

यावत् त्वचलतां सर्वे प्राप्नुवन्ति नराधिपाः । (७।२३)

yāvat tvacalatāṃ sarve prāpnuvanti narādhipāḥ |

7.24७.२४

तावद् एव व्यवस्यामः पाण्डवानां वधं प्रति । (७।२४)

tāvad eva vyavasyāmaḥ pāṇḍavānāṃ vadhaṃ prati |

7.25७.२५

मुक्ता जतुगृहाद् भीमाद् आशीविषमुखाद् इव । (७।२५)

muktā jatugṛhād bhīmād āśīviṣamukhād iva |

7.26७.२६

पुनर् यद् इह मुच्यन्ते महन् नो भयम् आविशेत् । (७।२६)

punar yad iha mucyante mahan no bhayam āviśet |

7.27७.२७

तेषाम् इहोपयातानाम् एषां च पुरवासिनाम् । (७।२७)

teṣām ihopayātānām eṣāṃ ca puravāsinām |

7.28७.२८

अन्तरे दुष्करं स्थातुं मेषयोर् महतोर् इव । (७।२८)

antare duṣkaraṃ sthātuṃ meṣayor mahator iva |

7.29७.२९

हलधृक्प्रगृहीतानि बलानि बलिनां स्वयम् । (७।२९)

haladhṛkpragṛhītāni balāni balināṃ svayam |

7.30७.३०

यावन् न कुरुसेनायां पतन्ति पतगा इव । (७।३०)

yāvan na kurusenāyāṃ patanti patagā iva |

7.31७.३१

तावत् सर्वाभिसारेण पुरम् एतद् विनाश्यताम् । (७।३१)

tāvat sarvābhisāreṇa puram etad vināśyatām |

7.32७.३२

एतद् अत्र परं मन्ये प्राप्तकालं नरर्षभाः । (७।३२)

etad atra paraṃ manye prāptakālaṃ nararṣabhāḥ |

7.33७.३३

शकुनेर् वचनं श्रुत्वा भाषमाणस्य दुर्मतेः । (७।३३)

śakuner vacanaṃ śrutvā bhāṣamāṇasya durmateḥ |

7.34७.३४

सौमदत्तिर् इदं वाक्यं जगाद परमं ततः । (७।३४)

saumadattir idaṃ vākyaṃ jagāda paramaṃ tataḥ |

7.35७.३५

प्रकृतीः सप्त वै ज्ञात्वा आत्मनश्च परस्य च । (७।३५)

prakṛtīḥ sapta vai jñātvā ātmanaśca parasya ca |

7.36७.३६

तथा देशं च कालं च षड्विधांश्च नयेद् गुणान् । (७।३६)

tathā deśaṃ ca kālaṃ ca ṣaḍvidhāṃśca nayed guṇān |

7.37७.३७

स्थानं वृद्धिं क्षयं चैव भूमिं मित्राणि विक्रमम् । (७।३७)

sthānaṃ vṛddhiṃ kṣayaṃ caiva bhūmiṃ mitrāṇi vikramam |

7.38७.३८

समीक्ष्याथाभियुञ्जीत परं व्यसनपीडितम् । (७।३८)

samīkṣyāthābhiyuñjīta paraṃ vyasanapīḍitam |

7.39७.३९

ततो ऽहं पाण्डवान् मन्ये मित्रकोशसमन्वितान् । (७।३९)

tato 'haṃ pāṇḍavān manye mitrakośasamanvitān |

7.40७.४०

बलस्थान् विक्रमस्थांश्च स्वकृतैः प्रकृतिप्रियान् । (७।४०)

balasthān vikramasthāṃśca svakṛtaiḥ prakṛtipriyān |

7.41७.४१

वपुषा भुवि भूतानां नेत्राणि च मनांसि च । (७।४१)

vapuṣā bhuvi bhūtānāṃ netrāṇi ca manāṃsi ca |

7.42७.४२

श्रोत्रं मधुरया वाचा रमयत्यर्जुनो नृणाम् । (७।४२)

śrotraṃ madhurayā vācā ramayatyarjuno nṛṇām |

7.43७.४३

न तु केवलदैवेन प्रजा भावेन भेजिरे । (७।४३)

na tu kevaladaivena prajā bhāvena bhejire |

7.44७.४४

यद् बभूव मनःकान्तं कर्मणा स चकार तत् । (७।४४)

yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat |

7.45७.४५

न ह्ययुक्तं न चासक्तं नामृतं न च विप्रियम् । (७।४५)

na hyayuktaṃ na cāsaktaṃ nāmṛtaṃ na ca vipriyam |

7.46७.४६

भाषितं चारुभाषस्य जज्ञे पार्थस्य भारती । (७।४६)

bhāṣitaṃ cārubhāṣasya jajñe pārthasya bhāratī |

7.47७.४७

तान् एवं गुणसम्पन्नान् सम्पन्नान् राजलक्षणैः । (७।४७)

tān evaṃ guṇasampannān sampannān rājalakṣaṇaiḥ |

7.48७.४८

न तान् पश्यामि ये शक्ताः समुच्छेत्तुं यथाबलात् । (७।४८)

na tān paśyāmi ye śaktāḥ samucchettuṃ yathābalāt |

7.49७.४९

प्रभावशक्तिर् विपुला मन्त्रशक्तिश्च पुष्कला । (७।४९)

prabhāvaśaktir vipulā mantraśaktiśca puṣkalā |

7.50७.५०

तथैवोत्साहशक्तिश्च पार्थेष्वभ्यधिका सदा । (७।५०)

tathaivotsāhaśaktiśca pārtheṣvabhyadhikā sadā |

7.51७.५१

मौलमित्रबलानां च कालज्ञो वै युधिष्ठिरः । (७।५१)

maulamitrabalānāṃ ca kālajño vai yudhiṣṭhiraḥ |

7.52७.५२

साम्ना दानेन भेदेन दण्डेनेति युधिष्ठिरः । (७।५२)

sāmnā dānena bhedena daṇḍeneti yudhiṣṭhiraḥ |

7.53७.५३

अमित्रं यतते जेतुं न रोषेणेति मे मतिः । (७।५३)

amitraṃ yatate jetuṃ na roṣeṇeti me matiḥ |

7.54७.५४

परिक्रीय धनैः शत्रून् मित्राणि च धनानि च । (७।५४)

parikrīya dhanaiḥ śatrūn mitrāṇi ca dhanāni ca |

7.55७.५५

मूलं च सुदृढं कृत्वा हन्त्यरीन् पाण्डवस्ततः । (७।५५)

mūlaṃ ca sudṛḍhaṃ kṛtvā hantyarīn pāṇḍavastataḥ |

7.56७.५६

अशक्यान् पाण्डवान् मन्ये देवैर् अपि सवासवैः । (७।५६)

aśakyān pāṇḍavān manye devair api savāsavaiḥ |

7.57७.५७

एषाम् अर्थे सदा युक्तौ कृष्णसंकर्षणावुभौ । (७।५७)

eṣām arthe sadā yuktau kṛṣṇasaṃkarṣaṇāvubhau |

7.58७.५८

श्रेयश्च यदि मन्यध्वं मन्मतं यदि वो मतम् । (७।५८)

śreyaśca yadi manyadhvaṃ manmataṃ yadi vo matam |

7.59७.५९

संविदं पाण्डवैः सार्धं कृत्वा याम यथागतम् । (७।५९)

saṃvidaṃ pāṇḍavaiḥ sārdhaṃ kṛtvā yāma yathāgatam |

7.60७.६०

गोपुराट्टालकैर् उच्चैर् उपतल्पशतैर् अपि । (७।६०)

gopurāṭṭālakair uccair upatalpaśatair api |

7.61७.६१

गुप्तं पुरवरं श्रेष्ठम् एतद् अद्भिश्च संवृतम् । (७।६१)

guptaṃ puravaraṃ śreṣṭham etad adbhiśca saṃvṛtam |

7.62७.६२

तृणधान्येन्धनरसैस्तथा यन्त्रायुधौषधैः । (७।६२)

tṛṇadhānyendhanarasaistathā yantrāyudhauṣadhaiḥ |

7.63७.६३

युक्तं ह्युरुकवाटैश्च द्रव्यागारतुषादिकैः । (७।६३)

yuktaṃ hyurukavāṭaiśca dravyāgāratuṣādikaiḥ |

7.64७.६४

भीमोच्छ्रितमहाचक्रं बृहदट्टालसंवृतम् । (७।६४)

bhīmocchritamahācakraṃ bṛhadaṭṭālasaṃvṛtam |

7.65७.६५

दृढप्राकारनिर्यूहं शतघ्नीजालसंवृतम् । (७।६५)

dṛḍhaprākāraniryūhaṃ śataghnījālasaṃvṛtam |

7.66७.६६

ऐष्टको दारवो वप्रो मानुषश्चेति यः स्मृतः । (७।६६)

aiṣṭako dāravo vapro mānuṣaśceti yaḥ smṛtaḥ |

7.67७.६७

प्राकारकर्तृभिर् वीरैर् नृगर्भस्तत्र पूजितः । (७।६७)

prākārakartṛbhir vīrair nṛgarbhastatra pūjitaḥ |

7.68७.६८

तद् एतन् नरगर्भेण पाण्डरेण विराजते । (७।६८)

tad etan naragarbheṇa pāṇḍareṇa virājate |

7.69७.६९

सालेनानेकतालेन सर्वतः संवृतं पुरम् । (७।६९)

sālenānekatālena sarvataḥ saṃvṛtaṃ puram |

7.70७.७०

अनुरक्ताः प्रकृतयो द्रुपदस्य महात्मनः । (७।७०)

anuraktāḥ prakṛtayo drupadasya mahātmanaḥ |

7.71७.७१

दानमानार्चिताः सर्वे बाह्याश्चाभ्यन्तराश्च ये । (७।७१)

dānamānārcitāḥ sarve bāhyāścābhyantarāśca ye |

7.72७.७२

प्रतिरुद्धान् इमाञ् ज्ञात्वा राजभिर् भीमविक्रमैः । (७।७२)

pratiruddhān imāñ jñātvā rājabhir bhīmavikramaiḥ |

7.73७.७३

उपयास्यन्ति दाशार्हाः समुदग्रोच्छ्रितायुधाः । (७।७३)

upayāsyanti dāśārhāḥ samudagrocchritāyudhāḥ |

7.74७.७४

तस्मात् संधिं वयं कृत्वा धार्तराष्ट्रस्य पाण्डवैः । (७।७४)

tasmāt saṃdhiṃ vayaṃ kṛtvā dhārtarāṣṭrasya pāṇḍavaiḥ |

7.75७.७५

स्वराष्ट्रम् एव गच्छामो यद्याप्तं वचनं मम । (७।७५)

svarāṣṭram eva gacchāmo yadyāptaṃ vacanaṃ mama |

7.76७.७६

एतन् मम मतं सर्वैः क्रियतां यदि रोचते । (७।७६)

etan mama mataṃ sarvaiḥ kriyatāṃ yadi rocate |

7.77७.७७

एतच्च सुकृतं मन्ये क्षेमं चापि महीक्षिताम् । (७।७७)

etacca sukṛtaṃ manye kṣemaṃ cāpi mahīkṣitām |

7.78७.७८

सौमदत्तेर् वचः श्रुत्वा कर्णो वैकर्तनो वृषा । (७।७८)

saumadatter vacaḥ śrutvā karṇo vaikartano vṛṣā |

7.79७.७९

उवाच वचनं काले कालज्ञः सर्वकर्मणाम् । (७।७९)

uvāca vacanaṃ kāle kālajñaḥ sarvakarmaṇām |

7.80७.८०

नीतिपूर्वम् इदं सर्वम् उक्तं वचनम् अर्थवत् । (७।८०)

nītipūrvam idaṃ sarvam uktaṃ vacanam arthavat |

7.81७.८१

वचनं नाभ्यसूयामि श्रूयतां मद्वचःस्थितिः । (७।८१)

vacanaṃ nābhyasūyāmi śrūyatāṃ madvacaḥsthitiḥ |

7.82७.८२

द्वैधीभावो न गन्तव्यः सर्वकर्मसु मानवैः । (७।८२)

dvaidhībhāvo na gantavyaḥ sarvakarmasu mānavaiḥ |

7.83७.८३

द्विधाभूतेन मनसा ह्यन्यत् कर्म न सिध्यति । (७।८३)

dvidhābhūtena manasā hyanyat karma na sidhyati |

7.84७.८४

सम्प्रयाणासनाभ्यां तु कर्शनेन तथैव च । (७।८४)

samprayāṇāsanābhyāṃ tu karśanena tathaiva ca |

7.85७.८५

नैतच्छक्यं पुरं हन्तुम् आक्रन्दो ऽस्याप्यशोभनः । (७।८५)

naitacchakyaṃ puraṃ hantum ākrando 'syāpyaśobhanaḥ |

7.86७.८६

अवमर्दनकालो ऽत्र मतश्चिन्तयतो मम । (७।८६)

avamardanakālo 'tra mataścintayato mama |

7.87७.८७

यावन् नो वृष्णयः पार्ष्णीं न गृह्णन्ति रणप्रियाः । (७।८७)

yāvan no vṛṣṇayaḥ pārṣṇīṃ na gṛhṇanti raṇapriyāḥ |

7.88७.८८

प्रभवन्तो हृष्टतुष्टाः स्वबाहुबलशालिनः । (७।८८)

prabhavanto hṛṣṭatuṣṭāḥ svabāhubalaśālinaḥ |

7.89७.८९

प्राकारम् अवमृद्नन्तु परिघाः पूरयन्त्वपि । (७।८९)

prākāram avamṛdnantu parighāḥ pūrayantvapi |

7.90७.९०

प्रस्रावयन्तु सलिलं क्रियतां विषमं समम् । (७।९०)

prasrāvayantu salilaṃ kriyatāṃ viṣamaṃ samam |

7.91७.९१

तृणकाष्ठेन महता खातम् अस्य प्रपूर्यताम् । (७।९१)

tṛṇakāṣṭhena mahatā khātam asya prapūryatām |

7.92७.९२

घुष्यतां राजसैन्येषु परेषां यो हनिष्यति । (७।९२)

ghuṣyatāṃ rājasainyeṣu pareṣāṃ yo haniṣyati |

7.93७.९३

नागम् अश्वं पदातिं वा दानमानं स लप्स्यते । (७।९३)

nāgam aśvaṃ padātiṃ vā dānamānaṃ sa lapsyate |

7.94७.९४

नागे दश सहस्राणि पञ्च चाश्वपदातिषु । (७।९४)

nāge daśa sahasrāṇi pañca cāśvapadātiṣu |

7.95७.९५

रथे वै द्विगुणं नागाद् वसु दास्यन्ति पार्थिवाः । (७।९५)

rathe vai dviguṇaṃ nāgād vasu dāsyanti pārthivāḥ |

7.96७.९६

यश्च कामसुखे सक्तो बालश्च स्थविरश्च यः । (७।९६)

yaśca kāmasukhe sakto bālaśca sthaviraśca yaḥ |

7.97७.९७

अयुद्धमनसो ये च ते तु तिष्ठन्तु भीरवः । (७।९७)

ayuddhamanaso ye ca te tu tiṣṭhantu bhīravaḥ |

7.98७.९८

प्रदरश्च न दातव्यो न गन्तव्यम् अचोदितैः । (७।९८)

pradaraśca na dātavyo na gantavyam acoditaiḥ |

7.99७.९९

यशो रक्षत भद्रं वो जेष्यामो वै वयं पुरम् । (७।९९)

yaśo rakṣata bhadraṃ vo jeṣyāmo vai vayaṃ puram |

7.100७.१००

अनुलोमाश्च नो वाताः सर्वतो मृगपक्षिणः । (७।१००)

anulomāśca no vātāḥ sarvato mṛgapakṣiṇaḥ |

7.101७.१०१

अग्नयश्च विराजन्ते शस्त्राणि कवचानि च । (७।१०१)

agnayaśca virājante śastrāṇi kavacāni ca |

7.102७.१०२

ततः कर्णवचः श्रुत्वा धार्तराष्ट्रप्रियैषिणः । (७।१०२)

tataḥ karṇavacaḥ śrutvā dhārtarāṣṭrapriyaiṣiṇaḥ |

7.103७.१०३

निर्ययुः पृथिवीपालाश्चालयन्तः परान् रणे । (७।१०३)

niryayuḥ pṛthivīpālāścālayantaḥ parān raṇe |

7.104७.१०४

न हि तेषां मनःसक्तिर् इन्द्रियार्थेषु सर्वशः । (७।१०४)

na hi teṣāṃ manaḥsaktir indriyārtheṣu sarvaśaḥ |

7.105७.१०५

यथा पुनर् अरिघ्नानां प्रसवो युद्ध एव च । (७।१०५)

yathā punar arighnānāṃ prasavo yuddha eva ca |

7.106७.१०६

वैकर्तनपुरोवातः सैन्धवोर्मिमहास्वनः । (७।१०६)

vaikartanapurovātaḥ saindhavormimahāsvanaḥ |

7.107७.१०७

दुःशासनमहामत्स्यो दुर्योधनमहाग्रहः । (७।१०७)

duḥśāsanamahāmatsyo duryodhanamahāgrahaḥ |

7.108७.१०८

स राजसागरो भीमो भीमघोषप्रदर्शनः । (७।१०८)

sa rājasāgaro bhīmo bhīmaghoṣapradarśanaḥ |

7.109७.१०९

अभिदुद्राव वेगेन पुरं तद् अपसव्यतः । (७।१०९)

abhidudrāva vegena puraṃ tad apasavyataḥ |

7.110७.११०

तद् अनीकम् अनाधृष्यं शस्त्राग्निव्यालदीपितम् । (७।११०)

tad anīkam anādhṛṣyaṃ śastrāgnivyāladīpitam |

7.111७.१११

समुत्कूलितम् आज्ञाय चुक्रुशुर् द्रुपदात्मजाः । (७।१११)

samutkūlitam ājñāya cukruśur drupadātmajāḥ |

7.112७.११२

ते मेघसमनिर्घोषैर् बलिनः स्यन्दनोत्तमैः । (७।११२)

te meghasamanirghoṣair balinaḥ syandanottamaiḥ |

7.113७.११३

निर्ययुर् नगरद्वारात् त्रासयन्तः परान् रणे । (७।११३)

niryayur nagaradvārāt trāsayantaḥ parān raṇe |

7.114७.११४

धृष्टद्युम्नः शिखण्डी च सुमित्रः प्रियदर्शनः । (७।११४)

dhṛṣṭadyumnaḥ śikhaṇḍī ca sumitraḥ priyadarśanaḥ |

7.115७.११५

चित्रकेतुः सुकेतुश्च ध्वजसेनश्च वीर्यवान् । (७।११५)

citraketuḥ suketuśca dhvajasenaśca vīryavān |

7.116७.११६

पुत्रा द्रुपदराजस्य बलवन्तो जयैषिणः । (७।११६)

putrā drupadarājasya balavanto jayaiṣiṇaḥ |

7.117७.११७

द्रुपदश्च महावीर्यः पाण्डरोष्णीषकेतनः । (७।११७)

drupadaśca mahāvīryaḥ pāṇḍaroṣṇīṣaketanaḥ |

7.118७.११८

पाण्डरव्यजनच्छत्रः पाण्डरध्वजवाहनः । (७।११८)

pāṇḍaravyajanacchatraḥ pāṇḍaradhvajavāhanaḥ |

7.119७.११९

सपुत्रगणमध्यस्थः शुशुभे राजसत्तमः । (७।११९)

saputragaṇamadhyasthaḥ śuśubhe rājasattamaḥ |

7.120७.१२०

चन्द्रमा ज्योतिषां मध्ये पौर्णमास्याम् इवोदितः । (७।१२०)

candramā jyotiṣāṃ madhye paurṇamāsyām ivoditaḥ |

7.121७.१२१

अथोद्धूतपताकाग्रम् अजिह्मगतिम् अव्ययम् । (७।१२१)

athoddhūtapatākāgram ajihmagatim avyayam |

7.122७.१२२

द्रुपदानीकम् आयान्तं कुरुसैन्यम् अभिद्रवत् । (७।१२२)

drupadānīkam āyāntaṃ kurusainyam abhidravat |

7.123७.१२३

तयोर् उभयतो जज्ञे भैरवस्तुमुलः स्वनः । (७।१२३)

tayor ubhayato jajñe bhairavastumulaḥ svanaḥ |

7.124७.१२४

बलयोः सम्प्रहरतोः स्रवन्त्योः सरितोर् इव । (७।१२४)

balayoḥ sampraharatoḥ sravantyoḥ saritor iva |

7.125७.१२५

प्रकीर्णरथनागाश्वैस्तान्यनीकानि सर्वशः । (७।१२५)

prakīrṇarathanāgāśvaistānyanīkāni sarvaśaḥ |

7.126७.१२६

ज्योतींषि विप्रकीर्णानि सर्वतः प्रचकाशिरे । (७।१२६)

jyotīṃṣi viprakīrṇāni sarvataḥ pracakāśire |

7.127७.१२७

उत्कृष्टभेरीनिनदे सम्प्रवृत्ते महारवे । (७।१२७)

utkṛṣṭabherīninade sampravṛtte mahārave |

7.128७.१२८

अमर्षिता महात्मानः पाण्डवा निर्ययुस्ततः । (७।१२८)

amarṣitā mahātmānaḥ pāṇḍavā niryayustataḥ |

7.129७.१२९

रथान् वै मेघनिर्घोषान् युक्तान् परमवाजिभिः । (७।१२९)

rathān vai meghanirghoṣān yuktān paramavājibhiḥ |

7.130७.१३०

धन्विनो ध्वजिनः शुभ्रान् आस्थाय भरतर्षभाः । (७।१३०)

dhanvino dhvajinaḥ śubhrān āsthāya bharatarṣabhāḥ |

7.131७.१३१

ततः पाण्डुसुतान् दृष्ट्वा रथस्थान् आत्तकार्मुकान् । (७।१३१)

tataḥ pāṇḍusutān dṛṣṭvā rathasthān āttakārmukān |

7.132७.१३२

नृपाणाम् अभवत् कम्पो वेपथुर् हृदयेषु च । (७।१३२)

nṛpāṇām abhavat kampo vepathur hṛdayeṣu ca |

7.133७.१३३

निर्यातेष्वथ पार्थेषु द्रौपदं तद् बलं रणे । (७।१३३)

niryāteṣvatha pārtheṣu draupadaṃ tad balaṃ raṇe |

7.134७.१३४

आविशत् परमो हर्षः प्रमोदश्च जयं प्रति । (७।१३४)

āviśat paramo harṣaḥ pramodaśca jayaṃ prati |

7.135७.१३५

स मुहूर्तं व्यतिकरः सैन्यानाम् अभवद् भृशम् । (७।१३५)

sa muhūrtaṃ vyatikaraḥ sainyānām abhavad bhṛśam |

7.136७.१३६

ततो द्वन्द्वम् अयुध्यन्त मृत्युं कृत्वा निवर्तनम् । (७।१३६)

tato dvandvam ayudhyanta mṛtyuṃ kṛtvā nivartanam |

7.137७.१३७

जघ्नतुः समरे तस्मिन् सुमित्रप्रियदर्शनौ । (७।१३७)

jaghnatuḥ samare tasmin sumitrapriyadarśanau |

7.138७.१३८

जयद्रथश्च कर्णश्च पश्यतः सव्यसाचिनः । (७।१३८)

jayadrathaśca karṇaśca paśyataḥ savyasācinaḥ |

7.139७.१३९

अर्जुनः प्रेक्ष्य निहतौ सुमित्रप्रियदर्शनौ । (७।१३९)

arjunaḥ prekṣya nihatau sumitrapriyadarśanau |

7.140७.१४०

जयद्रथसुतं तत्र जघान पितुर् अन्तिके । (७।१४०)

jayadrathasutaṃ tatra jaghāna pitur antike |

7.141७.१४१

वृषसेनाद् अवरजं सुबाहुं वै धनंजयः । (७।१४१)

vṛṣasenād avarajaṃ subāhuṃ vai dhanaṃjayaḥ |

7.142७.१४२

कर्णपुत्रं महावीर्यं रथनीडाद् अपातयत् । (७।१४२)

karṇaputraṃ mahāvīryaṃ rathanīḍād apātayat |

7.143७.१४३

तौ सुतौ निहतौ दृष्ट्वा राजसिंहौ तरस्विनौ । (७।१४३)

tau sutau nihatau dṛṣṭvā rājasiṃhau tarasvinau |

7.144७.१४४

नामृष्येतां महाबाहू प्रहारम् इव सद्गजौ । (७।१४४)

nāmṛṣyetāṃ mahābāhū prahāram iva sadgajau |

7.145७.१४५

तौ जग्मतुर् असम्भ्रान्तौ फल्गुनस्य रथं प्रति । (७।१४५)

tau jagmatur asambhrāntau phalgunasya rathaṃ prati |

7.146७.१४६

प्रतिमुक्ततलत्राणौ त्रायमाणौ परस्परम् । (७।१४६)

pratimuktatalatrāṇau trāyamāṇau parasparam |

7.147७.१४७

संनिपातस्तयोर् आसीत् फल्गुनेन महामृधे । (७।१४७)

saṃnipātastayor āsīt phalgunena mahāmṛdhe |

7.148७.१४८

वृत्रशम्बरयोः संख्ये वज्रिणेव महारणे । (७।१४८)

vṛtraśambarayoḥ saṃkhye vajriṇeva mahāraṇe |

7.149७.१४९

त्रीन् हयाञ् जघ्नतुस्तत्र फल्गुनस्य नरर्षभौ । (७।१४९)

trīn hayāñ jaghnatustatra phalgunasya nararṣabhau |

7.150७.१५०

ततः किलिकिलाशब्दः कुरूणाम् अभवत् तदा । (७।१५०)

tataḥ kilikilāśabdaḥ kurūṇām abhavat tadā |

7.151७.१५१

तान् हयान् निहतान् दृष्ट्वा भीमसेनः प्रतापवान् । (७।१५१)

tān hayān nihatān dṛṣṭvā bhīmasenaḥ pratāpavān |

7.152७.१५२

निमेषान्तरमात्रेण रथम् अश्वैर् अयोजयत् । (७।१५२)

nimeṣāntaramātreṇa ratham aśvair ayojayat |

7.153७.१५३

उपयातं रथं दृष्ट्वा दुर्योधनपुरःसरौ । (७।१५३)

upayātaṃ rathaṃ dṛṣṭvā duryodhanapuraḥsarau |

7.154७.१५४

सौबलः सौमदत्तिश्च समेयातां परंतपौ । (७।१५४)

saubalaḥ saumadattiśca sameyātāṃ paraṃtapau |

7.155७.१५५

तैः पञ्चभिर् अदीनात्मा भीमसेनो महाबलः । (७।१५५)

taiḥ pañcabhir adīnātmā bhīmaseno mahābalaḥ |

7.156७.१५६

अयुध्यत बलैर् वीरैर् इन्द्रियार्थैर् इवेश्वरः । (७।१५६)

ayudhyata balair vīrair indriyārthair iveśvaraḥ |

7.157७.१५७

तैर् निरुद्धो न संत्रासं जगाम समितिंजयः । (७।१५७)

tair niruddho na saṃtrāsaṃ jagāma samitiṃjayaḥ |

7.158७.१५८

पञ्चभिर् द्विरदैर् मत्तैर् निरुद्ध इव केसरी । (७।१५८)

pañcabhir dviradair mattair niruddha iva kesarī |

7.159७.१५९

तस्य ते युगपत् पञ्च पञ्चभिर् निशितैः शरैः । (७।१५९)

tasya te yugapat pañca pañcabhir niśitaiḥ śaraiḥ |

7.160७.१६०

सारथिं वाजिनश्चैव निन्युर् वैवस्वतक्षयम् । (७।१६०)

sārathiṃ vājinaścaiva ninyur vaivasvatakṣayam |

7.161७.१६१

हताश्वात् स्यन्दनश्रेष्ठाद् अवरुह्य महारथः । (७।१६१)

hatāśvāt syandanaśreṣṭhād avaruhya mahārathaḥ |

7.162७.१६२

चचार विविधान् मार्गान् असिम् उद्यम्य पाण्डवः । (७।१६२)

cacāra vividhān mārgān asim udyamya pāṇḍavaḥ |

7.163७.१६३

अश्वस्कन्धेषु चक्रेषु युगेष्वीषासु चैव ह । (७।१६३)

aśvaskandheṣu cakreṣu yugeṣvīṣāsu caiva ha |

7.164७.१६४

व्यचरत् पातयञ् शत्रून् सुपर्ण इव भोगिनः । (७।१६४)

vyacarat pātayañ śatrūn suparṇa iva bhoginaḥ |

7.165७.१६५

विधनुष्कं विकवचं विरथं च समीक्ष्य तम् । (७।१६५)

vidhanuṣkaṃ vikavacaṃ virathaṃ ca samīkṣya tam |

7.166७.१६६

अभिपेतुर् नरव्याघ्रम् अर्जुनप्रमुखा रथाः । (७।१६६)

abhipetur naravyāghram arjunapramukhā rathāḥ |

7.167७.१६७

धृष्टद्युम्नः शिखण्डी च यमौ च युधि दुर्जयौ । (७।१६७)

dhṛṣṭadyumnaḥ śikhaṇḍī ca yamau ca yudhi durjayau |

7.168७.१६८

तस्मिन् दाशरथे युद्धे प्रवृत्ते शरवृष्टिभिः । (७।१६८)

tasmin dāśarathe yuddhe pravṛtte śaravṛṣṭibhiḥ |

7.169७.१६९

रथा ध्वजाः पताकाश्च सर्वम् अन्तरधीयत । (७।१६९)

rathā dhvajāḥ patākāśca sarvam antaradhīyata |

7.170७.१७०

तत् प्रवृत्तं चिरं कालं युद्धं समम् इवाभवत् । (७।१७०)

tat pravṛttaṃ ciraṃ kālaṃ yuddhaṃ samam ivābhavat |

7.171७.१७१

रथेनाथ महाबाहुर् अर्जुनो ऽभ्यपतत् पुनः । (७।१७१)

rathenātha mahābāhur arjuno 'bhyapatat punaḥ |

7.172७.१७२

तम् आपतन्तं दृष्ट्वैव महाबाहुर् धनुर्धरः । (७।१७२)

tam āpatantaṃ dṛṣṭvaiva mahābāhur dhanurdharaḥ |

7.173७.१७३

कर्णो ऽस्त्रविदुषां श्रेष्ठो वारयामास सायकैः । (७।१७३)

karṇo 'straviduṣāṃ śreṣṭho vārayāmāsa sāyakaiḥ |

7.174७.१७४

स तेनाभिहतः पार्थो वासविर् वज्रसंनिभान् । (७।१७४)

sa tenābhihataḥ pārtho vāsavir vajrasaṃnibhān |

7.175७.१७५

त्रीञ् शरान् संदधे क्रुद्धो वधे कर्णस्य पाण्डवः । (७।१७५)

trīñ śarān saṃdadhe kruddho vadhe karṇasya pāṇḍavaḥ |

7.176७.१७६

तैः शरैर् आहतं कर्णं ध्वजयष्टिम् उपाश्रितम् । (७।१७६)

taiḥ śarair āhataṃ karṇaṃ dhvajayaṣṭim upāśritam |

7.177७.१७७

अपोवाह रथेनाशु सूतः परपुरंजयम् । (७।१७७)

apovāha rathenāśu sūtaḥ parapuraṃjayam |

7.178७.१७८

ततः पराजिते कर्णे धार्तराष्ट्रान् महद् भयम् । (७।१७८)

tataḥ parājite karṇe dhārtarāṣṭrān mahad bhayam |

7.179७.१७९

विवेश समुदग्रांश्च पाञ्चालान् प्रसमीक्ष्य च । (७।१७९)

viveśa samudagrāṃśca pāñcālān prasamīkṣya ca |

7.180७.१८०

तत् प्रकम्पितम् अत्यर्थं दृष्ट्वा वै सौबलो बलम् । (७।१८०)

tat prakampitam atyarthaṃ dṛṣṭvā vai saubalo balam |

7.181७.१८१

गिरा गम्भीरया वीरः समाश्वासयतासकृत् । (७।१८१)

girā gambhīrayā vīraḥ samāśvāsayatāsakṛt |

7.182७.१८२

धार्तराष्ट्रैस्ततः सर्वैर् दुर्योधनपुरःसरैः । (७।१८२)

dhārtarāṣṭraistataḥ sarvair duryodhanapuraḥsaraiḥ |

7.183७.१८३

धृतं तत् पुनर् एवासीद् बलं पार्थप्रकम्पितम् । (७।१८३)

dhṛtaṃ tat punar evāsīd balaṃ pārthaprakampitam |

7.184७.१८४

ततो दुर्योधनं दृष्ट्वा भीमो भीमपराक्रमः । (७।१८४)

tato duryodhanaṃ dṛṣṭvā bhīmo bhīmaparākramaḥ |

7.185७.१८५

अक्रुध्यत् स महाबाहुर् अगारं जातुषं स्मरन् । (७।१८५)

akrudhyat sa mahābāhur agāraṃ jātuṣaṃ smaran |

7.186७.१८६

ततः संग्रामशिरसि ददर्श विपुलद्रुमम् । (७।१८६)

tataḥ saṃgrāmaśirasi dadarśa vipuladrumam |

7.187७.१८७

आयामभूतं तिष्ठन्तं स्कन्धपञ्चाशदुन्नतम् । (७।१८७)

āyāmabhūtaṃ tiṣṭhantaṃ skandhapañcāśadunnatam |

7.188७.१८८

महास्कन्धं महोत्सेधं शक्रध्वजम् इवोच्छ्रितम् । (७।१८८)

mahāskandhaṃ mahotsedhaṃ śakradhvajam ivocchritam |

7.189७.१८९

चित्रमाल्याम्बरधरं पताकाशतशोभितम् । (७।१८९)

citramālyāmbaradharaṃ patākāśataśobhitam |

7.190७.१९०

सालम् उद्यम्य पाणिभ्याम् उद्धृत्य च रणे बली । (७।१९०)

sālam udyamya pāṇibhyām uddhṛtya ca raṇe balī |

7.191७.१९१

अभिपेदे परान् संख्ये वज्रपाणिर् इवासुरान् । (७।१९१)

abhipede parān saṃkhye vajrapāṇir ivāsurān |

7.192७.१९२

भीमसेनभयार्तानि फल्गुनाभिहतानि च । (७।१९२)

bhīmasenabhayārtāni phalgunābhihatāni ca |

7.193७.१९३

न शेकुस्तान्यनीकानि धार्तराष्ट्राभिरक्षितुम् । (७।१९३)

na śekustānyanīkāni dhārtarāṣṭrābhirakṣitum |

7.194७.१९४

तानि संभ्रान्तयोधानि श्रान्तवाजिगजानि च । (७।१९४)

tāni saṃbhrāntayodhāni śrāntavājigajāni ca |

7.195७.१९५

दिशः प्राकालयद् भीमो दिवीवाभ्राणि मारुतः । (७।१९५)

diśaḥ prākālayad bhīmo divīvābhrāṇi mārutaḥ |

7.196७.१९६

तान् निवृत्तान् निरानन्दान् हतवारणवाजिनः । (७।१९६)

tān nivṛttān nirānandān hatavāraṇavājinaḥ |

7.197७.१९७

नानुसस्रुर् न चाजघ्नुर् नोचुः किंचिच्च दारुणम् । (७।१९७)

nānusasrur na cājaghnur nocuḥ kiṃcicca dāruṇam |

7.198७.१९८

स्वम् एव शिबिरं जग्मुः क्षत्रियाः शरविक्षताः । (७।१९८)

svam eva śibiraṃ jagmuḥ kṣatriyāḥ śaravikṣatāḥ |

7.199७.१९९

परे ऽप्यभिययुर् हृष्टाः पुरं पौरसुखावहाः । (७।१९९)

pare 'pyabhiyayur hṛṣṭāḥ puraṃ paurasukhāvahāḥ |

7.200७.२००

मुहूर्तम् अभवद् वैरं तेषां वै पाण्डवैः सह । (७।२००)

muhūrtam abhavad vairaṃ teṣāṃ vai pāṇḍavaiḥ saha |

7.201७.२०१

यावत् तद् युद्धम् अभवन् महद् देवासुरोपमम् । (७।२०१)

yāvat tad yuddham abhavan mahad devāsuropamam |

7.202७.२०२

सुवृत्तं चक्रिरे सर्वे सुप्राप्ताम् अब्रुवन् वधूम् । (७।२०२)

suvṛttaṃ cakrire sarve suprāptām abruvan vadhūm |

7.203७.२०३

कृतार्थं द्रुपदं चोचुर् धृष्टद्युम्नं च पार्षतम् । (७।२०३)

kṛtārthaṃ drupadaṃ cocur dhṛṣṭadyumnaṃ ca pārṣatam |

7.204७.२०४

शकुनिः सिन्धुराजश्च कर्णदुर्योधनावपि । (७।२०४)

śakuniḥ sindhurājaśca karṇaduryodhanāvapi |

7.205७.२०५

तेषां तद् अभवद् दुःखं हृदि वाचा तु नाब्रुवन् । (७।२०५)

teṣāṃ tad abhavad duḥkhaṃ hṛdi vācā tu nābruvan |

7.206७.२०६

ततः प्रयाता राजानः सर्व एव यथागतम् । (७।२०६)

tataḥ prayātā rājānaḥ sarva eva yathāgatam |

7.207७.२०७

धार्तराष्ट्रा हि ते सर्वे गता नागपुरं तदा । (७।२०७)

dhārtarāṣṭrā hi te sarve gatā nāgapuraṃ tadā |

7.208७.२०८

प्राग् एव पुररोधात् तु पाण्डवैर् अश्वसादिनः । (७।२०८)

prāg eva purarodhāt tu pāṇḍavair aśvasādinaḥ |

7.209७.२०९

प्रेषिता गच्छतारिष्टान् अस्मान् आख्यात शौरये । (७।२०९)

preṣitā gacchatāriṣṭān asmān ākhyāta śauraye |

7.210७.२१०

ते त्वदीर्घेण कालेन गत्वा द्वारवतीं पुरीम् । (७।२१०)

te tvadīrgheṇa kālena gatvā dvāravatīṃ purīm |

7.211७.२११

ऊचुः संकर्षणोपेन्द्रौ वचनं वचनक्षमौ । (७।२११)

ūcuḥ saṃkarṣaṇopendrau vacanaṃ vacanakṣamau |

7.212७.२१२

कुशलं पाण्डवाः सर्वान् आहुः स्मान्धकवृष्णयः । (७।२१२)

kuśalaṃ pāṇḍavāḥ sarvān āhuḥ smāndhakavṛṣṇayaḥ |

7.213७.२१३

आत्मनश्चाक्षतान् आहुर् विमुक्ताञ् जातुषाद् गृहात् । (७।२१३)

ātmanaścākṣatān āhur vimuktāñ jātuṣād gṛhāt |

7.214७.२१४

समाजे द्रौपदीं स्माहुर् लब्धां राजीवलोचनाम् । (७।२१४)

samāje draupadīṃ smāhur labdhāṃ rājīvalocanām |

7.215७.२१५

आत्मनः सदृशीं सर्वे शीलवृत्तसमाधिभिः । (७।२१५)

ātmanaḥ sadṛśīṃ sarve śīlavṛttasamādhibhiḥ |

7.216७.२१६

तच्छ्रुत्वा वचनं कृष्णस्तान् उवाचोत्तरं वचः । (७।२१६)

tacchrutvā vacanaṃ kṛṣṇastān uvācottaraṃ vacaḥ |

7.217७.२१७

सर्वम् एतद् अहं जाने वधात् तस्य तु रक्षसः । (७।२१७)

sarvam etad ahaṃ jāne vadhāt tasya tu rakṣasaḥ |

7.218७.२१८

तत उद्योजयामास केशवश्चतुरङ्गिणीम् । (७।२१८)

tata udyojayāmāsa keśavaścaturaṅgiṇīm |

7.219७.२१९

सेवां समुपयात् तूर्णं पाञ्चालनगरं प्रति । (७।२१९)

sevāṃ samupayāt tūrṇaṃ pāñcālanagaraṃ prati |

7.220७.२२०

ततः संकर्षणश्चैव केशवश्च महाबलः । (७।२२०)

tataḥ saṃkarṣaṇaścaiva keśavaśca mahābalaḥ |

7.221७.२२१

यादवैः सह सर्वैश्च पाण्डवान् अभिजग्मतुः । (७।२२१)

yādavaiḥ saha sarvaiśca pāṇḍavān abhijagmatuḥ |

7.222७.२२२

पितृष्वसारं सम्पूज्य द्रुपदं च यथाविधि । (७।२२२)

pitṛṣvasāraṃ sampūjya drupadaṃ ca yathāvidhi |

7.223७.२२३

द्रौपदीं भूषणैः शुभ्रैर् भूषयित्वा महाधनैः । (७।२२३)

draupadīṃ bhūṣaṇaiḥ śubhrair bhūṣayitvā mahādhanaiḥ |

7.224७.२२४

न्यायतः पूजिता राज्ञा द्रुपदेन महात्मना । (७।२२४)

nyāyataḥ pūjitā rājñā drupadena mahātmanā |

7.225७.२२५

रेमिरे पाण्डवैः सार्धं पाञ्चालनगरे तदा ॥ (७।२२५)

remire pāṇḍavaiḥ sārdhaṃ pāñcālanagare tadā ||

8.1८.१

वृत्ते स्वयंवरे चैव राजानः सर्व एव ते । (८।१)

vṛtte svayaṃvare caiva rājānaḥ sarva eva te |

8.2८.२

यथागतं विप्रजग्मुर् विदित्वा पाण्डवान् वृतान् ॥ (८।२)

yathāgataṃ viprajagmur viditvā pāṇḍavān vṛtān ||

9.1९.१

अथ दुर्योधनो राजा विमना भ्रातृभिः सह । (९।१)

atha duryodhano rājā vimanā bhrātṛbhiḥ saha |

9.2९.२

अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च ॥ (९।२)

aśvatthāmnā mātulena karṇena ca kṛpeṇa ca ||

10.1१०.१

विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम् । (१०।१)

vinivṛtto vṛtaṃ dṛṣṭvā draupadyā śvetavāhanam |

10.2१०.२

तं तु दुःशासनो व्रीडन् मन्दं मन्दम् इवाब्रवीत् । (१०।२)

taṃ tu duḥśāsano vrīḍan mandaṃ mandam ivābravīt |

10.3१०.३

खिद्यच्छुष्यन्मुखो राजा दूयमानेन चेतसा ॥ (१०।३)

khidyacchuṣyanmukho rājā dūyamānena cetasā ||

11.1११.१

यद्यसौ ब्राह्मणो न स्याद् विन्देत द्रौपदीं न सः । (११।१)

yadyasau brāhmaṇo na syād vindeta draupadīṃ na saḥ |

11.2११.२

न हि तं तत्त्वतो राजन् वेद कश्चिद् धनंजयम् ॥ (११।२)

na hi taṃ tattvato rājan veda kaścid dhanaṃjayam ||

12.1१२.१

दैवं तु परमं मन्ये पौरुषं तु निरर्थकम् । (१२।१)

daivaṃ tu paramaṃ manye pauruṣaṃ tu nirarthakam |

12.2१२.२

धिग् अस्मत्पौरुषं तात यद् धरन्तीह पाण्डवाः । (१२।२)

dhig asmatpauruṣaṃ tāta yad dharantīha pāṇḍavāḥ |

12.3१२.३

बद्ध्वा चक्षूंषि नः पार्था राज्ञां च द्रुपदात्मजाम् । (१२।३)

baddhvā cakṣūṃṣi naḥ pārthā rājñāṃ ca drupadātmajām |

12.4१२.४

उद्वाह्य राज्ञां तैर् न्यस्तं पादं वामं पृथासुतैः । (१२।४)

udvāhya rājñāṃ tair nyastaṃ pādaṃ vāmaṃ pṛthāsutaiḥ |

12.5१२.५

विमुक्ताः कथम् एतेन जतुवेश्महविर्भुजा । (१२।५)

vimuktāḥ katham etena jatuveśmahavirbhujā |

12.6१२.६

अस्माकं पौरुषं सत्त्वं बुद्धिश्चापि गता कुतः । (१२।६)

asmākaṃ pauruṣaṃ sattvaṃ buddhiścāpi gatā kutaḥ |

12.7१२.७

वयं हता मातुलाद्य विश्वस्य च पुरोचनम् । (१२।७)

vayaṃ hatā mātulādya viśvasya ca purocanam |

12.8१२.८

अदग्ध्वा पाण्डवान् दग्ध्वा स्वयं दग्धो हुताशने । (१२।८)

adagdhvā pāṇḍavān dagdhvā svayaṃ dagdho hutāśane |

12.9१२.९

मत्तो मातुल मन्ये ऽहं पाण्डवा बुद्धिमत्तराः । (१२।९)

matto mātula manye 'haṃ pāṇḍavā buddhimattarāḥ |

12.10१२.१०

तेषां नास्ति भयं मृत्योर् मुक्तानां जतुवेश्मनः ॥ (१२।१०)

teṣāṃ nāsti bhayaṃ mṛtyor muktānāṃ jatuveśmanaḥ ||

13.1१३.१

एवं सम्भाषमाणास्ते निन्दन्तश्च पुरोचनम् । (१३।१)

evaṃ sambhāṣamāṇāste nindantaśca purocanam |

13.2१३.२

पञ्चपुत्रां किरातीं च विदुरं च महामतिम् । (१३।२)

pañcaputrāṃ kirātīṃ ca viduraṃ ca mahāmatim |

13.3१३.३

विविशुर् हास्तिनपुरं दीना विगतचेतसः ॥ (१३।३)

viviśur hāstinapuraṃ dīnā vigatacetasaḥ ||

14.1१४.१

त्रस्ता विगतसंकल्पा दृष्ट्वा पार्थान् महौजसः । (१४।१)

trastā vigatasaṃkalpā dṛṣṭvā pārthān mahaujasaḥ |

14.2१४.२

मुक्तान् हव्यवहाच्चैनान् संयुक्तान् द्रुपदेन च ॥ (१४।२)

muktān havyavahāccainān saṃyuktān drupadena ca ||

15.1१५.१

धृष्टद्युम्नं च संचिन्त्य तथैव च शिखण्डिनम् । (१५।१)

dhṛṣṭadyumnaṃ ca saṃcintya tathaiva ca śikhaṇḍinam |

15.2१५.२

द्रुपदस्यात्मजांश्चान्यान् सर्वयुद्धविशारदान् । (१५।२)

drupadasyātmajāṃścānyān sarvayuddhaviśāradān |

15.3१५.३

मुखानि धार्तराष्ट्राणां दृष्ट्वा क्षत्ता मुदान्वितः । (१५।३)

mukhāni dhārtarāṣṭrāṇāṃ dṛṣṭvā kṣattā mudānvitaḥ |

15.4१५.४

विकसद्धृन्मुखाम्भोजः पद्मं दृष्ट्वेव भास्करम् ॥ (१५।४)

vikasaddhṛnmukhāmbhojaḥ padmaṃ dṛṣṭveva bhāskaram ||

16.1१६.१

विदुरस्त्वथ ताञ् श्रुत्वा द्रौपद्या पाण्डवान् वृतान् । (१६।१)

vidurastvatha tāñ śrutvā draupadyā pāṇḍavān vṛtān |

16.2१६.२

सर्वांस्तु बलिनो वीरान् संयुक्तान् द्रुपदेन च । (१६।२)

sarvāṃstu balino vīrān saṃyuktān drupadena ca |

16.3१६.३

व्रीडितान् धार्तराष्ट्रांश्च भग्नदर्पान् उपागतान् ॥ (१६।३)

vrīḍitān dhārtarāṣṭrāṃśca bhagnadarpān upāgatān ||

17.1१७.१

ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशां पते । (१७।१)

tataḥ prītamanāḥ kṣattā dhṛtarāṣṭraṃ viśāṃ pate |

17.2१७.२

उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः । (१७।२)

uvāca diṣṭyā kuravo vardhanta iti vismitaḥ |

17.3१७.३

वैशंपायनः । (१७।३)

vaiśaṃpāyanaḥ |

17.4१७.४

सर्वापद्भ्यो विमुक्ताश्च विमुक्ता राजसंगरात् । (१७।४)

sarvāpadbhyo vimuktāśca vimuktā rājasaṃgarāt |

17.5१७.५

कृष्णया संवृताश्चैव वीरलक्ष्म्या तथैव च । (१७।५)

kṛṣṇayā saṃvṛtāścaiva vīralakṣmyā tathaiva ca |

17.6१७.६

विदुरोक्तं वचः श्रुत्वा सामान्यात् कौरवा इति । (१७।६)

viduroktaṃ vacaḥ śrutvā sāmānyāt kauravā iti |

17.7१७.७

उल्ललास स हर्षेण संतोषभरितो नृपः । (१७।७)

ullalāsa sa harṣeṇa saṃtoṣabharito nṛpaḥ |

17.8१७.८

प्रहर्षहरितो राजा स्तम्भीभूत इव क्षणम् ॥ (१७।८)

praharṣaharito rājā stambhībhūta iva kṣaṇam ||

18.1१८.१

वैचित्रवीर्यस्तु नृपो निशम्य विदुरस्य तत् । (१८।१)

vaicitravīryastu nṛpo niśamya vidurasya tat |

18.2१८.२

अब्रवीत् परमप्रीतो दिष्ट्या दिष्ट्येति भारत ॥ (१८।२)

abravīt paramaprīto diṣṭyā diṣṭyeti bhārata ||

19.1१९.१

मन्यते हि वृतं पुत्रं ज्येष्ठं द्रुपदकन्यया । (१९।१)

manyate hi vṛtaṃ putraṃ jyeṣṭhaṃ drupadakanyayā |

19.2१९.२

दुर्योधनम् अविज्ञानात् प्रज्ञाचक्षुर् नरेश्वरः ॥ (१९।२)

duryodhanam avijñānāt prajñācakṣur nareśvaraḥ ||

20.1२०.१

अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु । (२०।१)

atha tvājñāpayāmāsa draupadyā bhūṣaṇaṃ bahu |

20.2२०.२

पुत्राणां च तथा सर्वं विचित्राभरणं वरम् । (२०।२)

putrāṇāṃ ca tathā sarvaṃ vicitrābharaṇaṃ varam |

20.3२०.३

आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा ॥ (२०।३)

ānīyatāṃ vai kṛṣṇeti putraṃ duryodhanaṃ tadā ||

21.1२१.१

अथास्य पश्चाद् विदुर आचख्यौ पाण्डवान् वृतान् । (२१।१)

athāsya paścād vidura ācakhyau pāṇḍavān vṛtān |

21.2२१.२

पुत्राभिवृद्धिसंतोषश्रवणानन्दनिर्भरम् । (२१।२)

putrābhivṛddhisaṃtoṣaśravaṇānandanirbharam |

21.3२१.३

कौरवा इति सामान्यान् न मन्येथास्तवात्मजान् । (२१।३)

kauravā iti sāmānyān na manyethāstavātmajān |

21.4२१.४

वर्धिता इति मद्वाक्याद् वर्धिताः पाण्डुनन्दनाः । (२१।४)

vardhitā iti madvākyād vardhitāḥ pāṇḍunandanāḥ |

21.5२१.५

कृष्णया संवृताः पार्था विमुक्ता राजसंगरात् । (२१।५)

kṛṣṇayā saṃvṛtāḥ pārthā vimuktā rājasaṃgarāt |

21.6२१.६

सर्वान् कुशलिनो वीरान् पूजितान् द्रुपदेन च । (२१।६)

sarvān kuśalino vīrān pūjitān drupadena ca |

21.7२१.७

संकर्षणेन कृष्णेन सत्कृतान् पाण्डुनन्दनान् । (२१।७)

saṃkarṣaṇena kṛṣṇena satkṛtān pāṇḍunandanān |

21.8२१.८

एतच्छ्रुत्वा तु वचनं विदुरस्य नराधिपः । (२१।८)

etacchrutvā tu vacanaṃ vidurasya narādhipaḥ |

21.9२१.९

आकारच्छादनार्थं तु दिष्ट्या दिष्ट्येति चाब्रवीत् । (२१।९)

ākāracchādanārthaṃ tu diṣṭyā diṣṭyeti cābravīt |

21.10२१.१०

एवं विदुर भद्रं ते यदि जीवन्ति पाण्डवाः । (२१।१०)

evaṃ vidura bhadraṃ te yadi jīvanti pāṇḍavāḥ |

21.11२१.११

साध्वाचारा तथा कुन्ती संबन्धो द्रुपदेन च । (२१।११)

sādhvācārā tathā kuntī saṃbandho drupadena ca |

21.12२१.१२

अन्ववाये वसोर् जातः प्रवरो मात्स्यके कुले । (२१।१२)

anvavāye vasor jātaḥ pravaro mātsyake kule |

21.13२१.१३

वृत्तविद्यातपोवृद्धः पार्थिवानां धुरंधरः । (२१।१३)

vṛttavidyātapovṛddhaḥ pārthivānāṃ dhuraṃdharaḥ |

21.14२१.१४

पुत्राश्चास्य तथा पौत्राः सर्वे सुचरितव्रताः । (२१।१४)

putrāścāsya tathā pautrāḥ sarve sucaritavratāḥ |

21.15२१.१५

न ममौ मे तनौ प्रीतिस्त्वद्वाक्यामृतसंभवा । (२१।१५)

na mamau me tanau prītistvadvākyāmṛtasaṃbhavā |

21.16२१.१६

आलिङ्गस्वेति मां क्षत्तः पुनः पुनर् अभाषत । (२१।१६)

āliṅgasveti māṃ kṣattaḥ punaḥ punar abhāṣata |

21.17२१.१७

दुर्भावगोपनार्थाय बाहू विस्तार्य दूरतः । (२१।१७)

durbhāvagopanārthāya bāhū vistārya dūrataḥ |

21.18२१.१८

एह्येहि विदुर प्राज्ञ माम् आलिङ्गितुम् अर्हसि । (२१।१८)

ehyehi vidura prājña mām āliṅgitum arhasi |

21.19२१.१९

इत्युक्त्वाकृष्य विदुरं ज्ञात्वान्तर्भावम् आत्मनः । (२१।१९)

ityuktvākṛṣya viduraṃ jñātvāntarbhāvam ātmanaḥ |

21.20२१.२०

आलिलिङ्गे दृढं दोर्भ्यां निरुच्छ्वासं दुरात्मवान् । (२१।२०)

āliliṅge dṛḍhaṃ dorbhyāṃ nirucchvāsaṃ durātmavān |

21.21२१.२१

तेषां संबन्धिनश्चान्यान् बहून् बलसमन्वितान् । (२१।२१)

teṣāṃ saṃbandhinaścānyān bahūn balasamanvitān |

21.22२१.२२

समागतान् पाण्डवेयैस्तस्मिन्न् एव स्वयंवरे ॥ (२१।२२)

samāgatān pāṇḍaveyaistasminn eva svayaṃvare ||

22.1२२.१

धृतराष्ट्र उवाच । (२२।१)

dhṛtarāṣṭra uvāca

22.2२२.२

यथैव पाण्डोः पुत्रास्ते तथैवाभ्यधिका मम । (२२।२)

yathaiva pāṇḍoḥ putrāste tathaivābhyadhikā mama |

22.3२२.३

सेयम् अभ्यधिका प्रीतिर् वृद्धिर् विदुर मे मता । (२२।३)

seyam abhyadhikā prītir vṛddhir vidura me matā |

22.4२२.४

या प्रीतिः पाण्डुपुत्रेषु न सान्यत्र ममाभिभो । (२२।४)

yā prītiḥ pāṇḍuputreṣu na sānyatra mamābhibho |

22.5२२.५

नित्यो ऽयं निश्चितः क्षत्तः सत्यं सत्येन ते शपे । (२२।५)

nityo 'yaṃ niścitaḥ kṣattaḥ satyaṃ satyena te śape |

22.6२२.६

तेषां संबन्धिनश्चान्ये बहवः सुमहाबलाः । (२२।६)

teṣāṃ saṃbandhinaścānye bahavaḥ sumahābalāḥ |

22.7२२.७

तन् मे पुत्रा दुरात्मानो विनष्टा इति मे मतिः । (२२।७)

tan me putrā durātmāno vinaṣṭā iti me matiḥ |

22.8२२.८

यत् ते कुशलिनो वीरा मित्रवन्तश्च पाण्डवाः । (२२।८)

yat te kuśalino vīrā mitravantaśca pāṇḍavāḥ |

22.9२२.९

मित्रवन्तो ऽभवन् पुत्रा दुर्योधनमुखाः सदा । (२२।९)

mitravanto 'bhavan putrā duryodhanamukhāḥ sadā |

22.10२२.१०

मया श्रुता यदा वह्नेर् दग्धाः पाण्डुसुता इति । (२२।१०)

mayā śrutā yadā vahner dagdhāḥ pāṇḍusutā iti |

22.11२२.११

तदादह्यं दिवारात्रं न भोक्ष्ये न स्वपामि च । (२२।११)

tadādahyaṃ divārātraṃ na bhokṣye na svapāmi ca |

22.12२२.१२

असहायाश्च मे पुत्रा लूनपक्षा इव द्विजाः । (२२।१२)

asahāyāśca me putrā lūnapakṣā iva dvijāḥ |

22.13२२.१३

तत्त्वतः शृणु मे क्षत्तः सुसहायाः सुता मम । (२२।१३)

tattvataḥ śṛṇu me kṣattaḥ susahāyāḥ sutā mama |

22.14२२.१४

अद्य मे स्थिरसाम्राज्यम् आ चन्द्रार्कं ममाभवत् ॥ (२२।१४)

adya me sthirasāmrājyam ā candrārkaṃ mamābhavat ||

23.1२३.१

को हि द्रुपदम् आसाद्य मित्रं क्षत्तः सबान्धवम् । (२३।१)

ko hi drupadam āsādya mitraṃ kṣattaḥ sabāndhavam |

23.2२३.२

न बुभूषेद् भवेनार्थी गतश्रीर् अपि पार्थिवः ॥ (२३।२)

na bubhūṣed bhavenārthī gataśrīr api pārthivaḥ ||

24.1२४.१

वैशंपायन उवाच । (२४।१)

vaiśaṃpāyana uvāca

24.2२४.२

तं तथा भाषमाणं तु विदुरः प्रत्यभाषत । (२४।२)

taṃ tathā bhāṣamāṇaṃ tu viduraḥ pratyabhāṣata |

24.3२४.३

बुद्धिर् एषा महाराज रूढमूला च ते हृदि । (२४।३)

buddhir eṣā mahārāja rūḍhamūlā ca te hṛdi |

24.4२४.४

कर्मणा मनसा वाचा स्थिरा यदि जनेश्वर । (२४।४)

karmaṇā manasā vācā sthirā yadi janeśvara |

24.5२४.५

नित्यं भवतु ते बुद्धिर् एषा राजञ् शतं समाः । (२४।५)

nityaṃ bhavatu te buddhir eṣā rājañ śataṃ samāḥ |

24.6२४.६

इत्युक्त्वा प्रययौ राजन् विदुरः स्वं निवेशनम् । (२४।६)

ityuktvā prayayau rājan viduraḥ svaṃ niveśanam |

24.7२४.७

इत्युक्त्वा निरगात् क्षत्ता स्वगृहाय महामते ॥ (२४।७)

ityuktvā niragāt kṣattā svagṛhāya mahāmate ||

25.1२५.१

ततो दुर्योधनश्चैव राधेयश्च विशां पते । (२५।१)

tato duryodhanaścaiva rādheyaśca viśāṃ pate |

25.2२५.२

धृतराष्ट्रम् उपागम्य वचो ऽब्रूताम् इदं तदा ॥ (२५।२)

dhṛtarāṣṭram upāgamya vaco 'brūtām idaṃ tadā ||

26.1२६.१

संनिधौ विदुरस्य त्वां वक्तुं नृप न शक्नुवः । (२६।१)

saṃnidhau vidurasya tvāṃ vaktuṃ nṛpa na śaknuvaḥ |

26.2२६.२

विविक्तम् इति वक्ष्यावः किं तवेदं चिकीर्षितम् ॥ (२६।२)

viviktam iti vakṣyāvaḥ kiṃ tavedaṃ cikīrṣitam ||

27.1२७.१

सपत्नवृद्धिं यत् तात मन्यसे वृद्धिम् आत्मनः । (२७।१)

sapatnavṛddhiṃ yat tāta manyase vṛddhim ātmanaḥ |

27.2२७.२

अभिष्टौषि च यत् क्षत्तुः समीपे द्विपदां वर ॥ (२७।२)

abhiṣṭauṣi ca yat kṣattuḥ samīpe dvipadāṃ vara ||

28.1२८.१

अन्यस्मिन् नृप कर्तव्ये त्वम् अन्यत् कुरुषे ऽनघ । (२८।१)

anyasmin nṛpa kartavye tvam anyat kuruṣe 'nagha |

28.2२८.२

तेषां बलविघातो हि कर्तव्यस्तात नित्यशः ॥ (२८।२)

teṣāṃ balavighāto hi kartavyastāta nityaśaḥ ||

29.1२९.१

ते वयं प्राप्तकालस्य चिकीर्षां मन्त्रयामहे । (२९।१)

te vayaṃ prāptakālasya cikīrṣāṃ mantrayāmahe |

29.2२९.२

यथा नो न ग्रसेयुस्ते सपुत्रबलबान्धवान् ॥ (२९।२)

yathā no na graseyuste saputrabalabāndhavān ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 1, 192

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit