MBh, 12, 302
Select a line for its word-by-word analysis.
कृत्स्नस्य चैव जगतस्तिष्ठन्त्यनपगाः सदा ॥ (१।३)
kṛtsnasya caiva jagatastiṣṭhantyanapagāḥ sadā ||
सात्त्विकस्योत्तमं स्थानं राजसस्येह मध्यमम् । (३।१)
sāttvikasyottamaṃ sthānaṃ rājasasyeha madhyamam |
तामसस्याधमं स्थानं प्राहुर् अध्यात्मचिन्तकाः ॥ (३।२)
tāmasasyādhamaṃ sthānaṃ prāhur adhyātmacintakāḥ ||
केवलेनेह पुण्येन गतिम् ऊर्ध्वाम् अवाप्नुयात् । (४।१)
kevaleneha puṇyena gatim ūrdhvām avāpnuyāt |
द्वंद्वम् एषां त्रयाणां तु संनिपातं च तत्त्वतः । (५।१)
dvaṃdvam eṣāṃ trayāṇāṃ tu saṃnipātaṃ ca tattvataḥ |
तमसश्च तथा सत्त्वं सत्त्वस्याव्यक्तम् एव च ॥ (६।२)
tamasaśca tathā sattvaṃ sattvasyāvyaktam eva ca ||
रजस्तमोभ्यां संयुक्तस्तिर्यग्योनिषु जायते । (८।१)
rajastamobhyāṃ saṃyuktastiryagyoniṣu jāyate |
रजस्तामससत्त्वैश्च युक्तो मानुष्यम् आप्नुयात् ॥ (८।२)
rajastāmasasattvaiśca yukto mānuṣyam āpnuyāt ||
पुण्यपापवियुक्तानां स्थानम् आहुर् मनीषिणाम् । (९।१)
puṇyapāpaviyuktānāṃ sthānam āhur manīṣiṇām |
शाश्वतं चाव्ययं चैव अक्षरं चाभयं च यत् ॥ (९।२)
śāśvataṃ cāvyayaṃ caiva akṣaraṃ cābhayaṃ ca yat ||
ज्ञानिनां संभवं श्रेष्ठं स्थानम् अव्रणम् अच्युतम् । (१०।१)
jñānināṃ saṃbhavaṃ śreṣṭhaṃ sthānam avraṇam acyutam |
अव्यक्तस्थं परं यत् तत् पृष्टस्ते ऽहं नराधिप । (११।१)
avyaktasthaṃ paraṃ yat tat pṛṣṭaste 'haṃ narādhipa |
स एष प्रकृतिष्ठो हि तस्थुर् इत्यभिधीयते ॥ (११।२)
sa eṣa prakṛtiṣṭho hi tasthur ityabhidhīyate ||
अमूर्तिमन्तावचलावप्रकम्प्यौ च निर्व्रणौ ॥ (१३।३)
amūrtimantāvacalāvaprakampyau ca nirvraṇau ||
अग्राह्याव् ऋषिशार्दूल कथम् एको ह्यचेतनः । (१४।१)
agrāhyāv ṛṣiśārdūla katham eko hyacetanaḥ |
चेतनावांस्तथा चैकः क्षेत्रज्ञ इति भाषितः ॥ (१४।२)
cetanāvāṃstathā caikaḥ kṣetrajña iti bhāṣitaḥ ||
त्वं हि विप्रेन्द्र कार्त्स्न्येन मोक्षधर्मम् उपाससे । (१५।१)
tvaṃ hi viprendra kārtsnyena mokṣadharmam upāsase |
साकल्यं मोक्षधर्मस्य श्रोतुम् इच्छामि तत्त्वतः ॥ (१५।२)
sākalyaṃ mokṣadharmasya śrotum icchāmi tattvataḥ ||
अस्तित्वं केवलत्वं च विनाभावं तथैव च । (१६।१)
astitvaṃ kevalatvaṃ ca vinābhāvaṃ tathaiva ca |
तथैवोत्क्रमणस्थानं देहिनो ऽपि वियुज्यतः ॥ (१६।२)
tathaivotkramaṇasthānaṃ dehino 'pi viyujyataḥ ||
कालेन यद्धि प्राप्नोति स्थानं तद् ब्रूहि मे द्विज । (१७।१)
kālena yaddhi prāpnoti sthānaṃ tad brūhi me dvija |
सांख्यज्ञानं च तत्त्वेन पृथग् योगं तथैव च ॥ (१७।२)
sāṃkhyajñānaṃ ca tattvena pṛthag yogaṃ tathaiva ca ||
अरिष्टानि च तत्त्वेन वक्तुम् अर्हसि सत्तम । (१८।१)
ariṣṭāni ca tattvena vaktum arhasi sattama |
Data courtesy of The Digital Corpus of Sanskrit.