महाभारतMahābhārata

MBh, 1, 56

56 of 1995 · 168 verses

Select a line for its word-by-word analysis.

1.1१.१

जनमेजय उवाच । (१।१)

janamejaya uvāca

1.2१.२

कथितं वै समासेन त्वया सर्वं द्विजोत्तम । (१।२)

kathitaṃ vai samāsena tvayā sarvaṃ dvijottama |

1.3१.३

महाभारतम् आख्यानं कुरूणां चरितं महत् ॥ (१।३)

mahābhāratam ākhyānaṃ kurūṇāṃ caritaṃ mahat ||

2.1२.१

कथां त्वनघ चित्रार्थाम् इमां कथयति त्वयि । (२।१)

kathāṃ tvanagha citrārthām imāṃ kathayati tvayi |

2.2२.२

विस्तरश्रवणे जातं कौतूहलम् अतीव मे ॥ (२।२)

vistaraśravaṇe jātaṃ kautūhalam atīva me ||

3.1३.१

स भवान् विस्तरेणेमां पुनर् आख्यातुम् अर्हति । (३।१)

sa bhavān vistareṇemāṃ punar ākhyātum arhati |

3.2३.२

न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥ (३।२)

na hi tṛpyāmi pūrveṣāṃ śṛṇvānaścaritaṃ mahat ||

4.1४.१

न तत् कारणम् अल्पं हि धर्मज्ञा यत्र पाण्डवाः । (४।१)

na tat kāraṇam alpaṃ hi dharmajñā yatra pāṇḍavāḥ |

4.2४.२

अवध्यान् सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः ॥ (४।२)

avadhyān sarvaśo jaghnuḥ praśasyante ca mānavaiḥ ||

5.1५.१

किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः । (५।१)

kimarthaṃ te naravyāghrāḥ śaktāḥ santo hyanāgasaḥ |

5.2५.२

प्रयुज्यमानान् संक्लेशान् क्षान्तवन्तो दुरात्मनाम् ॥ (५।२)

prayujyamānān saṃkleśān kṣāntavanto durātmanām ||

6.1६.१

कथं नागायुतप्राणो बाहुशाली वृकोदरः । (६।१)

kathaṃ nāgāyutaprāṇo bāhuśālī vṛkodaraḥ |

6.2६.२

भ्रातॄणां क्लेशम् आयातं गतवान् वै परंतपः । (६।२)

bhrātṝṇāṃ kleśam āyātaṃ gatavān vai paraṃtapaḥ |

6.3६.३

परिक्लिश्यन्न् अपि क्रोधं धृतवान् वै द्विजोत्तम ॥ (६।३)

parikliśyann api krodhaṃ dhṛtavān vai dvijottama ||

7.1७.१

कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः । (७।१)

kathaṃ sā draupadī kṛṣṇā kliśyamānā durātmabhiḥ |

7.2७.२

शक्ता सती धार्तराष्ट्रान् नादहद् घोरचक्षुषा । (७।२)

śaktā satī dhārtarāṣṭrān nādahad ghoracakṣuṣā |

7.3७.३

कथं सा द्रौपदी शक्ता धार्तराष्ट्रांश्च नादहत् ॥ (७।३)

kathaṃ sā draupadī śaktā dhārtarāṣṭrāṃśca nādahat ||

8.1८.१

कथं व्यतिक्रमन् द्यूते पार्थौ माद्रीसुतौ तथा । (८।१)

kathaṃ vyatikraman dyūte pārthau mādrīsutau tathā |

8.2८.२

अनुव्रजन् नरव्याघ्रं वञ्च्यमानं दुरात्मभिः ॥ (८।२)

anuvrajan naravyāghraṃ vañcyamānaṃ durātmabhiḥ ||

9.1९.१

कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित् । (९।१)

kathaṃ dharmabhṛtāṃ śreṣṭhaḥ suto dharmasya dharmavit |

9.2९.२

अनर्हः परमं क्लेशं सोढवान् स युधिष्ठिरः ॥ (९।२)

anarhaḥ paramaṃ kleśaṃ soḍhavān sa yudhiṣṭhiraḥ ||

10.1१०.१

कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः । (१०।१)

kathaṃ ca bahulāḥ senāḥ pāṇḍavaḥ kṛṣṇasārathiḥ |

10.2१०.२

अस्यन्न् एको ऽनयत् सर्वाः पितृलोकं धनंजयः ॥ (१०।२)

asyann eko 'nayat sarvāḥ pitṛlokaṃ dhanaṃjayaḥ ||

11.1११.१

एतद् आचक्ष्व मे सर्वं यथावृत्तं तपोधन । (११।१)

etad ācakṣva me sarvaṃ yathāvṛttaṃ tapodhana |

11.2११.२

यद् यच्च कृतवन्तस्ते तत्र तत्र महारथाः ॥ (११।२)

yad yacca kṛtavantaste tatra tatra mahārathāḥ ||

12.1१२.१

वैशंपायन उवाच । (१२।१)

vaiśaṃpāyana uvāca

12.2१२.२

क्षणं कुरु महाराज विपुलो ऽयम् अनुक्रमः । (१२।२)

kṣaṇaṃ kuru mahārāja vipulo 'yam anukramaḥ |

12.3१२.३

पुण्याख्यानस्य वक्तव्यः कृष्णद्वैपायनेरितः । (१२।३)

puṇyākhyānasya vaktavyaḥ kṛṣṇadvaipāyaneritaḥ |

12.4१२.४

महर्षेः सर्वलोकेषु पूजितस्य महात्मनः । (१२।४)

maharṣeḥ sarvalokeṣu pūjitasya mahātmanaḥ |

12.5१२.५

प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥ (१२।५)

pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ ||

13.1१३.१

इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम् । (१३।१)

idaṃ śatasahasraṃ hi ślokānāṃ puṇyakarmaṇām |

13.2१३.२

सत्यवत्यात्मजेनेह व्याख्यातम् अमितौजसा । (१३।२)

satyavatyātmajeneha vyākhyātam amitaujasā |

13.3१३.३

उपाख्यानैः सह ज्ञेयं श्राव्यं भारतम् उत्तमम् । (१३।३)

upākhyānaiḥ saha jñeyaṃ śrāvyaṃ bhāratam uttamam |

13.4१३.४

संक्षेपेण तु वक्ष्यामि सर्वम् एतन् नराधिप । (१३।४)

saṃkṣepeṇa tu vakṣyāmi sarvam etan narādhipa |

13.5१३.५

अध्यायानां सहस्रे द्वे पर्वणां शतम् एव च । (१३।५)

adhyāyānāṃ sahasre dve parvaṇāṃ śatam eva ca |

13.6१३.६

श्लोकानां तु सहस्राणि नवतिश्च दशैव च । (१३।६)

ślokānāṃ tu sahasrāṇi navatiśca daśaiva ca |

13.7१३.७

ततो ऽष्टादशभिः पर्वैः संगृहीतं महर्षिणा ॥ (१३।७)

tato 'ṣṭādaśabhiḥ parvaiḥ saṃgṛhītaṃ maharṣiṇā ||

14.1१४.१

य इदं श्रावयेद् विद्वान् यश्चेदं शृणुयान् नरः । (१४।१)

ya idaṃ śrāvayed vidvān yaścedaṃ śṛṇuyān naraḥ |

14.2१४.२

ते ब्रह्मणः स्थानम् एत्य प्राप्नुयुर् देवतुल्यताम् ॥ (१४।२)

te brahmaṇaḥ sthānam etya prāpnuyur devatulyatām ||

15.1१५.१

इदं हि वेदैः समितं पवित्रम् अपि चोत्तमम् । (१५।१)

idaṃ hi vedaiḥ samitaṃ pavitram api cottamam |

15.2१५.२

श्राव्याणाम् उत्तमं चेदं पुराणम् ऋषिसंस्तुतम् ॥ (१५।२)

śrāvyāṇām uttamaṃ cedaṃ purāṇam ṛṣisaṃstutam ||

16.1१६.१

अस्मिन्न् अर्थश्च धर्मश्च निखिलेनोपदिश्यते । (१६।१)

asminn arthaśca dharmaśca nikhilenopadiśyate |

16.2१६.२

इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी ॥ (१६।२)

itihāse mahāpuṇye buddhiśca parinaiṣṭhikī ||

17.1१७.१

अक्षुद्रान् दानशीलांश्च सत्यशीलान् अनास्तिकान् । (१७।१)

akṣudrān dānaśīlāṃśca satyaśīlān anāstikān |

17.2१७.२

कार्ष्णं वेदम् इमं विद्वाञ् श्रावयित्वार्थम् अश्नुते ॥ (१७।२)

kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute ||

18.1१८.१

भ्रूणहत्याकृतं चापि पापं जह्याद् असंशयम् । (१८।१)

bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyād asaṃśayam |

18.2१८.२

इतिहासम् इमं श्रुत्वा पुरुषो ऽपि सुदारुणः । (१८।२)

itihāsam imaṃ śrutvā puruṣo 'pi sudāruṇaḥ |

18.3१८.३

मुच्यते सर्वपापेभ्यो राहुणा चन्द्रमा यथा । (१८।३)

mucyate sarvapāpebhyo rāhuṇā candramā yathā |

18.4१८.४

तत्क्षणाज्जायते दान्तः शश्वच्छान्तिं नियच्छति ॥ (१८।४)

tatkṣaṇājjāyate dāntaḥ śaśvacchāntiṃ niyacchati ||

19.1१९.१

जयो नामेतिहासो ऽयं श्रोतव्यो विजिगीषुणा । (१९।१)

jayo nāmetihāso 'yaṃ śrotavyo vijigīṣuṇā |

19.2१९.२

महीं विजयते सर्वां शत्रूंश्चापि पराजयेत् । (१९।२)

mahīṃ vijayate sarvāṃ śatrūṃścāpi parājayet |

19.3१९.३

प्रसूते गर्भिणी पुत्रं कन्या सत्पतिम् अश्नुते ॥ (१९।३)

prasūte garbhiṇī putraṃ kanyā satpatim aśnute ||

20.1२०.१

इदं पुंसवनं श्रेष्ठम् इदं स्वस्त्ययनं महत् । (२०।१)

idaṃ puṃsavanaṃ śreṣṭham idaṃ svastyayanaṃ mahat |

20.2२०.२

महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा । (२०।२)

mahiṣīyuvarājābhyāṃ śrotavyaṃ bahuśastathā |

20.3२०.३

वीरं जनयते पुत्रं कन्यां वा राज्यभागिनीम् ॥ (२०।३)

vīraṃ janayate putraṃ kanyāṃ vā rājyabhāginīm ||

21.1२१.१

अर्थशास्त्रम् इदं पुण्यं धर्मशास्त्रम् इदं परम् । (२१।१)

arthaśāstram idaṃ puṇyaṃ dharmaśāstram idaṃ param |

21.2२१.२

मोक्षशास्त्रम् इदं प्रोक्तं व्यासेनामितबुद्धिना ॥ (२१।२)

mokṣaśāstram idaṃ proktaṃ vyāsenāmitabuddhinā ||

22.1२२.१

संप्रत्याचक्षते चैव आख्यास्यन्ति तथापरे । (२२।१)

saṃpratyācakṣate caiva ākhyāsyanti tathāpare |

22.2२२.२

पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः ॥ (२२।२)

putrāḥ śuśrūṣavaḥ santi preṣyāśca priyakāriṇaḥ ||

23.1२३.१

शरीरेण कृतं पापं वाचा च मनसैव च । (२३।१)

śarīreṇa kṛtaṃ pāpaṃ vācā ca manasaiva ca |

23.2२३.२

सर्वं तत् त्यजति क्षिप्रम् इदं शृण्वन् नरः सदा ॥ (२३।२)

sarvaṃ tat tyajati kṣipram idaṃ śṛṇvan naraḥ sadā ||

24.1२४.१

भारतानां महज्जन्म शृण्वताम् अनसूयताम् । (२४।१)

bhāratānāṃ mahajjanma śṛṇvatām anasūyatām |

24.2२४.२

नास्ति व्याधिभयं तेषां परलोकभयं कुतः ॥ (२४।२)

nāsti vyādhibhayaṃ teṣāṃ paralokabhayaṃ kutaḥ ||

25.1२५.१

धन्यं यशस्यम् आयुष्यं स्वर्ग्यं पुण्यं तथैव च । (२५।१)

dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ puṇyaṃ tathaiva ca |

25.2२५.२

कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा ॥ (२५।२)

kṛṣṇadvaipāyanenedaṃ kṛtaṃ puṇyacikīrṣuṇā ||

26.1२६.१

कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् । (२६।१)

kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām |

26.2२६.२

अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् । (२६।२)

anyeṣāṃ kṣatriyāṇāṃ ca bhūridraviṇatejasām |

26.3२६.३

सर्वविद्यावदातानां लोके प्रथितकर्मणाम् । (२६।३)

sarvavidyāvadātānāṃ loke prathitakarmaṇām |

26.4२६.४

य इदं मानवो लोके पुण्यान् वै ब्राह्मणाञ् शुचीन् । (२६।४)

ya idaṃ mānavo loke puṇyān vai brāhmaṇāñ śucīn |

26.5२६.५

श्रावयेत महापुण्यं तस्य धर्मः सनातनः । (२६।५)

śrāvayeta mahāpuṇyaṃ tasya dharmaḥ sanātanaḥ |

26.6२६.६

कुरूणां प्रथितं वंशं कीर्तयन् सततं शुचिः । (२६।६)

kurūṇāṃ prathitaṃ vaṃśaṃ kīrtayan satataṃ śuciḥ |

26.7२६.७

वंशम् आप्नोति विपुलं लोके पूज्यतमो भवेत् । (२६।७)

vaṃśam āpnoti vipulaṃ loke pūjyatamo bhavet |

26.8२६.८

यो ऽधीते भारतं पुण्यं ब्राह्मणो नियतव्रतः । (२६।८)

yo 'dhīte bhārataṃ puṇyaṃ brāhmaṇo niyatavrataḥ |

26.9२६.९

चतुरो वार्षिकान् मासान् सर्वपापैः प्रमुच्यते । (२६।९)

caturo vārṣikān māsān sarvapāpaiḥ pramucyate |

26.10२६.१०

विज्ञेयः स च वेदानां पारगो भारतं पठन् । (२६।१०)

vijñeyaḥ sa ca vedānāṃ pārago bhārataṃ paṭhan |

26.11२६.११

देवा ब्रह्मर्षयो यत्र पुण्या राजर्षयस्तथा । (२६।११)

devā brahmarṣayo yatra puṇyā rājarṣayastathā |

26.12२६.१२

कीर्त्यन्ते धूतपाप्मानः कीर्त्यते केशवस्तथा । (२६।१२)

kīrtyante dhūtapāpmānaḥ kīrtyate keśavastathā |

26.13२६.१३

भगवांश्चापि देवेशो यत्र देवी च कीर्त्यते । (२६।१३)

bhagavāṃścāpi deveśo yatra devī ca kīrtyate |

26.14२६.१४

अनेकजननो यत्र कार्त्तिकेयस्य संभवः । (२६।१४)

anekajanano yatra kārttikeyasya saṃbhavaḥ |

26.15२६.१५

ब्राह्मणानां गवां चैव माहात्म्यं यत्र कीर्त्यते । (२६।१५)

brāhmaṇānāṃ gavāṃ caiva māhātmyaṃ yatra kīrtyate |

26.16२६.१६

सर्वश्रुतिसमूहो ऽयं श्रोतव्यो धर्मबुद्धिभिः ॥ (२६।१६)

sarvaśrutisamūho 'yaṃ śrotavyo dharmabuddhibhiḥ ||

27.1२७.१

यथा समुद्रो भगवान् यथा च हिमवान् गिरिः । (२७।१)

yathā samudro bhagavān yathā ca himavān giriḥ |

27.2२७.२

ख्यातावुभौ रत्ननिधी तथा भारतम् उच्यते ॥ (२७।२)

khyātāvubhau ratnanidhī tathā bhāratam ucyate ||

28.1२८.१

य इदं श्रावयेद् विद्वान् ब्राह्मणान् इह पर्वसु । (२८।१)

ya idaṃ śrāvayed vidvān brāhmaṇān iha parvasu |

28.2२८.२

धूतपाप्मा जितस्वर्गो ब्रह्मभूयं स गच्छति ॥ (२८।२)

dhūtapāpmā jitasvargo brahmabhūyaṃ sa gacchati ||

29.1२९.१

यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान् पादम् अन्ततः । (२९।१)

yaścedaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ |

29.2२९.२

अक्षय्यं तस्य तच्छ्राद्धम् उपतिष्ठेत् पितॄन् अपि ॥ (२९।२)

akṣayyaṃ tasya tacchrāddham upatiṣṭhet pitṝn api ||

30.1३०.१

अह्ना यद् एनश्चाज्ञानात् प्रकरोति नरश्चरन् । (३०।१)

ahnā yad enaścājñānāt prakaroti naraścaran |

30.2३०.२

तन् महाभारताख्यानं श्रुत्वैव प्रविलीयते । (३०।२)

tan mahābhāratākhyānaṃ śrutvaiva pravilīyate |

30.3३०.३

अह्ना यद् एनः क्रियते इन्द्रियैर् मनसापि वा । (३०।३)

ahnā yad enaḥ kriyate indriyair manasāpi vā |

30.4३०.४

ज्ञानाद् अज्ञानतो वापि प्रकरोति नरश्च यत् ॥ (३०।४)

jñānād ajñānato vāpi prakaroti naraśca yat ||

31.1३१.१

भारतानां महज्जन्म महाभारतम् उच्यते । (३१।१)

bhāratānāṃ mahajjanma mahābhāratam ucyate |

31.2३१.२

निरुक्तम् अस्य यो वेद सर्वपापैः प्रमुच्यते । (३१।२)

niruktam asya yo veda sarvapāpaiḥ pramucyate |

31.3३१.३

भरतानां यतश्चायम् इतिहासो महाद्भुतः । (३१।३)

bharatānāṃ yataścāyam itihāso mahādbhutaḥ |

31.4३१.४

महतो ह्येनसो मर्त्यान् मोचयेद् अनुकीर्तितः । (३१।४)

mahato hyenaso martyān mocayed anukīrtitaḥ |

31.5३१.५

त्रिभिर् वर्षैर् लब्धकामः कृष्णद्वैपायनो मुनिः । (३१।५)

tribhir varṣair labdhakāmaḥ kṛṣṇadvaipāyano muniḥ |

31.6३१.६

नित्योत्थितः शुचिः शक्तो महाभारतम् आदितः । (३१।६)

nityotthitaḥ śuciḥ śakto mahābhāratam āditaḥ |

31.7३१.७

तपो नियमम् आस्थाय कृतम् एतन् महर्षिणा । (३१।७)

tapo niyamam āsthāya kṛtam etan maharṣiṇā |

31.8३१.८

तस्मान् नियमसंयुक्तैः श्रोतव्यं ब्राह्मणैर् इदम् । (३१।८)

tasmān niyamasaṃyuktaiḥ śrotavyaṃ brāhmaṇair idam |

31.9३१.९

कृष्णप्रोक्ताम् इमां पुण्यां भारतीम् उत्तमां कथाम् । (३१।९)

kṛṣṇaproktām imāṃ puṇyāṃ bhāratīm uttamāṃ kathām |

31.10३१.१०

श्रावयिष्यन्ति ये विप्रा ये च श्रोष्यन्ति मानवाः । (३१।१०)

śrāvayiṣyanti ye viprā ye ca śroṣyanti mānavāḥ |

31.11३१.११

सर्वथा वर्तमाना वै न ते शोच्याः कृताकृतैः । (३१।११)

sarvathā vartamānā vai na te śocyāḥ kṛtākṛtaiḥ |

31.12३१.१२

नरेण धर्मकामेन सर्वः श्रोतव्य इत्यपि । (३१।१२)

nareṇa dharmakāmena sarvaḥ śrotavya ityapi |

31.13३१.१३

निखिलेनेतिहासो ऽयं ततः सिद्धिम् अवाप्नुयात् । (३१।१३)

nikhilenetihāso 'yaṃ tataḥ siddhim avāpnuyāt |

31.14३१.१४

न तां स्वर्गगतिं प्राप्य तुष्टिं प्राप्नोति मानवः । (३१।१४)

na tāṃ svargagatiṃ prāpya tuṣṭiṃ prāpnoti mānavaḥ |

31.15३१.१५

यां श्रुत्वैव महापुण्यम् इतिहासम् उपाश्नुते । (३१।१५)

yāṃ śrutvaiva mahāpuṇyam itihāsam upāśnute |

31.16३१.१६

शृण्वञ् श्राद्धः पुण्यशीलः श्रावयंश्चेदम् अद्भुतम् । (३१।१६)

śṛṇvañ śrāddhaḥ puṇyaśīlaḥ śrāvayaṃścedam adbhutam |

31.17३१.१७

नरः फलम् अवाप्नोति राजसूयाश्वमेधयोः । (३१।१७)

naraḥ phalam avāpnoti rājasūyāśvamedhayoḥ |

31.18३१.१८

यथा समुद्रो भगवान् यथा मेरुर् महागिरिः । (३१।१८)

yathā samudro bhagavān yathā merur mahāgiriḥ |

31.19३१.१९

उभौ ख्यातौ रत्ननिधी तथा भारतम् उच्यते । (३१।१९)

ubhau khyātau ratnanidhī tathā bhāratam ucyate |

31.20३१.२०

इदं हि वेदैः समितं पवित्रम् अपि चोत्तमम् । (३१।२०)

idaṃ hi vedaiḥ samitaṃ pavitram api cottamam |

31.21३१.२१

श्रव्यं श्रुतिसुखं चैव पावनं शीलवर्धनम् । (३१।२१)

śravyaṃ śrutisukhaṃ caiva pāvanaṃ śīlavardhanam |

31.22३१.२२

पारिक्षित कथां दिव्यां पुण्याय विजयाय च । (३१।२२)

pārikṣita kathāṃ divyāṃ puṇyāya vijayāya ca |

31.23३१.२३

कथ्यमानां मया कृत्स्नां शृणु हर्षकरीम् इमाम् ॥ (३१।२३)

kathyamānāṃ mayā kṛtsnāṃ śṛṇu harṣakarīm imām ||

32.1३२.१

त्रिभिर् वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः । (३२।१)

tribhir varṣaiḥ sadotthāyī kṛṣṇadvaipāyano muniḥ |

32.2३२.२

महाभारतम् आख्यानं कृतवान् इदम् उत्तमम् । (३२।२)

mahābhāratam ākhyānaṃ kṛtavān idam uttamam |

32.3३२.३

यस्तु राजा शृणोतीदम् अखिलाम् अश्नुते महीम् । (३२।३)

yastu rājā śṛṇotīdam akhilām aśnute mahīm |

32.4३२.४

प्रसूते गर्भिणी पुत्रं कन्या चाशु प्रदीयते । (३२।४)

prasūte garbhiṇī putraṃ kanyā cāśu pradīyate |

32.5३२.५

वणिजः सिद्धयात्राः स्युर् वीरा विजयम् आप्नुयुः । (३२।५)

vaṇijaḥ siddhayātrāḥ syur vīrā vijayam āpnuyuḥ |

32.6३२.६

आस्तिकाञ् श्रावयेन् नित्यं ब्राह्मणान् अनसूयकान् । (३२।६)

āstikāñ śrāvayen nityaṃ brāhmaṇān anasūyakān |

32.7३२.७

वेदविद्याव्रतस्नातान् क्षत्रियाञ् जयम् आस्थितान् । (३२।७)

vedavidyāvratasnātān kṣatriyāñ jayam āsthitān |

32.8३२.८

स्वधर्मनित्यान् वैश्यांश्च श्रावयेत् क्षत्रसंश्रितान् । (३२।८)

svadharmanityān vaiśyāṃśca śrāvayet kṣatrasaṃśritān |

32.9३२.९

एष धर्मः पुरा दृष्टः सर्ववर्णेषु भारत । (३२।९)

eṣa dharmaḥ purā dṛṣṭaḥ sarvavarṇeṣu bhārata |

32.10३२.१०

ब्राह्मणाच्छ्रवणं राजन् विशेषेण विधीयते । (३२।१०)

brāhmaṇācchravaṇaṃ rājan viśeṣeṇa vidhīyate |

32.11३२.११

भूयो भूयः पठेन् नित्यं गच्छेत् स परमां गतिम् । (३२।११)

bhūyo bhūyaḥ paṭhen nityaṃ gacchet sa paramāṃ gatim |

32.12३२.१२

श्लोकं वाप्यनुगृह्णीत तथार्धं श्लोकम् एव वा । (३२।१२)

ślokaṃ vāpyanugṛhṇīta tathārdhaṃ ślokam eva vā |

32.13३२.१३

अपि पादं पठेन् नित्यं न च निर्भारतो भवेत् । (३२।१३)

api pādaṃ paṭhen nityaṃ na ca nirbhārato bhavet |

32.14३२.१४

इह नैकाश्रयं जन्म राजर्षीणां महात्मनाम् । (३२।१४)

iha naikāśrayaṃ janma rājarṣīṇāṃ mahātmanām |

32.15३२.१५

इह मन्त्रपदं युक्तं धर्मं चानेकदर्शनम् । (३२।१५)

iha mantrapadaṃ yuktaṃ dharmaṃ cānekadarśanam |

32.16३२.१६

इह युद्धानि चित्राणि राज्ञां वृद्धिर् इहैव च । (३२।१६)

iha yuddhāni citrāṇi rājñāṃ vṛddhir ihaiva ca |

32.17३२.१७

ऋषीणां च कथास्तात इह गन्धर्वरक्षसाम् । (३२।१७)

ṛṣīṇāṃ ca kathāstāta iha gandharvarakṣasām |

32.18३२.१८

इह तत् तत् समासाद्य विहितो वाक्यविस्तरः । (३२।१८)

iha tat tat samāsādya vihito vākyavistaraḥ |

32.19३२.१९

तीर्थानां नाम पुण्यानां दर्शनं चैव कीर्तितम् । (३२।१९)

tīrthānāṃ nāma puṇyānāṃ darśanaṃ caiva kīrtitam |

32.20३२.२०

वनानां पर्वतानां च नदीनां सागरस्य च । (३२।२०)

vanānāṃ parvatānāṃ ca nadīnāṃ sāgarasya ca |

32.21३२.२१

देशानां चैव दिव्यानां पुराणां चैव कीर्तनम् । (३२।२१)

deśānāṃ caiva divyānāṃ purāṇāṃ caiva kīrtanam |

32.22३२.२२

उपचारस्तथैवाग्र्यो वीर्यम् अप्रतिमानुषम् । (३२।२२)

upacārastathaivāgryo vīryam apratimānuṣam |

32.23३२.२३

इह सत्कारयोगश्च भारते परमर्षिणा । (३२।२३)

iha satkārayogaśca bhārate paramarṣiṇā |

32.24३२.२४

रथाश्ववारणेन्द्राणां कल्पना युद्धकौशलम् । (३२।२४)

rathāśvavāraṇendrāṇāṃ kalpanā yuddhakauśalam |

32.25३२.२५

वाक्यजातिर् अनेका च सर्वम् अस्मिन् समर्पितम् । (३२।२५)

vākyajātir anekā ca sarvam asmin samarpitam |

32.26३२.२६

यथा समुद्रो ऽतिमहान् यथा च हिमवान् गिरिः । (३२।२६)

yathā samudro 'timahān yathā ca himavān giriḥ |

32.27३२.२७

ख्यातौ रत्नाकरौ तद्वन् महाभारतम् उच्यते । (३२।२७)

khyātau ratnākarau tadvan mahābhāratam ucyate |

32.28३२.२८

नाप्रीतिर् उपपद्येत यथा प्राप्य त्रिविष्टपम् । (३२।२८)

nāprītir upapadyeta yathā prāpya triviṣṭapam |

32.29३२.२९

पुण्यं तथेदम् आख्यानं श्रुत्वा प्रीतिर् भवत्युत । (३२।२९)

puṇyaṃ tathedam ākhyānaṃ śrutvā prītir bhavatyuta |

32.30३२.३०

स्त्रियश्च शूद्राः शृणुयुः पुरस्कृत्य द्विजोत्तमान् । (३२।३०)

striyaśca śūdrāḥ śṛṇuyuḥ puraskṛtya dvijottamān |

32.31३२.३१

प्राप्नुवन्ति यथोक्तानि फलान्यविकलानि च । (३२।३१)

prāpnuvanti yathoktāni phalānyavikalāni ca |

32.32३२.३२

कुलस्य वृद्धये राजन्न् आयुषे विजयाय च । (३२।३२)

kulasya vṛddhaye rājann āyuṣe vijayāya ca |

32.33३२.३३

शृणु कीर्तयतः कृत्स्नम् इतिहासं पुरातनम् । (३२।३३)

śṛṇu kīrtayataḥ kṛtsnam itihāsaṃ purātanam |

32.34३२.३४

यश्चेदं श्रावयेत् पित्र्ये ब्राह्मणान् पादम् अन्ततः । (३२।३४)

yaścedaṃ śrāvayet pitrye brāhmaṇān pādam antataḥ |

32.35३२.३५

अक्षय्यम् अन्नपानं तत् पितॄंस्तस्योपतिष्ठति । (३२।३५)

akṣayyam annapānaṃ tat pitṝṃstasyopatiṣṭhati |

32.36३२.३६

य इदं श्रावयेद् विद्वान् यश्चेदं शृणुयान् नरः । (३२।३६)

ya idaṃ śrāvayed vidvān yaścedaṃ śṛṇuyān naraḥ |

32.37३२.३७

स ब्रह्मणः स्थानम् एत्य प्राप्नुयाद् देवतुल्यताम् । (३२।३७)

sa brahmaṇaḥ sthānam etya prāpnuyād devatulyatām |

32.38३२.३८

प्रातर् यद् एनः कुरुते इन्द्रियैर् ब्राह्मणश्चरन् । (३२।३८)

prātar yad enaḥ kurute indriyair brāhmaṇaścaran |

32.39३२.३९

महाभारतम् आख्याय पश्चात् संध्यां प्रमुच्यते । (३२।३९)

mahābhāratam ākhyāya paścāt saṃdhyāṃ pramucyate |

32.40३२.४०

रात्र्यां यद् एनः कुरुते इन्द्रियैर् ब्राह्मणश्चरन् । (३२।४०)

rātryāṃ yad enaḥ kurute indriyair brāhmaṇaścaran |

32.41३२.४१

महाभारतम् आख्याय पूर्वां संध्यां प्रमुच्यते । (३२।४१)

mahābhāratam ākhyāya pūrvāṃ saṃdhyāṃ pramucyate |

32.42३२.४२

भारतानां महज्जन्म महाभारतम् उच्यते । (३२।४२)

bhāratānāṃ mahajjanma mahābhāratam ucyate |

32.43३२.४३

निरुक्तम् अस्य यो वेद सर्वपापैः प्रमुच्यते । (३२।४३)

niruktam asya yo veda sarvapāpaiḥ pramucyate |

32.44३२.४४

त्रिभिर् वर्षैर् महाभागः कृष्णद्वैपायनो ऽब्रवीत् । (३२।४४)

tribhir varṣair mahābhāgaḥ kṛṣṇadvaipāyano 'bravīt |

32.45३२.४५

नित्योत्थितः सदा योगी महाभारतम् आदितः ॥ (३२।४५)

nityotthitaḥ sadā yogī mahābhāratam āditaḥ ||

33.1३३.१

धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । (३३।१)

dharme cārthe ca kāme ca mokṣe ca bharatarṣabha |

33.2३३.२

यद् इहास्ति तद् अन्यत्र यन् नेहास्ति न तत् क्वचित् । (३३।२)

yad ihāsti tad anyatra yan nehāsti na tat kvacit |

33.3३३.३

इदं हि ब्राह्मणैर् लोके आख्यातं ब्राह्मणेष्विह । (३३।३)

idaṃ hi brāhmaṇair loke ākhyātaṃ brāhmaṇeṣviha |

33.4३३.४

दातुं भोक्तुं तथा श्रोतुं प्रहर्तुम् अरिभिः सह । (३३।४)

dātuṃ bhoktuṃ tathā śrotuṃ prahartum aribhiḥ saha |

33.5३३.५

स किं जानाति पुरुषो भारतं येन न श्रुतम् । (३३।५)

sa kiṃ jānāti puruṣo bhārataṃ yena na śrutam |

33.6३३.६

य इदं भारतं राजन् वाचकाय प्रयच्छति । (३३।६)

ya idaṃ bhārataṃ rājan vācakāya prayacchati |

33.7३३.७

तेन सर्वा मही दत्ता भवेत् सागरमेखला । (३३।७)

tena sarvā mahī dattā bhavet sāgaramekhalā |

33.8३३.८

पर्वाण्यष्टादशेमानि व्यासेन कथितानि वै । (३३।८)

parvāṇyaṣṭādaśemāni vyāsena kathitāni vai |

33.9३३.९

यद्येकम् अपि यो दद्यात् तेन सर्वं कृतं भवेत् ॥ (३३।९)

yadyekam api yo dadyāt tena sarvaṃ kṛtaṃ bhavet ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 1, 56

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit