महाभारतMahābhārata

MBh, 3, 282

580 of 1995 · 105 verses

Select a line for its word-by-word analysis.

1.1१.१

मार्कण्डेय उवाच । (१।१)

mārkaṇḍeya uvāca

1.2१.२

एतस्मिन्नेव काले तु द्युमत्सेनो महावने । (१।२)

etasminneva kāle tu dyumatseno mahāvane |

1.3१.३

लब्धचक्षुः प्रसन्नात्मा दृष्ट्या सर्वं ददर्श ह ॥ (१।३)

labdhacakṣuḥ prasannātmā dṛṣṭyā sarvaṃ dadarśa ha ||

2.1२.१

स सर्वान् आश्रमान् गत्वा शैब्यया सह भार्यया । (२।१)

sa sarvān āśramān gatvā śaibyayā saha bhāryayā |

2.2२.२

पुत्रहेतोः पराम् आर्तिं जगाम मनुजर्षभ ॥ (२।२)

putrahetoḥ parām ārtiṃ jagāma manujarṣabha ||

3.1३.१

तावाश्रमान् नदीश्चैव वनानि च सरांसि च । (३।१)

tāvāśramān nadīścaiva vanāni ca sarāṃsi ca |

3.2३.२

तांस्तान् देशान् विचिन्वन्तौ दम्पती परिजग्मतुः ॥ (३।२)

tāṃstān deśān vicinvantau dampatī parijagmatuḥ ||

4.1४.१

श्रुत्वा शब्दं तु यत् किंचिद् उन्मुखौ सुतशङ्कया । (४।१)

śrutvā śabdaṃ tu yat kiṃcid unmukhau sutaśaṅkayā |

4.2४.२

सावित्रीसहितो ऽभ्येति सत्यवान् इत्यधावताम् ॥ (४।२)

sāvitrīsahito 'bhyeti satyavān ityadhāvatām ||

5.1५.१

भिन्नैश् च परुषैः पादैः सव्रणैः शोणितोक्षितैः । (५।१)

bhinnaiś ca paruṣaiḥ pādaiḥ savraṇaiḥ śoṇitokṣitaiḥ |

5.2५.२

कुशकण्टकविद्धाङ्गावुन्मत्ताविव धावतः ॥ (५।२)

kuśakaṇṭakaviddhāṅgāvunmattāviva dhāvataḥ ||

6.1६.१

ततो ऽभिसृत्य तैर् विप्रैः सर्वैर् आश्रमवासिभिः । (६।१)

tato 'bhisṛtya tair vipraiḥ sarvair āśramavāsibhiḥ |

6.2६.२

परिवार्य समाश्वास्य समानीतौ स्वम् आश्रमम् ॥ (६।२)

parivārya samāśvāsya samānītau svam āśramam ||

7.1७.१

तत्र भार्यासहायः स वृतो वृद्धैस् तपोधनैः । (७।१)

tatra bhāryāsahāyaḥ sa vṛto vṛddhais tapodhanaiḥ |

7.2७.२

आश्वासितो विचित्रार्थैः पूर्वराज्ञां कथाश्रयैः ॥ (७।२)

āśvāsito vicitrārthaiḥ pūrvarājñāṃ kathāśrayaiḥ ||

8.1८.१

ततस्तौ पुनर् आश्वस्तौ वृद्धौ पुत्रदिदृक्षया । (८।१)

tatastau punar āśvastau vṛddhau putradidṛkṣayā |

8.2८.२

बाल्ये वृत्तानि पुत्रस्य स्मरन्तौ भृशदुःखितौ ॥ (८।२)

bālye vṛttāni putrasya smarantau bhṛśaduḥkhitau ||

9.1९.१

पुनर् उक्त्वा च करुणां वाचं तौ शोककर्शितौ । (९।१)

punar uktvā ca karuṇāṃ vācaṃ tau śokakarśitau |

9.2९.२

हा पुत्र हा साध्वि वधूः क्वासि क्वासीत्य् अरोदताम् ॥ (९।२)

hā putra hā sādhvi vadhūḥ kvāsi kvāsīty arodatām ||

10.1१०.१

सुवर्चा उवाच । (१०।१)

suvarcā uvāca

10.2१०.२

यथास्य भार्या सावित्री तपसा च दमेन च । (१०।२)

yathāsya bhāryā sāvitrī tapasā ca damena ca |

10.3१०.३

आचारेण च संयुक्ता तथा जीवति सत्यवान् ॥ (१०।३)

ācāreṇa ca saṃyuktā tathā jīvati satyavān ||

11.1११.१

गौतम उवाच । (११।१)

gautama uvāca

11.2११.२

वेदाः साङ्गा मयाधीतास् तपो मे संचितं महत् । (११।२)

vedāḥ sāṅgā mayādhītās tapo me saṃcitaṃ mahat |

11.3११.३

कौमारं ब्रह्मचर्यं मे गुरवो ऽग्निश् च तोषिताः ॥ (११।३)

kaumāraṃ brahmacaryaṃ me guravo 'gniś ca toṣitāḥ ||

12.1१२.१

समाहितेन चीर्णानि सर्वाण्येव व्रतानि मे । (१२।१)

samāhitena cīrṇāni sarvāṇyeva vratāni me |

12.2१२.२

वायुभक्षोपवासश्च कुशलानि च यानि मे ॥ (१२।२)

vāyubhakṣopavāsaśca kuśalāni ca yāni me ||

13.1१३.१

अनेन तपसा वेद्मि सर्वं परिचिकीर्षितम् । (१३।१)

anena tapasā vedmi sarvaṃ paricikīrṣitam |

13.2१३.२

सत्यम् एतन् निबोध त्वं ध्रियते सत्यवान् इति ॥ (१३।२)

satyam etan nibodha tvaṃ dhriyate satyavān iti ||

14.1१४.१

शिष्य उवाच । (१४।१)

śiṣya uvāca

14.2१४.२

उपाध्यायस्य मे वक्त्राद् यथा वाक्यं विनिःसृतम् । (१४।२)

upādhyāyasya me vaktrād yathā vākyaṃ viniḥsṛtam |

14.3१४.३

नैतज्जातु भवेन् मिथ्या तथा जीवति सत्यवान् ॥ (१४।३)

naitajjātu bhaven mithyā tathā jīvati satyavān ||

15.1१५.१

ऋषय ऊचुः । (१५।१)

ṛṣaya ūcuḥ |

15.2१५.२

यथास्य भार्या सावित्री सर्वैर् एव सुलक्षणैः । (१५।२)

yathāsya bhāryā sāvitrī sarvair eva sulakṣaṇaiḥ |

15.3१५.३

अवैधव्यकरैर् युक्ता तथा जीवति सत्यवान् ॥ (१५।३)

avaidhavyakarair yuktā tathā jīvati satyavān ||

16.1१६.१

भारद्वाज उवाच । (१६।१)

bhāradvāja uvāca

16.2१६.२

यथास्य भार्या सावित्री तपसा च दमेन च । (१६।२)

yathāsya bhāryā sāvitrī tapasā ca damena ca |

16.3१६.३

आचारेण च संयुक्ता तथा जीवति सत्यवान् ॥ (१६।३)

ācāreṇa ca saṃyuktā tathā jīvati satyavān ||

17.1१७.१

दाल्भ्य उवाच । (१७।१)

dālbhya uvāca

17.2१७.२

यथा दृष्टिः प्रवृत्ता ते सावित्र्याश् च यथा व्रतम् । (१७।२)

yathā dṛṣṭiḥ pravṛttā te sāvitryāś ca yathā vratam |

17.3१७.३

गताहारम् अकृत्वा च तथा जीवति सत्यवान् ॥ (१७।३)

gatāhāram akṛtvā ca tathā jīvati satyavān ||

18.1१८.१

माण्डव्य उवाच । (१८।१)

māṇḍavya uvāca

18.2१८.२

यथा वदन्ति शान्तायां दिशि वै मृगपक्षिणः । (१८।२)

yathā vadanti śāntāyāṃ diśi vai mṛgapakṣiṇaḥ |

18.3१८.३

पार्थिवी च प्रवृत्तिस् ते तथा जीवति सत्यवान् ॥ (१८।३)

pārthivī ca pravṛttis te tathā jīvati satyavān ||

19.1१९.१

धौम्य उवाच । (१९।१)

dhaumya uvāca

19.2१९.२

सर्वैर् गुणैर् उपेतस् ते यथा पुत्रो जनप्रियः । (१९।२)

sarvair guṇair upetas te yathā putro janapriyaḥ |

19.3१९.३

दीर्घायुर् लक्षणोपेतस् तथा जीवति सत्यवान् ॥ (१९।३)

dīrghāyur lakṣaṇopetas tathā jīvati satyavān ||

20.1२०.१

मार्कण्डेय उवाच । (२०।१)

mārkaṇḍeya uvāca

20.2२०.२

एवम् आश्वासितस्तैस् तु सत्यवाग्भिस् तपस्विभिः । (२०।२)

evam āśvāsitastais tu satyavāgbhis tapasvibhiḥ |

20.3२०.३

तांस् तान् विगणयन्न् अर्थान् अवस्थित इवाभवत् ॥ (२०।३)

tāṃs tān vigaṇayann arthān avasthita ivābhavat ||

21.1२१.१

ततो मुहूर्तात् सावित्री भर्त्रा सत्यवता सह । (२१।१)

tato muhūrtāt sāvitrī bhartrā satyavatā saha |

21.2२१.२

आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह ॥ (२१।२)

ājagāmāśramaṃ rātrau prahṛṣṭā praviveśa ha ||

22.1२२.१

ब्राह्मणा ऊचुः । (२२।१)

brāhmaṇā ūcuḥ |

22.2२२.२

पुत्रेण संगतं त्वाद्य चक्षुष्मन्तं निरीक्ष्य च । (२२।२)

putreṇa saṃgataṃ tvādya cakṣuṣmantaṃ nirīkṣya ca |

22.3२२.३

सर्वे वयं वै पृच्छामो वृद्धिं ते पृथिवीपते ॥ (२२।३)

sarve vayaṃ vai pṛcchāmo vṛddhiṃ te pṛthivīpate ||

23.1२३.१

समागमेन पुत्रस्य सावित्र्या दर्शनेन च । (२३।१)

samāgamena putrasya sāvitryā darśanena ca |

23.2२३.२

चक्षुषश् चात्मनो लाभात् त्रिभिर् दिष्ट्या विवर्धसे ॥ (२३।२)

cakṣuṣaś cātmano lābhāt tribhir diṣṭyā vivardhase ||

24.1२४.१

सर्वैर् अस्माभिर् उक्तं यत् तथा तन् नात्र संशयः । (२४।१)

sarvair asmābhir uktaṃ yat tathā tan nātra saṃśayaḥ |

24.2२४.२

भूयो भूयश्च वृद्धिस् ते क्षिप्रम् एव भविष्यति ॥ (२४।२)

bhūyo bhūyaśca vṛddhis te kṣipram eva bhaviṣyati ||

25.1२५.१

मार्कण्डेय उवाच । (२५।१)

mārkaṇḍeya uvāca

25.2२५.२

ततो ऽग्निं तत्र संज्वाल्य द्विजास् ते सर्व एव हि । (२५।२)

tato 'gniṃ tatra saṃjvālya dvijās te sarva eva hi |

25.3२५.३

उपासांचक्रिरे पार्थ द्युमत्सेनं महीपतिम् ॥ (२५।३)

upāsāṃcakrire pārtha dyumatsenaṃ mahīpatim ||

26.1२६.१

शैब्या च सत्यवांश्चैव सावित्री चैकतः स्थिताः । (२६।१)

śaibyā ca satyavāṃścaiva sāvitrī caikataḥ sthitāḥ |

26.2२६.२

सर्वैस् तैर् अभ्यनुज्ञाता विशोकाः समुपाविशन् ॥ (२६।२)

sarvais tair abhyanujñātā viśokāḥ samupāviśan ||

27.1२७.१

ततो राज्ञा सहासीनाः सर्वे ते वनवासिनः । (२७।१)

tato rājñā sahāsīnāḥ sarve te vanavāsinaḥ |

27.2२७.२

जातकौतूहलाः पार्थ पप्रच्छुर् नृपतेः सुतम् ॥ (२७।२)

jātakautūhalāḥ pārtha papracchur nṛpateḥ sutam ||

28.1२८.१

प्राग् एव नागतं कस्मात् सभार्येण त्वया विभो । (२८।१)

prāg eva nāgataṃ kasmāt sabhāryeṇa tvayā vibho |

28.2२८.२

विरात्रे चागतं कस्मात् को ऽनुबन्धश्च ते ऽभवत् ॥ (२८।२)

virātre cāgataṃ kasmāt ko 'nubandhaśca te 'bhavat ||

29.1२९.१

संतापितः पिता माता वयं चैव नृपात्मज । (२९।१)

saṃtāpitaḥ pitā mātā vayaṃ caiva nṛpātmaja |

29.2२९.२

नाकस्माद् इति जानीमस्तत् सर्वं वक्तुम् अर्हसि ॥ (२९।२)

nākasmād iti jānīmastat sarvaṃ vaktum arhasi ||

30.1३०.१

सत्यवान् उवाच । (३०।१)

satyavān uvāca

30.2३०.२

पित्राहम् अभ्यनुज्ञातः सावित्रीसहितो गतः । (३०।२)

pitrāham abhyanujñātaḥ sāvitrīsahito gataḥ |

30.3३०.३

अथ मे ऽभूच्छिरोदुःखं वने काष्ठानि भिन्दतः ॥ (३०।३)

atha me 'bhūcchiroduḥkhaṃ vane kāṣṭhāni bhindataḥ ||

31.1३१.१

सुप्तश् चाहं वेदनया चिरम् इत्युपलक्षये । (३१।१)

suptaś cāhaṃ vedanayā ciram ityupalakṣaye |

31.2३१.२

तावत् कालं च न मया सुप्तपूर्वं कदाचन ॥ (३१।२)

tāvat kālaṃ ca na mayā suptapūrvaṃ kadācana ||

32.1३२.१

सर्वेषाम् एव भवतां संतापो मा भवेद् इति । (३२।१)

sarveṣām eva bhavatāṃ saṃtāpo mā bhaved iti |

32.2३२.२

अतो विरात्रागमनं नान्यद् अस्तीह कारणम् ॥ (३२।२)

ato virātrāgamanaṃ nānyad astīha kāraṇam ||

33.1३३.१

गौतम उवाच । (३३।१)

gautama uvāca

33.2३३.२

अकस्माच्चक्षुषः प्राप्तिर् द्युमत्सेनस्य ते पितुः । (३३।२)

akasmāccakṣuṣaḥ prāptir dyumatsenasya te pituḥ |

33.3३३.३

नास्य त्वं कारणं वेत्थ सावित्री वक्तुम् अर्हति ॥ (३३।३)

nāsya tvaṃ kāraṇaṃ vettha sāvitrī vaktum arhati ||

34.1३४.१

श्रोतुम् इच्छामि सावित्रि त्वं हि वेत्थ परावरम् । (३४।१)

śrotum icchāmi sāvitri tvaṃ hi vettha parāvaram |

34.2३४.२

त्वां हि जानामि सावित्रि सावित्रीम् इव तेजसा ॥ (३४।२)

tvāṃ hi jānāmi sāvitri sāvitrīm iva tejasā ||

35.1३५.१

त्वम् अत्र हेतुं जानीषे तस्मात् सत्यं निरुच्यताम् । (३५।१)

tvam atra hetuṃ jānīṣe tasmāt satyaṃ nirucyatām |

35.2३५.२

रहस्यं यदि ते नास्ति किंचिद् अत्र वदस्व नः ॥ (३५।२)

rahasyaṃ yadi te nāsti kiṃcid atra vadasva naḥ ||

36.1३६.१

सावित्र्युवाच । (३६।१)

sāvitryuvāca |

36.2३६.२

एवम् एतद् यथा वेत्थ संकल्पो नान्यथा हि वः । (३६।२)

evam etad yathā vettha saṃkalpo nānyathā hi vaḥ |

36.3३६.३

न च किंचिद् रहस्यं मे श्रूयतां तथ्यम् अत्र यत् ॥ (३६।३)

na ca kiṃcid rahasyaṃ me śrūyatāṃ tathyam atra yat ||

37.1३७.१

मृत्युर् मे भर्तुर् आख्यातो नारदेन महात्मना । (३७।१)

mṛtyur me bhartur ākhyāto nāradena mahātmanā |

37.2३७.२

स चाद्य दिवसः प्राप्तस् ततो नैनं जहाम्यहम् ॥ (३७।२)

sa cādya divasaḥ prāptas tato nainaṃ jahāmyaham ||

38.1३८.१

सुप्तं चैनं यमः साक्षाद् उपागच्छत् सकिंकरः । (३८।१)

suptaṃ cainaṃ yamaḥ sākṣād upāgacchat sakiṃkaraḥ |

38.2३८.२

स एनम् अनयद् बद्ध्वा दिशं पितृनिषेविताम् ॥ (३८।२)

sa enam anayad baddhvā diśaṃ pitṛniṣevitām ||

39.1३९.१

अस्तौषं तम् अहं देवं सत्येन वचसा विभुम् । (३९।१)

astauṣaṃ tam ahaṃ devaṃ satyena vacasā vibhum |

39.2३९.२

पञ्च वै तेन मे दत्ता वराः शृणुत तान् मम ॥ (३९।२)

pañca vai tena me dattā varāḥ śṛṇuta tān mama ||

40.1४०.१

चक्षुषी च स्वराज्यं च द्वौ वरौ श्वशुरस्य मे । (४०।१)

cakṣuṣī ca svarājyaṃ ca dvau varau śvaśurasya me |

40.2४०.२

लब्धं पितुः पुत्रशतं पुत्राणाम् आत्मनः शतम् ॥ (४०।२)

labdhaṃ pituḥ putraśataṃ putrāṇām ātmanaḥ śatam ||

41.1४१.१

चतुर्वर्षशतायुर् मे भर्ता लब्धश् च सत्यवान् । (४१।१)

caturvarṣaśatāyur me bhartā labdhaś ca satyavān |

41.2४१.२

भर्तुर्हि जीवितार्थं तु मया चीर्णं स्थिरं व्रतम् ॥ (४१।२)

bharturhi jīvitārthaṃ tu mayā cīrṇaṃ sthiraṃ vratam ||

42.1४२.१

एतत् सत्यं मयाख्यातं कारणं विस्तरेण वः । (४२।१)

etat satyaṃ mayākhyātaṃ kāraṇaṃ vistareṇa vaḥ |

42.2४२.२

यथा वृत्तं सुखोदर्कम् इदं दुःखं महन् मम ॥ (४२।२)

yathā vṛttaṃ sukhodarkam idaṃ duḥkhaṃ mahan mama ||

43.1४३.१

ऋषय ऊचुः । (४३।१)

ṛṣaya ūcuḥ |

43.2४३.२

निमज्जमानं व्यसनैर् अभिद्रुतं कुलं नरेन्द्रस्य तमोमये ह्रदे । (४३।२)

nimajjamānaṃ vyasanair abhidrutaṃ kulaṃ narendrasya tamomaye hrade |

43.3४३.३

त्वया सुशीले धृतधर्मपुण्यया समुद्धृतं साध्वि पुनः कुलीनया ॥ (४३।३)

tvayā suśīle dhṛtadharmapuṇyayā samuddhṛtaṃ sādhvi punaḥ kulīnayā ||

44.1४४.१

मार्कण्डेय उवाच । (४४।१)

mārkaṇḍeya uvāca

44.2४४.२

तथा प्रशस्य ह्यभिपूज्य चैव ते वरस्त्रियं ताम् ऋषयः समागताः । (४४।२)

tathā praśasya hyabhipūjya caiva te varastriyaṃ tām ṛṣayaḥ samāgatāḥ |

44.3४४.३

नरेन्द्रम् आमन्त्र्य सपुत्रम् अञ्जसा शिवेन जग्मुर् मुदिताः स्वम् आलयम् ॥ (४४।३)

narendram āmantrya saputram añjasā śivena jagmur muditāḥ svam ālayam ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 3, 282

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit