महाभारतMahābhārata

MBh, 12, 276

1604 of 1995 · 120 verses

Select a line for its word-by-word analysis.

1.1१.१

युधिष्ठिर उवाच । (१।१)

yudhiṣṭhira uvāca

1.2१.२

अतत्त्वज्ञस्य शास्त्राणां सततं संशयात्मनः । (१।२)

atattvajñasya śāstrāṇāṃ satataṃ saṃśayātmanaḥ |

1.3१.३

अकृतव्यवसायस्य श्रेयो ब्रूहि पितामह ॥ (१।३)

akṛtavyavasāyasya śreyo brūhi pitāmaha ||

2.1२.१

भीष्म उवाच । (२।१)

bhīṣma uvāca

2.2२.२

गुरुपूजा च सततं वृद्धानां पर्युपासनम् । (२।२)

gurupūjā ca satataṃ vṛddhānāṃ paryupāsanam |

2.3२.३

श्रवणं चैव विद्यानां कूटस्थं श्रेय उच्यते ॥ (२।३)

śravaṇaṃ caiva vidyānāṃ kūṭasthaṃ śreya ucyate ||

3.1३.१

अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम् । (३।१)

atrāpyudāharantīmam itihāsaṃ purātanam |

3.2३.२

गालवस्य च संवादं देवर्षेर् नारदस्य च ॥ (३।२)

gālavasya ca saṃvādaṃ devarṣer nāradasya ca ||

4.1४.१

वीतमोहक्लमं विप्रं ज्ञानतृप्तं जितेन्द्रियम् । (४।१)

vītamohaklamaṃ vipraṃ jñānatṛptaṃ jitendriyam |

4.2४.२

श्रेयस्कामं जितात्मानं नारदं गालवो ऽब्रवीत् ॥ (४।२)

śreyaskāmaṃ jitātmānaṃ nāradaṃ gālavo 'bravīt ||

5.1५.१

यैः कैश्चित् संमतो लोके गुणैस्तु पुरुषो नृषु । (५।१)

yaiḥ kaiścit saṃmato loke guṇaistu puruṣo nṛṣu |

5.2५.२

भवत्यनपगान् सर्वांस्तान् गुणांल् लक्षयाम्यहम् ॥ (५।२)

bhavatyanapagān sarvāṃstān guṇāṃl lakṣayāmyaham ||

6.1६.१

भवान् एवंविधो ऽस्माकं संशयं छेत्तुम् अर्हति । (६।१)

bhavān evaṃvidho 'smākaṃ saṃśayaṃ chettum arhati |

6.2६.२

अमूढश्चिरमूढानां लोकतत्त्वम् अजानताम् ॥ (६।२)

amūḍhaściramūḍhānāṃ lokatattvam ajānatām ||

7.1७.१

ज्ञाने ह्येवं प्रवृत्तिः स्यात् कार्याकार्ये विजानतः । (७।१)

jñāne hyevaṃ pravṛttiḥ syāt kāryākārye vijānataḥ |

7.2७.२

यत् कार्यं न व्यवस्यामस्तद् भवान् वक्तुम् अर्हति ॥ (७।२)

yat kāryaṃ na vyavasyāmastad bhavān vaktum arhati ||

8.1८.१

भगवन्न् आश्रमाः सर्वे पृथगाचारदर्शिनः । (८।१)

bhagavann āśramāḥ sarve pṛthagācāradarśinaḥ |

8.2८.२

इदं श्रेय इदं श्रेय इति नानाप्रधाविताः ॥ (८।२)

idaṃ śreya idaṃ śreya iti nānāpradhāvitāḥ ||

9.1९.१

तांस्तु विप्रस्थितान् दृष्ट्वा शास्त्रैः शास्त्राभिनन्दिनः । (९।१)

tāṃstu viprasthitān dṛṣṭvā śāstraiḥ śāstrābhinandinaḥ |

9.2९.२

स्वशास्त्रैः परितुष्टांश्च श्रेयो नोपलभामहे ॥ (९।२)

svaśāstraiḥ parituṣṭāṃśca śreyo nopalabhāmahe ||

10.1१०.१

शास्त्रं यदि भवेद् एकं व्यक्तं श्रेयो भवेत् तदा । (१०।१)

śāstraṃ yadi bhaved ekaṃ vyaktaṃ śreyo bhavet tadā |

10.2१०.२

शास्त्रैश्च बहुभिर् भूयः श्रेयो गुह्यं प्रवेशितम् ॥ (१०।२)

śāstraiśca bahubhir bhūyaḥ śreyo guhyaṃ praveśitam ||

11.1११.१

एतस्मात् कारणाच्छ्रेयः कलिलं प्रतिभाति माम् । (११।१)

etasmāt kāraṇācchreyaḥ kalilaṃ pratibhāti mām |

11.2११.२

ब्रवीतु भगवांस्तन्मे उपसन्नो ऽस्म्यधीहि भोः ॥ (११।२)

bravītu bhagavāṃstanme upasanno 'smyadhīhi bhoḥ ||

12.1१२.१

नारद उवाच । (१२।१)

nārada uvāca

12.2१२.२

आश्रमास्तात चत्वारो यथासंकल्पिताः पृथक् । (१२।२)

āśramāstāta catvāro yathāsaṃkalpitāḥ pṛthak |

12.3१२.३

तान् सर्वान् अनुपश्य त्वं समाश्रित्यैव गालव ॥ (१२।३)

tān sarvān anupaśya tvaṃ samāśrityaiva gālava ||

13.1१३.१

तेषां तेषां तथा हि त्वम् आश्रमाणां ततस्ततः । (१३।१)

teṣāṃ teṣāṃ tathā hi tvam āśramāṇāṃ tatastataḥ |

13.2१३.२

नानारूपगुणोद्देशं पश्य विप्रस्थितं पृथक् । (१३।२)

nānārūpaguṇoddeśaṃ paśya viprasthitaṃ pṛthak |

13.3१३.३

नयन्ति चैव ते सम्यग् अभिप्रेतम् असंशयम् ॥ (१३।३)

nayanti caiva te samyag abhipretam asaṃśayam ||

14.1१४.१

ऋजु पश्यंस्तथा सम्यग् आश्रमाणां परां गतिम् । (१४।१)

ṛju paśyaṃstathā samyag āśramāṇāṃ parāṃ gatim |

14.2१४.२

यत् तु निःश्रेयसं सम्यक् तच्चैवासंशयात्मकम् ॥ (१४।२)

yat tu niḥśreyasaṃ samyak taccaivāsaṃśayātmakam ||

15.1१५.१

अनुग्रहं च मित्राणाम् अमित्राणां च निग्रहम् । (१५।१)

anugrahaṃ ca mitrāṇām amitrāṇāṃ ca nigraham |

15.2१५.२

संग्रहं च त्रिवर्गस्य श्रेय आहुर् मनीषिणः ॥ (१५।२)

saṃgrahaṃ ca trivargasya śreya āhur manīṣiṇaḥ ||

16.1१६.१

निवृत्तिः कर्मणः पापात् सततं पुण्यशीलता । (१६।१)

nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā |

16.2१६.२

सद्भिश्च समुदाचारः श्रेय एतद् असंशयम् ॥ (१६।२)

sadbhiśca samudācāraḥ śreya etad asaṃśayam ||

17.1१७.१

मार्दवं सर्वभूतेषु व्यवहारेषु चार्जवम् । (१७।१)

mārdavaṃ sarvabhūteṣu vyavahāreṣu cārjavam |

17.2१७.२

वाक् चैव मधुरा प्रोक्ता श्रेय एतद् असंशयम् ॥ (१७।२)

vāk caiva madhurā proktā śreya etad asaṃśayam ||

18.1१८.१

देवताभ्यः पितृभ्यश्च संविभागो ऽतिथिष्वपि । (१८।१)

devatābhyaḥ pitṛbhyaśca saṃvibhāgo 'tithiṣvapi |

18.2१८.२

असंत्यागश्च भृत्यानां श्रेय एतद् असंशयम् ॥ (१८।२)

asaṃtyāgaśca bhṛtyānāṃ śreya etad asaṃśayam ||

19.1१९.१

सत्यस्य वचनं श्रेयः सत्यज्ञानं तु दुष्करम् । (१९।१)

satyasya vacanaṃ śreyaḥ satyajñānaṃ tu duṣkaram |

19.2१९.२

यद् भूतहितम् अत्यन्तम् एतत् सत्यं ब्रवीम्यहम् ॥ (१९।२)

yad bhūtahitam atyantam etat satyaṃ bravīmyaham ||

20.1२०.१

अहंकारस्य च त्यागः प्रणयस्य च निग्रहः । (२०।१)

ahaṃkārasya ca tyāgaḥ praṇayasya ca nigrahaḥ |

20.2२०.२

संतोषश्चैकचर्या च कूटस्थं श्रेय उच्यते ॥ (२०।२)

saṃtoṣaścaikacaryā ca kūṭasthaṃ śreya ucyate ||

21.1२१.१

धर्मेण वेदाध्ययनं वेदाङ्गानां तथैव च । (२१।१)

dharmeṇa vedādhyayanaṃ vedāṅgānāṃ tathaiva ca |

21.2२१.२

विद्यार्थानां च जिज्ञासा श्रेय एतद् असंशयम् ॥ (२१।२)

vidyārthānāṃ ca jijñāsā śreya etad asaṃśayam ||

22.1२२.१

शब्दरूपरसस्पर्शान् सह गन्धेन केवलान् । (२२।१)

śabdarūparasasparśān saha gandhena kevalān |

22.2२२.२

नात्यर्थम् उपसेवेत श्रेयसो ऽर्थी परंतप ॥ (२२।२)

nātyartham upaseveta śreyaso 'rthī paraṃtapa ||

23.1२३.१

नक्तंचर्या दिवास्वप्नम् आलस्यं पैशुनं मदम् । (२३।१)

naktaṃcaryā divāsvapnam ālasyaṃ paiśunaṃ madam |

23.2२३.२

अतियोगम् अयोगं च श्रेयसो ऽर्थी परित्यजेत् ॥ (२३।२)

atiyogam ayogaṃ ca śreyaso 'rthī parityajet ||

24.1२४.१

कर्मोत्कर्षं न मार्गेत परेषां परिनिन्दया । (२४।१)

karmotkarṣaṃ na mārgeta pareṣāṃ parinindayā |

24.2२४.२

स्वगुणैर् एव मार्गेत विप्रकर्षं पृथग्जनात् ॥ (२४।२)

svaguṇair eva mārgeta viprakarṣaṃ pṛthagjanāt ||

25.1२५.१

निर्गुणास्त्वेव भूयिष्ठम् आत्मसम्भाविनो नराः । (२५।१)

nirguṇāstveva bhūyiṣṭham ātmasambhāvino narāḥ |

25.2२५.२

दोषैर् अन्यान् गुणवतः क्षिपन्त्यात्मगुणक्षयात् ॥ (२५।२)

doṣair anyān guṇavataḥ kṣipantyātmaguṇakṣayāt ||

26.1२६.१

अनुच्यमानाश्च पुनस्ते मन्यन्ते महाजनात् । (२६।१)

anucyamānāśca punaste manyante mahājanāt |

26.2२६.२

गुणवत्तरम् आत्मानं स्वेन मानेन दर्पिताः ॥ (२६।२)

guṇavattaram ātmānaṃ svena mānena darpitāḥ ||

27.1२७.१

अब्रुवन् कस्यचिन्निन्दाम् आत्मपूजाम् अवर्णयन् । (२७।१)

abruvan kasyacinnindām ātmapūjām avarṇayan |

27.2२७.२

विपश्चिद् गुणसम्पन्नः प्राप्नोत्येव महद् यशः ॥ (२७।२)

vipaścid guṇasampannaḥ prāpnotyeva mahad yaśaḥ ||

28.1२८.१

अब्रुवन् वाति सुरभिर् गन्धः सुमनसां शुचिः । (२८।१)

abruvan vāti surabhir gandhaḥ sumanasāṃ śuciḥ |

28.2२८.२

तथैवाव्याहरन् भाति विमलो भानुर् अम्बरे ॥ (२८।२)

tathaivāvyāharan bhāti vimalo bhānur ambare ||

29.1२९.१

एवमादीनि चान्यानि परित्यक्तानि मेधया । (२९।१)

evamādīni cānyāni parityaktāni medhayā |

29.2२९.२

ज्वलन्ति यशसा लोके यानि न व्याहरन्ति च ॥ (२९।२)

jvalanti yaśasā loke yāni na vyāharanti ca ||

30.1३०.१

न लोके दीप्यते मूर्खः केवलात्मप्रशंसया । (३०।१)

na loke dīpyate mūrkhaḥ kevalātmapraśaṃsayā |

30.2३०.२

अपि चापिहितः श्वभ्रे कृतविद्यः प्रकाशते ॥ (३०।२)

api cāpihitaḥ śvabhre kṛtavidyaḥ prakāśate ||

31.1३१.१

असन्न् उच्चैर् अपि प्रोक्तः शब्दः समुपशाम्यति । (३१।१)

asann uccair api proktaḥ śabdaḥ samupaśāmyati |

31.2३१.२

दीप्यते त्वेव लोकेषु शनैर् अपि सुभाषितम् ॥ (३१।२)

dīpyate tveva lokeṣu śanair api subhāṣitam ||

32.1३२.१

मूढानाम् अवलिप्तानाम् असारं भाषितं बहु । (३२।१)

mūḍhānām avaliptānām asāraṃ bhāṣitaṃ bahu |

32.2३२.२

दर्शयत्यन्तरात्मानं दिवा रूपम् इवांशुमान् ॥ (३२।२)

darśayatyantarātmānaṃ divā rūpam ivāṃśumān ||

33.1३३.१

एतस्मात् कारणात् प्रज्ञां मृगयन्ते पृथग्विधाम् । (३३।१)

etasmāt kāraṇāt prajñāṃ mṛgayante pṛthagvidhām |

33.2३३.२

प्रज्ञालाभो हि भूतानाम् उत्तमः प्रतिभाति माम् ॥ (३३।२)

prajñālābho hi bhūtānām uttamaḥ pratibhāti mām ||

34.1३४.१

नापृष्टः कस्यचिद् ब्रूयान्न चान्यायेन पृच्छतः । (३४।१)

nāpṛṣṭaḥ kasyacid brūyānna cānyāyena pṛcchataḥ |

34.2३४.२

ज्ञानवान् अपि मेधावी जडवल् लोकम् आचरेत् ॥ (३४।२)

jñānavān api medhāvī jaḍaval lokam ācaret ||

35.1३५.१

ततो वासं परीक्षेत धर्मनित्येषु साधुषु । (३५।१)

tato vāsaṃ parīkṣeta dharmanityeṣu sādhuṣu |

35.2३५.२

मनुष्येषु वदान्येषु स्वधर्मनिरतेषु च ॥ (३५।२)

manuṣyeṣu vadānyeṣu svadharmanirateṣu ca ||

36.1३६.१

चतुर्णां यत्र वर्णानां धर्मव्यतिकरो भवेत् । (३६।१)

caturṇāṃ yatra varṇānāṃ dharmavyatikaro bhavet |

36.2३६.२

न तत्र वासं कुर्वीत श्रेयोऽर्थी वै कथंचन ॥ (३६।२)

na tatra vāsaṃ kurvīta śreyo'rthī vai kathaṃcana ||

37.1३७.१

निरारम्भो ऽप्ययम् इह यथालब्धोपजीवनः । (३७।१)

nirārambho 'pyayam iha yathālabdhopajīvanaḥ |

37.2३७.२

पुण्यं पुण्येषु विमलं पापं पापेषु चाप्नुयात् ॥ (३७।२)

puṇyaṃ puṇyeṣu vimalaṃ pāpaṃ pāpeṣu cāpnuyāt ||

38.1३८.१

अपाम् अग्नेस्तथेन्दोश्च स्पर्शं वेदयते यथा । (३८।१)

apām agnestathendośca sparśaṃ vedayate yathā |

38.2३८.२

तथा पश्यामहे स्पर्शम् उभयोः पापपुण्ययोः ॥ (३८।२)

tathā paśyāmahe sparśam ubhayoḥ pāpapuṇyayoḥ ||

39.1३९.१

अपश्यन्तो ऽन्नविषयं भुञ्जते विघसाशिनः । (३९।१)

apaśyanto 'nnaviṣayaṃ bhuñjate vighasāśinaḥ |

39.2३९.२

भुञ्जानं चान्नविषयान् विषयं विद्धि कर्मणाम् ॥ (३९।२)

bhuñjānaṃ cānnaviṣayān viṣayaṃ viddhi karmaṇām ||

40.1४०.१

यत्रागमयमानानाम् असत्कारेण पृच्छताम् । (४०।१)

yatrāgamayamānānām asatkāreṇa pṛcchatām |

40.2४०.२

प्रब्रूयाद् ब्रह्मणो धर्मं त्यजेत् तं देशम् आत्मवान् ॥ (४०।२)

prabrūyād brahmaṇo dharmaṃ tyajet taṃ deśam ātmavān ||

41.1४१.१

शिष्योपाध्यायिका वृत्तिर् यत्र स्यात् सुसमाहिता । (४१।१)

śiṣyopādhyāyikā vṛttir yatra syāt susamāhitā |

41.2४१.२

यथावच्छास्त्रसम्पन्ना कस्तं देशं परित्यजेत् ॥ (४१।२)

yathāvacchāstrasampannā kastaṃ deśaṃ parityajet ||

42.1४२.१

आकाशस्था ध्रुवं यत्र दोषं ब्रूयुर् विपश्चिताम् । (४२।१)

ākāśasthā dhruvaṃ yatra doṣaṃ brūyur vipaścitām |

42.2४२.२

आत्मपूजाभिकामा वै को वसेत् तत्र पण्डितः ॥ (४२।२)

ātmapūjābhikāmā vai ko vaset tatra paṇḍitaḥ ||

43.1४३.१

यत्र संलोडिता लुब्धैः प्रायशो धर्मसेतवः । (४३।१)

yatra saṃloḍitā lubdhaiḥ prāyaśo dharmasetavaḥ |

43.2४३.२

प्रदीप्तम् इव शैलान्तं कस्तं देशं न संत्यजेत् ॥ (४३।२)

pradīptam iva śailāntaṃ kastaṃ deśaṃ na saṃtyajet ||

44.1४४.१

यत्र धर्मम् अनाशङ्काश्चरेयुर् वीतमत्सराः । (४४।१)

yatra dharmam anāśaṅkāścareyur vītamatsarāḥ |

44.2४४.२

चरेत् तत्र वसेच्चैव पुण्यशीलेषु साधुषु ॥ (४४।२)

caret tatra vaseccaiva puṇyaśīleṣu sādhuṣu ||

45.1४५.१

धर्मम् अर्थनिमित्तं तु चरेयुर् यत्र मानवाः । (४५।१)

dharmam arthanimittaṃ tu careyur yatra mānavāḥ |

45.2४५.२

न तान् अनुवसेज्जातु ते हि पापकृतो जनाः ॥ (४५।२)

na tān anuvasejjātu te hi pāpakṛto janāḥ ||

46.1४६.१

कर्मणा यत्र पापेन वर्तन्ते जीवितेप्सवः । (४६।१)

karmaṇā yatra pāpena vartante jīvitepsavaḥ |

46.2४६.२

व्यवधावेत् ततस्तूर्णं ससर्पाच्छरणाद् इव ॥ (४६।२)

vyavadhāvet tatastūrṇaṃ sasarpāccharaṇād iva ||

47.1४७.१

येन खट्वां समारूढः कर्मणानुशयी भवेत् । (४७।१)

yena khaṭvāṃ samārūḍhaḥ karmaṇānuśayī bhavet |

47.2४७.२

आदितस्तन्न कर्तव्यम् इच्छता भवम् आत्मनः ॥ (४७।२)

āditastanna kartavyam icchatā bhavam ātmanaḥ ||

48.1४८.१

यत्र राजा च राज्ञश्च पुरुषाः प्रत्यनन्तराः । (४८।१)

yatra rājā ca rājñaśca puruṣāḥ pratyanantarāḥ |

48.2४८.२

कुटुम्बिनाम् अग्रभुजस्त्यजेत् तद् राष्ट्रम् आत्मवान् ॥ (४८।२)

kuṭumbinām agrabhujastyajet tad rāṣṭram ātmavān ||

49.1४९.१

श्रोत्रियास्त्वग्रभोक्तारो धर्मनित्याः सनातनाः । (४९।१)

śrotriyāstvagrabhoktāro dharmanityāḥ sanātanāḥ |

49.2४९.२

याजनाध्यापने युक्ता यत्र तद् राष्ट्रम् आवसेत् ॥ (४९।२)

yājanādhyāpane yuktā yatra tad rāṣṭram āvaset ||

50.1५०.१

स्वाहास्वधावषट्कारा यत्र सम्यग् अनुष्ठिताः । (५०।१)

svāhāsvadhāvaṣaṭkārā yatra samyag anuṣṭhitāḥ |

50.2५०.२

अजस्रं चैव वर्तन्ते वसेत् तत्राविचारयन् ॥ (५०।२)

ajasraṃ caiva vartante vaset tatrāvicārayan ||

51.1५१.१

अशुचीन्यत्र पश्येत ब्राह्मणान् वृत्तिकर्शितान् । (५१।१)

aśucīnyatra paśyeta brāhmaṇān vṛttikarśitān |

51.2५१.२

त्यजेत् तद् राष्ट्रम् आसन्नम् उपसृष्टम् इवामिषम् ॥ (५१।२)

tyajet tad rāṣṭram āsannam upasṛṣṭam ivāmiṣam ||

52.1५२.१

प्रीयमाणा नरा यत्र प्रयच्छेयुर् अयाचिताः । (५२।१)

prīyamāṇā narā yatra prayaccheyur ayācitāḥ |

52.2५२.२

स्वस्थचित्तो वसेत् तत्र कृतकृत्य इवात्मवान् ॥ (५२।२)

svasthacitto vaset tatra kṛtakṛtya ivātmavān ||

53.1५३.१

दण्डो यत्राविनीतेषु सत्कारश्च कृतात्मसु । (५३।१)

daṇḍo yatrāvinīteṣu satkāraśca kṛtātmasu |

53.2५३.२

चरेत् तत्र वसेच्चैव पुण्यशीलेषु साधुषु ॥ (५३।२)

caret tatra vaseccaiva puṇyaśīleṣu sādhuṣu ||

54.1५४.१

उपसृष्टेष्वदान्तेषु दुराचारेष्वसाधुषु । (५४।१)

upasṛṣṭeṣvadānteṣu durācāreṣvasādhuṣu |

54.2५४.२

अविनीतेषु लुब्धेषु सुमहद् दण्डधारणम् ॥ (५४।२)

avinīteṣu lubdheṣu sumahad daṇḍadhāraṇam ||

55.1५५.१

यत्र राजा धर्मनित्यो राज्यं वै पर्युपासिता । (५५।१)

yatra rājā dharmanityo rājyaṃ vai paryupāsitā |

55.2५५.२

अपास्य कामान् कामेशो वसेत् तत्राविचारयन् ॥ (५५।२)

apāsya kāmān kāmeśo vaset tatrāvicārayan ||

56.1५६.१

तथाशीला हि राजानः सर्वान् विषयवासिनः । (५६।१)

tathāśīlā hi rājānaḥ sarvān viṣayavāsinaḥ |

56.2५६.२

श्रेयसा योजयन्त्याशु श्रेयसि प्रत्युपस्थिते ॥ (५६।२)

śreyasā yojayantyāśu śreyasi pratyupasthite ||

57.1५७.१

पृच्छतस्ते मया तात श्रेय एतद् उदाहृतम् । (५७।१)

pṛcchataste mayā tāta śreya etad udāhṛtam |

57.2५७.२

न हि शक्यं प्रधानेन श्रेयः संख्यातुम् आत्मनः ॥ (५७।२)

na hi śakyaṃ pradhānena śreyaḥ saṃkhyātum ātmanaḥ ||

58.1५८.१

एवं प्रवर्तमानस्य वृत्तिं प्रणिहितात्मनः । (५८।१)

evaṃ pravartamānasya vṛttiṃ praṇihitātmanaḥ |

58.2५८.२

तपसैवेह बहुलं श्रेयो व्यक्तं भविष्यति ॥ (५८।२)

tapasaiveha bahulaṃ śreyo vyaktaṃ bhaviṣyati ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 12, 276

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit