महाभारतMahābhārata

MBh, 12, 221

1549 of 1995 · 197 verses

Select a line for its word-by-word analysis.

1.1१.१

युधिष्ठिर उवाच । (१।१)

yudhiṣṭhira uvāca

1.2१.२

पूर्वरूपाणि मे राजन् पुरुषस्य भविष्यतः । (१।२)

pūrvarūpāṇi me rājan puruṣasya bhaviṣyataḥ |

1.3१.३

पराभविष्यतश्चैव त्वं मे ब्रूहि पितामह ॥ (१।३)

parābhaviṣyataścaiva tvaṃ me brūhi pitāmaha ||

2.1२.१

भीष्म उवाच । (२।१)

bhīṣma uvāca

2.2२.२

मन एव मनुष्यस्य पूर्वरूपाणि शंसति । (२।२)

mana eva manuṣyasya pūrvarūpāṇi śaṃsati |

2.3२.३

भविष्यतश्च भद्रं ते तथैव नभविष्यतः ॥ (२।३)

bhaviṣyataśca bhadraṃ te tathaiva nabhaviṣyataḥ ||

3.1३.१

अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम् । (३।१)

atrāpyudāharantīmam itihāsaṃ purātanam |

3.2३.२

श्रिया शक्रस्य संवादं तन्निबोध युधिष्ठिर ॥ (३।२)

śriyā śakrasya saṃvādaṃ tannibodha yudhiṣṭhira ||

4.1४.१

महतस्तपसो व्युष्ट्या पश्यंल्लोकौ परावरौ । (४।१)

mahatastapaso vyuṣṭyā paśyaṃllokau parāvarau |

4.2४.२

सामान्यम् ऋषिभिर् गत्वा ब्रह्मलोकनिवासिभिः ॥ (४।२)

sāmānyam ṛṣibhir gatvā brahmalokanivāsibhiḥ ||

5.1५.१

ब्रह्मैवामितदीप्तौजाः शान्तपाप्मा महातपाः । (५।१)

brahmaivāmitadīptaujāḥ śāntapāpmā mahātapāḥ |

5.2५.२

विचचार यथाकामं त्रिषु लोकेषु नारदः ॥ (५।२)

vicacāra yathākāmaṃ triṣu lokeṣu nāradaḥ ||

6.1६.१

कदाचित् प्रातर् उत्थाय पिस्पृक्षुः सलिलं शुचि । (६।१)

kadācit prātar utthāya pispṛkṣuḥ salilaṃ śuci |

6.2६.२

ध्रुवद्वारभवां गङ्गां जगामावततार च ॥ (६।२)

dhruvadvārabhavāṃ gaṅgāṃ jagāmāvatatāra ca ||

7.1७.१

सहस्रनयनश्चापि वज्री शम्बरपाकहा । (७।१)

sahasranayanaścāpi vajrī śambarapākahā |

7.2७.२

तस्या देवर्षिजुष्टायास्तीरम् अभ्याजगाम ह ॥ (७।२)

tasyā devarṣijuṣṭāyāstīram abhyājagāma ha ||

8.1८.१

तावाप्लुत्य यतात्मानौ कृतजप्यौ समासतुः । (८।१)

tāvāplutya yatātmānau kṛtajapyau samāsatuḥ |

8.2८.२

नद्याः पुलिनम् आसाद्य सूक्ष्मकाञ्चनवालुकम् ॥ (८।२)

nadyāḥ pulinam āsādya sūkṣmakāñcanavālukam ||

9.1९.१

पुण्यकर्मभिर् आख्याता देवर्षिकथिताः कथाः । (९।१)

puṇyakarmabhir ākhyātā devarṣikathitāḥ kathāḥ |

9.2९.२

चक्रतुस्तौ कथाशीलौ शुचिसंहृष्टमानसौ । (९।२)

cakratustau kathāśīlau śucisaṃhṛṣṭamānasau |

9.3९.३

पूर्ववृत्तव्यपेतानि कथयन्तौ समाहितौ ॥ (९।३)

pūrvavṛttavyapetāni kathayantau samāhitau ||

10.1१०.१

अथ भास्करम् उद्यन्तं रश्मिजालपुरस्कृतम् । (१०।१)

atha bhāskaram udyantaṃ raśmijālapuraskṛtam |

10.2१०.२

पूर्णमण्डलम् आलोक्य तावुत्थायोपतस्थतुः ॥ (१०।२)

pūrṇamaṇḍalam ālokya tāvutthāyopatasthatuḥ ||

11.1११.१

अभितस्तूदयन्तं तम् अर्कम् अर्कम् इवापरम् । (११।१)

abhitastūdayantaṃ tam arkam arkam ivāparam |

11.2११.२

आकाशे ददृशे ज्योतिर् उद्यतार्चिःसमप्रभम् ॥ (११।२)

ākāśe dadṛśe jyotir udyatārciḥsamaprabham ||

12.1१२.१

तयोः समीपं सम्प्राप्तं प्रत्यदृश्यत भारत । (१२।१)

tayoḥ samīpaṃ samprāptaṃ pratyadṛśyata bhārata |

12.2१२.२

तत् सुपर्णार्कचरितम् आस्थितं वैष्णवं पदम् । (१२।२)

tat suparṇārkacaritam āsthitaṃ vaiṣṇavaṃ padam |

12.3१२.३

भाभिर् अप्रतिमं भाति त्रैलोक्यम् अवभासयत् ॥ (१२।३)

bhābhir apratimaṃ bhāti trailokyam avabhāsayat ||

13.1१३.१

दिव्याभिरूपशोभाभिर् अप्सरोभिः पुरस्कृताम् । (१३।१)

divyābhirūpaśobhābhir apsarobhiḥ puraskṛtām |

13.2१३.२

बृहतीम् अंशुमत्प्रख्यां बृहद्भानोर् इवार्चिषम् ॥ (१३।२)

bṛhatīm aṃśumatprakhyāṃ bṛhadbhānor ivārciṣam ||

14.1१४.१

नक्षत्रकल्पाभरणां ताराभक्तिसमस्रजम् । (१४।१)

nakṣatrakalpābharaṇāṃ tārābhaktisamasrajam |

14.2१४.२

श्रियं ददृशतुः पद्मां साक्षात् पद्मतलस्थिताम् ॥ (१४।२)

śriyaṃ dadṛśatuḥ padmāṃ sākṣāt padmatalasthitām ||

15.1१५.१

सावरुह्य विमानाग्राद् अङ्गनानाम् अनुत्तमा । (१५।१)

sāvaruhya vimānāgrād aṅganānām anuttamā |

15.2१५.२

अभ्यगच्छत् त्रिलोकेशं शक्रं चर्षिं च नारदम् ॥ (१५।२)

abhyagacchat trilokeśaṃ śakraṃ carṣiṃ ca nāradam ||

16.1१६.१

नारदानुगतः साक्षान्मघवांस्ताम् उपागमत् । (१६।१)

nāradānugataḥ sākṣānmaghavāṃstām upāgamat |

16.2१६.२

कृताञ्जलिपुटो देवीं निवेद्यात्मानम् आत्मना ॥ (१६।२)

kṛtāñjalipuṭo devīṃ nivedyātmānam ātmanā ||

17.1१७.१

चक्रे चानुपमां पूजां तस्याश्चापि स सर्ववित् । (१७।१)

cakre cānupamāṃ pūjāṃ tasyāścāpi sa sarvavit |

17.2१७.२

देवराजः श्रियं राजन् वाक्यं चेदम् उवाच ह ॥ (१७।२)

devarājaḥ śriyaṃ rājan vākyaṃ cedam uvāca ha ||

18.1१८.१

का त्वं केन च कार्येण सम्प्राप्ता चारुहासिनि । (१८।१)

kā tvaṃ kena ca kāryeṇa samprāptā cāruhāsini |

18.2१८.२

कुतश्चागम्यते सुभ्रु गन्तव्यं क्व च ते शुभे ॥ (१८।२)

kutaścāgamyate subhru gantavyaṃ kva ca te śubhe ||

19.1१९.१

श्रीर् उवाच । (१९।१)

śrīr uvāca

19.2१९.२

पुण्येषु त्रिषु लोकेषु सर्वे स्थावरजङ्गमाः । (१९।२)

puṇyeṣu triṣu lokeṣu sarve sthāvarajaṅgamāḥ |

19.3१९.३

ममात्मभावम् इच्छन्तो यतन्ते परमात्मना ॥ (१९।३)

mamātmabhāvam icchanto yatante paramātmanā ||

20.1२०.१

साहं वै पङ्कजे जाता सूर्यरश्मिविबोधिते । (२०।१)

sāhaṃ vai paṅkaje jātā sūryaraśmivibodhite |

20.2२०.२

भूत्यर्थं सर्वभूतानां पद्मा श्रीः पद्ममालिनी ॥ (२०।२)

bhūtyarthaṃ sarvabhūtānāṃ padmā śrīḥ padmamālinī ||

21.1२१.१

अहं लक्ष्मीर् अहं भूतिः श्रीश्चाहं बलसूदन । (२१।१)

ahaṃ lakṣmīr ahaṃ bhūtiḥ śrīścāhaṃ balasūdana |

21.2२१.२

अहं श्रद्धा च मेधा च संनतिर् विजितिः स्थितिः ॥ (२१।२)

ahaṃ śraddhā ca medhā ca saṃnatir vijitiḥ sthitiḥ ||

22.1२२.१

अहं धृतिर् अहं सिद्धिर् अहं त्विड् भूतिर् एव च । (२२।१)

ahaṃ dhṛtir ahaṃ siddhir ahaṃ tviḍ bhūtir eva ca |

22.2२२.२

अहं स्वाहा स्वधा चैव संस्तुतिर् नियतिः कृतिः ॥ (२२।२)

ahaṃ svāhā svadhā caiva saṃstutir niyatiḥ kṛtiḥ ||

23.1२३.१

राज्ञां विजयमानानां सेनाग्रेषु ध्वजेषु च । (२३।१)

rājñāṃ vijayamānānāṃ senāgreṣu dhvajeṣu ca |

23.2२३.२

निवासे धर्मशीलानां विषयेषु पुरेषु च ॥ (२३।२)

nivāse dharmaśīlānāṃ viṣayeṣu pureṣu ca ||

24.1२४.१

जितकाशिनि शूरे च संग्रामेष्वनिवर्तिनि । (२४।१)

jitakāśini śūre ca saṃgrāmeṣvanivartini |

24.2२४.२

निवसामि मनुष्येन्द्रे सदैव बलसूदन ॥ (२४।२)

nivasāmi manuṣyendre sadaiva balasūdana ||

25.1२५.१

धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि । (२५।१)

dharmanitye mahābuddhau brahmaṇye satyavādini |

25.2२५.२

प्रश्रिते दानशीले च सदैव निवसाम्यहम् ॥ (२५।२)

praśrite dānaśīle ca sadaiva nivasāmyaham ||

26.1२६.१

असुरेष्ववसं पूर्वं सत्यधर्मनिबन्धना । (२६।१)

asureṣvavasaṃ pūrvaṃ satyadharmanibandhanā |

26.2२६.२

विपरीतांस्तु तान् बुद्ध्वा त्वयि वासम् अरोचयम् ॥ (२६।२)

viparītāṃstu tān buddhvā tvayi vāsam arocayam ||

27.1२७.१

शक्र उवाच । (२७।१)

śakra uvāca

27.2२७.२

कथंवृत्तेषु दैत्येषु त्वम् अवात्सीर् वरानने । (२७।२)

kathaṃvṛtteṣu daityeṣu tvam avātsīr varānane |

27.3२७.३

दृष्ट्वा च किम् इहागास्त्वं हित्वा दैतेयदानवान् ॥ (२७।३)

dṛṣṭvā ca kim ihāgāstvaṃ hitvā daiteyadānavān ||

28.1२८.१

श्रीर् उवाच । (२८।१)

śrīr uvāca

28.2२८.२

स्वधर्मम् अनुतिष्ठत्सु धैर्याद् अचलितेषु च । (२८।२)

svadharmam anutiṣṭhatsu dhairyād acaliteṣu ca |

28.3२८.३

स्वर्गमार्गाभिरामेषु सत्त्वेषु निरता ह्यहम् ॥ (२८।३)

svargamārgābhirāmeṣu sattveṣu niratā hyaham ||

29.1२९.१

दानाध्ययनयज्ञेज्या गुरुदैवतपूजनम् । (२९।१)

dānādhyayanayajñejyā gurudaivatapūjanam |

29.2२९.२

विप्राणाम् अतिथीनां च तेषां नित्यम् अवर्तत ॥ (२९।२)

viprāṇām atithīnāṃ ca teṣāṃ nityam avartata ||

30.1३०.१

सुसंमृष्टगृहाश्चासञ् जितस्त्रीका हुताग्नयः । (३०।१)

susaṃmṛṣṭagṛhāścāsañ jitastrīkā hutāgnayaḥ |

30.2३०.२

गुरुशुश्रूषवो दान्ता ब्रह्मण्याः सत्यवादिनः ॥ (३०।२)

guruśuśrūṣavo dāntā brahmaṇyāḥ satyavādinaḥ ||

31.1३१.१

श्रद्दधाना जितक्रोधा दानशीलानसूयकाः । (३१।१)

śraddadhānā jitakrodhā dānaśīlānasūyakāḥ |

31.2३१.२

भृतपुत्रा भृतामात्या भृतदारा ह्यनीर्षवः ॥ (३१।२)

bhṛtaputrā bhṛtāmātyā bhṛtadārā hyanīrṣavaḥ ||

32.1३२.१

अमर्षणा न चान्योन्यं स्पृहयन्ति कदाचन । (३२।१)

amarṣaṇā na cānyonyaṃ spṛhayanti kadācana |

32.2३२.२

न च जातूपतप्यन्ते धीराः परसमृद्धिभिः ॥ (३२।२)

na ca jātūpatapyante dhīrāḥ parasamṛddhibhiḥ ||

33.1३३.१

दातारः संगृहीतार आर्याः करुणवेदिनः । (३३।१)

dātāraḥ saṃgṛhītāra āryāḥ karuṇavedinaḥ |

33.2३३.२

महाप्रसादा ऋजवो दृढभक्ता जितेन्द्रियाः ॥ (३३।२)

mahāprasādā ṛjavo dṛḍhabhaktā jitendriyāḥ ||

34.1३४.१

संतुष्टभृत्यसचिवाः कृतज्ञाः प्रियवादिनः । (३४।१)

saṃtuṣṭabhṛtyasacivāḥ kṛtajñāḥ priyavādinaḥ |

34.2३४.२

यथार्थमानार्थकरा ह्रीनिषेधा यतव्रताः ॥ (३४।२)

yathārthamānārthakarā hrīniṣedhā yatavratāḥ ||

35.1३५.१

नित्यं पर्वसु सुस्नाताः स्वनुलिप्ताः स्वलंकृताः । (३५।१)

nityaṃ parvasu susnātāḥ svanuliptāḥ svalaṃkṛtāḥ |

35.2३५.२

उपवासतपःशीलाः प्रतीता ब्रह्मवादिनः ॥ (३५।२)

upavāsatapaḥśīlāḥ pratītā brahmavādinaḥ ||

36.1३६.१

नैनान् अभ्युदियात् सूर्यो न चाप्यासन् प्रगेनिशाः । (३६।१)

nainān abhyudiyāt sūryo na cāpyāsan prageniśāḥ |

36.2३६.२

रात्रौ दधि च सक्तूंश्च नित्यम् एव व्यवर्जयन् ॥ (३६।२)

rātrau dadhi ca saktūṃśca nityam eva vyavarjayan ||

37.1३७.१

काल्यं घृतं चान्ववेक्षन् प्रयता ब्रह्मचारिणः । (३७।१)

kālyaṃ ghṛtaṃ cānvavekṣan prayatā brahmacāriṇaḥ |

37.2३७.२

मङ्गलान् अपि चापश्यन् ब्राह्मणांश्चाप्यपूजयन् ॥ (३७।२)

maṅgalān api cāpaśyan brāhmaṇāṃścāpyapūjayan ||

38.1३८.१

सदा हि ददतां धर्मः सदा चाप्रतिगृह्णताम् । (३८।१)

sadā hi dadatāṃ dharmaḥ sadā cāpratigṛhṇatām |

38.2३८.२

अर्धं च रात्र्याः स्वपतां दिवा चास्वपतां तथा ॥ (३८।२)

ardhaṃ ca rātryāḥ svapatāṃ divā cāsvapatāṃ tathā ||

39.1३९.१

कृपणानाथवृद्धानां दुर्बलातुरयोषिताम् । (३९।१)

kṛpaṇānāthavṛddhānāṃ durbalāturayoṣitām |

39.2३९.२

दायं च संविभागं च नित्यम् एवानुमोदताम् ॥ (३९।२)

dāyaṃ ca saṃvibhāgaṃ ca nityam evānumodatām ||

40.1४०.१

विषण्णं त्रस्तम् उद्विग्नं भयार्तं व्याधिपीडितम् । (४०।१)

viṣaṇṇaṃ trastam udvignaṃ bhayārtaṃ vyādhipīḍitam |

40.2४०.२

हृतस्वं व्यसनार्तं च नित्यम् आश्वासयन्ति ते ॥ (४०।२)

hṛtasvaṃ vyasanārtaṃ ca nityam āśvāsayanti te ||

41.1४१.१

धर्मम् एवान्ववर्तन्त न हिंसन्ति परस्परम् । (४१।१)

dharmam evānvavartanta na hiṃsanti parasparam |

41.2४१.२

अनुकूलाश्च कार्येषु गुरुवृद्धोपसेविनः ॥ (४१।२)

anukūlāśca kāryeṣu guruvṛddhopasevinaḥ ||

42.1४२.१

पितृदेवातिथींश्चैव यथावत् ते ऽभ्यपूजयन् । (४२।१)

pitṛdevātithīṃścaiva yathāvat te 'bhyapūjayan |

42.2४२.२

अवशेषाणि चाश्नन्ति नित्यं सत्यतपोरताः ॥ (४२।२)

avaśeṣāṇi cāśnanti nityaṃ satyataporatāḥ ||

43.1४३.१

नैके ऽश्नन्ति सुसम्पन्नं न गच्छन्ति परस्त्रियम् । (४३।१)

naike 'śnanti susampannaṃ na gacchanti parastriyam |

43.2४३.२

सर्वभूतेष्ववर्तन्त यथात्मनि दयां प्रति ॥ (४३।२)

sarvabhūteṣvavartanta yathātmani dayāṃ prati ||

44.1४४.१

नैवाकाशे न पशुषु नायोनौ न च पर्वसु । (४४।१)

naivākāśe na paśuṣu nāyonau na ca parvasu |

44.2४४.२

इन्द्रियस्य विसर्गं ते ऽरोचयन्त कदाचन ॥ (४४।२)

indriyasya visargaṃ te 'rocayanta kadācana ||

45.1४५.१

नित्यं दानं तथा दाक्ष्यम् आर्जवं चैव नित्यदा । (४५।१)

nityaṃ dānaṃ tathā dākṣyam ārjavaṃ caiva nityadā |

45.2४५.२

उत्साहश्चानहंकारः परमं सौहृदं क्षमा ॥ (४५।२)

utsāhaścānahaṃkāraḥ paramaṃ sauhṛdaṃ kṣamā ||

46.1४६.१

सत्यं दानं तपः शौचं कारुण्यं वाग् अनिष्ठुरा । (४६।१)

satyaṃ dānaṃ tapaḥ śaucaṃ kāruṇyaṃ vāg aniṣṭhurā |

46.2४६.२

मित्रेषु चानभिद्रोहः सर्वं तेष्वभवत् प्रभो ॥ (४६।२)

mitreṣu cānabhidrohaḥ sarvaṃ teṣvabhavat prabho ||

47.1४७.१

निद्रा तन्द्रीर् असंप्रीतिर् असूया चानवेक्षिता । (४७।१)

nidrā tandrīr asaṃprītir asūyā cānavekṣitā |

47.2४७.२

अरतिश्च विषादश्च न स्पृहा चाविशन्त तान् ॥ (४७।२)

aratiśca viṣādaśca na spṛhā cāviśanta tān ||

48.1४८.१

साहम् एवंगुणेष्वेव दानवेष्ववसं पुरा । (४८।१)

sāham evaṃguṇeṣveva dānaveṣvavasaṃ purā |

48.2४८.२

प्रजासर्गम् उपादाय नैकं युगविपर्ययम् ॥ (४८।२)

prajāsargam upādāya naikaṃ yugaviparyayam ||

49.1४९.१

ततः कालविपर्यासे तेषां गुणविपर्ययात् । (४९।१)

tataḥ kālaviparyāse teṣāṃ guṇaviparyayāt |

49.2४९.२

अपश्यं विगतं धर्मं कामक्रोधवशात्मनाम् ॥ (४९।२)

apaśyaṃ vigataṃ dharmaṃ kāmakrodhavaśātmanām ||

50.1५०.१

सभासदां ते वृद्धानां सत्याः कथयतां कथाः । (५०।१)

sabhāsadāṃ te vṛddhānāṃ satyāḥ kathayatāṃ kathāḥ |

50.2५०.२

प्राहसन्न् अभ्यसूयंश्च सर्ववृद्धान् गुणावराः ॥ (५०।२)

prāhasann abhyasūyaṃśca sarvavṛddhān guṇāvarāḥ ||

51.1५१.१

यूनः सहसमासीनान् वृद्धान् अभिगतान् सतः । (५१।१)

yūnaḥ sahasamāsīnān vṛddhān abhigatān sataḥ |

51.2५१.२

नाभ्युत्थानाभिवादाभ्यां यथापूर्वम् अपूजयन् ॥ (५१।२)

nābhyutthānābhivādābhyāṃ yathāpūrvam apūjayan ||

52.1५२.१

वर्तयन्त्येव पितरि पुत्राः प्रभवतात्मनः । (५२।१)

vartayantyeva pitari putrāḥ prabhavatātmanaḥ |

52.2५२.२

अमित्रभृत्यतां प्राप्य ख्यापयन्तो ऽनपत्रपाः ॥ (५२।२)

amitrabhṛtyatāṃ prāpya khyāpayanto 'napatrapāḥ ||

53.1५३.१

तथा धर्माद् अपेतेन कर्मणा गर्हितेन ये । (५३।१)

tathā dharmād apetena karmaṇā garhitena ye |

53.2५३.२

महतः प्राप्नुवन्त्यर्थांस्तेष्वेषाम् अभवत् स्पृहा ॥ (५३।२)

mahataḥ prāpnuvantyarthāṃsteṣveṣām abhavat spṛhā ||

54.1५४.१

उच्चैश्चाप्यवदन् रात्रौ नीचैस्तत्राग्निर् अज्वलत् । (५४।१)

uccaiścāpyavadan rātrau nīcaistatrāgnir ajvalat |

54.2५४.२

पुत्राः पितॄन् अभ्यवदन् भार्याश्चाभ्यवदन् पतीन् ॥ (५४।२)

putrāḥ pitṝn abhyavadan bhāryāścābhyavadan patīn ||

55.1५५.१

मातरं पितरं वृद्धम् आचार्यम् अतिथिं गुरुम् । (५५।१)

mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum |

55.2५५.२

गुरुवन्नाभ्यनन्दन्त कुमारान्नान्वपालयन् ॥ (५५।२)

guruvannābhyanandanta kumārānnānvapālayan ||

56.1५६.१

भिक्षां बलिम् अदत्त्वा च स्वयम् अन्नानि भुञ्जते । (५६।१)

bhikṣāṃ balim adattvā ca svayam annāni bhuñjate |

56.2५६.२

अनिष्ट्वा संविभज्याथ पितृदेवातिथीन् गुरून् ॥ (५६।२)

aniṣṭvā saṃvibhajyātha pitṛdevātithīn gurūn ||

57.1५७.१

न शौचम् अनुरुध्यन्त तेषां सूदजनास्तथा । (५७।१)

na śaucam anurudhyanta teṣāṃ sūdajanāstathā |

57.2५७.२

मनसा कर्मणा वाचा भक्तम् आसीद् अनावृतम् ॥ (५७।२)

manasā karmaṇā vācā bhaktam āsīd anāvṛtam ||

58.1५८.१

विप्रकीर्णानि धान्यानि काकमूषकभोजनम् । (५८।१)

viprakīrṇāni dhānyāni kākamūṣakabhojanam |

58.2५८.२

अपावृतं पयो ऽतिष्ठद् उच्छिष्टाश्चास्पृशन् घृतम् ॥ (५८।२)

apāvṛtaṃ payo 'tiṣṭhad ucchiṣṭāścāspṛśan ghṛtam ||

59.1५९.१

कुद्दालपाटीपिटकं प्रकीर्णं कांस्यभाजनम् । (५९।१)

kuddālapāṭīpiṭakaṃ prakīrṇaṃ kāṃsyabhājanam |

59.2५९.२

द्रव्योपकरणं सर्वं नान्ववैक्षत् कुटुम्बिनी ॥ (५९।२)

dravyopakaraṇaṃ sarvaṃ nānvavaikṣat kuṭumbinī ||

60.1६०.१

प्राकारागारविध्वंसान्न स्म ते प्रतिकुर्वते । (६०।१)

prākārāgāravidhvaṃsānna sma te pratikurvate |

60.2६०.२

नाद्रियन्ते पशून् बद्ध्वा यवसेनोदकेन च ॥ (६०।२)

nādriyante paśūn baddhvā yavasenodakena ca ||

61.1६१.१

बालानां प्रेक्षमाणानां स्वयं भक्षान् अभक्षयन् । (६१।१)

bālānāṃ prekṣamāṇānāṃ svayaṃ bhakṣān abhakṣayan |

61.2६१.२

तथा भृत्यजनं सर्वं पर्यश्नन्ति च दानवाः ॥ (६१।२)

tathā bhṛtyajanaṃ sarvaṃ paryaśnanti ca dānavāḥ ||

62.1६२.१

पायसं कृसरं मांसम् अपूपान् अथ शष्कुलीः । (६२।१)

pāyasaṃ kṛsaraṃ māṃsam apūpān atha śaṣkulīḥ |

62.2६२.२

अपाचयन्न् आत्मनो ऽर्थे वृथामांसान्यभक्षयन् ॥ (६२।२)

apācayann ātmano 'rthe vṛthāmāṃsānyabhakṣayan ||

63.1६३.१

उत्सूर्यशायिनश्चासन् सर्वे चासन् प्रगेनिशाः । (६३।१)

utsūryaśāyinaścāsan sarve cāsan prageniśāḥ |

63.2६३.२

अवर्तन् कलहाश्चात्र दिवारात्रं गृहे गृहे ॥ (६३।२)

avartan kalahāścātra divārātraṃ gṛhe gṛhe ||

64.1६४.१

अनार्याश्चार्यम् आसीनं पर्युपासन्न तत्र ह । (६४।१)

anāryāścāryam āsīnaṃ paryupāsanna tatra ha |

64.2६४.२

आश्रमस्थान् विकर्मस्थाः प्रद्विषन्ति परस्परम् । (६४।२)

āśramasthān vikarmasthāḥ pradviṣanti parasparam |

64.3६४.३

संकराश्चाप्यवर्तन्त न च शौचम् अवर्तत ॥ (६४।३)

saṃkarāścāpyavartanta na ca śaucam avartata ||

65.1६५.१

ये च वेदविदो विप्रा विस्पष्टम् अनृचश्च ये । (६५।१)

ye ca vedavido viprā vispaṣṭam anṛcaśca ye |

65.2६५.२

निरन्तरविशेषास्ते बहुमानावमानयोः ॥ (६५।२)

nirantaraviśeṣāste bahumānāvamānayoḥ ||

66.1६६.१

हावम् आभरणं वेषं गतिं स्थितिम् अवेक्षितुम् । (६६।१)

hāvam ābharaṇaṃ veṣaṃ gatiṃ sthitim avekṣitum |

66.2६६.२

असेवन्त भुजिष्या वै दुर्जनाचरितं विधिम् ॥ (६६।२)

asevanta bhujiṣyā vai durjanācaritaṃ vidhim ||

67.1६७.१

स्त्रियः पुरुषवेषेण पुंसः स्त्रीवेषधारिणः । (६७।१)

striyaḥ puruṣaveṣeṇa puṃsaḥ strīveṣadhāriṇaḥ |

67.2६७.२

क्रीडारतिविहारेषु परां मुदम् अवाप्नुवन् ॥ (६७।२)

krīḍārativihāreṣu parāṃ mudam avāpnuvan ||

68.1६८.१

प्रभवद्भिः पुरा दायान् अर्हेभ्यः प्रतिपादितान् । (६८।१)

prabhavadbhiḥ purā dāyān arhebhyaḥ pratipāditān |

68.2६८.२

नाभ्यवर्तन्त नास्तिक्याद् वर्तन्तः संभवेष्वपि ॥ (६८।२)

nābhyavartanta nāstikyād vartantaḥ saṃbhaveṣvapi ||

69.1६९.१

मित्रेणाभ्यर्थितं मित्रम् अर्थे संशयिते क्वचित् । (६९।१)

mitreṇābhyarthitaṃ mitram arthe saṃśayite kvacit |

69.2६९.२

वालकोट्यग्रमात्रेण स्वार्थेनाघ्नत तद् वसु ॥ (६९।२)

vālakoṭyagramātreṇa svārthenāghnata tad vasu ||

70.1७०.१

परस्वादानरुचयो विपण्यव्यवहारिणः । (७०।१)

parasvādānarucayo vipaṇyavyavahāriṇaḥ |

70.2७०.२

अदृश्यन्तार्यवर्णेषु शूद्राश्चापि तपोधनाः ॥ (७०।२)

adṛśyantāryavarṇeṣu śūdrāścāpi tapodhanāḥ ||

71.1७१.१

अधीयन्ते ऽव्रताः केचिद् वृथाव्रतम् अथापरे । (७१।१)

adhīyante 'vratāḥ kecid vṛthāvratam athāpare |

71.2७१.२

अशुश्रूषुर् गुरोः शिष्यः कश्चिच्छिष्यसखो गुरुः ॥ (७१।२)

aśuśrūṣur guroḥ śiṣyaḥ kaścicchiṣyasakho guruḥ ||

72.1७२.१

पिता चैव जनित्री च श्रान्तौ वृत्तोत्सवाविव । (७२।१)

pitā caiva janitrī ca śrāntau vṛttotsavāviva |

72.2७२.२

अप्रभुत्वे स्थितौ वृद्धावन्नं प्रार्थयतः सुतान् ॥ (७२।२)

aprabhutve sthitau vṛddhāvannaṃ prārthayataḥ sutān ||

73.1७३.१

तत्र वेदविदः प्राज्ञा गाम्भीर्ये सागरोपमाः । (७३।१)

tatra vedavidaḥ prājñā gāmbhīrye sāgaropamāḥ |

73.2७३.२

कृष्यादिष्वभवन् सक्ता मूर्खाः श्राद्धान्यभुञ्जत ॥ (७३।२)

kṛṣyādiṣvabhavan saktā mūrkhāḥ śrāddhānyabhuñjata ||

74.1७४.१

प्रातः प्रातश्च सुप्रश्नं कल्पनं प्रेषणक्रियाः । (७४।१)

prātaḥ prātaśca supraśnaṃ kalpanaṃ preṣaṇakriyāḥ |

74.2७४.२

शिष्यानुप्रहितास्तस्मिन्न् अकुर्वन् गुरवश्च ह ॥ (७४।२)

śiṣyānuprahitāstasminn akurvan guravaśca ha ||

75.1७५.१

श्वश्रूश्वशुरयोर् अग्रे वधूः प्रेष्यान् अशासत । (७५।१)

śvaśrūśvaśurayor agre vadhūḥ preṣyān aśāsata |

75.2७५.२

अन्वशासच्च भर्तारं समाहूयाभिजल्पती ॥ (७५।२)

anvaśāsacca bhartāraṃ samāhūyābhijalpatī ||

76.1७६.१

प्रयत्नेनापि चारक्षच्चित्तं पुत्रस्य वै पिता । (७६।१)

prayatnenāpi cārakṣaccittaṃ putrasya vai pitā |

76.2७६.२

व्यभजंश्चापि संरम्भाद् दुःखवासं तथावसन् ॥ (७६।२)

vyabhajaṃścāpi saṃrambhād duḥkhavāsaṃ tathāvasan ||

77.1७७.१

अग्निदाहेन चोरैर् वा राजभिर् वा हृतं धनम् । (७७।१)

agnidāhena corair vā rājabhir vā hṛtaṃ dhanam |

77.2७७.२

दृष्ट्वा द्वेषात् प्राहसन्त सुहृत्संभाविता ह्यपि ॥ (७७।२)

dṛṣṭvā dveṣāt prāhasanta suhṛtsaṃbhāvitā hyapi ||

78.1७८.१

कृतघ्ना नास्तिकाः पापा गुरुदाराभिमर्शिनः । (७८।१)

kṛtaghnā nāstikāḥ pāpā gurudārābhimarśinaḥ |

78.2७८.२

अभक्ष्यभक्षणरता निर्मर्यादा हतत्विषः ॥ (७८।२)

abhakṣyabhakṣaṇaratā nirmaryādā hatatviṣaḥ ||

79.1७९.१

तेष्वेवमादीन् आचारान् आचरत्सु विपर्यये । (७९।१)

teṣvevamādīn ācārān ācaratsu viparyaye |

79.2७९.२

नाहं देवेन्द्र वत्स्यामि दानवेष्विति मे मतिः ॥ (७९।२)

nāhaṃ devendra vatsyāmi dānaveṣviti me matiḥ ||

80.1८०.१

तां मां स्वयम् अनुप्राप्ताम् अभिनन्द शचीपते । (८०।१)

tāṃ māṃ svayam anuprāptām abhinanda śacīpate |

80.2८०.२

त्वयार्चितां मां देवेश पुरोधास्यन्ति देवताः ॥ (८०।२)

tvayārcitāṃ māṃ deveśa purodhāsyanti devatāḥ ||

81.1८१.१

यत्राहं तत्र मत्कान्ता मद्विशिष्टा मदर्पणाः । (८१।१)

yatrāhaṃ tatra matkāntā madviśiṣṭā madarpaṇāḥ |

81.2८१.२

सप्त देव्यो मयाष्टम्यो वासं चेष्यन्ति मे ऽष्टधा ॥ (८१।२)

sapta devyo mayāṣṭamyo vāsaṃ ceṣyanti me 'ṣṭadhā ||

82.1८२.१

आशा श्रद्धा धृतिः कान्तिर् विजितिः सन्नतिः क्षमा । (८२।१)

āśā śraddhā dhṛtiḥ kāntir vijitiḥ sannatiḥ kṣamā |

82.2८२.२

अष्टमी वृत्तिर् एतासां पुरोगा पाकशासन ॥ (८२।२)

aṣṭamī vṛttir etāsāṃ purogā pākaśāsana ||

83.1८३.१

ताश्चाहं चासुरांस्त्यक्त्वा युष्मद्विषयम् आगता । (८३।१)

tāścāhaṃ cāsurāṃstyaktvā yuṣmadviṣayam āgatā |

83.2८३.२

त्रिदशेषु निवत्स्यामो धर्मनिष्ठान्तरात्मसु ॥ (८३।२)

tridaśeṣu nivatsyāmo dharmaniṣṭhāntarātmasu ||

84.1८४.१

भीष्म उवाच । (८४।१)

bhīṣma uvāca

84.2८४.२

इत्युक्तवचनां देवीम् अत्यर्थं तौ ननन्दतुः । (८४।२)

ityuktavacanāṃ devīm atyarthaṃ tau nanandatuḥ |

84.3८४.३

नारदश्च त्रिलोकर्षिर् वृत्रहन्ता च वासवः ॥ (८४।३)

nāradaśca trilokarṣir vṛtrahantā ca vāsavaḥ ||

85.1८५.१

ततो ऽनलसखो वायुः प्रववौ देववेश्मसु । (८५।१)

tato 'nalasakho vāyuḥ pravavau devaveśmasu |

85.2८५.२

इष्टगन्धः सुखस्पर्शः सर्वेन्द्रियसुखावहः ॥ (८५।२)

iṣṭagandhaḥ sukhasparśaḥ sarvendriyasukhāvahaḥ ||

86.1८६.१

शुचौ चाभ्यर्चिते देशे त्रिदशाः प्रायशः स्थिताः । (८६।१)

śucau cābhyarcite deśe tridaśāḥ prāyaśaḥ sthitāḥ |

86.2८६.२

लक्ष्म्या सहितम् आसीनं मघवन्तं दिदृक्षवः ॥ (८६।२)

lakṣmyā sahitam āsīnaṃ maghavantaṃ didṛkṣavaḥ ||

87.1८७.१

ततो दिवं प्राप्य सहस्रलोचनः श्रियोपपन्नः सुहृदा सुरर्षिणा । (८७।१)

tato divaṃ prāpya sahasralocanaḥ śriyopapannaḥ suhṛdā surarṣiṇā |

87.2८७.२

रथेन हर्यश्वयुजा सुरर्षभः सदः सुराणाम् अभिसत्कृतो ययौ ॥ (८७।२)

rathena haryaśvayujā surarṣabhaḥ sadaḥ surāṇām abhisatkṛto yayau ||

88.1८८.१

अथेङ्गितं वज्रधरस्य नारदः श्रियाश्च देव्या मनसा विचारयन् । (८८।१)

atheṅgitaṃ vajradharasya nāradaḥ śriyāśca devyā manasā vicārayan |

88.2८८.२

श्रियै शशंसामरदृष्टपौरुषः शिवेन तत्रागमनं महर्द्धिमत् ॥ (८८।२)

śriyai śaśaṃsāmaradṛṣṭapauruṣaḥ śivena tatrāgamanaṃ maharddhimat ||

89.1८९.१

ततो ऽमृतं द्यौः प्रववर्ष भास्वती पितामहस्यायतने स्वयंभुवः । (८९।१)

tato 'mṛtaṃ dyauḥ pravavarṣa bhāsvatī pitāmahasyāyatane svayaṃbhuvaḥ |

89.2८९.२

अनाहता दुन्दुभयश्च नेदिरे तथा प्रसन्नाश्च दिशश्चकाशिरे ॥ (८९।२)

anāhatā dundubhayaśca nedire tathā prasannāśca diśaścakāśire ||

90.1९०.१

यथर्तु सस्येषु ववर्ष वासवो न धर्ममार्गाद् विचचाल कश्चन । (९०।१)

yathartu sasyeṣu vavarṣa vāsavo na dharmamārgād vicacāla kaścana |

90.2९०.२

अनेकरत्नाकरभूषणा च भूः सुघोषघोषा भुवनौकसां जये ॥ (९०।२)

anekaratnākarabhūṣaṇā ca bhūḥ sughoṣaghoṣā bhuvanaukasāṃ jaye ||

91.1९१.१

क्रियाभिरामा मनुजा यशस्विनो बभुः शुभे पुण्यकृतां पथि स्थिताः । (९१।१)

kriyābhirāmā manujā yaśasvino babhuḥ śubhe puṇyakṛtāṃ pathi sthitāḥ |

91.2९१.२

नरामराः किंनरयक्षराक्षसाः समृद्धिमन्तः सुखिनो यशस्विनः ॥ (९१।२)

narāmarāḥ kiṃnarayakṣarākṣasāḥ samṛddhimantaḥ sukhino yaśasvinaḥ ||

92.1९२.१

न जात्वकाले कुसुमं कुतः फलं पपात वृक्षात् पवनेरिताद् अपि । (९२।१)

na jātvakāle kusumaṃ kutaḥ phalaṃ papāta vṛkṣāt pavaneritād api |

92.2९२.२

रसप्रदाः कामदुघाश्च धेनवो न दारुणा वाग् विचचार कस्यचित् ॥ (९२।२)

rasapradāḥ kāmadughāśca dhenavo na dāruṇā vāg vicacāra kasyacit ||

93.1९३.१

इमां सपर्यां सह सर्वकामदैः श्रियाश्च शक्रप्रमुखैश्च दैवतैः । (९३।१)

imāṃ saparyāṃ saha sarvakāmadaiḥ śriyāśca śakrapramukhaiśca daivataiḥ |

93.2९३.२

पठन्ति ये विप्रसदःसमागमे समृद्धकामाः श्रियम् आप्नुवन्ति ते ॥ (९३।२)

paṭhanti ye viprasadaḥsamāgame samṛddhakāmāḥ śriyam āpnuvanti te ||

94.1९४.१

त्वया कुरूणां वर यत् प्रचोदितं भवाभवस्येह परं निदर्शनम् । (९४।१)

tvayā kurūṇāṃ vara yat pracoditaṃ bhavābhavasyeha paraṃ nidarśanam |

94.2९४.२

तद् अद्य सर्वं परिकीर्तितं मया परीक्ष्य तत्त्वं परिगन्तुम् अर्हसि ॥ (९४।२)

tad adya sarvaṃ parikīrtitaṃ mayā parīkṣya tattvaṃ parigantum arhasi ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 12, 221

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit