महाभारतMahābhārata

MBh, 8, 28

1178 of 1995 · 143 verses

Select a line for its word-by-word analysis.

1.1१.१

संजय उवाच । (१।१)

saṃjaya uvāca

1.2१.२

मारिषाधिरथेः श्रुत्वा वचो युद्धाभिनन्दिनः । (१।२)

māriṣādhiratheḥ śrutvā vaco yuddhābhinandinaḥ |

1.3१.३

शल्यो ऽब्रवीत् पुनः कर्णं निदर्शनम् उदाहरन् ॥ (१।३)

śalyo 'bravīt punaḥ karṇaṃ nidarśanam udāharan ||

2.1२.१

यथैव मत्तो मद्येन त्वं तथा न च वा तथा । (२।१)

yathaiva matto madyena tvaṃ tathā na ca vā tathā |

2.2२.२

तथाहं त्वां प्रमाद्यन्तं चिकित्सामि सुहृत्तया ॥ (२।२)

tathāhaṃ tvāṃ pramādyantaṃ cikitsāmi suhṛttayā ||

3.1३.१

इमां काकोपमां कर्ण प्रोच्यमानां निबोध मे । (३।१)

imāṃ kākopamāṃ karṇa procyamānāṃ nibodha me |

3.2३.२

श्रुत्वा यथेष्टं कुर्यास् त्वं विहीन कुलपांसन ॥ (३।२)

śrutvā yatheṣṭaṃ kuryās tvaṃ vihīna kulapāṃsana ||

4.1४.१

नाहम् आत्मनि किंचिद् वै किल्बिषं कर्ण संस्मरे । (४।१)

nāham ātmani kiṃcid vai kilbiṣaṃ karṇa saṃsmare |

4.2४.२

येन त्वं मां महाबाहो हन्तुम् इच्छस्य् अनागसम् ॥ (४।२)

yena tvaṃ māṃ mahābāho hantum icchasy anāgasam ||

5.1५.१

अवश्यं तु मया वाच्यं बुध्यतां यदि ते हितम् । (५।१)

avaśyaṃ tu mayā vācyaṃ budhyatāṃ yadi te hitam |

5.2५.२

विशेषतो रथस्थेन राज्ञश् चैव हितैषिणा ॥ (५।२)

viśeṣato rathasthena rājñaś caiva hitaiṣiṇā ||

6.1६.१

समं च विषमं चैव रथिनश् च बलाबलम् । (६।१)

samaṃ ca viṣamaṃ caiva rathinaś ca balābalam |

6.2६.२

श्रमः खेदश् च सततं हयानां रथिना सह ॥ (६।२)

śramaḥ khedaś ca satataṃ hayānāṃ rathinā saha ||

7.1७.१

आयुधस्य परिज्ञानं रुतं च मृगपक्षिणाम् । (७।१)

āyudhasya parijñānaṃ rutaṃ ca mṛgapakṣiṇām |

7.2७.२

भारश् चाप्य् अतिभारश् च शल्यानां च प्रतिक्रिया ॥ (७।२)

bhāraś cāpy atibhāraś ca śalyānāṃ ca pratikriyā ||

8.1८.१

अस्त्रयोगश् च युद्धं च निमित्तानि तथैव च । (८।१)

astrayogaś ca yuddhaṃ ca nimittāni tathaiva ca |

8.2८.२

सर्वम् एतन् मया ज्ञेयं रथस्यास्य कुटुम्बिना । (८।२)

sarvam etan mayā jñeyaṃ rathasyāsya kuṭumbinā |

8.3८.३

अतस् त्वां कथये कर्ण निदर्शनम् इदं पुनः ॥ (८।३)

atas tvāṃ kathaye karṇa nidarśanam idaṃ punaḥ ||

9.1९.१

वैश्यः किल समुद्रान्ते प्रभूतधनधान्यवान् । (९।१)

vaiśyaḥ kila samudrānte prabhūtadhanadhānyavān |

9.2९.२

यज्वा दानपतिः क्षान्तः स्वकर्मस्थो ऽभवच्छुचिः ॥ (९।२)

yajvā dānapatiḥ kṣāntaḥ svakarmastho 'bhavacchuciḥ ||

10.1१०.१

बहुपुत्रः प्रियापत्यः सर्वभूतानुकम्पकः । (१०।१)

bahuputraḥ priyāpatyaḥ sarvabhūtānukampakaḥ |

10.2१०.२

राज्ञो धर्मप्रधानस्य राष्ट्रे वसति निर्भयः ॥ (१०।२)

rājño dharmapradhānasya rāṣṭre vasati nirbhayaḥ ||

11.1११.१

पुत्राणां तस्य बालानां कुमाराणां यशस्विनाम् । (११।१)

putrāṇāṃ tasya bālānāṃ kumārāṇāṃ yaśasvinām |

11.2११.२

काको बहूनाम् अभवद् उच्छिष्टकृतभोजनः ॥ (११।२)

kāko bahūnām abhavad ucchiṣṭakṛtabhojanaḥ ||

12.1१२.१

तस्मै सदा प्रयच्छन्ति वैश्यपुत्राः कुमारकाः । (१२।१)

tasmai sadā prayacchanti vaiśyaputrāḥ kumārakāḥ |

12.2१२.२

मांसोदनं दधि क्षीरं पायसं मधुसर्पिषी ॥ (१२।२)

māṃsodanaṃ dadhi kṣīraṃ pāyasaṃ madhusarpiṣī ||

13.1१३.१

स चोच्छिष्टभृतः काको वैश्यपुत्रैः कुमारकैः । (१३।१)

sa cocchiṣṭabhṛtaḥ kāko vaiśyaputraiḥ kumārakaiḥ |

13.2१३.२

सदृशान् पक्षिणो दृप्तः श्रेयसश् चावमन्यते ॥ (१३।२)

sadṛśān pakṣiṇo dṛptaḥ śreyasaś cāvamanyate ||

14.1१४.१

अथ हंसाः समुद्रान्ते कदाचिद् अभिपातिनः । (१४।१)

atha haṃsāḥ samudrānte kadācid abhipātinaḥ |

14.2१४.२

गरुडस्य गतौ तुल्याश् चक्राङ्गा हृष्टचेतसः ॥ (१४।२)

garuḍasya gatau tulyāś cakrāṅgā hṛṣṭacetasaḥ ||

15.1१५.१

कुमारकास् ततो हंसान् दृष्ट्वा काकम् अथाब्रुवन् । (१५।१)

kumārakās tato haṃsān dṛṣṭvā kākam athābruvan |

15.2१५.२

भवान् एव विशिष्टो हि पतत्रिभ्यो विहंगम ॥ (१५।२)

bhavān eva viśiṣṭo hi patatribhyo vihaṃgama ||

16.1१६.१

प्रतार्यमाणस् तु स तैर् अल्पबुद्धिभिर् अण्डजः । (१६।१)

pratāryamāṇas tu sa tair alpabuddhibhir aṇḍajaḥ |

16.2१६.२

तद् वचः सत्यम् इत्य् एव मौर्ख्याद् दर्पाच् च मन्यते ॥ (१६।२)

tad vacaḥ satyam ity eva maurkhyād darpāc ca manyate ||

17.1१७.१

तान् सो ऽभिपत्य जिज्ञासुः क एषां श्रेष्ठभाग् इति । (१७।१)

tān so 'bhipatya jijñāsuḥ ka eṣāṃ śreṣṭhabhāg iti |

17.2१७.२

उच्छिष्टदर्पितः काको बहूनां दूरपातिनाम् ॥ (१७।२)

ucchiṣṭadarpitaḥ kāko bahūnāṃ dūrapātinām ||

18.1१८.१

तेषां यं प्रवरं मेने हंसानां दूरपातिनाम् । (१८।१)

teṣāṃ yaṃ pravaraṃ mene haṃsānāṃ dūrapātinām |

18.2१८.२

तम् आह्वयत दुर्बुद्धिः पताम इति पक्षिणम् ॥ (१८।२)

tam āhvayata durbuddhiḥ patāma iti pakṣiṇam ||

19.1१९.१

तच्छ्रुत्वा प्राहसन् हंसा ये तत्रासन् समागताः । (१९।१)

tacchrutvā prāhasan haṃsā ye tatrāsan samāgatāḥ |

19.2१९.२

भाषतो बहु काकस्य बलिनः पततां वराः । (१९।२)

bhāṣato bahu kākasya balinaḥ patatāṃ varāḥ |

19.3१९.३

इदम् ऊचुश् च चक्राङ्गा वचः काकं विहंगमाः ॥ (१९।३)

idam ūcuś ca cakrāṅgā vacaḥ kākaṃ vihaṃgamāḥ ||

20.1२०.१

वयं हंसाश् चरामेमां पृथिवीं मानसौकसः । (२०।१)

vayaṃ haṃsāś carāmemāṃ pṛthivīṃ mānasaukasaḥ |

20.2२०.२

पक्षिणां च वयं नित्यं दूरपातेन पूजिताः ॥ (२०।२)

pakṣiṇāṃ ca vayaṃ nityaṃ dūrapātena pūjitāḥ ||

21.1२१.१

कथं नु हंसं बलिनं वज्राङ्गं दूरपातिनम् । (२१।१)

kathaṃ nu haṃsaṃ balinaṃ vajrāṅgaṃ dūrapātinam |

21.2२१.२

काको भूत्वा निपतने समाह्वयसि दुर्मते । (२१।२)

kāko bhūtvā nipatane samāhvayasi durmate |

21.3२१.३

कथं त्वं पतनं काक सहास्माभिर् ब्रवीषि तत् ॥ (२१।३)

kathaṃ tvaṃ patanaṃ kāka sahāsmābhir bravīṣi tat ||

22.1२२.१

अथ हंसवचो मूढः कुत्सयित्वा पुनः पुनः । (२२।१)

atha haṃsavaco mūḍhaḥ kutsayitvā punaḥ punaḥ |

22.2२२.२

प्रजगादोत्तरं काकः कत्थनो जातिलाघवात् ॥ (२२।२)

prajagādottaraṃ kākaḥ katthano jātilāghavāt ||

23.1२३.१

शतम् एकं च पातानां पतितास्मि न संशयः । (२३।१)

śatam ekaṃ ca pātānāṃ patitāsmi na saṃśayaḥ |

23.2२३.२

शतयोजनम् एकैकं विचित्रं विविधं तथा ॥ (२३।२)

śatayojanam ekaikaṃ vicitraṃ vividhaṃ tathā ||

24.1२४.१

उड्डीनम् अवडीनं च प्रडीनं डीनम् एव च । (२४।१)

uḍḍīnam avaḍīnaṃ ca praḍīnaṃ ḍīnam eva ca |

24.2२४.२

निडीनम् अथ संडीनं तिर्यक् चातिगतानि च ॥ (२४।२)

niḍīnam atha saṃḍīnaṃ tiryak cātigatāni ca ||

25.1२५.१

विडीनं परिडीनं च पराडीनं सुडीनकम् । (२५।१)

viḍīnaṃ pariḍīnaṃ ca parāḍīnaṃ suḍīnakam |

25.2२५.२

अतिडीनं महाडीनं निडीनं परिडीनकम् ॥ (२५।२)

atiḍīnaṃ mahāḍīnaṃ niḍīnaṃ pariḍīnakam ||

26.1२६.१

गतागतप्रतिगता बह्वीश् च निकुडीनिकाः । (२६।१)

gatāgatapratigatā bahvīś ca nikuḍīnikāḥ |

26.2२६.२

कर्तास्मि मिषतां वो ऽद्य ततो द्रक्ष्यथ मे बलम् ॥ (२६।२)

kartāsmi miṣatāṃ vo 'dya tato drakṣyatha me balam ||

27.1२७.१

एवम् उक्ते तु काकेन प्रहस्यैको विहंगमः । (२७।१)

evam ukte tu kākena prahasyaiko vihaṃgamaḥ |

27.2२७.२

उवाच हंसस् तं काकं वचनं तन् निबोध मे ॥ (२७।२)

uvāca haṃsas taṃ kākaṃ vacanaṃ tan nibodha me ||

28.1२८.१

शतम् एकं च पातानां त्वं काक पतिता ध्रुवम् । (२८।१)

śatam ekaṃ ca pātānāṃ tvaṃ kāka patitā dhruvam |

28.2२८.२

एकम् एव तु ये पातं विदुः सर्वे विहंगमाः ॥ (२८।२)

ekam eva tu ye pātaṃ viduḥ sarve vihaṃgamāḥ ||

29.1२९.१

तम् अहं पतिता काक नान्यं जानामि कंचन । (२९।१)

tam ahaṃ patitā kāka nānyaṃ jānāmi kaṃcana |

29.2२९.२

पत त्वम् अपि रक्ताक्ष येन वा तेन मन्यसे ॥ (२९।२)

pata tvam api raktākṣa yena vā tena manyase ||

30.1३०.१

अथ काकाः प्रजहसुर् ये तत्रासन् समागताः । (३०।१)

atha kākāḥ prajahasur ye tatrāsan samāgatāḥ |

30.2३०.२

कथम् एकेन पातेन हंसः पातशतं जयेत् ॥ (३०।२)

katham ekena pātena haṃsaḥ pātaśataṃ jayet ||

31.1३१.१

एकेनैव शतस्यैकं पातेनाभिभविष्यति । (३१।१)

ekenaiva śatasyaikaṃ pātenābhibhaviṣyati |

31.2३१.२

हंसस्य पतितं काको बलवान् आशुविक्रमः ॥ (३१।२)

haṃsasya patitaṃ kāko balavān āśuvikramaḥ ||

32.1३२.१

प्रपेततुः स्पर्धयाथ ततस् तौ हंसवायसौ । (३२।१)

prapetatuḥ spardhayātha tatas tau haṃsavāyasau |

32.2३२.२

एकपाती च चक्राङ्गः काकः पातशतेन च ॥ (३२।२)

ekapātī ca cakrāṅgaḥ kākaḥ pātaśatena ca ||

33.1३३.१

पेतिवान् अथ चक्राङ्गः पेतिवान् अथ वायसः । (३३।१)

petivān atha cakrāṅgaḥ petivān atha vāyasaḥ |

33.2३३.२

विसिस्मापयिषुः पातैर् आचक्षाणो ऽऽत्मनः क्रियाम् ॥ (३३।२)

visismāpayiṣuḥ pātair ācakṣāṇo ''tmanaḥ kriyām ||

34.1३४.१

अथ काकस्य चित्राणि पतितानीतराणि च । (३४।१)

atha kākasya citrāṇi patitānītarāṇi ca |

34.2३४.२

दृष्ट्वा प्रमुदिताः काका विनेदुर् अथ तैः स्वरैः ॥ (३४।२)

dṛṣṭvā pramuditāḥ kākā vinedur atha taiḥ svaraiḥ ||

35.1३५.१

हंसांश् चावहसन्ति स्म प्रावदन्न् अप्रियाणि च । (३५।१)

haṃsāṃś cāvahasanti sma prāvadann apriyāṇi ca |

35.2३५.२

उत्पत्योत्पत्य च प्राहुर् मुहूर्तम् इति चेति च ॥ (३५।२)

utpatyotpatya ca prāhur muhūrtam iti ceti ca ||

36.1३६.१

वृक्षाग्रेभ्यः स्थलेभ्यश् च निपतन्त्य् उत्पतन्ति च । (३६।१)

vṛkṣāgrebhyaḥ sthalebhyaś ca nipatanty utpatanti ca |

36.2३६.२

कुर्वाणा विविधान् रावान् आशंसन्तस् तदा जयम् ॥ (३६।२)

kurvāṇā vividhān rāvān āśaṃsantas tadā jayam ||

37.1३७.१

हंसस् तु मृदुकेनैव विक्रान्तुम् उपचक्रमे । (३७।१)

haṃsas tu mṛdukenaiva vikrāntum upacakrame |

37.2३७.२

प्रत्यहीयत काकाच् च मुहूर्तम् इव मारिष ॥ (३७।२)

pratyahīyata kākāc ca muhūrtam iva māriṣa ||

38.1३८.१

अवमन्य रयं हंसान् इदं वचनम् अब्रवीत् । (३८।१)

avamanya rayaṃ haṃsān idaṃ vacanam abravīt |

38.2३८.२

यो ऽसाव् उत्पतितो हंसः सो ऽसाव् एव प्रहीयते ॥ (३८।२)

yo 'sāv utpatito haṃsaḥ so 'sāv eva prahīyate ||

39.1३९.१

अथ हंसः स तच्छ्रुत्वा प्रापतत् पश्चिमां दिशम् । (३९।१)

atha haṃsaḥ sa tacchrutvā prāpatat paścimāṃ diśam |

39.2३९.२

उपर्य् उपरि वेगेन सागरं वरुणालयम् ॥ (३९।२)

upary upari vegena sāgaraṃ varuṇālayam ||

40.1४०.१

ततो भीः प्राविशत् काकं तदा तत्र विचेतसम् । (४०।१)

tato bhīḥ prāviśat kākaṃ tadā tatra vicetasam |

40.2४०.२

द्वीपद्रुमान् अपश्यन्तं निपतन्तं श्रमान्वितम् । (४०।२)

dvīpadrumān apaśyantaṃ nipatantaṃ śramānvitam |

40.3४०.३

निपतेयं क्व नु श्रान्त इति तस्मिञ् जलार्णवे ॥ (४०।३)

nipateyaṃ kva nu śrānta iti tasmiñ jalārṇave ||

41.1४१.१

अविषह्यः समुद्रो हि बहुसत्त्वगणालयः । (४१।१)

aviṣahyaḥ samudro hi bahusattvagaṇālayaḥ |

41.2४१.२

महाभूतशतोद्भासी नभसो ऽपि विशिष्यते ॥ (४१।२)

mahābhūtaśatodbhāsī nabhaso 'pi viśiṣyate ||

42.1४२.१

गाम्भीर्याद्धि समुद्रस्य न विशेषः कुलाधम । (४२।१)

gāmbhīryāddhi samudrasya na viśeṣaḥ kulādhama |

42.2४२.२

दिगम्बराम्भसां कर्ण समुद्रस्था हि दुर्जयाः । (४२।२)

digambarāmbhasāṃ karṇa samudrasthā hi durjayāḥ |

42.3४२.३

विदूरपातात् तोयस्य किं पुनः कर्ण वायसः ॥ (४२।३)

vidūrapātāt toyasya kiṃ punaḥ karṇa vāyasaḥ ||

43.1४३.१

अथ हंसो ऽभ्यतिक्रम्य मुहूर्तम् इति चेति च । (४३।१)

atha haṃso 'bhyatikramya muhūrtam iti ceti ca |

43.2४३.२

अवेक्षमाणस् तं काकं नाशक्नोद् व्यपसर्पितुम् । (४३।२)

avekṣamāṇas taṃ kākaṃ nāśaknod vyapasarpitum |

43.3४३.३

अतिक्रम्य च चक्राङ्गः काकं तं समुदैक्षत ॥ (४३।३)

atikramya ca cakrāṅgaḥ kākaṃ taṃ samudaikṣata ||

44.1४४.१

तं तथा हीयमानं च हंसो दृष्ट्वाब्रवीद् इदम् । (४४।१)

taṃ tathā hīyamānaṃ ca haṃso dṛṣṭvābravīd idam |

44.2४४.२

उज्जिहीर्षुर् निमज्जन्तं स्मरन् सत्पुरुषव्रतम् ॥ (४४।२)

ujjihīrṣur nimajjantaṃ smaran satpuruṣavratam ||

45.1४५.१

बहूनि पतनानि त्वम् आचक्षाणो मुहुर् मुहुः । (४५।१)

bahūni patanāni tvam ācakṣāṇo muhur muhuḥ |

45.2४५.२

पतस्य् अव्याहरंश् चेदं न नो गुह्यं प्रभाषसे ॥ (४५।२)

patasy avyāharaṃś cedaṃ na no guhyaṃ prabhāṣase ||

46.1४६.१

किं नाम पतनं काक यत् त्वं पतसि सांप्रतम् । (४६।१)

kiṃ nāma patanaṃ kāka yat tvaṃ patasi sāṃpratam |

46.2४६.२

जलं स्पृशसि पक्षाभ्यां तुण्डेन च पुनः पुनः ॥ (४६।२)

jalaṃ spṛśasi pakṣābhyāṃ tuṇḍena ca punaḥ punaḥ ||

47.1४७.१

स पक्षाभ्यां स्पृशन्न् आर्तस् तुण्डेन जलम् अर्णवे । (४७।१)

sa pakṣābhyāṃ spṛśann ārtas tuṇḍena jalam arṇave |

47.2४७.२

काको दृढं परिश्रान्तः सहसा निपपात ह ॥ (४७।२)

kāko dṛḍhaṃ pariśrāntaḥ sahasā nipapāta ha ||

48.1४८.१

हंस उवाच । (४८।१)

haṃsa uvāca

48.2४८.२

शतम् एकं च पातानां यत् प्रभाषसि वायस । (४८।२)

śatam ekaṃ ca pātānāṃ yat prabhāṣasi vāyasa |

48.3४८.३

नानाविधानीह पुरा तच्चानृतम् इहाद्य ते ॥ (४८।३)

nānāvidhānīha purā taccānṛtam ihādya te ||

49.1४९.१

काक उवाच । (४९।१)

kāka uvāca

49.2४९.२

उच्छिष्टदर्पितो हंस मन्ये ऽऽत्मानं सुपर्णवत् । (४९।२)

ucchiṣṭadarpito haṃsa manye ''tmānaṃ suparṇavat |

49.3४९.३

अवमन्य बहूंश् चाहं काकान् अन्यांश् च पक्षिणः । (४९।३)

avamanya bahūṃś cāhaṃ kākān anyāṃś ca pakṣiṇaḥ |

49.4४९.४

प्राणैर् हंस प्रपद्ये त्वां द्वीपान्तं प्रापयस्व माम् ॥ (४९।४)

prāṇair haṃsa prapadye tvāṃ dvīpāntaṃ prāpayasva mām ||

50.1५०.१

यद्य् अहं स्वस्तिमान् हंस स्वदेशं प्राप्नुयां पुनः । (५०।१)

yady ahaṃ svastimān haṃsa svadeśaṃ prāpnuyāṃ punaḥ |

50.2५०.२

न कंचिद् अवमन्येयम् आपदो मां समुद्धर ॥ (५०।२)

na kaṃcid avamanyeyam āpado māṃ samuddhara ||

51.1५१.१

तम् एवंवादिनं दीनं विलपन्तम् अचेतनम् । (५१।१)

tam evaṃvādinaṃ dīnaṃ vilapantam acetanam |

51.2५१.२

काक काकेति वाशन्तं निमज्जन्तं महार्णवे ॥ (५१।२)

kāka kāketi vāśantaṃ nimajjantaṃ mahārṇave ||

52.1५२.१

तथैत्य वायसं हंसो जलक्लिन्नं सुदुर्दशम् । (५२।१)

tathaitya vāyasaṃ haṃso jalaklinnaṃ sudurdaśam |

52.2५२.२

पद्भ्याम् उत्क्षिप्य वेपन्तं पृष्ठम् आरोपयच्छनैः ॥ (५२।२)

padbhyām utkṣipya vepantaṃ pṛṣṭham āropayacchanaiḥ ||

53.1५३.१

आरोप्य पृष्ठं काकं तं हंसः कर्ण विचेतसम् । (५३।१)

āropya pṛṣṭhaṃ kākaṃ taṃ haṃsaḥ karṇa vicetasam |

53.2५३.२

आजगाम पुनर् द्वीपं स्पर्धया पेततुर् यतः ॥ (५३।२)

ājagāma punar dvīpaṃ spardhayā petatur yataḥ ||

54.1५४.१

संस्थाप्य तं चापि पुनः समाश्वास्य च खेचरम् । (५४।१)

saṃsthāpya taṃ cāpi punaḥ samāśvāsya ca khecaram |

54.2५४.२

गतो यथेप्सितं देशं हंसो मन इवाशुगः ॥ (५४।२)

gato yathepsitaṃ deśaṃ haṃso mana ivāśugaḥ ||

55.1५५.१

उच्छिष्टभोजनात् काको यथा वैश्यकुले तु सः । (५५।१)

ucchiṣṭabhojanāt kāko yathā vaiśyakule tu saḥ |

55.2५५.२

एवं त्वम् उच्छिष्टभृतो धार्तराष्ट्रैर् न संशयः । (५५।२)

evaṃ tvam ucchiṣṭabhṛto dhārtarāṣṭrair na saṃśayaḥ |

55.3५५.३

सदृशाञ् श्रेयसश् चापि सर्वान् कर्णातिमन्यसे ॥ (५५।३)

sadṛśāñ śreyasaś cāpi sarvān karṇātimanyase ||

56.1५६.१

द्रोणद्रौणिकृपैर् गुप्तो भीष्मेणान्यैश् च कौरवैः । (५६।१)

droṇadrauṇikṛpair gupto bhīṣmeṇānyaiś ca kauravaiḥ |

56.2५६.२

विराटनगरे पार्थम् एकं किं नावधीस् तदा ॥ (५६।२)

virāṭanagare pārtham ekaṃ kiṃ nāvadhīs tadā ||

57.1५७.१

यत्र व्यस्ताः समस्ताश् च निर्जिताः स्थ किरीटिना । (५७।१)

yatra vyastāḥ samastāś ca nirjitāḥ stha kirīṭinā |

57.2५७.२

सृगाला इव सिंहेन क्व ते वीर्यम् अभूत् तदा ॥ (५७।२)

sṛgālā iva siṃhena kva te vīryam abhūt tadā ||

58.1५८.१

भ्रातरं च हतं दृष्ट्वा निर्जितः सव्यसाचिना । (५८।१)

bhrātaraṃ ca hataṃ dṛṣṭvā nirjitaḥ savyasācinā |

58.2५८.२

पश्यतां कुरुवीराणां प्रथमं त्वं पलायथाः ॥ (५८।२)

paśyatāṃ kuruvīrāṇāṃ prathamaṃ tvaṃ palāyathāḥ ||

59.1५९.१

तथा द्वैतवने कर्ण गन्धर्वैः समभिद्रुतः । (५९।१)

tathā dvaitavane karṇa gandharvaiḥ samabhidrutaḥ |

59.2५९.२

कुरून् समग्रान् उत्सृज्य प्रथमं त्वं पलायथाः ॥ (५९।२)

kurūn samagrān utsṛjya prathamaṃ tvaṃ palāyathāḥ ||

60.1६०.१

हत्वा जित्वा च गन्धर्वांश् चित्रसेनमुखान् रणे । (६०।१)

hatvā jitvā ca gandharvāṃś citrasenamukhān raṇe |

60.2६०.२

कर्ण दुर्योधनं पार्थः सभार्यं सममोचयत् ॥ (६०।२)

karṇa duryodhanaṃ pārthaḥ sabhāryaṃ samamocayat ||

61.1६१.१

पुनः प्रभावः पार्थस्य पुराणः केशवस्य च । (६१।१)

punaḥ prabhāvaḥ pārthasya purāṇaḥ keśavasya ca |

61.2६१.२

कथितः कर्ण रामेण सभायां राजसंसदि ॥ (६१।२)

kathitaḥ karṇa rāmeṇa sabhāyāṃ rājasaṃsadi ||

62.1६२.१

सततं च तद् अश्रौषीर् वचनं द्रोणभीष्मयोः । (६२।१)

satataṃ ca tad aśrauṣīr vacanaṃ droṇabhīṣmayoḥ |

62.2६२.२

अवध्यौ वदतोः कृष्णौ संनिधौ वै महीक्षिताम् ॥ (६२।२)

avadhyau vadatoḥ kṛṣṇau saṃnidhau vai mahīkṣitām ||

63.1६३.१

कियन्तं तत्र वक्ष्यामि येन येन धनंजयः । (६३।१)

kiyantaṃ tatra vakṣyāmi yena yena dhanaṃjayaḥ |

63.2६३.२

त्वत्तो ऽतिरिक्तः सर्वेभ्यो भूतेभ्यो ब्राह्मणो यथा ॥ (६३।२)

tvatto 'tiriktaḥ sarvebhyo bhūtebhyo brāhmaṇo yathā ||

64.1६४.१

इदानीम् एव द्रष्टासि प्रधने स्यन्दने स्थितौ । (६४।१)

idānīm eva draṣṭāsi pradhane syandane sthitau |

64.2६४.२

पुत्रं च वसुदेवस्य पाण्डवं च धनंजयम् ॥ (६४।२)

putraṃ ca vasudevasya pāṇḍavaṃ ca dhanaṃjayam ||

65.1६५.१

देवासुरमनुष्येषु प्रख्यातौ यौ नरर्षभौ । (६५।१)

devāsuramanuṣyeṣu prakhyātau yau nararṣabhau |

65.2६५.२

प्रकाशेनाभिविख्यातौ त्वं तु खद्योतवन् नृषु ॥ (६५।२)

prakāśenābhivikhyātau tvaṃ tu khadyotavan nṛṣu ||

66.1६६.१

एवं विद्वान् मावमंस्थाः सूतपुत्राच्युतार्जुनौ । (६६।१)

evaṃ vidvān māvamaṃsthāḥ sūtaputrācyutārjunau |

66.2६६.२

नृसिंहौ तौ नरश्वा त्वं जोषम् आस्स्व विकत्थन ॥ (६६।२)

nṛsiṃhau tau naraśvā tvaṃ joṣam āssva vikatthana ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 8, 28

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit