MBh, 12, 290
Select a line for its word-by-word analysis.
सम्यक् त्वयायं नृपते वर्णितः शिष्टसंमतः । (१।२)
samyak tvayāyaṃ nṛpate varṇitaḥ śiṣṭasaṃmataḥ |
सांख्ये त्विदानीं कार्त्स्न्येन विधिं प्रब्रूहि पृच्छते । (२।१)
sāṃkhye tvidānīṃ kārtsnyena vidhiṃ prabrūhi pṛcchate |
त्रिषु लोकेषु यज्ज्ञानं सर्वं तद् विदितं हि ते ॥ (२।२)
triṣu lokeṣu yajjñānaṃ sarvaṃ tad viditaṃ hi te ||
शृणु मे त्वम् इदं शुद्धं सांख्यानां विदितात्मनाम् । (३।२)
śṛṇu me tvam idaṃ śuddhaṃ sāṃkhyānāṃ viditātmanām |
विहितं यतिभिर् बुद्धैः कपिलादिभिर् ईश्वरैः ॥ (३।३)
vihitaṃ yatibhir buddhaiḥ kapilādibhir īśvaraiḥ ||
यस्मिन्न विभ्रमाः केचिद् दृश्यन्ते मनुजर्षभ । (४।१)
yasminna vibhramāḥ kecid dṛśyante manujarṣabha |
मानुषान् दुर्जयान् कृत्स्नान् पैशाचान् विषयांस्तथा ॥ (५।२)
mānuṣān durjayān kṛtsnān paiśācān viṣayāṃstathā ||
राक्षसान् विषयाञ्ज्ञात्वा यक्षाणां विषयांस्तथा । (६।१)
rākṣasān viṣayāñjñātvā yakṣāṇāṃ viṣayāṃstathā |
विषयान् औरगाञ्ज्ञात्वा गान्धर्वविषयांस्तथा ॥ (६।२)
viṣayān auragāñjñātvā gāndharvaviṣayāṃstathā ||
पितॄणां विषयाञ्ज्ञात्वा तिर्यक्षु चरतां नृप । (७।१)
pitṝṇāṃ viṣayāñjñātvā tiryakṣu caratāṃ nṛpa |
राजर्षिविषयाञ्ज्ञात्वा ब्रह्मर्षिविषयांस्तथा । (८।१)
rājarṣiviṣayāñjñātvā brahmarṣiviṣayāṃstathā |
आसुरान् विषयाञ्ज्ञात्वा वैश्वदेवांस्तथैव च ॥ (८।२)
āsurān viṣayāñjñātvā vaiśvadevāṃstathaiva ca ||
देवर्षिविषयाञ्ज्ञात्वा योगानाम् अपि चेश्वरान् । (९।१)
devarṣiviṣayāñjñātvā yogānām api ceśvarān |
विषयांश्च प्रजेशानां ब्रह्मणो विषयांस्तथा ॥ (९।२)
viṣayāṃśca prajeśānāṃ brahmaṇo viṣayāṃstathā ||
आयुषश्च परं कालं लोके विज्ञाय तत्त्वतः । (१०।१)
āyuṣaśca paraṃ kālaṃ loke vijñāya tattvataḥ |
सुखस्य च परं तत्त्वं विज्ञाय वदतां वर ॥ (१०।२)
sukhasya ca paraṃ tattvaṃ vijñāya vadatāṃ vara ||
प्राप्ते काले च यद् दुःखं पततां विषयैषिणाम् । (११।१)
prāpte kāle ca yad duḥkhaṃ patatāṃ viṣayaiṣiṇām |
तिर्यक् च पततां दुःखं पततां नरके च यत् ॥ (११।२)
tiryak ca patatāṃ duḥkhaṃ patatāṃ narake ca yat ||
स्वर्गस्य च गुणान् कृत्स्नान् दोषान् सर्वांश्च भारत । (१२।१)
svargasya ca guṇān kṛtsnān doṣān sarvāṃśca bhārata |
सांख्यज्ञाने च ये दोषास्तथैव च गुणा नृप ॥ (१३।२)
sāṃkhyajñāne ca ye doṣāstathaiva ca guṇā nṛpa ||
सत्त्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा । (१४।१)
sattvaṃ daśaguṇaṃ jñātvā rajo navaguṇaṃ tathā |
तमश्चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा ॥ (१४।२)
tamaścāṣṭaguṇaṃ jñātvā buddhiṃ saptaguṇāṃ tathā ||
षड्गुणं च नभो ज्ञात्वा मनः पञ्चगुणं तथा । (१५।१)
ṣaḍguṇaṃ ca nabho jñātvā manaḥ pañcaguṇaṃ tathā |
बुद्धिं चतुर्गुणां ज्ञात्वा तमश्च त्रिगुणं महत् ॥ (१५।२)
buddhiṃ caturguṇāṃ jñātvā tamaśca triguṇaṃ mahat ||
द्विगुणं च रजो ज्ञात्वा सत्त्वम् एकगुणं पुनः । (१६।१)
dviguṇaṃ ca rajo jñātvā sattvam ekaguṇaṃ punaḥ |
मार्गं विज्ञाय तत्त्वेन प्रलये प्रेक्षणं तथा ॥ (१६।२)
mārgaṃ vijñāya tattvena pralaye prekṣaṇaṃ tathā ||
ज्ञानविज्ञानसम्पन्नाः कारणैर् भाविताः शुभैः । (१७।१)
jñānavijñānasampannāḥ kāraṇair bhāvitāḥ śubhaiḥ |
प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इह नभः परम् ॥ (१७।२)
prāpnuvanti śubhaṃ mokṣaṃ sūkṣmā iha nabhaḥ param ||
रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च । (१८।१)
rūpeṇa dṛṣṭiṃ saṃyuktāṃ ghrāṇaṃ gandhaguṇena ca |
शब्दे सक्तं तथा श्रोत्रं जिह्वां रसगुणेषु च ॥ (१८।२)
śabde saktaṃ tathā śrotraṃ jihvāṃ rasaguṇeṣu ca ||
तनुं स्पर्शे तथा सक्तां वायुं नभसि चाश्रितम् । (१९।१)
tanuṃ sparśe tathā saktāṃ vāyuṃ nabhasi cāśritam |
मोहं तमसि संसक्तं लोभम् अर्थेषु संश्रितम् ॥ (१९।२)
mohaṃ tamasi saṃsaktaṃ lobham artheṣu saṃśritam ||
विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथानलम् । (२०।१)
viṣṇuṃ krānte bale śakraṃ koṣṭhe saktaṃ tathānalam |
अप्सु देवीं तथा सक्ताम् अपस्तेजसि चाश्रिताः ॥ (२०।२)
apsu devīṃ tathā saktām apastejasi cāśritāḥ ||
तेजो वायौ तु संसक्तं वायुं नभसि चाश्रितम् । (२१।१)
tejo vāyau tu saṃsaktaṃ vāyuṃ nabhasi cāśritam |
नभो महति संयुक्तं महद् बुद्धौ च संश्रितम् ॥ (२१।२)
nabho mahati saṃyuktaṃ mahad buddhau ca saṃśritam ||
बुद्धिं तमसि संसक्तां तमो रजसि चाश्रितम् । (२२।१)
buddhiṃ tamasi saṃsaktāṃ tamo rajasi cāśritam |
रजः सत्त्वे तथा सक्तं सत्त्वं सक्तं तथात्मनि ॥ (२२।२)
rajaḥ sattve tathā saktaṃ sattvaṃ saktaṃ tathātmani ||
देवं मोक्षे च संसक्तं मोक्षं सक्तं तु न क्वचित् ॥ (२३।२)
devaṃ mokṣe ca saṃsaktaṃ mokṣaṃ saktaṃ tu na kvacit ||
ज्ञात्वा सत्त्वयुतं देहं वृतं षोडशभिर् गुणैः । (२४।१)
jñātvā sattvayutaṃ dehaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ |
स्वभावं चेतनां चैव ज्ञात्वा वै देहम् आश्रिते ॥ (२४।२)
svabhāvaṃ cetanāṃ caiva jñātvā vai deham āśrite ||
मध्यस्थम् एकम् आत्मानं पापं यस्मिन्न विद्यते । (२५।१)
madhyastham ekam ātmānaṃ pāpaṃ yasminna vidyate |
द्वितीयं कर्म विज्ञाय नृपते विषयैषिणाम् ॥ (२५।२)
dvitīyaṃ karma vijñāya nṛpate viṣayaiṣiṇām ||
इन्द्रियाणीन्द्रियार्थांश्च सर्वान् आत्मनि संश्रितान् । (२६।१)
indriyāṇīndriyārthāṃśca sarvān ātmani saṃśritān |
प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः ॥ (२६।२)
prāṇāpānau samānaṃ ca vyānodānau ca tattvataḥ ||
अवाक् चैवानिलं ज्ञात्वा प्रवहं चानिलं पुनः । (२७।१)
avāk caivānilaṃ jñātvā pravahaṃ cānilaṃ punaḥ |
सप्त वातांस्तथा शेषान् सप्तधा विधिवत् पुनः ॥ (२७।२)
sapta vātāṃstathā śeṣān saptadhā vidhivat punaḥ ||
प्रजापतीन् ऋषींश्चैव मार्गांश्च सुबहून् वरान् । (२८।१)
prajāpatīn ṛṣīṃścaiva mārgāṃśca subahūn varān |
सप्तर्षींश्च बहूञ् ज्ञात्वा राजर्षींश्च परंतप ॥ (२८।२)
saptarṣīṃśca bahūñ jñātvā rājarṣīṃśca paraṃtapa ||
सुरर्षीन्महतश्चान्यान्महर्षीन् सूर्यसंनिभान् । (२९।१)
surarṣīnmahataścānyānmaharṣīn sūryasaṃnibhān |
ऐश्वर्याच्च्याविताञ् ज्ञात्वा कालेन महता नृप ॥ (२९।२)
aiśvaryāccyāvitāñ jñātvā kālena mahatā nṛpa ||
महतां भूतसंघानां श्रुत्वा नाशं च पार्थिव । (३०।१)
mahatāṃ bhūtasaṃghānāṃ śrutvā nāśaṃ ca pārthiva |
गतिं चाप्यशुभां ज्ञात्वा नृपते पापकर्मणाम् ॥ (३०।२)
gatiṃ cāpyaśubhāṃ jñātvā nṛpate pāpakarmaṇām ||
वैतरण्यां च यद् दुःखं पतितानां यमक्षये । (३१।१)
vaitaraṇyāṃ ca yad duḥkhaṃ patitānāṃ yamakṣaye |
योनीषु च विचित्रासु संसारान् अशुभांस्तथा ॥ (३१।२)
yonīṣu ca vicitrāsu saṃsārān aśubhāṃstathā ||
विज्ञायाहितम् आत्मानं योगांश्च विविधान्नृप । (३४।१)
vijñāyāhitam ātmānaṃ yogāṃśca vividhānnṛpa |
सात्त्विकानां च जन्तूनां कुत्सितं भरतर्षभ । (३५।१)
sāttvikānāṃ ca jantūnāṃ kutsitaṃ bharatarṣabha |
गर्हितं महताम् अर्थे सांख्यानां विदितात्मनाम् ॥ (३५।२)
garhitaṃ mahatām arthe sāṃkhyānāṃ viditātmanām ||
ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम् ॥ (३६।२)
tārāṇāṃ patanaṃ dṛṣṭvā nakṣatrāṇāṃ ca paryayam ||
द्वंद्वानां विप्रयोगं च विज्ञाय कृपणं नृप । (३७।१)
dvaṃdvānāṃ viprayogaṃ ca vijñāya kṛpaṇaṃ nṛpa |
अन्योन्यभक्षणं दृष्ट्वा भूतानाम् अपि चाशुभम् ॥ (३७।२)
anyonyabhakṣaṇaṃ dṛṣṭvā bhūtānām api cāśubham ||
बाल्ये मोहं च विज्ञाय क्षयं देहस्य चाशुभम् । (३८।१)
bālye mohaṃ ca vijñāya kṣayaṃ dehasya cāśubham |
रागे मोहे च सम्प्राप्ते क्वचित् सत्त्वं समाश्रितम् ॥ (३८।२)
rāge mohe ca samprāpte kvacit sattvaṃ samāśritam ||
सहस्रेषु नरः कश्चिन्मोक्षबुद्धिं समाश्रितः । (३९।१)
sahasreṣu naraḥ kaścinmokṣabuddhiṃ samāśritaḥ |
दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् ॥ (३९।२)
durlabhatvaṃ ca mokṣasya vijñāya śrutipūrvakam ||
बहुमानम् अलब्धेषु लब्धे मध्यस्थतां पुनः । (४०।१)
bahumānam alabdheṣu labdhe madhyasthatāṃ punaḥ |
विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः ॥ (४०।२)
viṣayāṇāṃ ca daurātmyaṃ vijñāya nṛpate punaḥ ||
गतासूनां च कौन्तेय देहान् दृष्ट्वा तथाशुभान् । (४१।१)
gatāsūnāṃ ca kaunteya dehān dṛṣṭvā tathāśubhān |
वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत ॥ (४१।२)
vāsaṃ kuleṣu jantūnāṃ duḥkhaṃ vijñāya bhārata ||
ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम् । (४२।१)
brahmaghnānāṃ gatiṃ jñātvā patitānāṃ sudāruṇām |
सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम् । (४२।२)
surāpāne ca saktānāṃ brāhmaṇānāṃ durātmanām |
गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम् ॥ (४२।३)
gurudāraprasaktānāṃ gatiṃ vijñāya cāśubhām ||
जननीषु च वर्तन्ते ये न सम्यग् युधिष्ठिर । (४३।१)
jananīṣu ca vartante ye na samyag yudhiṣṭhira |
तिर्यग्योनिगतानां च विज्ञाय गतयः पृथक् ॥ (४४।२)
tiryagyonigatānāṃ ca vijñāya gatayaḥ pṛthak ||
वेदवादांस्तथा चित्रान् ऋतूनां पर्ययांस्तथा । (४५।१)
vedavādāṃstathā citrān ṛtūnāṃ paryayāṃstathā |
क्षयं संवत्सराणां च मासानां प्रक्षयं तथा ॥ (४५।२)
kṣayaṃ saṃvatsarāṇāṃ ca māsānāṃ prakṣayaṃ tathā ||
पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम् । (४६।१)
pakṣakṣayaṃ tathā dṛṣṭvā divasānāṃ ca saṃkṣayam |
क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस्तथा ॥ (४६।२)
kṣayaṃ vṛddhiṃ ca candrasya dṛṣṭvā pratyakṣatastathā ||
वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः । (४७।१)
vṛddhiṃ dṛṣṭvā samudrāṇāṃ kṣayaṃ teṣāṃ tathā punaḥ |
क्षयं धनानां च तथा पुनर् वृद्धिं तथैव च ॥ (४७।२)
kṣayaṃ dhanānāṃ ca tathā punar vṛddhiṃ tathaiva ca ||
संयोगानां क्षयं दृष्ट्वा युगानां च विशेषतः । (४८।१)
saṃyogānāṃ kṣayaṃ dṛṣṭvā yugānāṃ ca viśeṣataḥ |
क्षयं च दृष्ट्वा शैलानां क्षयं च सरितां तथा ॥ (४८।२)
kṣayaṃ ca dṛṣṭvā śailānāṃ kṣayaṃ ca saritāṃ tathā ||
वर्णानां च क्षयं दृष्ट्वा क्षयान्तं च पुनः पुनः । (४९।१)
varṇānāṃ ca kṣayaṃ dṛṣṭvā kṣayāntaṃ ca punaḥ punaḥ |
जरामृत्युं तथा जन्म दृष्ट्वा दुःखानि चैव ह ॥ (४९।२)
jarāmṛtyuṃ tathā janma dṛṣṭvā duḥkhāni caiva ha ||
देहदोषांस्तथा ज्ञात्वा तेषां दुःखं च तत्त्वतः । (५०।१)
dehadoṣāṃstathā jñātvā teṣāṃ duḥkhaṃ ca tattvataḥ |
आत्मदोषांश्च विज्ञाय सर्वान् आत्मनि संश्रितान् । (५१।१)
ātmadoṣāṃśca vijñāya sarvān ātmani saṃśritān |
स्वदेहाद् उत्थितान् गन्धांस्तथा विज्ञाय चाशुभान् ॥ (५१।२)
svadehād utthitān gandhāṃstathā vijñāya cāśubhān ||
कान् स्वगात्रोद्भवान् दोषान् पश्यस्यमितविक्रम । (५२।२)
kān svagātrodbhavān doṣān paśyasyamitavikrama |
एतन्मे संशयं कृत्स्नं वक्तुम् अर्हसि तत्त्वतः ॥ (५२।३)
etanme saṃśayaṃ kṛtsnaṃ vaktum arhasi tattvataḥ ||
पञ्च दोषान् प्रभो देहे प्रवदन्ति मनीषिणः । (५३।२)
pañca doṣān prabho dehe pravadanti manīṣiṇaḥ |
मार्गज्ञाः कापिलाः सांख्याः शृणु तान् अरिसूदन ॥ (५३।३)
mārgajñāḥ kāpilāḥ sāṃkhyāḥ śṛṇu tān arisūdana ||
कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते । (५४।१)
kāmakrodhau bhayaṃ nidrā pañcamaḥ śvāsa ucyate |
एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम् ॥ (५४।२)
ete doṣāḥ śarīreṣu dṛśyante sarvadehinām ||
छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात् । (५५।१)
chindanti kṣamayā krodhaṃ kāmaṃ saṃkalpavarjanāt |
सत्त्वसंशीलनान्निद्राम् अप्रमादाद् भयं तथा । (५५।२)
sattvasaṃśīlanānnidrām apramādād bhayaṃ tathā |
छिन्दन्ति पञ्चमं श्वासं लघ्वाहारतया नृप ॥ (५५।३)
chindanti pañcamaṃ śvāsaṃ laghvāhāratayā nṛpa ||
गुणान् गुणशतैर् ज्ञात्वा दोषान् दोषशतैर् अपि । (५६।१)
guṇān guṇaśatair jñātvā doṣān doṣaśatair api |
हेतून् हेतुशतैश्चित्रैश्चित्रान् विज्ञाय तत्त्वतः ॥ (५६।२)
hetūn hetuśataiścitraiścitrān vijñāya tattvataḥ ||
अपां फेनोपमं लोकं विष्णोर् मायाशतैर् वृतम् । (५७।१)
apāṃ phenopamaṃ lokaṃ viṣṇor māyāśatair vṛtam |
तमः श्वभ्रनिभं दृष्ट्वा वर्षबुद्बुदसंनिभम् । (५८।१)
tamaḥ śvabhranibhaṃ dṛṣṭvā varṣabudbudasaṃnibham |
नाशप्रायं सुखाद्धीनं नाशोत्तरम् अभावगम् । (५८।२)
nāśaprāyaṃ sukhāddhīnaṃ nāśottaram abhāvagam |
रजस्तमसि संमग्नं पङ्के द्विपम् इवावशम् ॥ (५८।३)
rajastamasi saṃmagnaṃ paṅke dvipam ivāvaśam ||
सांख्या राजन्महाप्राज्ञास्त्यक्त्वा देहं प्रजाकृतम् । (५९।१)
sāṃkhyā rājanmahāprājñāstyaktvā dehaṃ prajākṛtam |
ज्ञानज्ञेयेन सांख्येन व्यापिना महता नृप ॥ (५९।२)
jñānajñeyena sāṃkhyena vyāpinā mahatā nṛpa ||
राजसान् अशुभान् गन्धांस्तामसांश्च तथाविधान् । (६०।१)
rājasān aśubhān gandhāṃstāmasāṃśca tathāvidhān |
पुण्यांश्च सात्त्विकान् गन्धान् स्पर्शजान् देहसंश्रितान् । (६०।२)
puṇyāṃśca sāttvikān gandhān sparśajān dehasaṃśritān |
छित्त्वाशु ज्ञानशस्त्रेण तपोदण्डेन भारत ॥ (६०।३)
chittvāśu jñānaśastreṇa tapodaṇḍena bhārata ||
तमःकूर्मं रजोमीनं प्रज्ञया संतरन्त्युत । (६२।१)
tamaḥkūrmaṃ rajomīnaṃ prajñayā saṃtarantyuta |
स्नेहपङ्कं जरादुर्गं स्पर्शद्वीपम् अरिंदम ॥ (६२।२)
snehapaṅkaṃ jarādurgaṃ sparśadvīpam ariṃdama ||
कर्मागाधं सत्यतीरं स्थितव्रतम् इदं नृप । (६३।१)
karmāgādhaṃ satyatīraṃ sthitavratam idaṃ nṛpa |
हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुस्तरम् । (६६।१)
hasitotkruṣṭanirghoṣaṃ nānājñānasudustaram |
तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः ॥ (६९।२)
tīrtvā ca dustaraṃ janma viśanti vimalaṃ nabhaḥ ||
ततस्तान् सुकृतीन् सांख्यान् सूर्यो वहति रश्मिभिः । (७०।१)
tatastān sukṛtīn sāṃkhyān sūryo vahati raśmibhiḥ |
तत्र तान् प्रवहो वायुः प्रतिगृह्णाति भारत । (७१।१)
tatra tān pravaho vāyuḥ pratigṛhṇāti bhārata |
वीतरागान् यतीन् सिद्धान् वीर्ययुक्तांस्तपोधनान् ॥ (७१।२)
vītarāgān yatīn siddhān vīryayuktāṃstapodhanān ||
सूक्ष्मः शीतः सुगन्धी च सुखस्पर्शश्च भारत । (७२।१)
sūkṣmaḥ śītaḥ sugandhī ca sukhasparśaśca bhārata |
सप्तानां मरुतां श्रेष्ठो लोकान् गच्छति यः शुभान् । (७२।२)
saptānāṃ marutāṃ śreṣṭho lokān gacchati yaḥ śubhān |
स तान् वहति कौन्तेय नभसः परमां गतिम् ॥ (७२।३)
sa tān vahati kaunteya nabhasaḥ paramāṃ gatim ||
रजो वहति राजेन्द्र सत्त्वस्य परमां गतिम् ॥ (७३।२)
rajo vahati rājendra sattvasya paramāṃ gatim ||
सत्त्वं वहति शुद्धात्मन् परं नारायणं प्रभुम् । (७४।१)
sattvaṃ vahati śuddhātman paraṃ nārāyaṇaṃ prabhum |
प्रभुर् वहति शुद्धात्मा परमात्मानम् आत्मना ॥ (७४।२)
prabhur vahati śuddhātmā paramātmānam ātmanā ||
परमा सा गतिः पार्थ निर्द्वंद्वानां महात्मनाम् ॥ (७५।३)
paramā sā gatiḥ pārtha nirdvaṃdvānāṃ mahātmanām ||
स्थानम् उत्तमम् आसाद्य भगवन्तं स्थिरव्रताः । (७६।२)
sthānam uttamam āsādya bhagavantaṃ sthiravratāḥ |
यद् अत्र तथ्यं तन्मे त्वं यथावद् वक्तुम् अर्हसि । (७७।१)
yad atra tathyaṃ tanme tvaṃ yathāvad vaktum arhasi |
त्वद् ऋते मानवं नान्यं प्रष्टुम् अर्हामि कौरव ॥ (७७।२)
tvad ṛte mānavaṃ nānyaṃ praṣṭum arhāmi kaurava ||
मोक्षदोषो महान् एष प्राप्य सिद्धिं गतान् ऋषीन् । (७८।१)
mokṣadoṣo mahān eṣa prāpya siddhiṃ gatān ṛṣīn |
यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे ॥ (७८।२)
yadi tatraiva vijñāne vartante yatayaḥ pare ||
प्रवृत्तिलक्षणं धर्मं पश्यामि परमं नृप । (७९।१)
pravṛttilakṣaṇaṃ dharmaṃ paśyāmi paramaṃ nṛpa |
मग्नस्य हि परे ज्ञाने किं नु दुःखतरं भवेत् ॥ (७९।२)
magnasya hi pare jñāne kiṃ nu duḥkhataraṃ bhavet ||
यथान्यायं त्वया तात प्रश्नः पृष्टः सुसंकटः । (८०।२)
yathānyāyaṃ tvayā tāta praśnaḥ pṛṣṭaḥ susaṃkaṭaḥ |
बुद्धानाम् अपि संमोहः प्रश्ने ऽस्मिन् भरतर्षभ । (८०।३)
buddhānām api saṃmohaḥ praśne 'smin bharatarṣabha |
अत्रापि तत्त्वं परमं शृणु सम्यङ् मयेरितम् ॥ (८०।४)
atrāpi tattvaṃ paramaṃ śṛṇu samyaṅ mayeritam ||
बुद्धिश्च परमा यत्र कापिलानां महात्मनाम् । (८१।१)
buddhiśca paramā yatra kāpilānāṃ mahātmanām |
इन्द्रियाण्यपि बुध्यन्ते स्वदेहं देहिनो नृप । (८१।२)
indriyāṇyapi budhyante svadehaṃ dehino nṛpa |
कारणान्यात्मनस्तानि सूक्ष्मः पश्यति तैस्तु सः ॥ (८१।३)
kāraṇānyātmanastāni sūkṣmaḥ paśyati taistu saḥ ||
इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन । (८३।१)
indriyaiḥ saha suptasya dehinaḥ śatrutāpana |
स पश्यति यथान्यायं स्पर्शान् स्पृशति चाभिभो । (८४।१)
sa paśyati yathānyāyaṃ sparśān spṛśati cābhibho |
इन्द्रियाणीह सर्वाणि स्वे स्वे स्थाने यथाविधि । (८५।१)
indriyāṇīha sarvāṇi sve sve sthāne yathāvidhi |
इन्द्रियाणां तु सर्वेषां स्वस्थानेष्वेव सर्वशः । (८६।१)
indriyāṇāṃ tu sarveṣāṃ svasthāneṣveva sarvaśaḥ |
आक्रम्य गतयः सूक्ष्माश्चरत्यात्मा न संशयः ॥ (८६।२)
ākramya gatayaḥ sūkṣmāścaratyātmā na saṃśayaḥ ||
सत्त्वस्य च गुणान् कृत्स्नान् रजसश्च गुणान् पुनः । (८७।१)
sattvasya ca guṇān kṛtsnān rajasaśca guṇān punaḥ |
गुणांश्च तमसः सर्वान् गुणान् बुद्धेश्च भारत ॥ (८७।२)
guṇāṃśca tamasaḥ sarvān guṇān buddheśca bhārata ||
गुणांश्च मनसस्तद्वन्नभसश्च गुणांस्तथा । (८८।१)
guṇāṃśca manasastadvannabhasaśca guṇāṃstathā |
गुणान् वायोश्च धर्मात्मंस्तेजसश्च गुणान् पुनः ॥ (८८।२)
guṇān vāyośca dharmātmaṃstejasaśca guṇān punaḥ ||
अपां गुणांस्तथा पार्थ पार्थिवांश्च गुणान् अपि । (८९।१)
apāṃ guṇāṃstathā pārtha pārthivāṃśca guṇān api |
सर्वात्मना गुणैर् व्याप्य क्षेत्रज्ञः स युधिष्ठिर ॥ (८९।२)
sarvātmanā guṇair vyāpya kṣetrajñaḥ sa yudhiṣṭhira ||
आत्मा च याति क्षेत्रज्ञं कर्मणी च शुभाशुभे । (९०।१)
ātmā ca yāti kṣetrajñaṃ karmaṇī ca śubhāśubhe |
शिष्या इव महात्मानम् इन्द्रियाणि च तं विभो ॥ (९०।२)
śiṣyā iva mahātmānam indriyāṇi ca taṃ vibho ||
प्रकृतिं चाप्यतिक्रम्य गच्छत्यात्मानम् अव्ययम् । (९१।१)
prakṛtiṃ cāpyatikramya gacchatyātmānam avyayam |
परं नारायणात्मानं निर्द्वंद्वं प्रकृतेः परम् ॥ (९१।२)
paraṃ nārāyaṇātmānaṃ nirdvaṃdvaṃ prakṛteḥ param ||
विमुक्तः पुण्यपापेभ्यः प्रविष्टस्तम् अनामयम् । (९२।१)
vimuktaḥ puṇyapāpebhyaḥ praviṣṭastam anāmayam |
शिष्टं त्वत्र मनस् तात इन्द्रियाणि च भारत । (९३।१)
śiṣṭaṃ tvatra manas tāta indriyāṇi ca bhārata |
शक्यं चाल्पेन कालेन शान्तिं प्राप्तुं गुणार्थिना । (९४।१)
śakyaṃ cālpena kālena śāntiṃ prāptuṃ guṇārthinā |
एवं युक्तेन कौन्तेय युक्तज्ञानेन मोक्षिणा ॥ (९४।२)
evaṃ yuktena kaunteya yuktajñānena mokṣiṇā ||
सांख्या राजन्महाप्राज्ञा गच्छन्ति परमां गतिम् । (९५।१)
sāṃkhyā rājanmahāprājñā gacchanti paramāṃ gatim |
ज्ञानेनानेन कौन्तेय तुल्यं ज्ञानं न विद्यते ॥ (९५।२)
jñānenānena kaunteya tulyaṃ jñānaṃ na vidyate ||
अत्र ते संशयो मा भूज्ज्ञानं सांख्यं परं मतम् । (९६।१)
atra te saṃśayo mā bhūjjñānaṃ sāṃkhyaṃ paraṃ matam |
अक्षरं ध्रुवम् अव्यक्तं पूर्वं ब्रह्म सनातनम् ॥ (९६।२)
akṣaraṃ dhruvam avyaktaṃ pūrvaṃ brahma sanātanam ||
अनादिमध्यनिधनं निर्द्वंद्वं कर्तृ शाश्वतम् । (९७।१)
anādimadhyanidhanaṃ nirdvaṃdvaṃ kartṛ śāśvatam |
कूटस्थं चैव नित्यं च यद् वदन्ति शमात्मकाः ॥ (९७।२)
kūṭasthaṃ caiva nityaṃ ca yad vadanti śamātmakāḥ ||
यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः । (९८।१)
yataḥ sarvāḥ pravartante sargapralayavikriyāḥ |
यच्च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः ॥ (९८।२)
yacca śaṃsanti śāstreṣu vadanti paramarṣayaḥ ||
ब्रह्मण्यं परमं देवम् अनन्तं परतो ऽच्युतम् ॥ (९९।२)
brahmaṇyaṃ paramaṃ devam anantaṃ parato 'cyutam ||
प्रार्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः । (१००।१)
prārthayantaśca taṃ viprā vadanti guṇabuddhayaḥ |
सम्यग् युक्तास्तथा योगाः सांख्याश्चामितदर्शनाः ॥ (१००।२)
samyag yuktāstathā yogāḥ sāṃkhyāścāmitadarśanāḥ ||
अमूर्तेस्तस्य कौन्तेय सांख्यं मूर्तिर् इति श्रुतिः । (१०१।१)
amūrtestasya kaunteya sāṃkhyaṃ mūrtir iti śrutiḥ |
अभिज्ञानानि तस्याहुर् मतं हि भरतर्षभ ॥ (१०१।२)
abhijñānāni tasyāhur mataṃ hi bharatarṣabha ||
द्विविधानीह भूतानि पृथिव्यां पृथिवीपते । (१०२।१)
dvividhānīha bhūtāni pṛthivyāṃ pṛthivīpate |
जङ्गमागमसंज्ञानि जङ्गमं तु विशिष्यते ॥ (१०२।२)
jaṅgamāgamasaṃjñāni jaṅgamaṃ tu viśiṣyate ||
ज्ञानं महद् यद्धि महत्सु राजन् वेदेषु सांख्येषु तथैव योगे । (१०३।१)
jñānaṃ mahad yaddhi mahatsu rājan vedeṣu sāṃkhyeṣu tathaiva yoge |
यच्चापि दृष्टं विविधं पुराणं सांख्यागतं तन्निखिलं नरेन्द्र ॥ (१०३।२)
yaccāpi dṛṣṭaṃ vividhaṃ purāṇaṃ sāṃkhyāgataṃ tannikhilaṃ narendra ||
यच्चेतिहासेषु महत्सु दृष्टं यच्चार्थशास्त्रे नृप शिष्टजुष्टे । (१०४।१)
yaccetihāseṣu mahatsu dṛṣṭaṃ yaccārthaśāstre nṛpa śiṣṭajuṣṭe |
ज्ञानं च लोके यद् इहास्ति किंचित् सांख्यागतं तच्च महन्महात्मन् ॥ (१०४।२)
jñānaṃ ca loke yad ihāsti kiṃcit sāṃkhyāgataṃ tacca mahanmahātman ||
शमश्च दृष्टः परमं बलं च ज्ञानं च सूक्ष्मं च यथावद् उक्तम् । (१०५।१)
śamaśca dṛṣṭaḥ paramaṃ balaṃ ca jñānaṃ ca sūkṣmaṃ ca yathāvad uktam |
तपांसि सूक्ष्माणि सुखानि चैव सांख्ये यथावद् विहितानि राजन् ॥ (१०५।२)
tapāṃsi sūkṣmāṇi sukhāni caiva sāṃkhye yathāvad vihitāni rājan ||
विपर्यये तस्य हि पार्थ देवान् गच्छन्ति सांख्याः सततं सुखेन । (१०६।१)
viparyaye tasya hi pārtha devān gacchanti sāṃkhyāḥ satataṃ sukhena |
तांश्चानुसंचार्य ततः कृतार्थाः पतन्ति विप्रेषु यतेषु भूयः ॥ (१०६।२)
tāṃścānusaṃcārya tataḥ kṛtārthāḥ patanti vipreṣu yateṣu bhūyaḥ ||
हित्वा च देहं प्रविशन्ति मोक्षं दिवौकसो द्याम् इव पार्थ सांख्याः । (१०७।१)
hitvā ca dehaṃ praviśanti mokṣaṃ divaukaso dyām iva pārtha sāṃkhyāḥ |
ततो ऽधिकं ते ऽभिरता महार्हे सांख्ये द्विजाः पार्थिव शिष्टजुष्टे ॥ (१०७।२)
tato 'dhikaṃ te 'bhiratā mahārhe sāṃkhye dvijāḥ pārthiva śiṣṭajuṣṭe ||
तेषां न तिर्यग्गमनं हि दृष्टं नावाग् गतिः पापकृतां निवासः । (१०८।१)
teṣāṃ na tiryaggamanaṃ hi dṛṣṭaṃ nāvāg gatiḥ pāpakṛtāṃ nivāsaḥ |
न चाबुधानाम् अपि ते द्विजातयो ये ज्ञानम् एतन्नृपते ऽनुरक्ताः ॥ (१०८।२)
na cābudhānām api te dvijātayo ye jñānam etannṛpate 'nuraktāḥ ||
सांख्यं विशालं परमं पुराणं महार्णवं विमलम् उदारकान्तम् । (१०९।१)
sāṃkhyaṃ viśālaṃ paramaṃ purāṇaṃ mahārṇavaṃ vimalam udārakāntam |
कृत्स्नं च सांख्यं नृपते महात्मा नारायणो धारयते ऽप्रमेयम् ॥ (१०९।२)
kṛtsnaṃ ca sāṃkhyaṃ nṛpate mahātmā nārāyaṇo dhārayate 'prameyam ||
एतन्मयोक्तं नरदेव तत्त्वं नारायणो विश्वम् इदं पुराणम् । (११०।१)
etanmayoktaṃ naradeva tattvaṃ nārāyaṇo viśvam idaṃ purāṇam |
स सर्गकाले च करोति सर्गं संहारकाले च तद् अत्ति भूयः ॥ (११०।२)
sa sargakāle ca karoti sargaṃ saṃhārakāle ca tad atti bhūyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.