महाभारतMahābhārata

MBh, 10, 2

1285 of 1995 · 69 verses

Select a line for its word-by-word analysis.

1.1१.१

कृप उवाच । (१।१)

kṛpa uvāca

1.2१.२

श्रुतं ते वचनं सर्वं हेतुयुक्तं मया विभो । (१।२)

śrutaṃ te vacanaṃ sarvaṃ hetuyuktaṃ mayā vibho |

1.3१.३

ममापि तु वचः किंचिच्छृणुष्वाद्य महाभुज ॥ (१।३)

mamāpi tu vacaḥ kiṃcicchṛṇuṣvādya mahābhuja ||

2.1२.१

आबद्धा मानुषाः सर्वे निर्बन्धाः कर्मणोर् द्वयोः । (२।१)

ābaddhā mānuṣāḥ sarve nirbandhāḥ karmaṇor dvayoḥ |

2.2२.२

दैवे पुरुषकारे च परं ताभ्यां न विद्यते ॥ (२।२)

daive puruṣakāre ca paraṃ tābhyāṃ na vidyate ||

3.1३.१

न हि दैवेन सिध्यन्ति कर्माण्येकेन सत्तम । (३।१)

na hi daivena sidhyanti karmāṇyekena sattama |

3.2३.२

न चापि कर्मणैकेन द्वाभ्यां सिद्धिस्तु योगतः ॥ (३।२)

na cāpi karmaṇaikena dvābhyāṃ siddhistu yogataḥ ||

4.1४.१

ताभ्याम् उभाभ्यां सर्वार्था निबद्धा ह्यधमोत्तमाः । (४।१)

tābhyām ubhābhyāṃ sarvārthā nibaddhā hyadhamottamāḥ |

4.2४.२

प्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः ॥ (४।२)

pravṛttāścaiva dṛśyante nivṛttāścaiva sarvaśaḥ ||

5.1५.१

पर्जन्यः पर्वते वर्षन् किं नु साधयते फलम् । (५।१)

parjanyaḥ parvate varṣan kiṃ nu sādhayate phalam |

5.2५.२

कृष्टे क्षेत्रे तथावर्षन् किं नु साधयते फलम् ॥ (५।२)

kṛṣṭe kṣetre tathāvarṣan kiṃ nu sādhayate phalam ||

6.1६.१

उत्थानं चाप्यदैवस्य ह्यनुत्थानस्य दैवतम् । (६।१)

utthānaṃ cāpyadaivasya hyanutthānasya daivatam |

6.2६.२

व्यर्थं भवति सर्वत्र पूर्वं कस्तत्र निश्चयः ॥ (६।२)

vyarthaṃ bhavati sarvatra pūrvaṃ kastatra niścayaḥ ||

7.1७.१

प्रवृष्टे च यथा देवे सम्यक् क्षेत्रे च कर्षिते । (७।१)

pravṛṣṭe ca yathā deve samyak kṣetre ca karṣite |

7.2७.२

बीजं महागुणं भूयात् तथा सिद्धिर् हि मानुषी ॥ (७।२)

bījaṃ mahāguṇaṃ bhūyāt tathā siddhir hi mānuṣī ||

8.1८.१

तयोर् दैवं विनिश्चित्य स्ववशेनैव वर्तते । (८।१)

tayor daivaṃ viniścitya svavaśenaiva vartate |

8.2८.२

प्राज्ञाः पुरुषकारं तु घटन्ते दाक्ष्यम् आस्थिताः ॥ (८।२)

prājñāḥ puruṣakāraṃ tu ghaṭante dākṣyam āsthitāḥ ||

9.1९.१

ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ । (९।१)

tābhyāṃ sarve hi kāryārthā manuṣyāṇāṃ nararṣabha |

9.2९.२

विचेष्टन्तश्च दृश्यन्ते निवृत्ताश्च तथैव हि ॥ (९।२)

viceṣṭantaśca dṛśyante nivṛttāśca tathaiva hi ||

10.1१०.१

कृतः पुरुषकारः सन् सो ऽपि दैवेन सिध्यति । (१०।१)

kṛtaḥ puruṣakāraḥ san so 'pi daivena sidhyati |

10.2१०.२

तथास्य कर्मणः कर्तुर् अभिनिर्वर्तते फलम् ॥ (१०।२)

tathāsya karmaṇaḥ kartur abhinirvartate phalam ||

11.1११.१

उत्थानं तु मनुष्याणां दक्षाणां दैववर्जितम् । (११।१)

utthānaṃ tu manuṣyāṇāṃ dakṣāṇāṃ daivavarjitam |

11.2११.२

अफलं दृश्यते लोके सम्यग् अप्युपपादितम् ॥ (११।२)

aphalaṃ dṛśyate loke samyag apyupapāditam ||

12.1१२.१

तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः । (१२।१)

tatrālasā manuṣyāṇāṃ ye bhavantyamanasvinaḥ |

12.2१२.२

उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते ॥ (१२।२)

utthānaṃ te vigarhanti prājñānāṃ tanna rocate ||

13.1१३.१

प्रायशो हि कृतं कर्म अफलं दृश्यते भुवि । (१३।१)

prāyaśo hi kṛtaṃ karma aphalaṃ dṛśyate bhuvi |

13.2१३.२

अकृत्वा च पुनर् दुःखं कर्म दृश्येन्महाफलम् ॥ (१३।२)

akṛtvā ca punar duḥkhaṃ karma dṛśyenmahāphalam ||

14.1१४.१

चेष्टाम् अकुर्वंल्लभते यदि किंचिद् यदृच्छया । (१४।१)

ceṣṭām akurvaṃllabhate yadi kiṃcid yadṛcchayā |

14.2१४.२

यो वा न लभते कृत्वा दुर्दशौ तावुभावपि ॥ (१४।२)

yo vā na labhate kṛtvā durdaśau tāvubhāvapi ||

15.1१५.१

शक्नोति जीवितुं दक्षो नालसः सुखम् एधते । (१५।१)

śaknoti jīvituṃ dakṣo nālasaḥ sukham edhate |

15.2१५.२

दृश्यन्ते जीवलोके ऽस्मिन् दक्षाः प्रायो हितैषिणः ॥ (१५।२)

dṛśyante jīvaloke 'smin dakṣāḥ prāyo hitaiṣiṇaḥ ||

16.1१६.१

यदि दक्षः समारम्भात् कर्मणां नाश्नुते फलम् । (१६।१)

yadi dakṣaḥ samārambhāt karmaṇāṃ nāśnute phalam |

16.2१६.२

नास्य वाच्यं भवेत् किंचित् तत्त्वं चाप्यधिगच्छति ॥ (१६।२)

nāsya vācyaṃ bhavet kiṃcit tattvaṃ cāpyadhigacchati ||

17.1१७.१

अकृत्वा कर्म यो लोके फलं विन्दति विष्टितः । (१७।१)

akṛtvā karma yo loke phalaṃ vindati viṣṭitaḥ |

17.2१७.२

स तु वक्तव्यतां याति द्वेष्यो भवति प्रायशः ॥ (१७।२)

sa tu vaktavyatāṃ yāti dveṣyo bhavati prāyaśaḥ ||

18.1१८.१

एवम् एतद् अनादृत्य वर्तते यस्त्वतो ऽन्यथा । (१८।१)

evam etad anādṛtya vartate yastvato 'nyathā |

18.2१८.२

स करोत्यात्मनो ऽनर्थान् नैष बुद्धिमतां नयः ॥ (१८।२)

sa karotyātmano 'narthān naiṣa buddhimatāṃ nayaḥ ||

19.1१९.१

हीनं पुरुषकारेण यदा दैवेन वा पुनः । (१९।१)

hīnaṃ puruṣakāreṇa yadā daivena vā punaḥ |

19.2१९.२

कारणाभ्याम् अथैताभ्याम् उत्थानम् अफलं भवेत् । (१९।२)

kāraṇābhyām athaitābhyām utthānam aphalaṃ bhavet |

19.3१९.३

हीनं पुरुषकारेण कर्म त्विह न सिध्यति ॥ (१९।३)

hīnaṃ puruṣakāreṇa karma tviha na sidhyati ||

20.1२०.१

दैवतेभ्यो नमस्कृत्य यस्त्वर्थान् सम्यग् ईहते । (२०।१)

daivatebhyo namaskṛtya yastvarthān samyag īhate |

20.2२०.२

दक्षो दाक्षिण्यसम्पन्नो न स मोघं विहन्यते ॥ (२०।२)

dakṣo dākṣiṇyasampanno na sa moghaṃ vihanyate ||

21.1२१.१

सम्यग् ईहा पुनर् इयं यो वृद्धान् उपसेवते । (२१।१)

samyag īhā punar iyaṃ yo vṛddhān upasevate |

21.2२१.२

आपृच्छति च यच्छ्रेयः करोति च हितं वचः ॥ (२१।२)

āpṛcchati ca yacchreyaḥ karoti ca hitaṃ vacaḥ ||

22.1२२.१

उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसंमताः । (२२।१)

utthāyotthāya hi sadā praṣṭavyā vṛddhasaṃmatāḥ |

22.2२२.२

ते ऽस्य योगे परं मूलं तन्मूला सिद्धिर् उच्यते ॥ (२२।२)

te 'sya yoge paraṃ mūlaṃ tanmūlā siddhir ucyate ||

23.1२३.१

वृद्धानां वचनं श्रुत्वा यो ह्युत्थानं प्रयोजयेत् । (२३।१)

vṛddhānāṃ vacanaṃ śrutvā yo hyutthānaṃ prayojayet |

23.2२३.२

उत्थानस्य फलं सम्यक् तदा स लभते ऽचिरात् ॥ (२३।२)

utthānasya phalaṃ samyak tadā sa labhate 'cirāt ||

24.1२४.१

रागात् क्रोधाद् भयाल् लोभाद् यो ऽर्थान् ईहेत मानवः । (२४।१)

rāgāt krodhād bhayāl lobhād yo 'rthān īheta mānavaḥ |

24.2२४.२

अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः ॥ (२४।२)

anīśaścāvamānī ca sa śīghraṃ bhraśyate śriyaḥ ||

25.1२५.१

सो ऽयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना । (२५।१)

so 'yaṃ duryodhanenārtho lubdhenādīrghadarśinā |

25.2२५.२

असमर्थ्य समारब्धो मूढत्वाद् अविचिन्तितः ॥ (२५।२)

asamarthya samārabdho mūḍhatvād avicintitaḥ ||

26.1२६.१

हितबुद्धीन् अनादृत्य संमन्त्र्यासाधुभिः सह । (२६।१)

hitabuddhīn anādṛtya saṃmantryāsādhubhiḥ saha |

26.2२६.२

वार्यमाणो ऽकरोद् वैरं पाण्डवैर् गुणवत्तरैः ॥ (२६।२)

vāryamāṇo 'karod vairaṃ pāṇḍavair guṇavattaraiḥ ||

27.1२७.१

पूर्वम् अप्यतिदुःशीलो न दैन्यं कर्तुम् अर्हति । (२७।१)

pūrvam apyatiduḥśīlo na dainyaṃ kartum arhati |

27.2२७.२

तपत्यर्थे विपन्ने हि मित्राणाम् अकृतं वचः ॥ (२७।२)

tapatyarthe vipanne hi mitrāṇām akṛtaṃ vacaḥ ||

28.1२८.१

अन्वावर्तामहि वयं यत् तु तं पापपूरुषम् । (२८।१)

anvāvartāmahi vayaṃ yat tu taṃ pāpapūruṣam |

28.2२८.२

अस्मान् अप्यनयस्तस्मात् प्राप्तो ऽयं दारुणो महान् ॥ (२८।२)

asmān apyanayastasmāt prāpto 'yaṃ dāruṇo mahān ||

29.1२९.१

अनेन तु ममाद्यापि व्यसनेनोपतापिता । (२९।१)

anena tu mamādyāpi vyasanenopatāpitā |

29.2२९.२

बुद्धिश्चिन्तयतः किंचित् स्वं श्रेयो नावबुध्यते ॥ (२९।२)

buddhiścintayataḥ kiṃcit svaṃ śreyo nāvabudhyate ||

30.1३०.१

मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो बुधाः । (३०।१)

muhyatā tu manuṣyeṇa praṣṭavyāḥ suhṛdo budhāḥ |

30.2३०.२

ते च पृष्टा यथा ब्रूयुस्तत् कर्तव्यं तथा भवेत् ॥ (३०।२)

te ca pṛṣṭā yathā brūyustat kartavyaṃ tathā bhavet ||

31.1३१.१

ते वयं धृतराष्ट्रं च गान्धारीं च समेत्य ह । (३१।१)

te vayaṃ dhṛtarāṣṭraṃ ca gāndhārīṃ ca sametya ha |

31.2३१.२

उपपृच्छामहे गत्वा विदुरं च महामतिम् ॥ (३१।२)

upapṛcchāmahe gatvā viduraṃ ca mahāmatim ||

32.1३२.१

ते पृष्टाश्च वदेयुर् यच्छ्रेयो नः समनन्तरम् । (३२।१)

te pṛṣṭāśca vadeyur yacchreyo naḥ samanantaram |

32.2३२.२

तद् अस्माभिः पुनः कार्यम् इति मे नैष्ठिकी मतिः ॥ (३२।२)

tad asmābhiḥ punaḥ kāryam iti me naiṣṭhikī matiḥ ||

33.1३३.१

अनारम्भात् तु कार्याणां नार्थः सम्पद्यते क्वचित् । (३३।१)

anārambhāt tu kāryāṇāṃ nārthaḥ sampadyate kvacit |

33.2३३.२

कृते पुरुषकारे च येषां कार्यं न सिध्यति । (३३।२)

kṛte puruṣakāre ca yeṣāṃ kāryaṃ na sidhyati |

33.3३३.३

दैवेनोपहतास्ते तु नात्र कार्या विचारणा ॥ (३३।३)

daivenopahatāste tu nātra kāryā vicāraṇā ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 10, 2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit