महाभारतMahābhārata

MBh, 13, 49

1730 of 1995 · 67 verses

Select a line for its word-by-word analysis.

1.1१.१

युधिष्ठिर उवाच । (१।१)

yudhiṣṭhira uvāca

1.2१.२

ब्रूहि पुत्रान् कुरुश्रेष्ठ वर्णानां त्वं पृथक् पृथक् । (१।२)

brūhi putrān kuruśreṣṭha varṇānāṃ tvaṃ pṛthak pṛthak |

1.3१.३

कीदृश्यां कीदृशाश्चापि पुत्राः कस्य च के च ते ॥ (१।३)

kīdṛśyāṃ kīdṛśāścāpi putrāḥ kasya ca ke ca te ||

2.1२.१

विप्रवादाः सुबहुशः श्रूयन्ते पुत्रकारिताः । (२।१)

vipravādāḥ subahuśaḥ śrūyante putrakāritāḥ |

2.2२.२

अत्र नो मुह्यतां राजन् संशयं छेत्तुम् अर्हसि ॥ (२।२)

atra no muhyatāṃ rājan saṃśayaṃ chettum arhasi ||

3.1३.१

भीष्म उवाच । (३।१)

bhīṣma uvāca

3.2३.२

आत्मा पुत्रस्तु विज्ञेयस्तस्यानन्तरजश्च यः । (३।२)

ātmā putrastu vijñeyastasyānantarajaśca yaḥ |

3.3३.३

नियुक्तजश्च विज्ञेयः सुतः प्रसृतजस्तथा ॥ (३।३)

niyuktajaśca vijñeyaḥ sutaḥ prasṛtajastathā ||

4.1४.१

पतितस्य च भार्यायां भर्त्रा सुसमवेतया । (४।१)

patitasya ca bhāryāyāṃ bhartrā susamavetayā |

4.2४.२

तथा दत्तकृतौ पुत्रावध्यूढश्च तथापरः ॥ (४।२)

tathā dattakṛtau putrāvadhyūḍhaśca tathāparaḥ ||

5.1५.१

षड् अपध्वंसजाश्चापि कानीनापसदास्तथा । (५।१)

ṣaḍ apadhvaṃsajāścāpi kānīnāpasadāstathā |

5.2५.२

इत्येते ते समाख्यातास्तान् विजानीहि भारत ॥ (५।२)

ityete te samākhyātāstān vijānīhi bhārata ||

6.1६.१

युधिष्ठिर उवाच । (६।१)

yudhiṣṭhira uvāca

6.2६.२

षड् अपध्वंसजाः के स्युः के वाप्यपसदास्तथा । (६।२)

ṣaḍ apadhvaṃsajāḥ ke syuḥ ke vāpyapasadāstathā |

6.3६.३

एतत् सर्वं यथातत्त्वं व्याख्यातुं मे त्वम् अर्हसि ॥ (६।३)

etat sarvaṃ yathātattvaṃ vyākhyātuṃ me tvam arhasi ||

7.1७.१

भीष्म उवाच । (७।१)

bhīṣma uvāca

7.2७.२

त्रिषु वर्णेषु ये पुत्रा ब्राह्मणस्य युधिष्ठिर । (७।२)

triṣu varṇeṣu ye putrā brāhmaṇasya yudhiṣṭhira |

7.3७.३

वर्णयोश्च द्वयोः स्यातां यौ राजन्यस्य भारत ॥ (७।३)

varṇayośca dvayoḥ syātāṃ yau rājanyasya bhārata ||

8.1८.१

एको द्विवर्ण एवाथ तथात्रैवोपलक्षितः । (८।१)

eko dvivarṇa evātha tathātraivopalakṣitaḥ |

8.2८.२

षड् अपध्वंसजास्ते हि तथैवापसदाञ् शृणु ॥ (८।२)

ṣaḍ apadhvaṃsajāste hi tathaivāpasadāñ śṛṇu ||

9.1९.१

चण्डालो व्रात्यवेनौ च ब्राह्मण्यां क्षत्रियासु च । (९।१)

caṇḍālo vrātyavenau ca brāhmaṇyāṃ kṣatriyāsu ca |

9.2९.२

वैश्यायां चैव शूद्रस्य लक्ष्यन्ते ऽपसदास्त्रयः ॥ (९।२)

vaiśyāyāṃ caiva śūdrasya lakṣyante 'pasadāstrayaḥ ||

10.1१०.१

मागधो वामकश्चैव द्वौ वैश्यस्योपलक्षितौ । (१०।१)

māgadho vāmakaścaiva dvau vaiśyasyopalakṣitau |

10.2१०.२

ब्राह्मण्यां क्षत्रियायां च क्षत्रियस्यैक एव तु ॥ (१०।२)

brāhmaṇyāṃ kṣatriyāyāṃ ca kṣatriyasyaika eva tu ||

11.1११.१

ब्राह्मण्यां लक्ष्यते सूत इत्येते ऽपसदाः स्मृताः । (११।१)

brāhmaṇyāṃ lakṣyate sūta ityete 'pasadāḥ smṛtāḥ |

11.2११.२

पुत्ररेतो न शक्यं हि मिथ्या कर्तुं नराधिप ॥ (११।२)

putrareto na śakyaṃ hi mithyā kartuṃ narādhipa ||

12.1१२.१

युधिष्ठिर उवाच । (१२।१)

yudhiṣṭhira uvāca

12.2१२.२

क्षेत्रजं केचिद् एवाहुः सुतं केचित् तु शुक्रजम् । (१२।२)

kṣetrajaṃ kecid evāhuḥ sutaṃ kecit tu śukrajam |

12.3१२.३

तुल्यावेतौ सुतौ कस्य तन्मे ब्रूहि पितामह ॥ (१२।३)

tulyāvetau sutau kasya tanme brūhi pitāmaha ||

13.1१३.१

भीष्म उवाच । (१३।१)

bhīṣma uvāca

13.2१३.२

रेतजो वा भवेत् पुत्रस्त्यक्तो वा क्षेत्रजो भवेत् । (१३।२)

retajo vā bhavet putrastyakto vā kṣetrajo bhavet |

13.3१३.३

अध्यूढः समयं भित्त्वेत्येतद् एव निबोध मे ॥ (१३।३)

adhyūḍhaḥ samayaṃ bhittvetyetad eva nibodha me ||

14.1१४.१

युधिष्ठिर उवाच । (१४।१)

yudhiṣṭhira uvāca

14.2१४.२

रेतोजं विद्म वै पुत्रं क्षेत्रजस्यागमः कथम् । (१४।२)

retojaṃ vidma vai putraṃ kṣetrajasyāgamaḥ katham |

14.3१४.३

अध्यूढं विद्म वै पुत्रं हित्वा च समयं कथम् ॥ (१४।३)

adhyūḍhaṃ vidma vai putraṃ hitvā ca samayaṃ katham ||

15.1१५.१

भीष्म उवाच । (१५।१)

bhīṣma uvāca

15.2१५.२

आत्मजं पुत्रम् उत्पाद्य यस्त्यजेत् कारणान्तरे । (१५।२)

ātmajaṃ putram utpādya yastyajet kāraṇāntare |

15.3१५.३

न तत्र कारणं रेतः स क्षेत्रस्वामिनो भवेत् ॥ (१५।३)

na tatra kāraṇaṃ retaḥ sa kṣetrasvāmino bhavet ||

16.1१६.१

पुत्रकामो हि पुत्रार्थे यां वृणीते विशां पते । (१६।१)

putrakāmo hi putrārthe yāṃ vṛṇīte viśāṃ pate |

16.2१६.२

तत्र क्षेत्रं प्रमाणं स्यान्न वै तत्रात्मजः सुतः ॥ (१६।२)

tatra kṣetraṃ pramāṇaṃ syānna vai tatrātmajaḥ sutaḥ ||

17.1१७.१

अन्यत्र क्षेत्रजः पुत्रो लक्ष्यते भरतर्षभ । (१७।१)

anyatra kṣetrajaḥ putro lakṣyate bharatarṣabha |

17.2१७.२

न ह्यात्मा शक्यते हन्तुं दृष्टान्तोपगतो ह्यसौ ॥ (१७।२)

na hyātmā śakyate hantuṃ dṛṣṭāntopagato hyasau ||

18.1१८.१

कश्चिच्च कृतकः पुत्रः संग्रहाद् एव लक्ष्यते । (१८।१)

kaścicca kṛtakaḥ putraḥ saṃgrahād eva lakṣyate |

18.2१८.२

न तत्र रेतः क्षेत्रं वा प्रमाणं स्याद् युधिष्ठिर ॥ (१८।२)

na tatra retaḥ kṣetraṃ vā pramāṇaṃ syād yudhiṣṭhira ||

19.1१९.१

युधिष्ठिर उवाच । (१९।१)

yudhiṣṭhira uvāca

19.2१९.२

कीदृशः कृतकः पुत्रः संग्रहाद् एव लक्ष्यते । (१९।२)

kīdṛśaḥ kṛtakaḥ putraḥ saṃgrahād eva lakṣyate |

19.3१९.३

शुक्रं क्षेत्रं प्रमाणं वा यत्र लक्ष्येत भारत ॥ (१९।३)

śukraṃ kṣetraṃ pramāṇaṃ vā yatra lakṣyeta bhārata ||

20.1२०.१

भीष्म उवाच । (२०।१)

bhīṣma uvāca

20.2२०.२

मातापितृभ्यां संत्यक्तं पथि यं तु प्रलक्षयेत् । (२०।२)

mātāpitṛbhyāṃ saṃtyaktaṃ pathi yaṃ tu pralakṣayet |

20.3२०.३

न चास्य मातापितरौ ज्ञायेते स हि कृत्रिमः ॥ (२०।३)

na cāsya mātāpitarau jñāyete sa hi kṛtrimaḥ ||

21.1२१.१

अस्वामिकस्य स्वामित्वं यस्मिन् संप्रतिलक्षयेत् । (२१।१)

asvāmikasya svāmitvaṃ yasmin saṃpratilakṣayet |

21.2२१.२

सवर्णस्तं च पोषेत सवर्णस्तस्य जायते ॥ (२१।२)

savarṇastaṃ ca poṣeta savarṇastasya jāyate ||

22.1२२.१

युधिष्ठिर उवाच । (२२।१)

yudhiṣṭhira uvāca

22.2२२.२

कथम् अस्य प्रयोक्तव्यः संस्कारः कस्य वा कथम् । (२२।२)

katham asya prayoktavyaḥ saṃskāraḥ kasya vā katham |

22.3२२.३

देया कन्या कथं चेति तन्मे ब्रूहि पितामह ॥ (२२।३)

deyā kanyā kathaṃ ceti tanme brūhi pitāmaha ||

23.1२३.१

भीष्म उवाच । (२३।१)

bhīṣma uvāca

23.2२३.२

आत्मवत् तस्य कुर्वीत संस्कारं स्वामिवत् तथा ॥ (२३।२)

ātmavat tasya kurvīta saṃskāraṃ svāmivat tathā ||

24.1२४.१

त्यक्तो मातापितृभ्यां यः सवर्णं प्रतिपद्यते । (२४।१)

tyakto mātāpitṛbhyāṃ yaḥ savarṇaṃ pratipadyate |

24.2२४.२

तद् गोत्रवर्णतस्तस्य कुर्यात् संस्कारम् अच्युत ॥ (२४।२)

tad gotravarṇatastasya kuryāt saṃskāram acyuta ||

25.1२५.१

अथ देया तु कन्या स्यात् तद्वर्णेन युधिष्ठिर । (२५।१)

atha deyā tu kanyā syāt tadvarṇena yudhiṣṭhira |

25.2२५.२

संस्कर्तुं मातृगोत्रं च मातृवर्णविनिश्चये ॥ (२५।२)

saṃskartuṃ mātṛgotraṃ ca mātṛvarṇaviniścaye ||

26.1२६.१

कानीनाध्यूढजौ चापि विज्ञेयौ पुत्रकिल्बिषौ । (२६।१)

kānīnādhyūḍhajau cāpi vijñeyau putrakilbiṣau |

26.2२६.२

तावपि स्वाविव सुतौ संस्कार्याविति निश्चयः ॥ (२६।२)

tāvapi svāviva sutau saṃskāryāviti niścayaḥ ||

27.1२७.१

क्षेत्रजो वाप्यपसदो ये ऽध्यूढास्तेषु चाप्यथ । (२७।१)

kṣetrajo vāpyapasado ye 'dhyūḍhāsteṣu cāpyatha |

27.2२७.२

आत्मवद् वै प्रयुञ्जीरन् संस्कारं ब्राह्मणादयः ॥ (२७।२)

ātmavad vai prayuñjīran saṃskāraṃ brāhmaṇādayaḥ ||

28.1२८.१

धर्मशास्त्रेषु वर्णानां निश्चयो ऽयं प्रदृश्यते । (२८।१)

dharmaśāstreṣu varṇānāṃ niścayo 'yaṃ pradṛśyate |

28.2२८.२

एतत् ते सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छसि ॥ (२८।२)

etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 13, 49

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit