MBh, 5, 173
Select a line for its word-by-word analysis.
बान्धवैर् विप्रहीनास्मि शाल्वेन च निराकृता ॥ (१।४)
bāndhavair viprahīnāsmi śālvena ca nirākṛtā ||
न च शक्यं पुनर् गन्तुं मया वारणसाह्वयम् । (२।१)
na ca śakyaṃ punar gantuṃ mayā vāraṇasāhvayam |
अनुज्ञातास्मि भीष्मेण शाल्वम् उद्दिश्य कारणम् ॥ (२।२)
anujñātāsmi bhīṣmeṇa śālvam uddiśya kāraṇam ||
किं नु गर्हाम्यथात्मानम् अथ भीष्मं दुरासदम् । (३।१)
kiṃ nu garhāmyathātmānam atha bhīṣmaṃ durāsadam |
आहोस्वित् पितरं मूढं यो मे ऽकार्षीत् स्वयंवरम् ॥ (३।२)
āhosvit pitaraṃ mūḍhaṃ yo me 'kārṣīt svayaṃvaram ||
प्रवृत्ते वैशसे युद्धे शाल्वार्थं नापतं पुरा । (४।२)
pravṛtte vaiśase yuddhe śālvārthaṃ nāpataṃ purā |
तस्येयं फलनिर्वृत्तिर् यद् आपन्नास्मि मूढवत् ॥ (४।३)
tasyeyaṃ phalanirvṛttir yad āpannāsmi mūḍhavat ||
धिग् भीष्मं धिक् च मे मन्दं पितरं मूढचेतसम् । (५।१)
dhig bhīṣmaṃ dhik ca me mandaṃ pitaraṃ mūḍhacetasam |
येनाहं वीर्यशुल्केन पण्यस्त्रीवत् प्रवेरिता ॥ (५।२)
yenāhaṃ vīryaśulkena paṇyastrīvat praveritā ||
धिङ् मां धिक् शाल्वराजानं धिग् धातारम् अथापि च । (६।१)
dhiṅ māṃ dhik śālvarājānaṃ dhig dhātāram athāpi ca |
येषां दुर्नीतभावेन प्राप्तास्म्यापदम् उत्तमाम् ॥ (६।२)
yeṣāṃ durnītabhāvena prāptāsmyāpadam uttamām ||
सर्वथा भागधेयानि स्वानि प्राप्नोति मानवः । (७।१)
sarvathā bhāgadheyāni svāni prāpnoti mānavaḥ |
सा भीष्मे प्रतिकर्तव्यम् अहं पश्यामि सांप्रतम् । (८।१)
sā bhīṣme pratikartavyam ahaṃ paśyāmi sāṃpratam |
को नु भीष्मं युधा जेतुम् उत्सहेत महीपतिः ॥ (८।३)
ko nu bhīṣmaṃ yudhā jetum utsaheta mahīpatiḥ ||
आचख्यौ च यथा वृत्तं सर्वम् आत्मनि भारत । (१०।१)
ācakhyau ca yathā vṛttaṃ sarvam ātmani bhārata |
हरणं च विसर्गं च शाल्वेन च विसर्जनम् ॥ (१०।३)
haraṇaṃ ca visargaṃ ca śālvena ca visarjanam ||
ततस्तत्र महान् आसीद् ब्राह्मणः संशितव्रतः । (११।१)
tatastatra mahān āsīd brāhmaṇaḥ saṃśitavrataḥ |
शैखावत्यस्तपोवृद्धः शास्त्रे चारण्यके गुरुः ॥ (११।२)
śaikhāvatyastapovṛddhaḥ śāstre cāraṇyake guruḥ ||
आर्तां ताम् आह स मुनिः शैखावत्यो महातपाः । (१२।१)
ārtāṃ tām āha sa muniḥ śaikhāvatyo mahātapāḥ |
निःश्वसन्तीं सतीं बालां दुःखशोकपरायणाम् ॥ (१२।२)
niḥśvasantīṃ satīṃ bālāṃ duḥkhaśokaparāyaṇām ||
एवं गते किं नु भद्रे शक्यं कर्तुं तपस्विभिः । (१३।१)
evaṃ gate kiṃ nu bhadre śakyaṃ kartuṃ tapasvibhiḥ |
आश्रमस्थैर् महाभागैस्तपोनित्यैर् महात्मभिः ॥ (१३।२)
āśramasthair mahābhāgaistaponityair mahātmabhiḥ ||
सा त्वेनम् अब्रवीद् राजन् क्रियतां मदनुग्रहः । (१४।१)
sā tvenam abravīd rājan kriyatāṃ madanugrahaḥ |
प्रव्राजितुम् इहेच्छामि तपस्तप्स्यामि दुश्चरम् ॥ (१४।२)
pravrājitum ihecchāmi tapastapsyāmi duścaram ||
कृतानि नूनं पापानि तेषाम् एतत् फलं ध्रुवम् ॥ (१५।२)
kṛtāni nūnaṃ pāpāni teṣām etat phalaṃ dhruvam ||
नोत्सहेयं पुनर् गन्तुं स्वजनं प्रति तापसाः । (१६।१)
notsaheyaṃ punar gantuṃ svajanaṃ prati tāpasāḥ |
प्रत्याख्याता निरानन्दा शाल्वेन च निराकृता ॥ (१६।२)
pratyākhyātā nirānandā śālvena ca nirākṛtā ||
युष्माभिर् देवसंकाशाः कृपा भवतु वो मयि ॥ (१७।२)
yuṣmābhir devasaṃkāśāḥ kṛpā bhavatu vo mayi ||
स ताम् आश्वासयत् कन्यां दृष्टान्तागमहेतुभिः । (१८।१)
sa tām āśvāsayat kanyāṃ dṛṣṭāntāgamahetubhiḥ |
सान्त्वयामास कार्यं च प्रतिजज्ञे द्विजैः सह ॥ (१८।२)
sāntvayāmāsa kāryaṃ ca pratijajñe dvijaiḥ saha ||
Data courtesy of The Digital Corpus of Sanskrit.