MBh, 3, 29
Select a line for its word-by-word analysis.
प्रह्लादस्य च संवादं बलेर् वैरोचनस्य च ॥ (१।३)
prahlādasya ca saṃvādaṃ baler vairocanasya ca ||
असुरेन्द्रं महाप्राज्ञं धर्माणाम् आगतागमम् । (२।१)
asurendraṃ mahāprājñaṃ dharmāṇām āgatāgamam |
बलिः पप्रच्छ दैत्येन्द्रं प्रह्लादं पितरं पितुः ॥ (२।२)
baliḥ papraccha daityendraṃ prahlādaṃ pitaraṃ pituḥ ||
क्षमा स्विच्छ्रेयसी तात उताहो तेज इत्य् उत । (३।१)
kṣamā svicchreyasī tāta utāho teja ity uta |
एतन् मे संशयं तात यथावद् ब्रूहि पृच्छते ॥ (३।२)
etan me saṃśayaṃ tāta yathāvad brūhi pṛcchate ||
श्रेयो यद् अत्र धर्मज्ञ ब्रूहि मे तद् असंशयम् । (४।१)
śreyo yad atra dharmajña brūhi me tad asaṃśayam |
तस्मै प्रोवाच तत् सर्वम् एवं पृष्टः पितामहः । (५।१)
tasmai provāca tat sarvam evaṃ pṛṣṭaḥ pitāmahaḥ |
सर्वनिश्चयवित् प्राज्ञः संशयं परिपृच्छते ॥ (५।२)
sarvaniścayavit prājñaḥ saṃśayaṃ paripṛcchate ||
न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा । (६।२)
na śreyaḥ satataṃ tejo na nityaṃ śreyasī kṣamā |
यो नित्यं क्षमते तात बहून् दोषान् स विन्दति । (७।१)
yo nityaṃ kṣamate tāta bahūn doṣān sa vindati |
भृत्याः परिभवन्त्येनम् उदासीनास् तथैव च ॥ (७।२)
bhṛtyāḥ paribhavantyenam udāsīnās tathaiva ca ||
तस्मान् नित्यं क्षमा तात पण्डितैर् अपवादिता ॥ (८।२)
tasmān nityaṃ kṣamā tāta paṇḍitair apavāditā ||
आदातुं चास्य वित्तानि प्रार्थयन्ते ऽल्पचेतसः ॥ (९।२)
ādātuṃ cāsya vittāni prārthayante 'lpacetasaḥ ||
यानं वस्त्राण्य् अलंकाराञ्शयनान्य् आसनानि च । (१०।१)
yānaṃ vastrāṇy alaṃkārāñśayanāny āsanāni ca |
प्रदिष्टानि च देयानि न दद्युर् भर्तृशासनात् ॥ (११।२)
pradiṣṭāni ca deyāni na dadyur bhartṛśāsanāt ||
अवज्ञानं हि लोके ऽस्मिन् मरणाद् अपि गर्हितम् ॥ (१२।२)
avajñānaṃ hi loke 'smin maraṇād api garhitam ||
क्षमिणं तादृशं तात ब्रुवन्ति कटुकान्यपि । (१३।१)
kṣamiṇaṃ tādṛśaṃ tāta bruvanti kaṭukānyapi |
प्रेष्याः पुत्राश् च भृत्याश् च तथोदासीनवृत्तयः ॥ (१३।२)
preṣyāḥ putrāś ca bhṛtyāś ca tathodāsīnavṛttayaḥ ||
अप्यस्य दारान् इच्छन्ति परिभूय क्षमावतः । (१४।१)
apyasya dārān icchanti paribhūya kṣamāvataḥ |
दाराश् चास्य प्रवर्तन्ते यथाकामम् अचेतसः ॥ (१४।२)
dārāś cāsya pravartante yathākāmam acetasaḥ ||
तथा च नित्यम् उदिता यदि स्वल्पम् अपीश्वरात् । (१५।१)
tathā ca nityam uditā yadi svalpam apīśvarāt |
दण्डम् अर्हन्ति दुष्यन्ति दुष्टाश् चाप्यपकुर्वते ॥ (१५।२)
daṇḍam arhanti duṣyanti duṣṭāś cāpyapakurvate ||
एते चान्ये च बहवो नित्यं दोषाः क्षमावताम् । (१६।१)
ete cānye ca bahavo nityaṃ doṣāḥ kṣamāvatām |
अथ वैरोचने दोषान् इमान् विद्ध्यक्षमावताम् ॥ (१६।२)
atha vairocane doṣān imān viddhyakṣamāvatām ||
क्रुद्धो दण्डान् प्रणयति विविधान् स्वेन तेजसा ॥ (१७।२)
kruddho daṇḍān praṇayati vividhān svena tejasā ||
मित्रैः सह विरोधं च प्राप्नुते तेजसावृतः । (१८।१)
mitraiḥ saha virodhaṃ ca prāpnute tejasāvṛtaḥ |
प्राप्नोति द्वेष्यतां चैव लोकात् स्वजनतस् तथा ॥ (१८।२)
prāpnoti dveṣyatāṃ caiva lokāt svajanatas tathā ||
सो ऽवमानाद् अर्थहानिम् उपालम्भम् अनादरम् । (१९।१)
so 'vamānād arthahānim upālambham anādaram |
संतापद्वेषलोभांश्च शत्रूंश्च लभते नरः ॥ (१९।२)
saṃtāpadveṣalobhāṃśca śatrūṃśca labhate naraḥ ||
क्रोधाद् दण्डान् मनुष्येषु विविधान् पुरुषो नयन् । (२०।१)
krodhād daṇḍān manuṣyeṣu vividhān puruṣo nayan |
भ्रश्यते शीघ्रम् ऐश्वर्यात् प्राणेभ्यः स्वजनाद् अपि ॥ (२०।२)
bhraśyate śīghram aiśvaryāt prāṇebhyaḥ svajanād api ||
यो ऽपकर्तॄंश्च कर्तॄंश्च तेजसैवोपगच्छति । (२१।१)
yo 'pakartṝṃśca kartṝṃśca tejasaivopagacchati |
तस्माद् उद्विजते लोकः सर्पाद् वेश्मगताद् इव ॥ (२१।२)
tasmād udvijate lokaḥ sarpād veśmagatād iva ||
यस्माद् उद्विजते लोकः कथं तस्य भवो भवेत् । (२२।१)
yasmād udvijate lokaḥ kathaṃ tasya bhavo bhavet |
अन्तरं ह्यस्य दृष्ट्वैव लोको विकुरुते ध्रुवम् । (२२।२)
antaraṃ hyasya dṛṣṭvaiva loko vikurute dhruvam |
तस्मान् नात्युत्सृजेत् तेजो न च नित्यं मृदुर् भवेत् ॥ (२२।३)
tasmān nātyutsṛjet tejo na ca nityaṃ mṛdur bhavet ||
स वै सुखम् अवाप्नोति लोके ऽमुष्मिन्न् इहैव च ॥ (२३।२)
sa vai sukham avāpnoti loke 'muṣminn ihaiva ca ||
क्षमाकालांस् तु वक्ष्यामि शृणु मे विस्तरेण तान् । (२४।१)
kṣamākālāṃs tu vakṣyāmi śṛṇu me vistareṇa tān |
ये ते नित्यम् असंत्याज्या यथा प्राहुर् मनीषिणः ॥ (२४।२)
ye te nityam asaṃtyājyā yathā prāhur manīṣiṇaḥ ||
पूर्वोपकारी यस् तु स्याद् अपराधे ऽगरीयसि । (२५।१)
pūrvopakārī yas tu syād aparādhe 'garīyasi |
अबुद्धिम् आश्रितानां च क्षन्तव्यम् अपराधिनाम् । (२६।१)
abuddhim āśritānāṃ ca kṣantavyam aparādhinām |
न हि सर्वत्र पाण्डित्यं सुलभं पुरुषेण वै ॥ (२६।२)
na hi sarvatra pāṇḍityaṃ sulabhaṃ puruṣeṇa vai ||
अथ चेद् बुद्धिजं कृत्वा ब्रूयुस् ते तद् अबुद्धिजम् । (२७।१)
atha ced buddhijaṃ kṛtvā brūyus te tad abuddhijam |
पापान् स्वल्पे ऽपि तान् हन्याद् अपराधे तथानृजून् ॥ (२७।२)
pāpān svalpe 'pi tān hanyād aparādhe tathānṛjūn ||
सर्वस्यैको ऽपराधस् ते क्षन्तव्यः प्राणिनो भवेत् । (२८।१)
sarvasyaiko 'parādhas te kṣantavyaḥ prāṇino bhavet |
द्वितीये सति वध्यस् तु स्वल्पे ऽप्यपकृते भवेत् ॥ (२८।२)
dvitīye sati vadhyas tu svalpe 'pyapakṛte bhavet ||
क्षन्तव्यम् एव तस्याहुः सुपरीक्ष्य परीक्षया ॥ (२९।२)
kṣantavyam eva tasyāhuḥ suparīkṣya parīkṣayā ||
मृदुना मार्दवं हन्ति मृदुना हन्ति दारुणम् । (३०।१)
mṛdunā mārdavaṃ hanti mṛdunā hanti dāruṇam |
नासाध्यं मृदुना किंचित् तस्मात् तीक्ष्णतरो मृदुः ॥ (३०।२)
nāsādhyaṃ mṛdunā kiṃcit tasmāt tīkṣṇataro mṛduḥ ||
देशकालौ तु सम्प्रेक्ष्य बलाबलम् अथात्मनः । (३१।१)
deśakālau tu samprekṣya balābalam athātmanaḥ |
नादेशकाले किंचित् स्याद् देशः कालः प्रतीक्ष्यते । (३१।२)
nādeśakāle kiṃcit syād deśaḥ kālaḥ pratīkṣyate |
तथा लोकभयाच्चैव क्षन्तव्यम् अपराधिनः ॥ (३१।३)
tathā lokabhayāccaiva kṣantavyam aparādhinaḥ ||
एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः । (३२।१)
eta evaṃvidhāḥ kālāḥ kṣamāyāḥ parikīrtitāḥ |
धार्तराष्ट्रेषु लुब्धेषु सततं चापकारिषु ॥ (३३।३)
dhārtarāṣṭreṣu lubdheṣu satataṃ cāpakāriṣu ||
न हि कश्चित् क्षमाकालो विद्यते ऽद्य कुरून् प्रति । (३४।१)
na hi kaścit kṣamākālo vidyate 'dya kurūn prati |
तेजसश् चागते काले तेज उत्स्रष्टुम् अर्हसि ॥ (३४।२)
tejasaś cāgate kāle teja utsraṣṭum arhasi ||
मृदुर् भवत्य् अवज्ञातस् तीक्ष्णाद् उद्विजते जनः । (३५।१)
mṛdur bhavaty avajñātas tīkṣṇād udvijate janaḥ |
काले प्राप्ते द्वयं ह्येतद् यो वेद स महीपतिः ॥ (३५।२)
kāle prāpte dvayaṃ hyetad yo veda sa mahīpatiḥ ||
Data courtesy of The Digital Corpus of Sanskrit.