महाभारतMahābhārata

MBh, 3, 155

453 of 1995 · 195 verses

Select a line for its word-by-word analysis.

1.1१.१

वैशम्पायन उवाच । (१।१)

vaiśampāyana uvāca

1.2१.२

निहते राक्षसे तस्मिन् पुनर् नारायणाश्रमम् । (१।२)

nihate rākṣase tasmin punar nārāyaṇāśramam |

1.3१.३

अभ्येत्य राजा कौन्तेयो निवासम् अकरोत् प्रभुः ॥ (१।३)

abhyetya rājā kaunteyo nivāsam akarot prabhuḥ ||

2.1२.१

स समानीय तान् सर्वान् भ्रातॄन् इत्यब्रवीद् वचः । (२।१)

sa samānīya tān sarvān bhrātṝn ityabravīd vacaḥ |

2.2२.२

द्रौपद्या सहितान् काले संस्मरन् भ्रातरं जयम् ॥ (२।२)

draupadyā sahitān kāle saṃsmaran bhrātaraṃ jayam ||

3.1३.१

समाश् चतस्रो ऽभिगताः शिवेन चरतां वने । (३।१)

samāś catasro 'bhigatāḥ śivena caratāṃ vane |

3.2३.२

कृतोद्देशश्च बीभत्सुः पञ्चमीम् अभितः समाम् ॥ (३।२)

kṛtoddeśaśca bībhatsuḥ pañcamīm abhitaḥ samām ||

4.1४.१

प्राप्य पर्वतराजानं श्वेतं शिखरिणां वरम् । (४।१)

prāpya parvatarājānaṃ śvetaṃ śikhariṇāṃ varam |

4.2४.२

तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः ॥ (४।२)

tatrāpi ca kṛtoddeśaḥ samāgamadidṛkṣubhiḥ ||

5.1५.१

कृतश्च समयस् तेन पार्थेनामिततेजसा । (५।१)

kṛtaśca samayas tena pārthenāmitatejasā |

5.2५.२

पञ्च वर्षाणि वत्स्यामि विद्यार्थीति पुरा मयि ॥ (५।२)

pañca varṣāṇi vatsyāmi vidyārthīti purā mayi ||

6.1६.१

तत्र गाण्डीवधन्वानम् अवाप्तास्त्रम् अरिंदमम् । (६।१)

tatra gāṇḍīvadhanvānam avāptāstram ariṃdamam |

6.2६.२

देवलोकाद् इमं लोकं द्रक्ष्यामः पुनरागतम् ॥ (६।२)

devalokād imaṃ lokaṃ drakṣyāmaḥ punarāgatam ||

7.1७.१

इत्युक्त्वा ब्राह्मणान् सर्वान् आमन्त्रयत पाण्डवः । (७।१)

ityuktvā brāhmaṇān sarvān āmantrayata pāṇḍavaḥ |

7.2७.२

कारणं चैव तत् तेषाम् आचचक्षे तपस्विनाम् ॥ (७।२)

kāraṇaṃ caiva tat teṣām ācacakṣe tapasvinām ||

8.1८.१

तम् उग्रतपसः प्रीताः कृत्वा पार्थं प्रदक्षिणम् । (८।१)

tam ugratapasaḥ prītāḥ kṛtvā pārthaṃ pradakṣiṇam |

8.2८.२

ब्राह्मणास् ते ऽन्वमोदन्त शिवेन कुशलेन च ॥ (८।२)

brāhmaṇās te 'nvamodanta śivena kuśalena ca ||

9.1९.१

सुखोदर्कम् इमं क्लेशम् अचिराद् भरतर्षभ । (९।१)

sukhodarkam imaṃ kleśam acirād bharatarṣabha |

9.2९.२

क्षत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि ॥ (९।२)

kṣatradharmeṇa dharmajña tīrtvā gāṃ pālayiṣyasi ||

10.1१०.१

तत् तु राजा वचस् तेषां प्रतिगृह्य तपस्विनाम् । (१०।१)

tat tu rājā vacas teṣāṃ pratigṛhya tapasvinām |

10.2१०.२

प्रतस्थे सह विप्रैस् तैर् भ्रातृभिश् च परंतपः ॥ (१०।२)

pratasthe saha viprais tair bhrātṛbhiś ca paraṃtapaḥ ||

11.1११.१

द्रौपद्या सहितः श्रीमान् हैडिम्बेयादिभिस् तथा । (११।१)

draupadyā sahitaḥ śrīmān haiḍimbeyādibhis tathā |

11.2११.२

राक्षसैर् अनुयातश् च लोमशेनाभिरक्षितः ॥ (११।२)

rākṣasair anuyātaś ca lomaśenābhirakṣitaḥ ||

12.1१२.१

क्वचिज् जगाम पद्भ्यां तु राक्षसैर् उह्यते क्वचित् । (१२।१)

kvacij jagāma padbhyāṃ tu rākṣasair uhyate kvacit |

12.2१२.२

तत्र तत्र महातेजा भ्रातृभिः सह सुव्रतः ॥ (१२।२)

tatra tatra mahātejā bhrātṛbhiḥ saha suvrataḥ ||

13.1१३.१

ततो युधिष्ठिरो राजा बहून् क्लेशान् विचिन्तयन् । (१३।१)

tato yudhiṣṭhiro rājā bahūn kleśān vicintayan |

13.2१३.२

सिंहव्याघ्रगजाकीर्णाम् उदीचीं प्रययौ दिशम् ॥ (१३।२)

siṃhavyāghragajākīrṇām udīcīṃ prayayau diśam ||

14.1१४.१

अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम् । (१४।१)

avekṣamāṇaḥ kailāsaṃ mainākaṃ caiva parvatam |

14.2१४.२

गन्धमादनपादांश् च मेरुं चापि शिलोच्चयम् ॥ (१४।२)

gandhamādanapādāṃś ca meruṃ cāpi śiloccayam ||

15.1१५.१

उपर्युपरि शैलस्य बह्वीश् च सरितः शिवाः । (१५।१)

uparyupari śailasya bahvīś ca saritaḥ śivāḥ |

15.2१५.२

प्रस्थं हिमवतः पुण्यं ययौ सप्तदशे ऽहनि ॥ (१५।२)

prasthaṃ himavataḥ puṇyaṃ yayau saptadaśe 'hani ||

16.1१६.१

ददृशुः पाण्डवा राजन् गन्धमादनम् अन्तिकात् । (१६।१)

dadṛśuḥ pāṇḍavā rājan gandhamādanam antikāt |

16.2१६.२

पृष्ठे हिमवतः पुण्ये नानाद्रुमलतायुते ॥ (१६।२)

pṛṣṭhe himavataḥ puṇye nānādrumalatāyute ||

17.1१७.१

सलिलावर्तसंजातैः पुष्पितैश् च महीरुहैः । (१७।१)

salilāvartasaṃjātaiḥ puṣpitaiś ca mahīruhaiḥ |

17.2१७.२

समावृतं पुण्यतमम् आश्रमं वृषपर्वणः ॥ (१७।२)

samāvṛtaṃ puṇyatamam āśramaṃ vṛṣaparvaṇaḥ ||

18.1१८.१

तम् उपक्रम्य राजर्षिं धर्मात्मानम् अरिंदमाः । (१८।१)

tam upakramya rājarṣiṃ dharmātmānam ariṃdamāḥ |

18.2१८.२

पाण्डवा वृषपर्वाणम् अवन्दन्त गतक्लमाः ॥ (१८।२)

pāṇḍavā vṛṣaparvāṇam avandanta gataklamāḥ ||

19.1१९.१

अभ्यनन्दत् स राजर्षिः पुत्रवद् भरतर्षभान् । (१९।१)

abhyanandat sa rājarṣiḥ putravad bharatarṣabhān |

19.2१९.२

पूजिताश् चावसंस् तत्र सप्तरात्रम् अरिंदमाः ॥ (१९।२)

pūjitāś cāvasaṃs tatra saptarātram ariṃdamāḥ ||

20.1२०.१

अष्टमे ऽहनि सम्प्राप्ते तम् ऋषिं लोकविश्रुतम् । (२०।१)

aṣṭame 'hani samprāpte tam ṛṣiṃ lokaviśrutam |

20.2२०.२

आमन्त्र्य वृषपर्वाणं प्रस्थानं समरोचयन् ॥ (२०।२)

āmantrya vṛṣaparvāṇaṃ prasthānaṃ samarocayan ||

21.1२१.१

एकैकशश् च तान् विप्रान् निवेद्य वृषपर्वणे । (२१।१)

ekaikaśaś ca tān viprān nivedya vṛṣaparvaṇe |

21.2२१.२

न्यासभूतान् यथाकालं बन्धून् इव सुसत्कृतान् ॥ (२१।२)

nyāsabhūtān yathākālaṃ bandhūn iva susatkṛtān ||

22.1२२.१

ततस् ते वरवस्त्राणि शुभान्याभरणानि च । (२२।१)

tatas te varavastrāṇi śubhānyābharaṇāni ca |

22.2२२.२

न्यदधुः पाण्डवास् तस्मिन्न् आश्रमे वृषपर्वणः ॥ (२२।२)

nyadadhuḥ pāṇḍavās tasminn āśrame vṛṣaparvaṇaḥ ||

23.1२३.१

अतीतानागते विद्वान् कुशलः सर्वधर्मवित् । (२३।१)

atītānāgate vidvān kuśalaḥ sarvadharmavit |

23.2२३.२

अन्वशासत् स धर्मज्ञः पुत्रवद् भरतर्षभान् ॥ (२३।२)

anvaśāsat sa dharmajñaḥ putravad bharatarṣabhān ||

24.1२४.१

ते ऽनुज्ञाता महात्मानः प्रययुर् दिशम् उत्तराम् । (२४।१)

te 'nujñātā mahātmānaḥ prayayur diśam uttarām |

24.2२४.२

कृष्णया सहिता वीरा ब्राह्मणैश् च महात्मभिः । (२४।२)

kṛṣṇayā sahitā vīrā brāhmaṇaiś ca mahātmabhiḥ |

24.3२४.३

तान् प्रस्थितान् अन्वगच्छद् वृषपर्वा महीपतिः ॥ (२४।३)

tān prasthitān anvagacchad vṛṣaparvā mahīpatiḥ ||

25.1२५.१

उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस् तदा । (२५।१)

upanyasya mahātejā viprebhyaḥ pāṇḍavāṃs tadā |

25.2२५.२

अनुसंसाध्य कौन्तेयान् आशीर्भिर् अभिनन्द्य च । (२५।२)

anusaṃsādhya kaunteyān āśīrbhir abhinandya ca |

25.3२५.३

वृषपर्वा निववृते पन्थानम् उपदिश्य च ॥ (२५।३)

vṛṣaparvā nivavṛte panthānam upadiśya ca ||

26.1२६.१

नानामृगगणैर् जुष्टं कौन्तेयः सत्यविक्रमः । (२६।१)

nānāmṛgagaṇair juṣṭaṃ kaunteyaḥ satyavikramaḥ |

26.2२६.२

पदातिर् भ्रातृभिः सार्धं प्रातिष्ठत युधिष्ठिरः ॥ (२६।२)

padātir bhrātṛbhiḥ sārdhaṃ prātiṣṭhata yudhiṣṭhiraḥ ||

27.1२७.१

नानाद्रुमनिरोधेषु वसन्तः शैलसानुषु । (२७।१)

nānādrumanirodheṣu vasantaḥ śailasānuṣu |

27.2२७.२

पर्वतं विविशुः श्वेतं चतुर्थे ऽहनि पाण्डवाः ॥ (२७।२)

parvataṃ viviśuḥ śvetaṃ caturthe 'hani pāṇḍavāḥ ||

28.1२८.१

महाभ्रघनसंकाशं सलिलोपहितं शुभम् । (२८।१)

mahābhraghanasaṃkāśaṃ salilopahitaṃ śubham |

28.2२८.२

मणिकाञ्चनरम्यं च शैलं नानासमुच्छ्रयम् ॥ (२८।२)

maṇikāñcanaramyaṃ ca śailaṃ nānāsamucchrayam ||

29.1२९.१

ते समासाद्य पन्थानं यथोक्तं वृषपर्वणा । (२९।१)

te samāsādya panthānaṃ yathoktaṃ vṛṣaparvaṇā |

29.2२९.२

अनुसस्रुर् यथोद्देशं पश्यन्तो विविधान् नगान् ॥ (२९।२)

anusasrur yathoddeśaṃ paśyanto vividhān nagān ||

30.1३०.१

उपर्युपरि शैलस्य गुहाः परमदुर्गमाः । (३०।१)

uparyupari śailasya guhāḥ paramadurgamāḥ |

30.2३०.२

सुदुर्गमांस् ते सुबहून् सुखेनैवाभिचक्रमुः ॥ (३०।२)

sudurgamāṃs te subahūn sukhenaivābhicakramuḥ ||

31.1३१.१

धौम्यः कृष्णा च पार्थाश् च लोमशश् च महान् ऋषिः । (३१।१)

dhaumyaḥ kṛṣṇā ca pārthāś ca lomaśaś ca mahān ṛṣiḥ |

31.2३१.२

अगमन् सहितास् तत्र न कश्चिद् अवहीयते ॥ (३१।२)

agaman sahitās tatra na kaścid avahīyate ||

32.1३२.१

ते मृगद्विजसंघुष्टं नानाद्विजसमाकुलम् । (३२।१)

te mṛgadvijasaṃghuṣṭaṃ nānādvijasamākulam |

32.2३२.२

शाखामृगगणैश् चैव सेवितं सुमनोहरम् ॥ (३२।२)

śākhāmṛgagaṇaiś caiva sevitaṃ sumanoharam ||

33.1३३.१

पुण्यं पद्मसरोपेतं सपल्वलमहावनम् । (३३।१)

puṇyaṃ padmasaropetaṃ sapalvalamahāvanam |

33.2३३.२

उपतस्थुर् महावीर्या माल्यवन्तं महागिरिम् ॥ (३३।२)

upatasthur mahāvīryā mālyavantaṃ mahāgirim ||

34.1३४.१

ततः किम्पुरुषावासं सिद्धचारणसेवितम् । (३४।१)

tataḥ kimpuruṣāvāsaṃ siddhacāraṇasevitam |

34.2३४.२

ददृशुर् हृष्टरोमाणः पर्वतं गन्धमादनम् ॥ (३४।२)

dadṛśur hṛṣṭaromāṇaḥ parvataṃ gandhamādanam ||

35.1३५.१

विद्याधरानुचरितं किंनरीभिस् तथैव च । (३५।१)

vidyādharānucaritaṃ kiṃnarībhis tathaiva ca |

35.2३५.२

गजसिंहसमाकीर्णम् उदीर्णशरभायुतम् ॥ (३५।२)

gajasiṃhasamākīrṇam udīrṇaśarabhāyutam ||

36.1३६.१

उपेतम् अन्यैश् च तदा मृगैर् मृदुनिनादिभिः । (३६।१)

upetam anyaiś ca tadā mṛgair mṛduninādibhiḥ |

36.2३६.२

ते गन्धमादनवनं तन् नन्दनवनोपमम् ॥ (३६।२)

te gandhamādanavanaṃ tan nandanavanopamam ||

37.1३७.१

मुदिताः पाण्डुतनया मनोहृदयनन्दनम् । (३७।१)

muditāḥ pāṇḍutanayā manohṛdayanandanam |

37.2३७.२

विविशुः क्रमशो वीरा अरण्यं शुभकाननम् ॥ (३७।२)

viviśuḥ kramaśo vīrā araṇyaṃ śubhakānanam ||

38.1३८.१

द्रौपदीसहिता वीरास् तैश् च विप्रैर् महात्मभिः । (३८।१)

draupadīsahitā vīrās taiś ca viprair mahātmabhiḥ |

38.2३८.२

शृण्वन्तः प्रीतिजननान् वल्गून् मदकलाञ् शुभान् । (३८।२)

śṛṇvantaḥ prītijananān valgūn madakalāñ śubhān |

38.3३८.३

श्रोत्ररम्यान् सुमधुराञ्शब्दान् खगमुखेरितान् ॥ (३८।३)

śrotraramyān sumadhurāñśabdān khagamukheritān ||

39.1३९.१

सर्वर्तुफलभाराढ्यान् सर्वर्तुकुसुमोज्ज्वलान् । (३९।१)

sarvartuphalabhārāḍhyān sarvartukusumojjvalān |

39.2३९.२

पश्यन्तः पादपांश् चापि फलभारावनामितान् ॥ (३९।२)

paśyantaḥ pādapāṃś cāpi phalabhārāvanāmitān ||

40.1४०.१

आम्रान् आम्रातकान् फुल्लान् नारिकेलान् सतिन्दुकान् । (४०।१)

āmrān āmrātakān phullān nārikelān satindukān |

40.2४०.२

अजातकांस् तथा जीरान् दाडिमान् बीजपूरकान् ॥ (४०।२)

ajātakāṃs tathā jīrān dāḍimān bījapūrakān ||

41.1४१.१

पनसांल्लिकुचान् मोचान् खर्जूरान् आम्रवेतसान् । (४१।१)

panasāṃllikucān mocān kharjūrān āmravetasān |

41.2४१.२

पारावतांस् तथा क्षौद्रान् नीपांश् चापि मनोरमान् ॥ (४१।२)

pārāvatāṃs tathā kṣaudrān nīpāṃś cāpi manoramān ||

42.1४२.१

बिल्वान् कपित्थाञ् जम्बूंश्च काश्मरीर् बदरीस् तथा । (४२।१)

bilvān kapitthāñ jambūṃśca kāśmarīr badarīs tathā |

42.2४२.२

प्लक्षान् उदुम्बरवटान् अश्वत्थान् क्षीरिणस् तथा । (४२।२)

plakṣān udumbaravaṭān aśvatthān kṣīriṇas tathā |

42.3४२.३

भल्लातकान् आमलकान् हरीतकविभीतकान् ॥ (४२।३)

bhallātakān āmalakān harītakavibhītakān ||

43.1४३.१

इङ्गुदान् करवीरांश् च तिन्दुकांश् च महाफलान् । (४३।१)

iṅgudān karavīrāṃś ca tindukāṃś ca mahāphalān |

43.2४३.२

एतान् अन्यांश् च विविधान् गन्धमादनसानुषु ॥ (४३।२)

etān anyāṃś ca vividhān gandhamādanasānuṣu ||

44.1४४.१

फलैर् अमृतकल्पैस् तान् आचितान् स्वादुभिस् तरून् । (४४।१)

phalair amṛtakalpais tān ācitān svādubhis tarūn |

44.2४४.२

तथैव चम्पकाशोकान् केतकान् बकुलांस् तथा ॥ (४४।२)

tathaiva campakāśokān ketakān bakulāṃs tathā ||

45.1४५.१

पुंनागान् सप्तपर्णांश् च कर्णिकारान् सकेतकान् । (४५।१)

puṃnāgān saptaparṇāṃś ca karṇikārān saketakān |

45.2४५.२

पाटलान् कुटजान् रम्यान् मन्दारेन्दीवरांस् तथा ॥ (४५।२)

pāṭalān kuṭajān ramyān mandārendīvarāṃs tathā ||

46.1४६.१

पारिजातान् कोविदारान् देवदारुतरूंस् तथा । (४६।१)

pārijātān kovidārān devadārutarūṃs tathā |

46.2४६.२

शालांस् तालांस् तमालांश् च प्रियालान् बकुलांस् तथा । (४६।२)

śālāṃs tālāṃs tamālāṃś ca priyālān bakulāṃs tathā |

46.3४६.३

शाल्मलीः किंशुकाशोकाञ् शिंशपांस् तरलांस् तथा ॥ (४६।३)

śālmalīḥ kiṃśukāśokāñ śiṃśapāṃs taralāṃs tathā ||

47.1४७.१

चकोरैः शतपत्त्रैश् च भृङ्गराजैस् तथा शुकैः । (४७।१)

cakoraiḥ śatapattraiś ca bhṛṅgarājais tathā śukaiḥ |

47.2४७.२

कोकिलैः कलविङ्कैश् च हारीतैर् जीवजीवकैः ॥ (४७।२)

kokilaiḥ kalaviṅkaiś ca hārītair jīvajīvakaiḥ ||

48.1४८.१

प्रियव्रतैश् चातकैश् च तथान्यैर् विविधैः खगैः । (४८।१)

priyavrataiś cātakaiś ca tathānyair vividhaiḥ khagaiḥ |

48.2४८.२

श्रोत्ररम्यं सुमधुरं कूजद्भिश् चाप्यधिष्ठितान् ॥ (४८।२)

śrotraramyaṃ sumadhuraṃ kūjadbhiś cāpyadhiṣṭhitān ||

49.1४९.१

सरांसि च विचित्राणि प्रसन्नसलिलानि च । (४९।१)

sarāṃsi ca vicitrāṇi prasannasalilāni ca |

49.2४९.२

कुमुदैः पुण्डरीकैश् च तथा कोकनदोत्पलैः । (४९।२)

kumudaiḥ puṇḍarīkaiś ca tathā kokanadotpalaiḥ |

49.3४९.३

कह्लारैः कमलैश् चैव आचितानि समन्ततः ॥ (४९।३)

kahlāraiḥ kamalaiś caiva ācitāni samantataḥ ||

50.1५०.१

कदम्बैश् चक्रवाकैश् च कुररैर् जलकुक्कुटैः । (५०।१)

kadambaiś cakravākaiś ca kurarair jalakukkuṭaiḥ |

50.2५०.२

कारण्डवैः प्लवैर् हंसैर् बकैर् मद्गुभिर् एव च । (५०।२)

kāraṇḍavaiḥ plavair haṃsair bakair madgubhir eva ca |

50.3५०.३

एतैश् चान्यैश् च कीर्णानि समन्ताज्जलचारिभिः ॥ (५०।३)

etaiś cānyaiś ca kīrṇāni samantājjalacāribhiḥ ||

51.1५१.१

हृष्टैस् तथा तामरसरसासवमदालसैः । (५१।१)

hṛṣṭais tathā tāmarasarasāsavamadālasaiḥ |

51.2५१.२

पद्मोदरच्युतरजःकिञ्जल्कारुणरञ्जितैः ॥ (५१।२)

padmodaracyutarajaḥkiñjalkāruṇarañjitaiḥ ||

52.1५२.१

मधुरस्वरैर् मधुकरैर् विरुतान् कमलाकरान् । (५२।१)

madhurasvarair madhukarair virutān kamalākarān |

52.2५२.२

पश्यन्तस् ते मनोरम्यान् गन्धमादनसानुषु ॥ (५२।२)

paśyantas te manoramyān gandhamādanasānuṣu ||

53.1५३.१

तथैव पद्मषण्डैश् च मण्डितेषु समन्ततः । (५३।१)

tathaiva padmaṣaṇḍaiś ca maṇḍiteṣu samantataḥ |

53.2५३.२

शिखण्डिनीभिः सहितांल्लतामण्डपकेषु च । (५३।२)

śikhaṇḍinībhiḥ sahitāṃllatāmaṇḍapakeṣu ca |

53.3५३.३

मेघतूर्यरवोद्दाममदनाकुलितान् भृशम् ॥ (५३।३)

meghatūryaravoddāmamadanākulitān bhṛśam ||

54.1५४.१

कृत्वैव केकामधुरं संगीतमधुरस्वरम् । (५४।१)

kṛtvaiva kekāmadhuraṃ saṃgītamadhurasvaram |

54.2५४.२

चित्रान् कलापान् विस्तीर्य सविलासान् मदालसान् । (५४।२)

citrān kalāpān vistīrya savilāsān madālasān |

54.3५४.३

मयूरान् ददृशुश् चित्रान् नृत्यतो वनलासकान् ॥ (५४।३)

mayūrān dadṛśuś citrān nṛtyato vanalāsakān ||

55.1५५.१

कान्ताभिः सहितान् अन्यान् अपश्यन् रमतः सुखम् । (५५।१)

kāntābhiḥ sahitān anyān apaśyan ramataḥ sukham |

55.2५५.२

वल्लीलतासंकटेषु कटकेषु स्थितांस् तथा ॥ (५५।२)

vallīlatāsaṃkaṭeṣu kaṭakeṣu sthitāṃs tathā ||

56.1५६.१

कांश्चिच्छकुनजातांश् च विटपेषूत्कटान् अपि । (५६।१)

kāṃścicchakunajātāṃś ca viṭapeṣūtkaṭān api |

56.2५६.२

कलापरचिताटोपान् विचित्रमुकुटान् इव । (५६।२)

kalāparacitāṭopān vicitramukuṭān iva |

56.3५६.३

विवरेषु तरूणां च मुदितान् ददृशुश् च ते ॥ (५६।३)

vivareṣu tarūṇāṃ ca muditān dadṛśuś ca te ||

57.1५७.१

सिन्धुवारान् अथोद्दामान् मन्मथस्येव तोमरान् । (५७।१)

sindhuvārān athoddāmān manmathasyeva tomarān |

57.2५७.२

सुवर्णकुसुमाकीर्णान् गिरीणां शिखरेषु च ॥ (५७।२)

suvarṇakusumākīrṇān girīṇāṃ śikhareṣu ca ||

58.1५८.१

कर्णिकारान् विरचितान् कर्णपूरान् इवोत्तमान् । (५८।१)

karṇikārān viracitān karṇapūrān ivottamān |

58.2५८.२

अथापश्यन् कुरबकान् वनराजिषु पुष्पितान् । (५८।२)

athāpaśyan kurabakān vanarājiṣu puṣpitān |

58.3५८.३

कामवश्योत्सुककरान् कामस्येव शरोत्करान् ॥ (५८।३)

kāmavaśyotsukakarān kāmasyeva śarotkarān ||

59.1५९.१

तथैव वनराजीनाम् उदारान् रचितान् इव । (५९।१)

tathaiva vanarājīnām udārān racitān iva |

59.2५९.२

विराजमानांस् ते ऽपश्यंस् तिलकांस् तिलकान् इव ॥ (५९।२)

virājamānāṃs te 'paśyaṃs tilakāṃs tilakān iva ||

60.1६०.१

तथानङ्गशराकारान् सहकारान् मनोरमान् । (६०।१)

tathānaṅgaśarākārān sahakārān manoramān |

60.2६०.२

अपश्यन् भ्रमरारावान् मञ्जरीभिर् विराजितान् ॥ (६०।२)

apaśyan bhramarārāvān mañjarībhir virājitān ||

61.1६१.१

हिरण्यसदृशैः पुष्पैर् दावाग्निसदृशैर् अपि । (६१।१)

hiraṇyasadṛśaiḥ puṣpair dāvāgnisadṛśair api |

61.2६१.२

लोहितैर् अञ्जनाभैश् च वैडूर्यसदृशैर् अपि ॥ (६१।२)

lohitair añjanābhaiś ca vaiḍūryasadṛśair api ||

62.1६२.१

तथा शालांस् तमालांश् च पाटल्यो बकुलानि च । (६२।१)

tathā śālāṃs tamālāṃś ca pāṭalyo bakulāni ca |

62.2६२.२

माला इव समासक्ताः शैलानां शिखरेषु च ॥ (६२।२)

mālā iva samāsaktāḥ śailānāṃ śikhareṣu ca ||

63.1६३.१

एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः । (६३।१)

evaṃ krameṇa te vīrā vīkṣamāṇāḥ samantataḥ |

63.2६३.२

गजसंघसमाबाधं सिंहव्याघ्रसमायुतम् ॥ (६३।२)

gajasaṃghasamābādhaṃ siṃhavyāghrasamāyutam ||

64.1६४.१

शरभोन्नादसंघुष्टं नानारावनिनादितम् । (६४।१)

śarabhonnādasaṃghuṣṭaṃ nānārāvanināditam |

64.2६४.२

सर्वर्तुफलपुष्पाढ्यं गन्धमादनसानुषु ॥ (६४।२)

sarvartuphalapuṣpāḍhyaṃ gandhamādanasānuṣu ||

65.1६५.१

पीता भास्वरवर्णाभा बभूवुर् वनराजयः । (६५।१)

pītā bhāsvaravarṇābhā babhūvur vanarājayaḥ |

65.2६५.२

नात्र कण्टकिनः केचिन् नात्र केचिद् अपुष्पिताः । (६५।२)

nātra kaṇṭakinaḥ kecin nātra kecid apuṣpitāḥ |

65.3६५.३

स्निग्धपत्त्रफला वृक्षा गन्धमादनसानुषु ॥ (६५।३)

snigdhapattraphalā vṛkṣā gandhamādanasānuṣu ||

66.1६६.१

विमलस्फटिकाभानि पाण्डुरच्छदनैर् द्विजैः । (६६।१)

vimalasphaṭikābhāni pāṇḍuracchadanair dvijaiḥ |

66.2६६.२

राजहंसैर् उपेतानि सारसाभिरुतानि च ॥ (६६।२)

rājahaṃsair upetāni sārasābhirutāni ca ||

67.1६७.१

सरांसि सरितः पार्थाः पश्यन्तः शैलसानुषु ॥ (६७।१)

sarāṃsi saritaḥ pārthāḥ paśyantaḥ śailasānuṣu ||

68.1६८.१

पद्मोत्पलविचित्राणि सुखस्पर्शजलानि च । (६८।१)

padmotpalavicitrāṇi sukhasparśajalāni ca |

68.2६८.२

गन्धवन्ति च माल्यानि रसवन्ति फलानि च । (६८।२)

gandhavanti ca mālyāni rasavanti phalāni ca |

68.3६८.३

अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु ॥ (६८।३)

atīva vṛkṣā rājante puṣpitāḥ śailasānuṣu ||

69.1६९.१

एते चान्ये च बहवस् तत्र काननजा द्रुमाः । (६९।१)

ete cānye ca bahavas tatra kānanajā drumāḥ |

69.2६९.२

लताश् च विविधाकाराः पत्त्रपुष्पफलोच्चयाः ॥ (६९।२)

latāś ca vividhākārāḥ pattrapuṣpaphaloccayāḥ ||

70.1७०.१

युधिष्ठिरस् तु तान् वृक्षान् पश्यमानो नगोत्तमे । (७०।१)

yudhiṣṭhiras tu tān vṛkṣān paśyamāno nagottame |

70.2७०.२

भीमसेनम् इदं वाक्यम् अब्रवीन् मधुराक्षरम् ॥ (७०।२)

bhīmasenam idaṃ vākyam abravīn madhurākṣaram ||

71.1७१.१

पश्य भीम शुभान् देशान् देवाक्रीडान् समन्ततः । (७१।१)

paśya bhīma śubhān deśān devākrīḍān samantataḥ |

71.2७१.२

अमानुषगतिं प्राप्ताः संसिद्धाः स्म वृकोदर ॥ (७१।२)

amānuṣagatiṃ prāptāḥ saṃsiddhāḥ sma vṛkodara ||

72.1७२.१

लताभिश् चैव बह्वीभिः पुष्पिताः पादपोत्तमाः । (७२।१)

latābhiś caiva bahvībhiḥ puṣpitāḥ pādapottamāḥ |

72.2७२.२

संश्लिष्टाः पार्थ शोभन्ते गन्धमादनसानुषु ॥ (७२।२)

saṃśliṣṭāḥ pārtha śobhante gandhamādanasānuṣu ||

73.1७३.१

शिखण्डिनीभिश् चरतां सहितानां शिखण्डिनाम् । (७३।१)

śikhaṇḍinībhiś caratāṃ sahitānāṃ śikhaṇḍinām |

73.2७३.२

नर्दतां शृणु निर्घोषं भीम पर्वतसानुषु ॥ (७३।२)

nardatāṃ śṛṇu nirghoṣaṃ bhīma parvatasānuṣu ||

74.1७४.१

चकोराः शतपत्त्राश् च मत्तकोकिलशारिकाः । (७४।१)

cakorāḥ śatapattrāś ca mattakokilaśārikāḥ |

74.2७४.२

पत्त्रिणः पुष्पितान् एतान् संश्लिष्यन्ति महाद्रुमान् ॥ (७४।२)

pattriṇaḥ puṣpitān etān saṃśliṣyanti mahādrumān ||

75.1७५.१

रक्तपीतारुणाः पार्थ पादपाग्रगता द्विजाः । (७५।१)

raktapītāruṇāḥ pārtha pādapāgragatā dvijāḥ |

75.2७५.२

परस्परम् उदीक्षन्ते बहवो जीवजीवकाः ॥ (७५।२)

parasparam udīkṣante bahavo jīvajīvakāḥ ||

76.1७६.१

हरितारुणवर्णानां शाद्वलानां समन्ततः । (७६।१)

haritāruṇavarṇānāṃ śādvalānāṃ samantataḥ |

76.2७६.२

सारसाः प्रतिदृश्यन्ते शैलप्रस्रवणेष्वपि ॥ (७६।२)

sārasāḥ pratidṛśyante śailaprasravaṇeṣvapi ||

77.1७७.१

वदन्ति मधुरा वाचः सर्वभूतमनोनुगाः । (७७।१)

vadanti madhurā vācaḥ sarvabhūtamanonugāḥ |

77.2७७.२

भृङ्गराजोपचक्राश् च लोहपृष्ठाश् च पत्त्रिणः ॥ (७७।२)

bhṛṅgarājopacakrāś ca lohapṛṣṭhāś ca pattriṇaḥ ||

78.1७८.१

चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः । (७८।१)

caturviṣāṇāḥ padmābhāḥ kuñjarāḥ sakareṇavaḥ |

78.2७८.२

एते वैडूर्यवर्णाभं क्षोभयन्ति महत् सरः ॥ (७८।२)

ete vaiḍūryavarṇābhaṃ kṣobhayanti mahat saraḥ ||

79.1७९.१

बहुतालसमुत्सेधाः शैलशृङ्गात् परिच्युताः । (७९।१)

bahutālasamutsedhāḥ śailaśṛṅgāt paricyutāḥ |

79.2७९.२

नानाप्रस्रवणेभ्यश् च वारिधाराः पतन्त्यमूः ॥ (७९।२)

nānāprasravaṇebhyaś ca vāridhārāḥ patantyamūḥ ||

80.1८०.१

भास्कराभप्रभा भीम शारदाभ्रघनोपमाः । (८०।१)

bhāskarābhaprabhā bhīma śāradābhraghanopamāḥ |

80.2८०.२

शोभयन्ति महाशैलं नानारजतधातवः ॥ (८०।२)

śobhayanti mahāśailaṃ nānārajatadhātavaḥ ||

81.1८१.१

क्वचिद् अञ्जनवर्णाभाः क्वचित् काञ्चनसंनिभाः । (८१।१)

kvacid añjanavarṇābhāḥ kvacit kāñcanasaṃnibhāḥ |

81.2८१.२

धातवो हरितालस्य क्वचिद्धिङ्गुलकस्य च ॥ (८१।२)

dhātavo haritālasya kvaciddhiṅgulakasya ca ||

82.1८२.१

मनःशिलागुहाश् चैव संध्याभ्रनिकरोपमाः । (८२।१)

manaḥśilāguhāś caiva saṃdhyābhranikaropamāḥ |

82.2८२.२

शशलोहितवर्णाभाः क्वचिद् गैरिकधातवः ॥ (८२।२)

śaśalohitavarṇābhāḥ kvacid gairikadhātavaḥ ||

83.1८३.१

सितासिताभ्रप्रतिमा बालसूर्यसमप्रभाः । (८३।१)

sitāsitābhrapratimā bālasūryasamaprabhāḥ |

83.2८३.२

एते बहुविधाः शैलं शोभयन्ति महाप्रभाः ॥ (८३।२)

ete bahuvidhāḥ śailaṃ śobhayanti mahāprabhāḥ ||

84.1८४.१

गन्धर्वाः सह कान्ताभिर् यथोक्तं वृषपर्वणा । (८४।१)

gandharvāḥ saha kāntābhir yathoktaṃ vṛṣaparvaṇā |

84.2८४.२

दृश्यन्ते शैलशृङ्गेषु पार्थ किम्पुरुषैः सह ॥ (८४।२)

dṛśyante śailaśṛṅgeṣu pārtha kimpuruṣaiḥ saha ||

85.1८५.१

गीतानां तलतालानां यथा साम्नां च निस्वनः । (८५।१)

gītānāṃ talatālānāṃ yathā sāmnāṃ ca nisvanaḥ |

85.2८५.२

श्रूयते बहुधा भीम सर्वभूतमनोहरः ॥ (८५।२)

śrūyate bahudhā bhīma sarvabhūtamanoharaḥ ||

86.1८६.१

महागङ्गाम् उदीक्षस्व पुण्यां देवनदीं शुभाम् । (८६।१)

mahāgaṅgām udīkṣasva puṇyāṃ devanadīṃ śubhām |

86.2८६.२

कलहंसगणैर् जुष्टाम् ऋषिकिंनरसेविताम् ॥ (८६।२)

kalahaṃsagaṇair juṣṭām ṛṣikiṃnarasevitām ||

87.1८७.१

धातुभिश् च सरिद्भिश्च किंनरैर् मृगपक्षिभिः । (८७।१)

dhātubhiś ca saridbhiśca kiṃnarair mṛgapakṣibhiḥ |

87.2८७.२

गन्धर्वैर् अप्सरोभिश् च काननैश् च मनोरमैः ॥ (८७।२)

gandharvair apsarobhiś ca kānanaiś ca manoramaiḥ ||

88.1८८.१

व्यालैश् च विविधाकारैः शतशीर्षैः समन्ततः । (८८।१)

vyālaiś ca vividhākāraiḥ śataśīrṣaiḥ samantataḥ |

88.2८८.२

उपेतं पश्य कौन्तेय शैलराजम् अरिंदम ॥ (८८।२)

upetaṃ paśya kaunteya śailarājam ariṃdama ||

89.1८९.१

ते प्रीतमनसः शूराः प्राप्ता गतिम् अनुत्तमाम् । (८९।१)

te prītamanasaḥ śūrāḥ prāptā gatim anuttamām |

89.2८९.२

नातृप्यन् पर्वतेन्द्रस्य दर्शनेन परंतपाः ॥ (८९।२)

nātṛpyan parvatendrasya darśanena paraṃtapāḥ ||

90.1९०.१

उपेतम् अथ माल्यैश् च फलवद्भिश् च पादपैः । (९०।१)

upetam atha mālyaiś ca phalavadbhiś ca pādapaiḥ |

90.2९०.२

आर्ष्टिषेणस्य राजर्षेर् आश्रमं ददृशुस् तदा ॥ (९०।२)

ārṣṭiṣeṇasya rājarṣer āśramaṃ dadṛśus tadā ||

91.1९१.१

ततस् तं तीव्रतपसं कृशं धमनिसंततम् । (९१।१)

tatas taṃ tīvratapasaṃ kṛśaṃ dhamanisaṃtatam |

91.2९१.२

पारगं सर्वधर्माणाम् आर्ष्टिषेणम् उपागमन् ॥ (९१।२)

pāragaṃ sarvadharmāṇām ārṣṭiṣeṇam upāgaman ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 3, 155

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit