MBh, 3, 69
Select a line for its word-by-word analysis.
सान्त्वयञ्श्लक्ष्णया वाचा बाहुकं प्रत्यभाषत ॥ (१।३)
sāntvayañślakṣṇayā vācā bāhukaṃ pratyabhāṣata ||
विदर्भान् यातुम् इच्छामि दमयन्त्याः स्वयंवरम् । (२।१)
vidarbhān yātum icchāmi damayantyāḥ svayaṃvaram |
व्यदीर्यत मनो दुःखात् प्रदध्यौ च महामनाः ॥ (३।२)
vyadīryata mano duḥkhāt pradadhyau ca mahāmanāḥ ||
अस्मदर्थे भवेद्वायम् उपायश्चिन्तितो महान् ॥ (४।२)
asmadarthe bhavedvāyam upāyaścintito mahān ||
स्त्रीस्वभावश् चलो लोके मम दोषश् च दारुणः । (६।१)
strīsvabhāvaś calo loke mama doṣaś ca dāruṇaḥ |
स्याद् एवम् अपि कुर्यात् सा विवशा गतसौहृदा । (६।२)
syād evam api kuryāt sā vivaśā gatasauhṛdā |
न चैवं कर्हिचित् कुर्यात् सापत्या च विशेषतः । (७।१)
na caivaṃ karhicit kuryāt sāpatyā ca viśeṣataḥ |
यद् अत्र तथ्यं पथ्यं च गत्वा वेत्स्यामि निश्चयम् । (७।२)
yad atra tathyaṃ pathyaṃ ca gatvā vetsyāmi niścayam |
ऋतुपर्णस्य वै कामम् आत्मार्थं च करोम्यहम् ॥ (७।३)
ṛtuparṇasya vai kāmam ātmārthaṃ ca karomyaham ||
ततः परीक्षाम् अश्वानां चक्रे राजन् स बाहुकः । (१०।१)
tataḥ parīkṣām aśvānāṃ cakre rājan sa bāhukaḥ |
अध्यगच्छत् कृशान् अश्वान् समर्थान् अध्वनि क्षमान् ॥ (११।२)
adhyagacchat kṛśān aśvān samarthān adhvani kṣamān ||
वर्जितांल्लक्षणैर् हीनैः पृथुप्रोथान् महाहनून् । (१२।२)
varjitāṃllakṣaṇair hīnaiḥ pṛthuprothān mahāhanūn |
शुद्धान् दशभिर् आवर्तैः सिन्धुजान् वातरंहसः ॥ (१२।३)
śuddhān daśabhir āvartaiḥ sindhujān vātaraṃhasaḥ ||
दृष्ट्वा तान् अब्रवीद् राजा किंचित् कोपसमन्वितः । (१३।१)
dṛṣṭvā tān abravīd rājā kiṃcit kopasamanvitaḥ |
किम् इदं प्रार्थितं कर्तुं प्रलब्धव्या हि ते वयम् ॥ (१३।२)
kim idaṃ prārthitaṃ kartuṃ pralabdhavyā hi te vayam ||
महान् अध्वा च तुरगैर् गन्तव्यः कथम् ईदृशैः ॥ (१४।२)
mahān adhvā ca turagair gantavyaḥ katham īdṛśaiḥ ||
एते हया गमिष्यन्ति विदर्भान् नात्र संशयः । (१५।२)
ete hayā gamiṣyanti vidarbhān nātra saṃśayaḥ |
अथान्यान् मन्यसे राजन् ब्रूहि कान् योजयामि ते ॥ (१५।३)
athānyān manyase rājan brūhi kān yojayāmi te ||
त्वम् एव हयतत्त्वज्ञः कुशलश् चासि बाहुक । (१६।२)
tvam eva hayatattvajñaḥ kuśalaś cāsi bāhuka |
यान् मन्यसे समर्थांस् त्वं क्षिप्रं तान् एव योजय ॥ (१६।३)
yān manyase samarthāṃs tvaṃ kṣipraṃ tān eva yojaya ||
ततो युक्तं रथं राजा समारोहत् त्वरान्वितः । (१८।१)
tato yuktaṃ rathaṃ rājā samārohat tvarānvitaḥ |
अथ पर्यपतन् भूमौ जानुभिस् ते हयोत्तमाः ॥ (१८।२)
atha paryapatan bhūmau jānubhis te hayottamāḥ ||
सान्त्वयामास तान् अश्वांस् तेजोबलसमन्वितान् ॥ (१९।२)
sāntvayāmāsa tān aśvāṃs tejobalasamanvitān ||
रश्मिभिश् च समुद्यम्य नलो यातुम् इयेष सः । (२०।१)
raśmibhiś ca samudyamya nalo yātum iyeṣa saḥ |
सूतम् आरोप्य वार्ष्णेयं जवम् आस्थाय वै परम् ॥ (२०।२)
sūtam āropya vārṣṇeyaṃ javam āsthāya vai param ||
तथा तु दृष्ट्वा तान् अश्वान् वहतो वातरंहसः । (२२।१)
tathā tu dṛṣṭvā tān aśvān vahato vātaraṃhasaḥ |
अयोध्याधिपतिर् धीमान् विस्मयं परमं ययौ ॥ (२२।२)
ayodhyādhipatir dhīmān vismayaṃ paramaṃ yayau ||
रथघोषं तु तं श्रुत्वा हयसंग्रहणं च तत् । (२३।१)
rathaghoṣaṃ tu taṃ śrutvā hayasaṃgrahaṇaṃ ca tat |
वार्ष्णेयश् चिन्तयामास बाहुकस्य हयज्ञताम् ॥ (२३।२)
vārṣṇeyaś cintayāmāsa bāhukasya hayajñatām ||
किं नु स्यान्मातलिर् अयं देवराजस्य सारथिः । (२४।१)
kiṃ nu syānmātalir ayaṃ devarājasya sārathiḥ |
तथा हि लक्षणं वीरे बाहुके दृश्यते महत् ॥ (२४।२)
tathā hi lakṣaṇaṃ vīre bāhuke dṛśyate mahat ||
शालिहोत्रो ऽथ किं नु स्याद्धयानां कुलतत्त्ववित् । (२५।१)
śālihotro 'tha kiṃ nu syāddhayānāṃ kulatattvavit |
सो ऽयं नृपतिर् आयात इत्येवं समचिन्तयत् ॥ (२६।२)
so 'yaṃ nṛpatir āyāta ityevaṃ samacintayat ||
अथ वा यां नलो वेद विद्यां ताम् एव बाहुकः । (२७।१)
atha vā yāṃ nalo veda vidyāṃ tām eva bāhukaḥ |
तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च ॥ (२७।२)
tulyaṃ hi lakṣaye jñānaṃ bāhukasya nalasya ca ||
अपि चेदं वयस् तुल्यम् अस्य मन्ये नलस्य च । (२८।१)
api cedaṃ vayas tulyam asya manye nalasya ca |
नायं नलो महावीर्यस् तद्विद्यस् तु भविष्यति ॥ (२८।२)
nāyaṃ nalo mahāvīryas tadvidyas tu bhaviṣyati ||
प्रच्छन्ना हि महात्मानश् चरन्ति पृथिवीम् इमाम् । (२९।१)
pracchannā hi mahātmānaś caranti pṛthivīm imām |
दैवेन विधिना युक्ताः शास्त्रोक्तैश् च विरूपणैः ॥ (२९।२)
daivena vidhinā yuktāḥ śāstroktaiś ca virūpaṇaiḥ ||
भवेत् तु मतिभेदो मे गात्रवैरूप्यतां प्रति । (३०।१)
bhavet tu matibhedo me gātravairūpyatāṃ prati |
प्रमाणात् परिहीनस् तु भवेद् इति हि मे मतिः ॥ (३०।२)
pramāṇāt parihīnas tu bhaved iti hi me matiḥ ||
वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः । (३१।१)
vayaḥpramāṇaṃ tattulyaṃ rūpeṇa tu viparyayaḥ |
नलं सर्वगुणैर् युक्तं मन्ये बाहुकम् अन्ततः ॥ (३१।२)
nalaṃ sarvaguṇair yuktaṃ manye bāhukam antataḥ ||
एवं विचार्य बहुशो वार्ष्णेयः पर्यचिन्तयत् । (३२।१)
evaṃ vicārya bahuśo vārṣṇeyaḥ paryacintayat |
ऋतुपर्णस् तु राजेन्द्र बाहुकस्य हयज्ञताम् । (३३।१)
ṛtuparṇas tu rājendra bāhukasya hayajñatām |
बलं वीर्यं तथोत्साहं हयसंग्रहणं च तत् । (३४।१)
balaṃ vīryaṃ tathotsāhaṃ hayasaṃgrahaṇaṃ ca tat |
परं यत्नं च सम्प्रेक्ष्य परां मुदम् अवाप ह ॥ (३४।२)
paraṃ yatnaṃ ca samprekṣya parāṃ mudam avāpa ha ||
Data courtesy of The Digital Corpus of Sanskrit.