MBh, 6, 38
Select a line for its word-by-word analysis.
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । (१।२)
abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ |
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ (१।३)
dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam ||
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ (२।२)
dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam ||
दम्भो दर्पो ऽतिमानश्च क्रोधः पारुष्यमेव च । (४।१)
dambho darpo 'timānaśca krodhaḥ pāruṣyameva ca |
द्वौ भूतसर्गौ लोके ऽस्मिन्दैव आसुर एव च । (६।१)
dvau bhūtasargau loke 'smindaiva āsura eva ca |
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ (६।२)
daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu ||
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । (७।१)
pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ |
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ (७।२)
na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate ||
एतां दृष्टिमवष्टभ्य नष्टात्मानो ऽल्पबुद्धयः । (९।१)
etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno 'lpabuddhayaḥ |
प्रभवन्त्युग्रकर्माणः क्षयाय जगतो ऽहिताः ॥ (९।२)
prabhavantyugrakarmāṇaḥ kṣayāya jagato 'hitāḥ ||
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । (१०।१)
kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ |
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्ते ऽशुचिव्रताः ॥ (१०।२)
mohādgṛhītvāsadgrāhānpravartante 'śucivratāḥ ||
इदमद्य मया लब्धम् इदं प्राप्स्ये मनोरथम् । (१३।१)
idamadya mayā labdham idaṃ prāpsye manoratham |
ईश्वरो ऽहम् अहं भोगी सिद्धो ऽहं बलवान्सुखी ॥ (१४।२)
īśvaro 'ham ahaṃ bhogī siddho 'haṃ balavānsukhī ||
आढ्यो ऽभिजनवानस्मि को ऽन्यो ऽस्ति सदृशो मया । (१५।१)
āḍhyo 'bhijanavānasmi ko 'nyo 'sti sadṛśo mayā |
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ (१५।२)
yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ ||
प्रसक्ताः कामभोगेषु पतन्ति नरके ऽशुचौ ॥ (१६।२)
prasaktāḥ kāmabhogeṣu patanti narake 'śucau ||
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ (१७।२)
yajante nāmayajñaiste dambhenāvidhipūrvakam ||
अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः । (१८।१)
ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ |
मामात्मपरदेहेषु प्रद्विषन्तो ऽभ्यसूयकाः ॥ (१८।२)
māmātmaparadeheṣu pradviṣanto 'bhyasūyakāḥ ||
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । (१९।१)
tānahaṃ dviṣataḥ krūrānsaṃsāreṣu narādhamān |
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ (२०।२)
māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim ||
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । (२१।१)
trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ |
कामः क्रोधस्तथा लोभस् तस्मादेतत्त्रयं त्यजेत् ॥ (२१।२)
kāmaḥ krodhastathā lobhas tasmādetattrayaṃ tyajet ||
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः । (२२।१)
etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ |
आचरत्यात्मनः श्रेयस् ततो याति परां गतिम् ॥ (२२।२)
ācaratyātmanaḥ śreyas tato yāti parāṃ gatim ||
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । (२३।१)
yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ |
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ (२३।२)
na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim ||
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । (२४।१)
tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau |
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ (२४।२)
jñātvā śāstravidhānoktaṃ karma kartumihārhasi ||
Data courtesy of The Digital Corpus of Sanskrit.