महाभारतMahābhārata

MBh, 12, 84

1412 of 1995 · 109 verses

Select a line for its word-by-word analysis.

1.1१.१

भीष्म उवाच । (१।१)

bhīṣma uvāca

1.2१.२

ह्रीनिषेधाः सदा सन्तः सत्यार्जवसमन्विताः । (१।२)

hrīniṣedhāḥ sadā santaḥ satyārjavasamanvitāḥ |

1.3१.३

शक्ताः कथयितुं सम्यक् ते तव स्युः सभासदः ॥ (१।३)

śaktāḥ kathayituṃ samyak te tava syuḥ sabhāsadaḥ ||

2.1२.१

अत्याढ्यांश्चातिशूरांश्च ब्राह्मणांश्च बहुश्रुतान् । (२।१)

atyāḍhyāṃścātiśūrāṃśca brāhmaṇāṃśca bahuśrutān |

2.2२.२

सुसंतुष्टांश्च कौन्तेय महोत्साहांश्च कर्मसु ॥ (२।२)

susaṃtuṣṭāṃśca kaunteya mahotsāhāṃśca karmasu ||

3.1३.१

एतान् सहायांल् लिप्सेथाः सर्वास्वापत्सु भारत । (३।१)

etān sahāyāṃl lipsethāḥ sarvāsvāpatsu bhārata |

3.2३.२

कुलीनः पूजितो नित्यं न हि शक्तिं निगूहति ॥ (३।२)

kulīnaḥ pūjito nityaṃ na hi śaktiṃ nigūhati ||

4.1४.१

प्रसन्नं ह्यप्रसन्नं वा पीडितं हृतम् एव वा । (४।१)

prasannaṃ hyaprasannaṃ vā pīḍitaṃ hṛtam eva vā |

4.2४.२

आवर्तयति भूयिष्ठं तद् एको ह्यनुपालितः ॥ (४।२)

āvartayati bhūyiṣṭhaṃ tad eko hyanupālitaḥ ||

5.1५.१

कुलीना देशजाः प्राज्ञा रूपवन्तो बहुश्रुताः । (५।१)

kulīnā deśajāḥ prājñā rūpavanto bahuśrutāḥ |

5.2५.२

प्रगल्भाश्चानुरक्ताश्च ते तव स्युः परिच्छदाः ॥ (५।२)

pragalbhāścānuraktāśca te tava syuḥ paricchadāḥ ||

6.1६.१

दौष्कुलेयाश्च लुब्धाश्च नृशंसा निरपत्रपाः । (६।१)

dauṣkuleyāśca lubdhāśca nṛśaṃsā nirapatrapāḥ |

6.2६.२

ते त्वां तात निषेवेयुर् यावद् आर्द्रकपाणयः ॥ (६।२)

te tvāṃ tāta niṣeveyur yāvad ārdrakapāṇayaḥ ||

7.1७.१

अर्थमानार्घ्यसत्कारैर् भोगैर् उच्चावचैः प्रियान् । (७।१)

arthamānārghyasatkārair bhogair uccāvacaiḥ priyān |

7.2७.२

यान् अर्थभाजो मन्येथास्ते ते स्युः सुखभागिनः ॥ (७।२)

yān arthabhājo manyethāste te syuḥ sukhabhāginaḥ ||

8.1८.१

अभिन्नवृत्ता विद्वांसः सद्वृत्ताश्चरितव्रताः । (८।१)

abhinnavṛttā vidvāṃsaḥ sadvṛttāścaritavratāḥ |

8.2८.२

न त्वां नित्यार्थिनो जह्युर् अक्षुद्राः सत्यवादिनः ॥ (८।२)

na tvāṃ nityārthino jahyur akṣudrāḥ satyavādinaḥ ||

9.1९.१

अनार्या ये न जानन्ति समयं मन्दचेतसः । (९।१)

anāryā ye na jānanti samayaṃ mandacetasaḥ |

9.2९.२

तेभ्यः प्रतिजुगुप्सेथा जानीयाः समयच्युतान् ॥ (९।२)

tebhyaḥ pratijugupsethā jānīyāḥ samayacyutān ||

10.1१०.१

नैकम् इच्छेद् गणं हित्वा स्याच्चेद् अन्यतरग्रहः । (१०।१)

naikam icched gaṇaṃ hitvā syācced anyataragrahaḥ |

10.2१०.२

यस्त्वेको बहुभिः श्रेयान् कामं तेन गणं त्यजेत् ॥ (१०।२)

yastveko bahubhiḥ śreyān kāmaṃ tena gaṇaṃ tyajet ||

11.1११.१

श्रेयसो लक्षणं ह्येतद् विक्रमो यस्य दृश्यते । (११।१)

śreyaso lakṣaṇaṃ hyetad vikramo yasya dṛśyate |

11.2११.२

कीर्तिप्रधानो यश्च स्यात् समये यश्च तिष्ठति ॥ (११।२)

kīrtipradhāno yaśca syāt samaye yaśca tiṣṭhati ||

12.1१२.१

समर्थान् पूजयेद् यश्च नास्पर्ध्यैः स्पर्धते च यः । (१२।१)

samarthān pūjayed yaśca nāspardhyaiḥ spardhate ca yaḥ |

12.2१२.२

न च कामाद् भयात् क्रोधाल् लोभाद् वा धर्मम् उत्सृजेत् ॥ (१२।२)

na ca kāmād bhayāt krodhāl lobhād vā dharmam utsṛjet ||

13.1१३.१

अमानी सत्यवाक् शक्तो जितात्मा मान्यमानिता । (१३।१)

amānī satyavāk śakto jitātmā mānyamānitā |

13.2१३.२

स ते मन्त्रसहायः स्यात् सर्वावस्थं परीक्षितः ॥ (१३।२)

sa te mantrasahāyaḥ syāt sarvāvasthaṃ parīkṣitaḥ ||

14.1१४.१

कुलीनः सत्यसम्पन्नस्तितिक्षुर् दक्ष आत्मवान् । (१४।१)

kulīnaḥ satyasampannastitikṣur dakṣa ātmavān |

14.2१४.२

शूरः कृतज्ञः सत्यश्च श्रेयसः पार्थ लक्षणम् ॥ (१४।२)

śūraḥ kṛtajñaḥ satyaśca śreyasaḥ pārtha lakṣaṇam ||

15.1१५.१

तस्यैवं वर्तमानस्य पुरुषस्य विजानतः । (१५।१)

tasyaivaṃ vartamānasya puruṣasya vijānataḥ |

15.2१५.२

अमित्राः सम्प्रसीदन्ति ततो मित्रीभवन्त्यपि ॥ (१५।२)

amitrāḥ samprasīdanti tato mitrībhavantyapi ||

16.1१६.१

अत ऊर्ध्वम् अमात्यानां परीक्षेत गुणागुणान् । (१६।१)

ata ūrdhvam amātyānāṃ parīkṣeta guṇāguṇān |

16.2१६.२

संयतात्मा कृतप्रज्ञो भूतिकामश्च भूमिपः ॥ (१६।२)

saṃyatātmā kṛtaprajño bhūtikāmaśca bhūmipaḥ ||

17.1१७.१

सम्बद्धाः पुरुषैर् आप्तैर् अभिजातैः स्वदेशजैः । (१७।१)

sambaddhāḥ puruṣair āptair abhijātaiḥ svadeśajaiḥ |

17.2१७.२

अहार्यैर् अव्यभीचारैः सर्वतः सुपरीक्षितैः ॥ (१७।२)

ahāryair avyabhīcāraiḥ sarvataḥ suparīkṣitaiḥ ||

18.1१८.१

योधाः स्रौवास्तथा मौलास्तथैवान्ये ऽप्यवस्कृताः । (१८।१)

yodhāḥ srauvāstathā maulāstathaivānye 'pyavaskṛtāḥ |

18.2१८.२

कर्तव्या भूतिकामेन पुरुषेण बुभूषता ॥ (१८।२)

kartavyā bhūtikāmena puruṣeṇa bubhūṣatā ||

19.1१९.१

येषां वैनयिकी बुद्धिः प्रकृता चैव शोभना । (१९।१)

yeṣāṃ vainayikī buddhiḥ prakṛtā caiva śobhanā |

19.2१९.२

तेजो धैर्यं क्षमा शौचम् अनुराग स्थितिर् धृतिः ॥ (१९।२)

tejo dhairyaṃ kṣamā śaucam anurāga sthitir dhṛtiḥ ||

20.1२०.१

परीक्षितगुणान्नित्यं प्रौढभावान् धुरंधरान् । (२०।१)

parīkṣitaguṇānnityaṃ prauḍhabhāvān dhuraṃdharān |

20.2२०.२

पञ्चोपधाव्यतीतांश्च कुर्याद् राजार्थकारिणः ॥ (२०।२)

pañcopadhāvyatītāṃśca kuryād rājārthakāriṇaḥ ||

21.1२१.१

पर्याप्तवचनान् वीरान् प्रतिपत्तिविशारदान् । (२१।१)

paryāptavacanān vīrān pratipattiviśāradān |

21.2२१.२

कुलीनान् सत्यसम्पन्नान् इङ्गितज्ञान् अनिष्ठुरान् ॥ (२१।२)

kulīnān satyasampannān iṅgitajñān aniṣṭhurān ||

22.1२२.१

देशकालविधानज्ञान् भर्तृकार्यहितैषिणः । (२२।१)

deśakālavidhānajñān bhartṛkāryahitaiṣiṇaḥ |

22.2२२.२

नित्यम् अर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः ॥ (२२।२)

nityam artheṣu sarveṣu rājā kurvīta mantriṇaḥ ||

23.1२३.१

हीनतेजा ह्यसंहृष्टो नैव जातु व्यवस्यति । (२३।१)

hīnatejā hyasaṃhṛṣṭo naiva jātu vyavasyati |

23.2२३.२

अवश्यं जनयत्येव सर्वकर्मसु संशयान् ॥ (२३।२)

avaśyaṃ janayatyeva sarvakarmasu saṃśayān ||

24.1२४.१

एवम् अल्पश्रुतो मन्त्री कल्याणाभिजनो ऽप्युत । (२४।१)

evam alpaśruto mantrī kalyāṇābhijano 'pyuta |

24.2२४.२

धर्मार्थकामयुक्तो ऽपि नालं मन्त्रं परीक्षितुम् ॥ (२४।२)

dharmārthakāmayukto 'pi nālaṃ mantraṃ parīkṣitum ||

25.1२५.१

तथैवानभिजातो ऽपि कामम् अस्तु बहुश्रुतः । (२५।१)

tathaivānabhijāto 'pi kāmam astu bahuśrutaḥ |

25.2२५.२

अनायक इवाचक्षुर् मुह्यत्यूह्येषु कर्मसु ॥ (२५।२)

anāyaka ivācakṣur muhyatyūhyeṣu karmasu ||

26.1२६.१

यो वा ह्यस्थिरसंकल्पो बुद्धिमान् आगतागमः । (२६।१)

yo vā hyasthirasaṃkalpo buddhimān āgatāgamaḥ |

26.2२६.२

उपायज्ञो ऽपि नालं स कर्म यापयितुं चिरम् ॥ (२६।२)

upāyajño 'pi nālaṃ sa karma yāpayituṃ ciram ||

27.1२७.१

केवलात् पुनर् आचारात् कर्मणो नोपपद्यते । (२७।१)

kevalāt punar ācārāt karmaṇo nopapadyate |

27.2२७.२

परिमर्शो विशेषाणाम् अश्रुतस्येह दुर्मतेः ॥ (२७।२)

parimarśo viśeṣāṇām aśrutasyeha durmateḥ ||

28.1२८.१

मन्त्रिण्यननुरक्ते तु विश्वासो न हि विद्यते । (२८।१)

mantriṇyananurakte tu viśvāso na hi vidyate |

28.2२८.२

तस्माद् अननुरक्ताय नैव मन्त्रं प्रकाशयेत् ॥ (२८।२)

tasmād ananuraktāya naiva mantraṃ prakāśayet ||

29.1२९.१

व्यथयेद्धि स राजानं मन्त्रिभिः सहितो ऽनृजुः । (२९।१)

vyathayeddhi sa rājānaṃ mantribhiḥ sahito 'nṛjuḥ |

29.2२९.२

मारुतोपहतच्छिद्रैः प्रविश्याग्निर् इव द्रुमम् ॥ (२९।२)

mārutopahatacchidraiḥ praviśyāgnir iva drumam ||

30.1३०.१

संक्रुध्यत्येकदा स्वामी स्थानाच्चैवापकर्षति । (३०।१)

saṃkrudhyatyekadā svāmī sthānāccaivāpakarṣati |

30.2३०.२

वाचा क्षिपति संरब्धस्ततः पश्चात् प्रसीदति ॥ (३०।२)

vācā kṣipati saṃrabdhastataḥ paścāt prasīdati ||

31.1३१.१

तानि तान्यनुरक्तेन शक्यान्यनुतितिक्षितुम् । (३१।१)

tāni tānyanuraktena śakyānyanutitikṣitum |

31.2३१.२

मन्त्रिणां च भवेत् क्रोधो विस्फूर्जितम् इवाशनेः ॥ (३१।२)

mantriṇāṃ ca bhavet krodho visphūrjitam ivāśaneḥ ||

32.1३२.१

यस्तु संहरते तानि भर्तुः प्रियचिकीर्षया । (३२।१)

yastu saṃharate tāni bhartuḥ priyacikīrṣayā |

32.2३२.२

समानसुखदुःखं तं पृच्छेद् अर्थेषु मानवम् ॥ (३२।२)

samānasukhaduḥkhaṃ taṃ pṛcched artheṣu mānavam ||

33.1३३.१

अनृजुस्त्वनुरक्तो ऽपि सम्पन्नश्चेतरैर् गुणैः । (३३।१)

anṛjustvanurakto 'pi sampannaścetarair guṇaiḥ |

33.2३३.२

राज्ञः प्रज्ञानयुक्तो ऽपि न मन्त्रं श्रोतुम् अर्हति ॥ (३३।२)

rājñaḥ prajñānayukto 'pi na mantraṃ śrotum arhati ||

34.1३४.१

यो ऽमित्रैः सह सम्बद्धो न पौरान् बहु मन्यते । (३४।१)

yo 'mitraiḥ saha sambaddho na paurān bahu manyate |

34.2३४.२

स सुहृत् तादृशो राज्ञो न मन्त्रं श्रोतुम् अर्हति ॥ (३४।२)

sa suhṛt tādṛśo rājño na mantraṃ śrotum arhati ||

35.1३५.१

अविद्वान् अशुचिः स्तब्धः शत्रुसेवी विकत्थनः । (३५।१)

avidvān aśuciḥ stabdhaḥ śatrusevī vikatthanaḥ |

35.2३५.२

स सुहृत् क्रोधनो लुब्धो न मन्त्रं श्रोतुम् अर्हति ॥ (३५।२)

sa suhṛt krodhano lubdho na mantraṃ śrotum arhati ||

36.1३६.१

आगन्तुश्चानुरक्तो ऽपि कामम् अस्तु बहुश्रुतः । (३६।१)

āgantuścānurakto 'pi kāmam astu bahuśrutaḥ |

36.2३६.२

सत्कृतः संविभक्तो वा न मन्त्रं श्रोतुम् अर्हति ॥ (३६।२)

satkṛtaḥ saṃvibhakto vā na mantraṃ śrotum arhati ||

37.1३७.१

यस्त्वल्पेनापि कार्येण सकृद् आक्षारितो भवेत् । (३७।१)

yastvalpenāpi kāryeṇa sakṛd ākṣārito bhavet |

37.2३७.२

पुनर् अन्यैर् गुणैर् युक्तो न मन्त्रं श्रोतुम् अर्हति ॥ (३७।२)

punar anyair guṇair yukto na mantraṃ śrotum arhati ||

38.1३८.१

कृतप्रज्ञश्च मेधावी बुधो जानपदः शुचिः । (३८।१)

kṛtaprajñaśca medhāvī budho jānapadaḥ śuciḥ |

38.2३८.२

सर्वकर्मसु यः शुद्धः स मन्त्रं श्रोतुम् अर्हति ॥ (३८।२)

sarvakarmasu yaḥ śuddhaḥ sa mantraṃ śrotum arhati ||

39.1३९.१

ज्ञानविज्ञानसम्पन्नः प्रकृतिज्ञः परात्मनोः । (३९।१)

jñānavijñānasampannaḥ prakṛtijñaḥ parātmanoḥ |

39.2३९.२

सुहृद् आत्मसमो राज्ञः स मन्त्रं श्रोतुम् अर्हति ॥ (३९।२)

suhṛd ātmasamo rājñaḥ sa mantraṃ śrotum arhati ||

40.1४०.१

सत्यवाक् शीलसम्पन्नो गम्भीरः सत्रपो मृदुः । (४०।१)

satyavāk śīlasampanno gambhīraḥ satrapo mṛduḥ |

40.2४०.२

पितृपैतामहो यः स्यात् स मन्त्रं श्रोतुम् अर्हति ॥ (४०।२)

pitṛpaitāmaho yaḥ syāt sa mantraṃ śrotum arhati ||

41.1४१.१

संतुष्टः संमतः सत्यः शौटीरो द्वेष्यपापकः । (४१।१)

saṃtuṣṭaḥ saṃmataḥ satyaḥ śauṭīro dveṣyapāpakaḥ |

41.2४१.२

मन्त्रवित् कालविच्छूरः स मन्त्रं श्रोतुम् अर्हति ॥ (४१।२)

mantravit kālavicchūraḥ sa mantraṃ śrotum arhati ||

42.1४२.१

सर्वलोकं समं शक्तः सान्त्वेन कुरुते वशे । (४२।१)

sarvalokaṃ samaṃ śaktaḥ sāntvena kurute vaśe |

42.2४२.२

तस्मै मन्त्रः प्रयोक्तव्यो दण्डम् आधित्सता नृप ॥ (४२।२)

tasmai mantraḥ prayoktavyo daṇḍam ādhitsatā nṛpa ||

43.1४३.१

पौरजानपदा यस्मिन् विश्वासं धर्मतो गताः । (४३।१)

paurajānapadā yasmin viśvāsaṃ dharmato gatāḥ |

43.2४३.२

योद्धा नयविपश्चिच्च स मन्त्रं श्रोतुम् अर्हति ॥ (४३।२)

yoddhā nayavipaścicca sa mantraṃ śrotum arhati ||

44.1४४.१

तस्मात् सर्वैर् गुणैर् एतैर् उपपन्नाः सुपूजिताः । (४४।१)

tasmāt sarvair guṇair etair upapannāḥ supūjitāḥ |

44.2४४.२

मन्त्रिणः प्रकृतिज्ञाः स्युस्त्र्यवरा महद् ईप्सवः ॥ (४४।२)

mantriṇaḥ prakṛtijñāḥ syustryavarā mahad īpsavaḥ ||

45.1४५.१

स्वासु प्रकृतिषु छिद्रं लक्षयेरन् परस्य च । (४५।१)

svāsu prakṛtiṣu chidraṃ lakṣayeran parasya ca |

45.2४५.२

मन्त्रिणो मन्त्रमूलं हि राज्ञो राष्ट्रं विवर्धते ॥ (४५।२)

mantriṇo mantramūlaṃ hi rājño rāṣṭraṃ vivardhate ||

46.1४६.१

नास्य छिद्रं परः पश्येच्छिद्रेषु परम् अन्वियात् । (४६।१)

nāsya chidraṃ paraḥ paśyecchidreṣu param anviyāt |

46.2४६.२

गूहेत् कूर्म इवाङ्गानि रक्षेद् विवरम् आत्मनः ॥ (४६।२)

gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ ||

47.1४७.१

मन्त्रग्राहा हि राज्यस्य मन्त्रिणो ये मनीषिणः । (४७।१)

mantragrāhā hi rājyasya mantriṇo ye manīṣiṇaḥ |

47.2४७.२

मन्त्रसंहननो राजा मन्त्राङ्गानीतरो जनः ॥ (४७।२)

mantrasaṃhanano rājā mantrāṅgānītaro janaḥ ||

48.1४८.१

राज्यं प्रणिधिमूलं हि मन्त्रसारं प्रचक्षते । (४८।१)

rājyaṃ praṇidhimūlaṃ hi mantrasāraṃ pracakṣate |

48.2४८.२

स्वामिनं त्वनुवर्तन्ति वृत्त्यर्थम् इह मन्त्रिणः ॥ (४८।२)

svāminaṃ tvanuvartanti vṛttyartham iha mantriṇaḥ ||

49.1४९.१

स विनीय मदक्रोधौ मानम् ईर्ष्यां च निर्वृतः । (४९।१)

sa vinīya madakrodhau mānam īrṣyāṃ ca nirvṛtaḥ |

49.2४९.२

नित्यं पञ्चोपधातीतैर् मन्त्रयेत् सह मन्त्रिभिः ॥ (४९।२)

nityaṃ pañcopadhātītair mantrayet saha mantribhiḥ ||

50.1५०.१

तेषां त्रयाणां विविधं विमर्शं बुध्येत चित्तं विनिवेश्य तत्र । (५०।१)

teṣāṃ trayāṇāṃ vividhaṃ vimarśaṃ budhyeta cittaṃ viniveśya tatra |

50.2५०.२

स्वनिश्चयं तं परनिश्चयं च निवेदयेद् उत्तरमन्त्रकाले ॥ (५०।२)

svaniścayaṃ taṃ paraniścayaṃ ca nivedayed uttaramantrakāle ||

51.1५१.१

धर्मार्थकामज्ञम् उपेत्य पृच्छेद् युक्तो गुरुं ब्राह्मणम् उत्तमार्थम् । (५१।१)

dharmārthakāmajñam upetya pṛcched yukto guruṃ brāhmaṇam uttamārtham |

51.2५१.२

निष्ठा कृता तेन यदा सह स्यात् तं तत्र मार्गं प्रणयेद् असक्तम् ॥ (५१।२)

niṣṭhā kṛtā tena yadā saha syāt taṃ tatra mārgaṃ praṇayed asaktam ||

52.1५२.१

एवं सदा मन्त्रयितव्यम् आहुर् ये मन्त्रतत्त्वार्थविनिश्चयज्ञाः । (५२।१)

evaṃ sadā mantrayitavyam āhur ye mantratattvārthaviniścayajñāḥ |

52.2५२.२

तस्मात् त्वम् एवं प्रणयेः सदैव मन्त्रं प्रजासंग्रहणे समर्थम् ॥ (५२।२)

tasmāt tvam evaṃ praṇayeḥ sadaiva mantraṃ prajāsaṃgrahaṇe samartham ||

53.1५३.१

न वामनाः कुब्जकृशा न खञ्जा नान्धा जडाः स्त्री न नपुंसकं च । (५३।१)

na vāmanāḥ kubjakṛśā na khañjā nāndhā jaḍāḥ strī na napuṃsakaṃ ca |

53.2५३.२

न चात्र तिर्यङ् न पुरो न पश्चान् नोर्ध्वं न चाधः प्रचरेत कश्चित् ॥ (५३।२)

na cātra tiryaṅ na puro na paścān nordhvaṃ na cādhaḥ pracareta kaścit ||

54.1५४.१

आरुह्य वातायनम् एव शून्यं स्थलं प्रकाशं कुशकाशहीनम् । (५४।१)

āruhya vātāyanam eva śūnyaṃ sthalaṃ prakāśaṃ kuśakāśahīnam |

54.2५४.२

वागङ्गदोषान् परिहृत्य मन्त्रं संमन्त्रयेत् कार्यम् अहीनकालम् ॥ (५४।२)

vāgaṅgadoṣān parihṛtya mantraṃ saṃmantrayet kāryam ahīnakālam ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 12, 84

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit