MBh, 12, 19
Select a line for its word-by-word analysis.
निश्चयश्चैव यन्मात्रो वेदाहं तं यथाविधि ॥ (२।२)
niścayaścaiva yanmātro vedāhaṃ taṃ yathāvidhi ||
त्वं तु केवलम् अस्त्रज्ञो वीरव्रतम् अनुष्ठितः । (३।१)
tvaṃ tu kevalam astrajño vīravratam anuṣṭhitaḥ |
शास्त्रार्थं तत्त्वतो गन्तुं न समर्थः कथंचन ॥ (३।२)
śāstrārthaṃ tattvato gantuṃ na samarthaḥ kathaṃcana ||
शास्त्रार्थसूक्ष्मदर्शी यो धर्मनिश्चयकोविदः । (४।१)
śāstrārthasūkṣmadarśī yo dharmaniścayakovidaḥ |
तेनाप्येवं न वाच्यो ऽहं यदि धर्मं प्रपश्यसि ॥ (४।२)
tenāpyevaṃ na vācyo 'haṃ yadi dharmaṃ prapaśyasi ||
भ्रातृसौहृदम् आस्थाय यद् उक्तं वचनं त्वया । (५।१)
bhrātṛsauhṛdam āsthāya yad uktaṃ vacanaṃ tvayā |
न्याय्यं युक्तं च कौन्तेय प्रीतो ऽहं तेन ते ऽर्जुन ॥ (५।२)
nyāyyaṃ yuktaṃ ca kaunteya prīto 'haṃ tena te 'rjuna ||
युद्धधर्मेषु सर्वेषु क्रियाणां नैपुणेषु च । (६।१)
yuddhadharmeṣu sarveṣu kriyāṇāṃ naipuṇeṣu ca |
न त्वया सदृशः कश्चित् त्रिषु लोकेषु विद्यते ॥ (६।२)
na tvayā sadṛśaḥ kaścit triṣu lokeṣu vidyate ||
धर्मसूक्ष्मं तु यद् वाक्यं तत्र दुष्प्रतरं त्वया । (७।१)
dharmasūkṣmaṃ tu yad vākyaṃ tatra duṣprataraṃ tvayā |
धनंजय न मे बुद्धिम् अभिशङ्कितुम् अर्हसि ॥ (७।२)
dhanaṃjaya na me buddhim abhiśaṅkitum arhasi ||
युद्धशास्त्रविद् एव त्वं न वृद्धाः सेवितास्त्वया । (८।१)
yuddhaśāstravid eva tvaṃ na vṛddhāḥ sevitāstvayā |
तपस्त्यागो विधिर् इति निश्चयस्तात धीमताम् । (९।१)
tapastyāgo vidhir iti niścayastāta dhīmatām |
परं परं ज्याय एषां सैषा नैःश्रेयसी गतिः ॥ (९।२)
paraṃ paraṃ jyāya eṣāṃ saiṣā naiḥśreyasī gatiḥ ||
न त्वेतन्मन्यसे पार्थ न ज्यायो ऽस्ति धनाद् इति । (१०।१)
na tvetanmanyase pārtha na jyāyo 'sti dhanād iti |
अत्र ते वर्तयिष्यामि यथा नैतत् प्रधानतः ॥ (१०।२)
atra te vartayiṣyāmi yathā naitat pradhānataḥ ||
तपःस्वाध्यायशीला हि दृश्यन्ते धार्मिका जनाः । (११।१)
tapaḥsvādhyāyaśīlā hi dṛśyante dhārmikā janāḥ |
अबुद्धिजं तमस्त्यक्त्वा लोकांस्त्यागवतां गताः ॥ (१३।२)
abuddhijaṃ tamastyaktvā lokāṃstyāgavatāṃ gatāḥ ||
दक्षिणेन तु पन्थानं यं भास्वन्तं प्रपश्यसि । (१४।१)
dakṣiṇena tu panthānaṃ yaṃ bhāsvantaṃ prapaśyasi |
अनिर्देश्या गतिः सा तु यां प्रपश्यन्ति मोक्षिणः । (१५।१)
anirdeśyā gatiḥ sā tu yāṃ prapaśyanti mokṣiṇaḥ |
तस्मात् त्यागः प्रधानेष्टः स तु दुःखः प्रवेदितुम् ॥ (१५।२)
tasmāt tyāgaḥ pradhāneṣṭaḥ sa tu duḥkhaḥ praveditum ||
वेदवादान् अतिक्रम्य शास्त्राण्यारण्यकानि च । (१७।१)
vedavādān atikramya śāstrāṇyāraṇyakāni ca |
विपाट्य कदलीस्कन्धं सारं ददृशिरे न ते ॥ (१७।२)
vipāṭya kadalīskandhaṃ sāraṃ dadṛśire na te ||
इच्छाद्वेषसमायुक्तम् आत्मानं प्राहुर् इङ्गितैः ॥ (१८।२)
icchādveṣasamāyuktam ātmānaṃ prāhur iṅgitaiḥ ||
अग्राह्यश्चक्षुषा सो ऽपि अनिर्देश्यं च तद् गिरा । (१९।१)
agrāhyaścakṣuṣā so 'pi anirdeśyaṃ ca tad girā |
कल्याणगोचरं कृत्वा मनस्तृष्णां निगृह्य च । (२०।१)
kalyāṇagocaraṃ kṛtvā manastṛṣṇāṃ nigṛhya ca |
कर्मसंततिम् उत्सृज्य स्यान्निरालम्बनः सुखी ॥ (२०।२)
karmasaṃtatim utsṛjya syānnirālambanaḥ sukhī ||
अस्मिन्न् एवं सूक्ष्मगम्ये मार्गे सद्भिर् निषेविते । (२१।१)
asminn evaṃ sūkṣmagamye mārge sadbhir niṣevite |
कथम् अर्थम् अनर्थाढ्यम् अर्जुन त्वं प्रशंससि ॥ (२१।२)
katham artham anarthāḍhyam arjuna tvaṃ praśaṃsasi ||
पूर्वशास्त्रविदो ह्येवं जनाः पश्यन्ति भारत । (२२।१)
pūrvaśāstravido hyevaṃ janāḥ paśyanti bhārata |
क्रियासु निरता नित्यं दाने यज्ञे च कर्मणि ॥ (२२।२)
kriyāsu niratā nityaṃ dāne yajñe ca karmaṇi ||
भवन्ति सुदुरावर्ता हेतुमन्तो ऽपि पण्डिताः । (२३।१)
bhavanti sudurāvartā hetumanto 'pi paṇḍitāḥ |
दृढपूर्वश्रुता मूढा नैतद् अस्तीति वादिनः ॥ (२३।२)
dṛḍhapūrvaśrutā mūḍhā naitad astīti vādinaḥ ||
चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः ॥ (२४।२)
caranti vasudhāṃ kṛtsnāṃ vāvadūkā bahuśrutāḥ ||
यान् वयं नाभिजानीमः कस्ताञ् ज्ञातुम् इहार्हति । (२५।१)
yān vayaṃ nābhijānīmaḥ kastāñ jñātum ihārhati |
एवं प्राज्ञान् सतश्चापि महतः शास्त्रवित्तमान् ॥ (२५।२)
evaṃ prājñān sataścāpi mahataḥ śāstravittamān ||
तपसा महद् आप्नोति बुद्ध्या वै विन्दते महत् । (२६।१)
tapasā mahad āpnoti buddhyā vai vindate mahat |
त्यागेन सुखम् आप्नोति सदा कौन्तेय धर्मवित् ॥ (२६।२)
tyāgena sukham āpnoti sadā kaunteya dharmavit ||
Data courtesy of The Digital Corpus of Sanskrit.