MBh, 3, 92
Select a line for its word-by-word analysis.
न वै निर्गुणम् आत्मानं मन्ये देवर्षिसत्तम । (१।२)
na vai nirguṇam ātmānaṃ manye devarṣisattama |
तथास्मि दुःखसंतप्तो यथा नान्यो महीपतिः ॥ (१।३)
tathāsmi duḥkhasaṃtapto yathā nānyo mahīpatiḥ ||
परांश् च निर्गुणान् मन्ये न च धर्मरतान् अपि । (२।१)
parāṃś ca nirguṇān manye na ca dharmaratān api |
ते च लोमश लोके ऽस्मिन्न् ऋध्यन्ते केन केतुना ॥ (२।२)
te ca lomaśa loke 'sminn ṛdhyante kena ketunā ||
नात्र दुःखं त्वया राजन् कार्यं पार्थ कथंचन । (३।२)
nātra duḥkhaṃ tvayā rājan kāryaṃ pārtha kathaṃcana |
अरोचयन् सुरा धर्मं धर्मं तत्यजिरे ऽसुराः ॥ (६।२)
arocayan surā dharmaṃ dharmaṃ tatyajire 'surāḥ ||
तान् अधर्मकृतो दर्पः पूर्वम् एव समाविशत् ॥ (७।२)
tān adharmakṛto darpaḥ pūrvam eva samāviśat ||
दर्पान्मानः समभवन् मानात् क्रोधो व्यजायत । (८।१)
darpānmānaḥ samabhavan mānāt krodho vyajāyata |
क्रोधादह्रीस् ततो ऽलज्जा वृत्तं तेषां ततो ऽनशत् ॥ (८।२)
krodhādahrīs tato 'lajjā vṛttaṃ teṣāṃ tato 'naśat ||
तान् अलज्जान् गतह्रीकान् हीनवृत्तान् वृथाव्रतान् । (९।१)
tān alajjān gatahrīkān hīnavṛttān vṛthāvratān |
क्षमा लक्ष्मीश् च धर्मश्च नचिरात् प्रजहुस् ततः । (९।२)
kṣamā lakṣmīś ca dharmaśca nacirāt prajahus tataḥ |
लक्ष्मीस् तु देवान् अगमद् अलक्ष्मीर् असुरान् नृप ॥ (९।३)
lakṣmīs tu devān agamad alakṣmīr asurān nṛpa ||
दैतेयान् दानवांश् चैव कलिर् अप्याविशत् ततः ॥ (१०।२)
daiteyān dānavāṃś caiva kalir apyāviśat tataḥ ||
तान् अलक्ष्मीसमाविष्टान् दानवान् कलिना तथा । (११।१)
tān alakṣmīsamāviṣṭān dānavān kalinā tathā |
दर्पाभिभूतान् कौन्तेय क्रियाहीनान् अचेतसः ॥ (११।२)
darpābhibhūtān kaunteya kriyāhīnān acetasaḥ ||
मानाभिभूतान् अचिराद् विनाशः प्रत्यपद्यत । (१२।१)
mānābhibhūtān acirād vināśaḥ pratyapadyata |
निर्यशस्यास्ततो दैत्याः कृत्स्नशो विलयं गताः ॥ (१२।२)
niryaśasyāstato daityāḥ kṛtsnaśo vilayaṃ gatāḥ ||
देवास् तु सागरांश् चैव सरितश् च सरांसि च । (१३।१)
devās tu sāgarāṃś caiva saritaś ca sarāṃsi ca |
अभ्यगच्छन् धर्मशीलाः पुण्यान्यायतनानि च ॥ (१३।२)
abhyagacchan dharmaśīlāḥ puṇyānyāyatanāni ca ||
तपोभिः क्रतुभिर् दानैर् आशीर्वादैश् च पाण्डव । (१४।१)
tapobhiḥ kratubhir dānair āśīrvādaiś ca pāṇḍava |
प्रजहुः सर्वपापानि श्रेयश् च प्रतिपेदिरे ॥ (१४।२)
prajahuḥ sarvapāpāni śreyaś ca pratipedire ||
एवं हि दानवन्तश्च क्रियावन्तश्च सर्वशः । (१५।१)
evaṃ hi dānavantaśca kriyāvantaśca sarvaśaḥ |
तीर्थान्यगच्छन् विबुधास् तेनापुर् भूतिम् उत्तमाम् ॥ (१५।२)
tīrthānyagacchan vibudhās tenāpur bhūtim uttamām ||
तथा त्वम् अपि राजेन्द्र स्नात्वा तीर्थेषु सानुजः । (१६।१)
tathā tvam api rājendra snātvā tīrtheṣu sānujaḥ |
पुनर् वेत्स्यसि तां लक्ष्मीम् एष पन्थाः सनातनः ॥ (१६।२)
punar vetsyasi tāṃ lakṣmīm eṣa panthāḥ sanātanaḥ ||
चरमाणास् तपो नित्यं स्पर्शनाद् अम्भसश् च ते । (१८।१)
caramāṇās tapo nityaṃ sparśanād ambhasaś ca te |
तीर्थाभिगमनात् पूता दर्शनाच्च महात्मनाम् ॥ (१८।२)
tīrthābhigamanāt pūtā darśanācca mahātmanām ||
तथा त्वम् अपि राजेन्द्र लब्धासि विपुलां श्रियम् ॥ (१९।२)
tathā tvam api rājendra labdhāsi vipulāṃ śriyam ||
यथा चेक्ष्वाकुर् अचरत् सपुत्रजनबान्धवः । (२०।१)
yathā cekṣvākur acarat saputrajanabāndhavaḥ |
मुचुकुन्दो ऽथ मान्धाता मरुत्तश् च महीपतिः ॥ (२०।२)
mucukundo 'tha māndhātā maruttaś ca mahīpatiḥ ||
कीर्तिं पुण्याम् अविन्दन्त यथा देवास् तपोबलात् । (२१।१)
kīrtiṃ puṇyām avindanta yathā devās tapobalāt |
देवर्षयश्च कार्त्स्न्येन तथा त्वम् अपि वेत्स्यसे ॥ (२१।२)
devarṣayaśca kārtsnyena tathā tvam api vetsyase ||
धार्तराष्ट्रास् तु दर्पेण मोहेन च वशीकृताः । (२२।१)
dhārtarāṣṭrās tu darpeṇa mohena ca vaśīkṛtāḥ |
नचिराद् विनशिष्यन्ति दैत्या इव न संशयः ॥ (२२।२)
nacirād vinaśiṣyanti daityā iva na saṃśayaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.