महाभारतMahābhārata

MBh, 16, 7

1985 of 1995 · 48 verses

Select a line for its word-by-word analysis.

1.1१.१

वैशंपायन उवाच । (१।१)

vaiśaṃpāyana uvāca

1.2१.२

तं शयानं महात्मानं वीरम् आनकदुन्दुभिम् । (१।२)

taṃ śayānaṃ mahātmānaṃ vīram ānakadundubhim |

1.3१.३

पुत्रशोकाभिसंतप्तं ददर्श कुरुपुंगवः ॥ (१।३)

putraśokābhisaṃtaptaṃ dadarśa kurupuṃgavaḥ ||

2.1२.१

तस्याश्रुपरिपूर्णाक्षो व्यूढोरस्को महाभुजः । (२।१)

tasyāśruparipūrṇākṣo vyūḍhorasko mahābhujaḥ |

2.2२.२

आर्तस्यार्ततरः पार्थः पादौ जग्राह भारत ॥ (२।२)

ārtasyārtataraḥ pārthaḥ pādau jagrāha bhārata ||

3.1३.१

समालिङ्ग्यार्जुनं वृद्धः स भुजाभ्यां महाभुजः । (३।१)

samāliṅgyārjunaṃ vṛddhaḥ sa bhujābhyāṃ mahābhujaḥ |

3.2३.२

रुदन् पुत्रान् स्मरन् सर्वान् विललाप सुविह्वलः । (३।२)

rudan putrān smaran sarvān vilalāpa suvihvalaḥ |

3.3३.३

भ्रातॄन् पुत्रांश्च पौत्रांश्च दौहित्रांश्च सखीन् अपि ॥ (३।३)

bhrātṝn putrāṃśca pautrāṃśca dauhitrāṃśca sakhīn api ||

4.1४.१

वसुदेव उवाच । (४।१)

vasudeva uvāca

4.2४.२

यैर् जिता भूमिपालाश्च दैत्याश्च शतशो ऽर्जुन । (४।२)

yair jitā bhūmipālāśca daityāśca śataśo 'rjuna |

4.3४.३

तान् दृष्ट्वा नेह पश्यामि जीवाम्यर्जुन दुर्मरः ॥ (४।३)

tān dṛṣṭvā neha paśyāmi jīvāmyarjuna durmaraḥ ||

5.1५.१

यौ तावर्जुन शिष्यौ ते प्रियौ बहुमतौ सदा । (५।१)

yau tāvarjuna śiṣyau te priyau bahumatau sadā |

5.2५.२

तयोर् अपनयात् पार्थ वृष्णयो निधनं गताः ॥ (५।२)

tayor apanayāt pārtha vṛṣṇayo nidhanaṃ gatāḥ ||

6.1६.१

यौ तौ वृष्णिप्रवीराणां द्वावेवातिरथौ मतौ । (६।१)

yau tau vṛṣṇipravīrāṇāṃ dvāvevātirathau matau |

6.2६.२

प्रद्युम्नो युयुधानश्च कथयन् कत्थसे च यौ ॥ (६।२)

pradyumno yuyudhānaśca kathayan katthase ca yau ||

7.1७.१

नित्यं त्वं कुरुशार्दूल कृष्णश्च मम पुत्रकः । (७।१)

nityaṃ tvaṃ kuruśārdūla kṛṣṇaśca mama putrakaḥ |

7.2७.२

तावुभौ वृष्णिनाशस्य मुखम् आस्तां धनंजय ॥ (७।२)

tāvubhau vṛṣṇināśasya mukham āstāṃ dhanaṃjaya ||

8.1८.१

न तु गर्हामि शैनेयं हार्दिक्यं चाहम् अर्जुन । (८।१)

na tu garhāmi śaineyaṃ hārdikyaṃ cāham arjuna |

8.2८.२

अक्रूरं रौक्मिणेयं च शापो ह्येवात्र कारणम् ॥ (८।२)

akrūraṃ raukmiṇeyaṃ ca śāpo hyevātra kāraṇam ||

9.1९.१

केशिनं यस्तु कंसं च विक्रम्य जगतः प्रभुः । (९।१)

keśinaṃ yastu kaṃsaṃ ca vikramya jagataḥ prabhuḥ |

9.2९.२

विदेहावकरोत् पार्थ चैद्यं च बलगर्वितम् ॥ (९।२)

videhāvakarot pārtha caidyaṃ ca balagarvitam ||

10.1१०.१

नैषादिम् एकलव्यं च चक्रे कालिङ्गमागधान् । (१०।१)

naiṣādim ekalavyaṃ ca cakre kāliṅgamāgadhān |

10.2१०.२

गान्धारान् काशिराजं च मरुभूमौ च पार्थिवान् ॥ (१०।२)

gāndhārān kāśirājaṃ ca marubhūmau ca pārthivān ||

11.1११.१

प्राच्यांश्च दाक्षिणात्यांश्च पार्वतीयांस्तथा नृपान् । (११।१)

prācyāṃśca dākṣiṇātyāṃśca pārvatīyāṃstathā nṛpān |

11.2११.२

सो ऽभ्युपेक्षितवान् एतम् अनयं मधुसूदनः ॥ (११।२)

so 'bhyupekṣitavān etam anayaṃ madhusūdanaḥ ||

12.1१२.१

ततः पुत्रांश्च पौत्रांश्च भ्रातॄन् अथ सखीन् अपि । (१२।१)

tataḥ putrāṃśca pautrāṃśca bhrātṝn atha sakhīn api |

12.2१२.२

शयानान्निहतान् दृष्ट्वा ततो माम् अब्रवीद् इदम् ॥ (१२।२)

śayānānnihatān dṛṣṭvā tato mām abravīd idam ||

13.1१३.१

सम्प्राप्तो ऽद्यायम् अस्यान्तः कुलस्य पुरुषर्षभ । (१३।१)

samprāpto 'dyāyam asyāntaḥ kulasya puruṣarṣabha |

13.2१३.२

आगमिष्यति बीभत्सुर् इमां द्वारवतीं पुरीम् ॥ (१३।२)

āgamiṣyati bībhatsur imāṃ dvāravatīṃ purīm ||

14.1१४.१

आख्येयं तस्य यद् वृत्तं वृष्णीनां वैशसं महत् । (१४।१)

ākhyeyaṃ tasya yad vṛttaṃ vṛṣṇīnāṃ vaiśasaṃ mahat |

14.2१४.२

स तु श्रुत्वा महातेजा यदूनाम् अनयं प्रभो । (१४।२)

sa tu śrutvā mahātejā yadūnām anayaṃ prabho |

14.3१४.३

आगन्ता क्षिप्रम् एवेह न मे ऽत्रास्ति विचारणा ॥ (१४।३)

āgantā kṣipram eveha na me 'trāsti vicāraṇā ||

15.1१५.१

यो ऽहं तम् अर्जुनं विद्धि यो ऽर्जुनः सो ऽहम् एव तु । (१५।१)

yo 'haṃ tam arjunaṃ viddhi yo 'rjunaḥ so 'ham eva tu |

15.2१५.२

यद् ब्रूयात् तत् तथा कार्यम् इति बुध्यस्व माधव ॥ (१५।२)

yad brūyāt tat tathā kāryam iti budhyasva mādhava ||

16.1१६.१

स स्त्रीषु प्राप्तकालं वः पाण्डवो बालकेषु च । (१६।१)

sa strīṣu prāptakālaṃ vaḥ pāṇḍavo bālakeṣu ca |

16.2१६.२

प्रतिपत्स्यति बीभत्सुर् भवतश्चौर्ध्वदेहिकम् ॥ (१६।२)

pratipatsyati bībhatsur bhavataścaurdhvadehikam ||

17.1१७.१

इमां च नगरीं सद्यः प्रतियाते धनंजये । (१७।१)

imāṃ ca nagarīṃ sadyaḥ pratiyāte dhanaṃjaye |

17.2१७.२

प्राकाराट्टालकोपेतां समुद्रः प्लावयिष्यति ॥ (१७।२)

prākārāṭṭālakopetāṃ samudraḥ plāvayiṣyati ||

18.1१८.१

अहं हि देशे कस्मिंश्चित् पुण्ये नियमम् आस्थितः । (१८।१)

ahaṃ hi deśe kasmiṃścit puṇye niyamam āsthitaḥ |

18.2१८.२

कालं कर्ता सद्य एव रामेण सह धीमता ॥ (१८।२)

kālaṃ kartā sadya eva rāmeṇa saha dhīmatā ||

19.1१९.१

एवम् उक्त्वा हृषीकेशो माम् अचिन्त्यपराक्रमः । (१९।१)

evam uktvā hṛṣīkeśo mām acintyaparākramaḥ |

19.2१९.२

हित्वा मां बालकैः सार्धं दिशं काम् अप्यगात् प्रभुः ॥ (१९।२)

hitvā māṃ bālakaiḥ sārdhaṃ diśaṃ kām apyagāt prabhuḥ ||

20.1२०.१

सो ऽहं तौ च महात्मानौ चिन्तयन् भ्रातरौ तव । (२०।१)

so 'haṃ tau ca mahātmānau cintayan bhrātarau tava |

20.2२०.२

घोरं ज्ञातिवधं चैव न भुञ्जे शोककर्शितः ॥ (२०।२)

ghoraṃ jñātivadhaṃ caiva na bhuñje śokakarśitaḥ ||

21.1२१.१

न च भोक्ष्ये न जीविष्ये दिष्ट्या प्राप्तो ऽसि पाण्डव । (२१।१)

na ca bhokṣye na jīviṣye diṣṭyā prāpto 'si pāṇḍava |

21.2२१.२

यद् उक्तं पार्थ कृष्णेन तत् सर्वम् अखिलं कुरु ॥ (२१।२)

yad uktaṃ pārtha kṛṣṇena tat sarvam akhilaṃ kuru ||

22.1२२.१

एतत् ते पार्थ राज्यं च स्त्रियो रत्नानि चैव ह । (२२।१)

etat te pārtha rājyaṃ ca striyo ratnāni caiva ha |

22.2२२.२

इष्टान् प्राणान् अहं हीमांस्त्यक्ष्यामि रिपुसूदन ॥ (२२।२)

iṣṭān prāṇān ahaṃ hīmāṃstyakṣyāmi ripusūdana ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 16, 7

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit