महाभारतMahābhārata

MBh, 12, 69

1397 of 1995 · 146 verses

Select a line for its word-by-word analysis.

1.1१.१

युधिष्ठिर उवाच । (१।१)

yudhiṣṭhira uvāca

1.2१.२

पार्थिवेन विशेषेण किं कार्यम् अवशिष्यते । (१।२)

pārthivena viśeṣeṇa kiṃ kāryam avaśiṣyate |

1.3१.३

कथं रक्ष्यो जनपदः कथं रक्ष्याश्च शत्रवः ॥ (१।३)

kathaṃ rakṣyo janapadaḥ kathaṃ rakṣyāśca śatravaḥ ||

2.1२.१

कथं चारं प्रयुञ्जीत वर्णान् विश्वासयेत् कथम् । (२।१)

kathaṃ cāraṃ prayuñjīta varṇān viśvāsayet katham |

2.2२.२

कथं भृत्यान् कथं दारान् कथं पुत्रांश्च भारत ॥ (२।२)

kathaṃ bhṛtyān kathaṃ dārān kathaṃ putrāṃśca bhārata ||

3.1३.१

भीष्म उवाच । (३।१)

bhīṣma uvāca

3.2३.२

राजवृत्तं महाराज शृणुष्वावहितो ऽखिलम् । (३।२)

rājavṛttaṃ mahārāja śṛṇuṣvāvahito 'khilam |

3.3३.३

यत् कार्यं पार्थिवेनादौ पार्थिवप्रकृतेन वा ॥ (३।३)

yat kāryaṃ pārthivenādau pārthivaprakṛtena vā ||

4.1४.१

आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः । (४।१)

ātmā jeyaḥ sadā rājñā tato jeyāśca śatravaḥ |

4.2४.२

अजितात्मा नरपतिर् विजयेत कथं रिपून् ॥ (४।२)

ajitātmā narapatir vijayeta kathaṃ ripūn ||

5.1५.१

एतावान् आत्मविजयः पञ्चवर्गविनिग्रहः । (५।१)

etāvān ātmavijayaḥ pañcavargavinigrahaḥ |

5.2५.२

जितेन्द्रियो नरपतिर् बाधितुं शक्नुयाद् अरीन् ॥ (५।२)

jitendriyo narapatir bādhituṃ śaknuyād arīn ||

6.1६.१

न्यसेत गुल्मान् दुर्गेषु संधौ च कुरुनन्दन । (६।१)

nyaseta gulmān durgeṣu saṃdhau ca kurunandana |

6.2६.२

नगरोपवने चैव पुरोद्यानेषु चैव ह ॥ (६।२)

nagaropavane caiva purodyāneṣu caiva ha ||

7.1७.१

संस्थानेषु च सर्वेषु पुरेषु नगरस्य च । (७।१)

saṃsthāneṣu ca sarveṣu pureṣu nagarasya ca |

7.2७.२

मध्ये च नरशार्दूल तथा राजनिवेशने ॥ (७।२)

madhye ca naraśārdūla tathā rājaniveśane ||

8.1८.१

प्रणिधींश्च ततः कुर्याज्जडान्धबधिराकृतीन् । (८।१)

praṇidhīṃśca tataḥ kuryājjaḍāndhabadhirākṛtīn |

8.2८.२

पुंसः परीक्षितान् प्राज्ञान् क्षुत्पिपासातपक्षमान् ॥ (८।२)

puṃsaḥ parīkṣitān prājñān kṣutpipāsātapakṣamān ||

9.1९.१

अमात्येषु च सर्वेषु मित्रेषु त्रिविधेषु च । (९।१)

amātyeṣu ca sarveṣu mitreṣu trividheṣu ca |

9.2९.२

पुत्रेषु च महाराज प्रणिदध्यात् समाहितः ॥ (९।२)

putreṣu ca mahārāja praṇidadhyāt samāhitaḥ ||

10.1१०.१

पुरे जनपदे चैव तथा सामन्तराजसु । (१०।१)

pure janapade caiva tathā sāmantarājasu |

10.2१०.२

यथा न विद्युर् अन्योन्यं प्रणिधेयास्तथा हि ते ॥ (१०।२)

yathā na vidyur anyonyaṃ praṇidheyāstathā hi te ||

11.1११.१

चारांश्च विद्यात् प्रहितान् परेण भरतर्षभ । (११।१)

cārāṃśca vidyāt prahitān pareṇa bharatarṣabha |

11.2११.२

आपणेषु विहारेषु समवायेषु भिक्षुषु ॥ (११।२)

āpaṇeṣu vihāreṣu samavāyeṣu bhikṣuṣu ||

12.1१२.१

आरामेषु तथोद्याने पण्डितानां समागमे । (१२।१)

ārāmeṣu tathodyāne paṇḍitānāṃ samāgame |

12.2१२.२

वेशेषु चत्वरे चैव सभास्वावसथेषु च ॥ (१२।२)

veśeṣu catvare caiva sabhāsvāvasatheṣu ca ||

13.1१३.१

एवं विहन्याच्चारेण परचारं विचक्षणः । (१३।१)

evaṃ vihanyāccāreṇa paracāraṃ vicakṣaṇaḥ |

13.2१३.२

चारेण विहतं सर्वं हतं भवति पाण्डव ॥ (१३।२)

cāreṇa vihataṃ sarvaṃ hataṃ bhavati pāṇḍava ||

14.1१४.१

यदा तु हीनं नृपतिर् विद्याद् आत्मानम् आत्मना । (१४।१)

yadā tu hīnaṃ nṛpatir vidyād ātmānam ātmanā |

14.2१४.२

अमात्यैः सह संमन्त्र्य कुर्यात् संधिं बलीयसा ॥ (१४।२)

amātyaiḥ saha saṃmantrya kuryāt saṃdhiṃ balīyasā ||

15.1१५.१

अज्ञायमानो हीनत्वे कुर्यात् संधिं परेण वै । (१५।१)

ajñāyamāno hīnatve kuryāt saṃdhiṃ pareṇa vai |

15.2१५.२

लिप्सुर् वा कंचिद् एवार्थं त्वरमाणो विचक्षणः ॥ (१५।२)

lipsur vā kaṃcid evārthaṃ tvaramāṇo vicakṣaṇaḥ ||

16.1१६.१

गुणवन्तो महोत्साहा धर्मज्ञाः साधवश्च ये । (१६।१)

guṇavanto mahotsāhā dharmajñāḥ sādhavaśca ye |

16.2१६.२

संदधीत नृपस्तैश्च राष्ट्रं धर्मेण पालयन् ॥ (१६।२)

saṃdadhīta nṛpastaiśca rāṣṭraṃ dharmeṇa pālayan ||

17.1१७.१

उच्छिद्यमानम् आत्मानं ज्ञात्वा राजा महामतिः । (१७।१)

ucchidyamānam ātmānaṃ jñātvā rājā mahāmatiḥ |

17.2१७.२

पूर्वापकारिणो हन्याल् लोकद्विष्टांश्च सर्वशः ॥ (१७।२)

pūrvāpakāriṇo hanyāl lokadviṣṭāṃśca sarvaśaḥ ||

18.1१८.१

यो नोपकर्तुं शक्नोति नापकर्तुं महीपतिः । (१८।१)

yo nopakartuṃ śaknoti nāpakartuṃ mahīpatiḥ |

18.2१८.२

अशक्यरूपश्चोद्धर्तुम् उपेक्ष्यस्तादृशो भवेत् ॥ (१८।२)

aśakyarūpaścoddhartum upekṣyastādṛśo bhavet ||

19.1१९.१

यात्रां यायाद् अविज्ञातम् अनाक्रन्दम् अनन्तरम् । (१९।१)

yātrāṃ yāyād avijñātam anākrandam anantaram |

19.2१९.२

व्यासक्तं च प्रमत्तं च दुर्बलं च विचक्षणः ॥ (१९।२)

vyāsaktaṃ ca pramattaṃ ca durbalaṃ ca vicakṣaṇaḥ ||

20.1२०.१

यात्राम् आज्ञापयेद् वीरः कल्यपुष्टबलः सुखी । (२०।१)

yātrām ājñāpayed vīraḥ kalyapuṣṭabalaḥ sukhī |

20.2२०.२

पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा ॥ (२०।२)

pūrvaṃ kṛtvā vidhānaṃ ca yātrāyāṃ nagare tathā ||

21.1२१.१

न च वश्यो भवेद् अस्य नृपो यद्यपि वीर्यवान् । (२१।१)

na ca vaśyo bhaved asya nṛpo yadyapi vīryavān |

21.2२१.२

हीनश्च बलवीर्याभ्यां कर्शयंस्तं परावसेत् ॥ (२१।२)

hīnaśca balavīryābhyāṃ karśayaṃstaṃ parāvaset ||

22.1२२.१

राष्ट्रं च पीडयेत् तस्य शस्त्राग्निविषमूर्छनैः । (२२।१)

rāṣṭraṃ ca pīḍayet tasya śastrāgniviṣamūrchanaiḥ |

22.2२२.२

अमात्यवल्लभानां च विवादांस्तस्य कारयेत् । (२२।२)

amātyavallabhānāṃ ca vivādāṃstasya kārayet |

22.3२२.३

वर्जनीयं सदा युद्धं राज्यकामेन धीमता ॥ (२२।३)

varjanīyaṃ sadā yuddhaṃ rājyakāmena dhīmatā ||

23.1२३.१

उपायैस्त्रिभिर् आदानम् अर्थस्याह बृहस्पतिः । (२३।१)

upāyaistribhir ādānam arthasyāha bṛhaspatiḥ |

23.2२३.२

सान्त्वेनानुप्रदानेन भेदेन च नराधिप । (२३।२)

sāntvenānupradānena bhedena ca narādhipa |

23.3२३.३

यम् अर्थं शक्नुयात् प्राप्तुं तेन तुष्येद्धि पण्डितः ॥ (२३।३)

yam arthaṃ śaknuyāt prāptuṃ tena tuṣyeddhi paṇḍitaḥ ||

24.1२४.१

आददीत बलिं चैव प्रजाभ्यः कुरुनन्दन । (२४।१)

ādadīta baliṃ caiva prajābhyaḥ kurunandana |

24.2२४.२

षड्भागम् अमितप्रज्ञस्तासाम् एवाभिगुप्तये ॥ (२४।२)

ṣaḍbhāgam amitaprajñastāsām evābhiguptaye ||

25.1२५.१

दशधर्मगतेभ्यो यद् वसु बह्वल्पम् एव च । (२५।१)

daśadharmagatebhyo yad vasu bahvalpam eva ca |

25.2२५.२

तन्नाददीत सहसा पौराणां रक्षणाय वै ॥ (२५।२)

tannādadīta sahasā paurāṇāṃ rakṣaṇāya vai ||

26.1२६.१

यथा पुत्रास्तथा पौरा द्रष्टव्यास्ते न संशयः । (२६।१)

yathā putrāstathā paurā draṣṭavyāste na saṃśayaḥ |

26.2२६.२

भक्तिश्चैषां प्रकर्तव्या व्यवहारे प्रदर्शिते ॥ (२६।२)

bhaktiścaiṣāṃ prakartavyā vyavahāre pradarśite ||

27.1२७.१

सुतं च स्थापयेद् राजा प्राज्ञं सर्वार्थदर्शिनम् । (२७।१)

sutaṃ ca sthāpayed rājā prājñaṃ sarvārthadarśinam |

27.2२७.२

व्यवहारेषु सततं तत्र राज्यं व्यवस्थितम् ॥ (२७।२)

vyavahāreṣu satataṃ tatra rājyaṃ vyavasthitam ||

28.1२८.१

आकरे लवणे शुल्के तरे नागवने तथा । (२८।१)

ākare lavaṇe śulke tare nāgavane tathā |

28.2२८.२

न्यसेद् अमात्यान्नृपतिः स्वाप्तान् वा पुरुषान् हितान् ॥ (२८।२)

nyased amātyānnṛpatiḥ svāptān vā puruṣān hitān ||

29.1२९.१

सम्यग् दण्डधरो नित्यं राजा धर्मम् अवाप्नुयात् । (२९।१)

samyag daṇḍadharo nityaṃ rājā dharmam avāpnuyāt |

29.2२९.२

नृपस्य सततं दण्डः सम्यग् धर्मे प्रशस्यते ॥ (२९।२)

nṛpasya satataṃ daṇḍaḥ samyag dharme praśasyate ||

30.1३०.१

वेदवेदाङ्गवित् प्राज्ञः सुतपस्वी नृपो भवेत् । (३०।१)

vedavedāṅgavit prājñaḥ sutapasvī nṛpo bhavet |

30.2३०.२

दानशीलश्च सततं यज्ञशीलश्च भारत ॥ (३०।२)

dānaśīlaśca satataṃ yajñaśīlaśca bhārata ||

31.1३१.१

एते गुणाः समस्ताः स्युर् नृपस्य सततं स्थिराः । (३१।१)

ete guṇāḥ samastāḥ syur nṛpasya satataṃ sthirāḥ |

31.2३१.२

क्रियालोपे तु नृपतेः कुतः स्वर्गः कुतो यशः ॥ (३१।२)

kriyālope tu nṛpateḥ kutaḥ svargaḥ kuto yaśaḥ ||

32.1३२.१

यदा तु पीडितो राजा भवेद् राज्ञा बलीयसा । (३२।१)

yadā tu pīḍito rājā bhaved rājñā balīyasā |

32.2३२.२

त्रिधा त्वाक्रन्द्य मित्राणि विधानम् उपकल्पयेत् ॥ (३२।२)

tridhā tvākrandya mitrāṇi vidhānam upakalpayet ||

33.1३३.१

घोषान्न्यसेत मार्गेषु ग्रामान् उत्थापयेद् अपि । (३३।१)

ghoṣānnyaseta mārgeṣu grāmān utthāpayed api |

33.2३३.२

प्रवेशयेच्च तान् सर्वाञ् शाखानगरकेष्वपि ॥ (३३।२)

praveśayecca tān sarvāñ śākhānagarakeṣvapi ||

34.1३४.१

ये गुप्ताश्चैव दुर्गाश्च देशास्तेषु प्रवेशयेत् । (३४।१)

ye guptāścaiva durgāśca deśāsteṣu praveśayet |

34.2३४.२

धनिनो बलमुख्यांश्च सान्त्वयित्वा पुनः पुनः ॥ (३४।२)

dhanino balamukhyāṃśca sāntvayitvā punaḥ punaḥ ||

35.1३५.१

सस्याभिहारं कुर्याच्च स्वयम् एव नराधिपः । (३५।१)

sasyābhihāraṃ kuryācca svayam eva narādhipaḥ |

35.2३५.२

असंभवे प्रवेशस्य दाहयेद् अग्निना भृशम् ॥ (३५।२)

asaṃbhave praveśasya dāhayed agninā bhṛśam ||

36.1३६.१

क्षेत्रस्थेषु च सस्येषु शत्रोर् उपजपेन्नरान् । (३६।१)

kṣetrastheṣu ca sasyeṣu śatror upajapennarān |

36.2३६.२

विनाशयेद् वा सर्वस्वं बलेनाथ स्वकेन वै ॥ (३६।२)

vināśayed vā sarvasvaṃ balenātha svakena vai ||

37.1३७.१

नदीषु मार्गेषु सदा संक्रमान् अवसादयेत् । (३७।१)

nadīṣu mārgeṣu sadā saṃkramān avasādayet |

37.2३७.२

जलं निस्रावयेत् सर्वम् अनिस्राव्यं च दूषयेत् ॥ (३७।२)

jalaṃ nisrāvayet sarvam anisrāvyaṃ ca dūṣayet ||

38.1३८.१

तदात्वेनायतीभिश्च विवदन् भूम्यनन्तरम् । (३८।१)

tadātvenāyatībhiśca vivadan bhūmyanantaram |

38.2३८.२

प्रतीघातः परस्याजौ मित्रकाले ऽप्युपस्थिते ॥ (३८।२)

pratīghātaḥ parasyājau mitrakāle 'pyupasthite ||

39.1३९.१

दुर्गाणां चाभितो राजा मूलच्छेदं प्रकारयेत् । (३९।१)

durgāṇāṃ cābhito rājā mūlacchedaṃ prakārayet |

39.2३९.२

सर्वेषां क्षुद्रवृक्षाणां चैत्यवृक्षान् विवर्जयेत् ॥ (३९।२)

sarveṣāṃ kṣudravṛkṣāṇāṃ caityavṛkṣān vivarjayet ||

40.1४०.१

प्रवृद्धानां च वृक्षाणां शाखाः प्रच्छेदयेत् तथा । (४०।१)

pravṛddhānāṃ ca vṛkṣāṇāṃ śākhāḥ pracchedayet tathā |

40.2४०.२

चैत्यानां सर्वथा वर्ज्यम् अपि पत्रस्य पातनम् ॥ (४०।२)

caityānāṃ sarvathā varjyam api patrasya pātanam ||

41.1४१.१

प्रकण्ठीः कारयेत् सम्यग् आकाशजननीस्तथा । (४१।१)

prakaṇṭhīḥ kārayet samyag ākāśajananīstathā |

41.2४१.२

आपूरयेच्च परिखाः स्थाणुनक्रझषाकुलाः ॥ (४१।२)

āpūrayecca parikhāḥ sthāṇunakrajhaṣākulāḥ ||

42.1४२.१

कडङ्गद्वारकाणि स्युर् उच्छ्वासार्थे पुरस्य ह । (४२।१)

kaḍaṅgadvārakāṇi syur ucchvāsārthe purasya ha |

42.2४२.२

तेषां च द्वारवद् गुप्तिः कार्या सर्वात्मना भवेत् ॥ (४२।२)

teṣāṃ ca dvāravad guptiḥ kāryā sarvātmanā bhavet ||

43.1४३.१

द्वारेषु च गुरूण्येव यन्त्राणि स्थापयेत् सदा । (४३।१)

dvāreṣu ca gurūṇyeva yantrāṇi sthāpayet sadā |

43.2४३.२

आरोपयेच्छतघ्नीश्च स्वाधीनानि च कारयेत् ॥ (४३।२)

āropayecchataghnīśca svādhīnāni ca kārayet ||

44.1४४.१

काष्ठानि चाभिहार्याणि तथा कूपांश्च खानयेत् । (४४।१)

kāṣṭhāni cābhihāryāṇi tathā kūpāṃśca khānayet |

44.2४४.२

संशोधयेत् तथा कूपान् कृतान् पूर्वं पयोऽर्थिभिः ॥ (४४।२)

saṃśodhayet tathā kūpān kṛtān pūrvaṃ payo'rthibhiḥ ||

45.1४५.१

तृणच्छन्नानि वेश्मानि पङ्केनापि प्रलेपयेत् । (४५।१)

tṛṇacchannāni veśmāni paṅkenāpi pralepayet |

45.2४५.२

निर्हरेच्च तृणं मासे चैत्रे वह्निभयात् पुरः ॥ (४५।२)

nirharecca tṛṇaṃ māse caitre vahnibhayāt puraḥ ||

46.1४६.१

नक्तम् एव च भक्तानि पाचयेत नराधिपः । (४६।१)

naktam eva ca bhaktāni pācayeta narādhipaḥ |

46.2४६.२

न दिवाग्निर् ज्वलेद् गेहे वर्जयित्वाग्निहोत्रिकम् ॥ (४६।२)

na divāgnir jvaled gehe varjayitvāgnihotrikam ||

47.1४७.१

कर्मारारिष्टशालासु ज्वलेद् अग्निः समाहितः । (४७।१)

karmārāriṣṭaśālāsu jvaled agniḥ samāhitaḥ |

47.2४७.२

गृहाणि च प्रविश्याथ विधेयः स्याद्धुताशनः ॥ (४७।२)

gṛhāṇi ca praviśyātha vidheyaḥ syāddhutāśanaḥ ||

48.1४८.१

महादण्डश्च तस्य स्याद् यस्याग्निर् वै दिवा भवेत् । (४८।१)

mahādaṇḍaśca tasya syād yasyāgnir vai divā bhavet |

48.2४८.२

प्रघोषयेद् अथैवं च रक्षणार्थं पुरस्य वै ॥ (४८।२)

praghoṣayed athaivaṃ ca rakṣaṇārthaṃ purasya vai ||

49.1४९.१

भिक्षुकांश्चाक्रिकांश्चैव क्षीबोन्मत्तान् कुशीलवान् । (४९।१)

bhikṣukāṃścākrikāṃścaiva kṣībonmattān kuśīlavān |

49.2४९.२

बाह्यान् कुर्यान्नरश्रेष्ठ दोषाय स्युर् हि ते ऽन्यथा ॥ (४९।२)

bāhyān kuryānnaraśreṣṭha doṣāya syur hi te 'nyathā ||

50.1५०.१

चत्वरेषु च तीर्थेषु सभास्वावसथेषु च । (५०।१)

catvareṣu ca tīrtheṣu sabhāsvāvasatheṣu ca |

50.2५०.२

यथार्हवर्णं प्रणिधिं कुर्यात् सर्वत्र पार्थिवः ॥ (५०।२)

yathārhavarṇaṃ praṇidhiṃ kuryāt sarvatra pārthivaḥ ||

51.1५१.१

विशालान् राजमार्गांश्च कारयेत नराधिपः । (५१।१)

viśālān rājamārgāṃśca kārayeta narādhipaḥ |

51.2५१.२

प्रपाश्च विपणीश्चैव यथोद्देशं समादिशेत् ॥ (५१।२)

prapāśca vipaṇīścaiva yathoddeśaṃ samādiśet ||

52.1५२.१

भाण्डागारायुधागारान् धान्यागारांश्च सर्वशः । (५२।१)

bhāṇḍāgārāyudhāgārān dhānyāgārāṃśca sarvaśaḥ |

52.2५२.२

अश्वागारान् गजागारान् बलाधिकरणानि च ॥ (५२।२)

aśvāgārān gajāgārān balādhikaraṇāni ca ||

53.1५३.१

परिखाश्चैव कौरव्य प्रतोलीः संकटानि च । (५३।१)

parikhāścaiva kauravya pratolīḥ saṃkaṭāni ca |

53.2५३.२

न जातु कश्चित् पश्येत् तु गुह्यम् एतद् युधिष्ठिर ॥ (५३।२)

na jātu kaścit paśyet tu guhyam etad yudhiṣṭhira ||

54.1५४.१

अथ संनिचयं कुर्याद् राजा परबलार्दितः । (५४।१)

atha saṃnicayaṃ kuryād rājā parabalārditaḥ |

54.2५४.२

तैलं मधु घृतं सस्यम् औषधानि च सर्वशः ॥ (५४।२)

tailaṃ madhu ghṛtaṃ sasyam auṣadhāni ca sarvaśaḥ ||

55.1५५.१

अङ्गारकुशमुञ्जानां पलाशशरपर्णिनाम् । (५५।१)

aṅgārakuśamuñjānāṃ palāśaśaraparṇinām |

55.2५५.२

यवसेन्धनदिग्धानां कारयेत च संचयान् ॥ (५५।२)

yavasendhanadigdhānāṃ kārayeta ca saṃcayān ||

56.1५६.१

आयुधानां च सर्वेषां शक्त्यृष्टिप्रासवर्मणाम् । (५६।१)

āyudhānāṃ ca sarveṣāṃ śaktyṛṣṭiprāsavarmaṇām |

56.2५६.२

संचयान् एवमादीनां कारयेत नराधिपः ॥ (५६।२)

saṃcayān evamādīnāṃ kārayeta narādhipaḥ ||

57.1५७.१

औषधानि च सर्वाणि मूलानि च फलानि च । (५७।१)

auṣadhāni ca sarvāṇi mūlāni ca phalāni ca |

57.2५७.२

चतुर्विधांश्च वैद्यान् वै संगृह्णीयाद् विशेषतः ॥ (५७।२)

caturvidhāṃśca vaidyān vai saṃgṛhṇīyād viśeṣataḥ ||

58.1५८.१

नटाश्च नर्तकाश्चैव मल्ला मायाविनस्तथा । (५८।१)

naṭāśca nartakāścaiva mallā māyāvinastathā |

58.2५८.२

शोभयेयुः पुरवरं मोदयेयुश्च सर्वशः ॥ (५८।२)

śobhayeyuḥ puravaraṃ modayeyuśca sarvaśaḥ ||

59.1५९.१

यतः शङ्का भवेच्चापि भृत्यतो वापि मन्त्रितः । (५९।१)

yataḥ śaṅkā bhaveccāpi bhṛtyato vāpi mantritaḥ |

59.2५९.२

पौरेभ्यो नृपतेर् वापि स्वाधीनान् कारयेत तान् ॥ (५९।२)

paurebhyo nṛpater vāpi svādhīnān kārayeta tān ||

60.1६०.१

कृते कर्मणि राजेन्द्र पूजयेद् धनसंचयैः । (६०।१)

kṛte karmaṇi rājendra pūjayed dhanasaṃcayaiḥ |

60.2६०.२

मानेन च यथार्हेण सान्त्वेन विविधेन च ॥ (६०।२)

mānena ca yathārheṇa sāntvena vividhena ca ||

61.1६१.१

निर्वेदयित्वा तु परं हत्वा वा कुरुनन्दन । (६१।१)

nirvedayitvā tu paraṃ hatvā vā kurunandana |

61.2६१.२

गतानृण्यो भवेद् राजा यथा शास्त्रेषु दर्शितम् ॥ (६१।२)

gatānṛṇyo bhaved rājā yathā śāstreṣu darśitam ||

62.1६२.१

राज्ञा सप्तैव रक्ष्याणि तानि चापि निबोध मे । (६२।१)

rājñā saptaiva rakṣyāṇi tāni cāpi nibodha me |

62.2६२.२

आत्मामात्यश्च कोशश्च दण्डो मित्राणि चैव हि ॥ (६२।२)

ātmāmātyaśca kośaśca daṇḍo mitrāṇi caiva hi ||

63.1६३.१

तथा जनपदश्चैव पुरं च कुरुनन्दन । (६३।१)

tathā janapadaścaiva puraṃ ca kurunandana |

63.2६३.२

एतत् सप्तात्मकं राज्यं परिपाल्यं प्रयत्नतः ॥ (६३।२)

etat saptātmakaṃ rājyaṃ paripālyaṃ prayatnataḥ ||

64.1६४.१

षाड्गुण्यं च त्रिवर्गं च त्रिवर्गम् अपरं तथा । (६४।१)

ṣāḍguṇyaṃ ca trivargaṃ ca trivargam aparaṃ tathā |

64.2६४.२

यो वेत्ति पुरुषव्याघ्र स भुनक्ति महीम् इमाम् ॥ (६४।२)

yo vetti puruṣavyāghra sa bhunakti mahīm imām ||

65.1६५.१

षाड्गुण्यम् इति यत् प्रोक्तं तन्निबोध युधिष्ठिर । (६५।१)

ṣāḍguṇyam iti yat proktaṃ tannibodha yudhiṣṭhira |

65.2६५.२

संधायासनम् इत्येव यात्रासंधानम् एव च ॥ (६५।२)

saṃdhāyāsanam ityeva yātrāsaṃdhānam eva ca ||

66.1६६.१

विगृह्यासनम् इत्येव यात्रां सम्परिगृह्य च । (६६।१)

vigṛhyāsanam ityeva yātrāṃ samparigṛhya ca |

66.2६६.२

द्वैधीभावस्तथान्येषां संश्रयो ऽथ परस्य च ॥ (६६।२)

dvaidhībhāvastathānyeṣāṃ saṃśrayo 'tha parasya ca ||

67.1६७.१

त्रिवर्गश्चापि यः प्रोक्तस्तम् इहैकमनाः शृणु । (६७।१)

trivargaścāpi yaḥ proktastam ihaikamanāḥ śṛṇu |

67.2६७.२

क्षयः स्थानं च वृद्धिश्च त्रिवर्गम् अपरं तथा ॥ (६७।२)

kṣayaḥ sthānaṃ ca vṛddhiśca trivargam aparaṃ tathā ||

68.1६८.१

धर्मश्चार्थश्च कामश्च सेवितव्यो ऽथ कालतः । (६८।१)

dharmaścārthaśca kāmaśca sevitavyo 'tha kālataḥ |

68.2६८.२

धर्मेण हि महीपालश्चिरं पालयते महीम् ॥ (६८।२)

dharmeṇa hi mahīpālaściraṃ pālayate mahīm ||

69.1६९.१

अस्मिन् अर्थे च यौ श्लोकौ गीतावङ्गिरसा स्वयम् । (६९।१)

asmin arthe ca yau ślokau gītāvaṅgirasā svayam |

69.2६९.२

यादवीपुत्र भद्रं ते श्रोतुम् अर्हसि तावपि ॥ (६९।२)

yādavīputra bhadraṃ te śrotum arhasi tāvapi ||

70.1७०.१

कृत्वा सर्वाणि कार्याणि सम्यक् संपाल्य मेदिनीम् । (७०।१)

kṛtvā sarvāṇi kāryāṇi samyak saṃpālya medinīm |

70.2७०.२

पालयित्वा तथा पौरान् परत्र सुखम् एधते ॥ (७०।२)

pālayitvā tathā paurān paratra sukham edhate ||

71.1७१.१

किं तस्य तपसा राज्ञः किं च तस्याध्वरैर् अपि । (७१।१)

kiṃ tasya tapasā rājñaḥ kiṃ ca tasyādhvarair api |

71.2७१.२

अपालिताः प्रजा यस्य सर्वा धर्मविनाकृताः ॥ (७१।२)

apālitāḥ prajā yasya sarvā dharmavinākṛtāḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 12, 69

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit