महाभारतMahābhārata

MBh, 14, 34

1869 of 1995 · 31 verses

Select a line for its word-by-word analysis.

1.1१.१

ब्राह्मण्युवाच । (१।१)

brāhmaṇyuvāca |

1.2१.२

नेदम् अल्पात्मना शक्यं वेदितुं नाकृतात्मना । (१।२)

nedam alpātmanā śakyaṃ vedituṃ nākṛtātmanā |

1.3१.३

बहु चाल्पं च संक्षिप्तं विप्लुतं च मतं मम ॥ (१।३)

bahu cālpaṃ ca saṃkṣiptaṃ viplutaṃ ca mataṃ mama ||

2.1२.१

उपायं तु मम ब्रूहि येनैषा लभ्यते मतिः । (२।१)

upāyaṃ tu mama brūhi yenaiṣā labhyate matiḥ |

2.2२.२

तन्मन्ये कारणतमं यत एषा प्रवर्तते ॥ (२।२)

tanmanye kāraṇatamaṃ yata eṣā pravartate ||

3.1३.१

ब्राह्मण उवाच । (३।१)

brāhmaṇa uvāca

3.2३.२

अरणीं ब्राह्मणीं विद्धि गुरुर् अस्योत्तरारणिः । (३।२)

araṇīṃ brāhmaṇīṃ viddhi gurur asyottarāraṇiḥ |

3.3३.३

तपःश्रुते ऽभिमथ्नीतो ज्ञानाग्निर् जायते ततः ॥ (३।३)

tapaḥśrute 'bhimathnīto jñānāgnir jāyate tataḥ ||

4.1४.१

ब्राह्मण्युवाच । (४।१)

brāhmaṇyuvāca |

4.2४.२

यद् इदं ब्रह्मणो लिङ्गं क्षेत्रज्ञम् इति संज्ञितम् । (४।२)

yad idaṃ brahmaṇo liṅgaṃ kṣetrajñam iti saṃjñitam |

4.3४.३

ग्रहीतुं येन तच्छक्यं लक्षणं तस्य तत् क्व नु ॥ (४।३)

grahītuṃ yena tacchakyaṃ lakṣaṇaṃ tasya tat kva nu ||

5.1५.१

ब्राह्मण उवाच । (५।१)

brāhmaṇa uvāca

5.2५.२

अलिङ्गो निर्गुणश्चैव कारणं नास्य विद्यते । (५।२)

aliṅgo nirguṇaścaiva kāraṇaṃ nāsya vidyate |

5.3५.३

उपायम् एव वक्ष्यामि येन गृह्येत वा न वा ॥ (५।३)

upāyam eva vakṣyāmi yena gṛhyeta vā na vā ||

6.1६.१

सम्यग् अप्युपदिष्टश्च भ्रमरैर् इव लक्ष्यते । (६।१)

samyag apyupadiṣṭaśca bhramarair iva lakṣyate |

6.2६.२

कर्मबुद्धिर् अबुद्धित्वाज्ज्ञानलिङ्गैर् इवाश्रितम् ॥ (६।२)

karmabuddhir abuddhitvājjñānaliṅgair ivāśritam ||

7.1७.१

इदं कार्यम् इदं नेति न मोक्षेषूपदिश्यते । (७।१)

idaṃ kāryam idaṃ neti na mokṣeṣūpadiśyate |

7.2७.२

पश्यतः शृण्वतो बुद्धिर् आत्मनो येषु जायते ॥ (७।२)

paśyataḥ śṛṇvato buddhir ātmano yeṣu jāyate ||

8.1८.१

यावन्त इह शक्येरंस्तावतो ऽंशान् प्रकल्पयेत् । (८।१)

yāvanta iha śakyeraṃstāvato 'ṃśān prakalpayet |

8.2८.२

व्यक्तान् अव्यक्तरूपांश्च शतशो ऽथ सहस्रशः ॥ (८।२)

vyaktān avyaktarūpāṃśca śataśo 'tha sahasraśaḥ ||

9.1९.१

सर्वान्नानात्वयुक्तांश्च सर्वान् प्रत्यक्षहेतुकान् । (९।१)

sarvānnānātvayuktāṃśca sarvān pratyakṣahetukān |

9.2९.२

यतः परं न विद्येत ततो ऽभ्यासे भविष्यति ॥ (९।२)

yataḥ paraṃ na vidyeta tato 'bhyāse bhaviṣyati ||

10.1१०.१

वासुदेव उवाच । (१०।१)

vāsudeva uvāca

10.2१०.२

ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसंक्षये । (१०।२)

tatastu tasyā brāhmaṇyā matiḥ kṣetrajñasaṃkṣaye |

10.3१०.३

क्षेत्रज्ञाद् एव परतः क्षेत्रज्ञो ऽन्यः प्रवर्तते ॥ (१०।३)

kṣetrajñād eva parataḥ kṣetrajño 'nyaḥ pravartate ||

11.1११.१

अर्जुन उवाच । (११।१)

arjuna uvāca

11.2११.२

क्व नु सा ब्राह्मणी कृष्ण क्व चासौ ब्राह्मणर्षभः । (११।२)

kva nu sā brāhmaṇī kṛṣṇa kva cāsau brāhmaṇarṣabhaḥ |

11.3११.३

याभ्यां सिद्धिर् इयं प्राप्ता तावुभौ वद मे ऽच्युत ॥ (११।३)

yābhyāṃ siddhir iyaṃ prāptā tāvubhau vada me 'cyuta ||

12.1१२.१

वासुदेव उवाच । (१२।१)

vāsudeva uvāca

12.2१२.२

मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम् । (१२।२)

mano me brāhmaṇaṃ viddhi buddhiṃ me viddhi brāhmaṇīm |

12.3१२.३

क्षेत्रज्ञ इति यश्चोक्तः सो ऽहम् एव धनंजय ॥ (१२।३)

kṣetrajña iti yaścoktaḥ so 'ham eva dhanaṃjaya ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 14, 34

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit