महाभारतMahābhārata

MBh, 3, 100

398 of 1995 · 52 verses

Select a line for its word-by-word analysis.

1.1१.१

लोमश उवाच । (१।१)

lomaśa uvāca

1.2१.२

समुद्रं ते समाश्रित्य वारुणं निधिम् अम्भसाम् । (१।२)

samudraṃ te samāśritya vāruṇaṃ nidhim ambhasām |

1.3१.३

कालेयाः सम्प्रवर्तन्त त्रैलोक्यस्य विनाशने ॥ (१।३)

kāleyāḥ sampravartanta trailokyasya vināśane ||

2.1२.१

ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन् । (२।१)

te rātrau samabhikruddhā bhakṣayanti sadā munīn |

2.2२.२

आश्रमेषु च ये सन्ति पुण्येष्वायतनेषु च ॥ (२।२)

āśrameṣu ca ye santi puṇyeṣvāyataneṣu ca ||

3.1३.१

वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर् दुरात्मभिः । (३।१)

vasiṣṭhasyāśrame viprā bhakṣitāstair durātmabhiḥ |

3.2३.२

अशीतिशतम् अष्टौ च नव चान्ये तपस्विनः ॥ (३।२)

aśītiśatam aṣṭau ca nava cānye tapasvinaḥ ||

4.1४.१

च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम् । (४।१)

cyavanasyāśramaṃ gatvā puṇyaṃ dvijaniṣevitam |

4.2४.२

फलमूलाशनानां हि मुनीनां भक्षितं शतम् ॥ (४।२)

phalamūlāśanānāṃ hi munīnāṃ bhakṣitaṃ śatam ||

5.1५.१

एवं रात्रौ स्म कुर्वन्ति विविशुश्चार्णवं दिवा । (५।१)

evaṃ rātrau sma kurvanti viviśuścārṇavaṃ divā |

5.2५.२

भरद्वाजाश्रमे चैव नियता ब्रह्मचारिणः । (५।२)

bharadvājāśrame caiva niyatā brahmacāriṇaḥ |

5.3५.३

वाय्वाहाराम्बुभक्षाश् च विंशतिः संनिपातिताः ॥ (५।३)

vāyvāhārāmbubhakṣāś ca viṃśatiḥ saṃnipātitāḥ ||

6.1६.१

एवं क्रमेण सर्वांस् तान् आश्रमान् दानवास् तदा । (६।१)

evaṃ krameṇa sarvāṃs tān āśramān dānavās tadā |

6.2६.२

निशायां परिधावन्ति मत्ता भुजबलाश्रयात् । (६।२)

niśāyāṃ paridhāvanti mattā bhujabalāśrayāt |

6.3६.३

कालोपसृष्टाः कालेया घ्नन्तो द्विजगणान् बहून् ॥ (६।३)

kālopasṛṣṭāḥ kāleyā ghnanto dvijagaṇān bahūn ||

7.1७.१

न चैनान् अन्वबुध्यन्त मनुजा मनुजोत्तम । (७।१)

na cainān anvabudhyanta manujā manujottama |

7.2७.२

एवं प्रवृत्तान् दैत्यांस् तांस् तापसेषु तपस्विषु ॥ (७।२)

evaṃ pravṛttān daityāṃs tāṃs tāpaseṣu tapasviṣu ||

8.1८.१

प्रभाते समदृश्यन्त नियताहारकर्शिताः । (८।१)

prabhāte samadṛśyanta niyatāhārakarśitāḥ |

8.2८.२

महीतलस्था मुनयः शरीरैर् गतजीवितैः ॥ (८।२)

mahītalasthā munayaḥ śarīrair gatajīvitaiḥ ||

9.1९.१

क्षीणमांसैर् विरुधिरैर् विमज्जान्त्रैर् विसंधिभिः । (९।१)

kṣīṇamāṃsair virudhirair vimajjāntrair visaṃdhibhiḥ |

9.2९.२

आकीर्णैर् आचिता भूमिः शङ्खानाम् इव राशिभिः ॥ (९।२)

ākīrṇair ācitā bhūmiḥ śaṅkhānām iva rāśibhiḥ ||

10.1१०.१

कलशैर् विप्रविद्धैश् च स्रुवैर् भग्नैस् तथैव च । (१०।१)

kalaśair vipraviddhaiś ca sruvair bhagnais tathaiva ca |

10.2१०.२

विकीर्णैर् अग्निहोत्रैश् च भूर् बभूव समावृता ॥ (१०।२)

vikīrṇair agnihotraiś ca bhūr babhūva samāvṛtā ||

11.1११.१

निःस्वाध्यायवषट्कारं नष्टयज्ञोत्सवक्रियम् । (११।१)

niḥsvādhyāyavaṣaṭkāraṃ naṣṭayajñotsavakriyam |

11.2११.२

जगद् आसीन् निरुत्साहं कालेयभयपीडितम् ॥ (११।२)

jagad āsīn nirutsāhaṃ kāleyabhayapīḍitam ||

12.1१२.१

एवं प्रक्षीयमाणाश्च मानवा मनुजेश्वर । (१२।१)

evaṃ prakṣīyamāṇāśca mānavā manujeśvara |

12.2१२.२

आत्मत्राणपरा भीताः प्राद्रवन्त दिशो भयात् ॥ (१२।२)

ātmatrāṇaparā bhītāḥ prādravanta diśo bhayāt ||

13.1१३.१

केचिद् गुहाः प्रविविशुर् निर्झरांश् चापरे श्रिताः । (१३।१)

kecid guhāḥ praviviśur nirjharāṃś cāpare śritāḥ |

13.2१३.२

अपरे मरणोद्विग्ना भयात् प्राणान् समुत्सृजन् ॥ (१३।२)

apare maraṇodvignā bhayāt prāṇān samutsṛjan ||

14.1१४.१

केचिद् अत्र महेष्वासाः शूराः परमदर्पिताः । (१४।१)

kecid atra maheṣvāsāḥ śūrāḥ paramadarpitāḥ |

14.2१४.२

मार्गमाणाः परं यत्नं दानवानां प्रचक्रिरे ॥ (१४।२)

mārgamāṇāḥ paraṃ yatnaṃ dānavānāṃ pracakrire ||

15.1१५.१

न चैतान् अधिजग्मुस् ते समुद्रं समुपाश्रितान् । (१५।१)

na caitān adhijagmus te samudraṃ samupāśritān |

15.2१५.२

श्रमं जग्मुश्च परमम् आजग्मुः क्षयम् एव च ॥ (१५।२)

śramaṃ jagmuśca paramam ājagmuḥ kṣayam eva ca ||

16.1१६.१

जगत्युपशमं याते नष्टयज्ञोत्सवक्रिये । (१६।१)

jagatyupaśamaṃ yāte naṣṭayajñotsavakriye |

16.2१६.२

आजग्मुः परमाम् आर्तिं त्रिदशा मनुजेश्वर ॥ (१६।२)

ājagmuḥ paramām ārtiṃ tridaśā manujeśvara ||

17.1१७.१

समेत्य समहेन्द्राश्च भयान् मन्त्रं प्रचक्रिरे । (१७।१)

sametya samahendrāśca bhayān mantraṃ pracakrire |

17.2१७.२

नारायणं पुरस्कृत्य वैकुण्ठम् अपराजितम् ॥ (१७।२)

nārāyaṇaṃ puraskṛtya vaikuṇṭham aparājitam ||

18.1१८.१

ततो देवाः समेतास् ते तदोचुर् मधुसूदनम् । (१८।१)

tato devāḥ sametās te tadocur madhusūdanam |

18.2१८.२

त्वं नः स्रष्टा च पाता च भर्ता च जगतः प्रभो । (१८।२)

tvaṃ naḥ sraṣṭā ca pātā ca bhartā ca jagataḥ prabho |

18.3१८.३

त्वया सृष्टम् इदं सर्वं यच्चेङ्गं यच्च नेङ्गति ॥ (१८।३)

tvayā sṛṣṭam idaṃ sarvaṃ yacceṅgaṃ yacca neṅgati ||

19.1१९.१

त्वया भूमिः पुरा नष्टा समुद्रात् पुष्करेक्षण । (१९।१)

tvayā bhūmiḥ purā naṣṭā samudrāt puṣkarekṣaṇa |

19.2१९.२

वाराहं रूपम् आस्थाय जगदर्थे समुद्धृता ॥ (१९।२)

vārāhaṃ rūpam āsthāya jagadarthe samuddhṛtā ||

20.1२०.१

आदिदैत्यो महावीर्यो हिरण्यकशिपुस् त्वया । (२०।१)

ādidaityo mahāvīryo hiraṇyakaśipus tvayā |

20.2२०.२

नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम ॥ (२०।२)

nārasiṃhaṃ vapuḥ kṛtvā sūditaḥ puruṣottama ||

21.1२१.१

अवध्यः सर्वभूतानां बलिश्चापि महासुरः । (२१।१)

avadhyaḥ sarvabhūtānāṃ baliścāpi mahāsuraḥ |

21.2२१.२

वामनं वपुर् आश्रित्य त्रैलोक्याद् भ्रंशितस् त्वया ॥ (२१।२)

vāmanaṃ vapur āśritya trailokyād bhraṃśitas tvayā ||

22.1२२.१

असुरश्च महेष्वासो जम्भ इत्यभिविश्रुतः । (२२।१)

asuraśca maheṣvāso jambha ityabhiviśrutaḥ |

22.2२२.२

यज्ञक्षोभकरः क्रूरस् त्वयैव विनिपातितः ॥ (२२।२)

yajñakṣobhakaraḥ krūras tvayaiva vinipātitaḥ ||

23.1२३.१

एवमादीनि कर्माणि येषां संख्या न विद्यते । (२३।१)

evamādīni karmāṇi yeṣāṃ saṃkhyā na vidyate |

23.2२३.२

अस्माकं भयभीतानां त्वं गतिर् मधुसूदन ॥ (२३।२)

asmākaṃ bhayabhītānāṃ tvaṃ gatir madhusūdana ||

24.1२४.१

तस्मात् त्वां देव देवेश लोकार्थं ज्ञापयामहे । (२४।१)

tasmāt tvāṃ deva deveśa lokārthaṃ jñāpayāmahe |

24.2२४.२

रक्ष लोकांश् च देवांश् च शक्रं च महतो भयात् ॥ (२४।२)

rakṣa lokāṃś ca devāṃś ca śakraṃ ca mahato bhayāt ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 3, 100

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit