MBh, 12, 291
Select a line for its word-by-word analysis.
किं तद् अक्षरम् इत्युक्तं यस्मान्नावर्तते पुनः । (१।२)
kiṃ tad akṣaram ityuktaṃ yasmānnāvartate punaḥ |
किं च तत् क्षरम् इत्युक्तं यस्माद् आवर्तते पुनः ॥ (१।३)
kiṃ ca tat kṣaram ityuktaṃ yasmād āvartate punaḥ ||
त्वं हि ज्ञाननिधिर् विप्रैर् उच्यसे वेदपारगैः । (३।१)
tvaṃ hi jñānanidhir viprair ucyase vedapāragaiḥ |
त्वयि प्रतिगते श्रेयः कुतः श्रोष्यामहे वयम् । (५।१)
tvayi pratigate śreyaḥ kutaḥ śroṣyāmahe vayam |
कुरुवंशप्रदीपस्त्वं ज्ञानद्रव्येण दीप्यसे ॥ (५।२)
kuruvaṃśapradīpastvaṃ jñānadravyeṇa dīpyase ||
तद् एतच्छ्रोतुम् इच्छामि त्वत्तः कुरुकुलोद्वह । (६।१)
tad etacchrotum icchāmi tvattaḥ kurukulodvaha |
न तृप्यामीह राजेन्द्र शृण्वन्न् अमृतम् ईदृशम् ॥ (६।२)
na tṛpyāmīha rājendra śṛṇvann amṛtam īdṛśam ||
वसिष्ठं श्रेष्ठम् आसीनम् ऋषीणां भास्करद्युतिम् । (८।१)
vasiṣṭhaṃ śreṣṭham āsīnam ṛṣīṇāṃ bhāskaradyutim |
पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम् ॥ (८।२)
papraccha janako rājā jñānaṃ naiḥśreyasaṃ param ||
स्वक्षरं प्रश्रितं वाक्यं मधुरं चाप्यनुल्बणम् । (१०।१)
svakṣaraṃ praśritaṃ vākyaṃ madhuraṃ cāpyanulbaṇam |
भगवञ् श्रोतुम् इच्छामि परं ब्रह्म सनातनम् । (११।१)
bhagavañ śrotum icchāmi paraṃ brahma sanātanam |
यस्मान्न पुनरावृत्तिम् आप्नुवन्ति मनीषिणः ॥ (११।२)
yasmānna punarāvṛttim āpnuvanti manīṣiṇaḥ ||
यच्च तत् क्षरम् इत्युक्तं यत्रेदं क्षरते जगत् । (१२।१)
yacca tat kṣaram ityuktaṃ yatredaṃ kṣarate jagat |
यच्चाक्षरम् इति प्रोक्तं शिवं क्षेम्यम् अनामयम् ॥ (१२।२)
yaccākṣaram iti proktaṃ śivaṃ kṣemyam anāmayam ||
यन्न क्षरति पूर्वेण यावत् कालेन चाप्यथ ॥ (१३।३)
yanna kṣarati pūrveṇa yāvat kālena cāpyatha ||
युगं द्वादशसाहस्रं कल्पं विद्धि चतुर्गुणम् । (१४।१)
yugaṃ dvādaśasāhasraṃ kalpaṃ viddhi caturguṇam |
दशकल्पशतावृत्तं तद् अहर् ब्राह्मम् उच्यते । (१४।२)
daśakalpaśatāvṛttaṃ tad ahar brāhmam ucyate |
रात्रिश्चैतावती राजन् यस्यान्ते प्रतिबुध्यते ॥ (१४।३)
rātriścaitāvatī rājan yasyānte pratibudhyate ||
सृजत्यनन्तकर्माणं महान्तं भूतम् अग्रजम् । (१५।१)
sṛjatyanantakarmāṇaṃ mahāntaṃ bhūtam agrajam |
मूर्तिमन्तम् अमूर्तात्मा विश्वं शंभुः स्वयंभुवः । (१५।२)
mūrtimantam amūrtātmā viśvaṃ śaṃbhuḥ svayaṃbhuvaḥ |
अणिमा लघिमा प्राप्तिर् ईशानं ज्योतिर् अव्ययम् ॥ (१५।३)
aṇimā laghimā prāptir īśānaṃ jyotir avyayam ||
सर्वतःपाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् । (१६।१)
sarvataḥpāṇipādāntaṃ sarvato'kṣiśiromukham |
सर्वतःश्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति ॥ (१६।२)
sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati ||
हिरण्यगर्भो भगवान् एष बुद्धिर् इति स्मृतः । (१७।१)
hiraṇyagarbho bhagavān eṣa buddhir iti smṛtaḥ |
सांख्ये च पठ्यते शास्त्रे नामभिर् बहुधात्मकः । (१८।१)
sāṃkhye ca paṭhyate śāstre nāmabhir bahudhātmakaḥ |
विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः ॥ (१८।२)
vicitrarūpo viśvātmā ekākṣara iti smṛtaḥ ||
वृतं नैकात्मकं येन कृत्स्नं त्रैलोक्यम् आत्मना । (१९।१)
vṛtaṃ naikātmakaṃ yena kṛtsnaṃ trailokyam ātmanā |
एष वै विक्रियापन्नः सृजत्यात्मानम् आत्मना । (२०।१)
eṣa vai vikriyāpannaḥ sṛjatyātmānam ātmanā |
अव्यक्ताद् व्यक्तम् उत्पन्नं विद्यासर्गं वदन्ति तम् । (२१।१)
avyaktād vyaktam utpannaṃ vidyāsargaṃ vadanti tam |
महान्तं चाप्यहंकारम् अविद्यासर्गम् एव च ॥ (२१।२)
mahāntaṃ cāpyahaṃkāram avidyāsargam eva ca ||
अविधिश्च विधिश्चैव समुत्पन्नौ तथैकतः । (२२।१)
avidhiśca vidhiścaiva samutpannau tathaikataḥ |
विद्याविद्येति विख्याते श्रुतिशास्त्रार्थचिन्तकैः ॥ (२२।२)
vidyāvidyeti vikhyāte śrutiśāstrārthacintakaiḥ ||
भूतसर्गम् अहंकारात् तृतीयं विद्धि पार्थिव । (२३।१)
bhūtasargam ahaṃkārāt tṛtīyaṃ viddhi pārthiva |
अहंकारेषु भूतेषु चतुर्थं विद्धि वैकृतम् ॥ (२३।२)
ahaṃkāreṣu bhūteṣu caturthaṃ viddhi vaikṛtam ||
वायुर् ज्योतिर् अथाकाशम् आपो ऽथ पृथिवी तथा । (२४।१)
vāyur jyotir athākāśam āpo 'tha pṛthivī tathā |
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ॥ (२४।२)
śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca ||
पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गम् अर्थवत् ॥ (२५।२)
pañcamaṃ viddhi rājendra bhautikaṃ sargam arthavat ||
श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणम् एव च पञ्चमम् । (२६।१)
śrotraṃ tvak cakṣuṣī jihvā ghrāṇam eva ca pañcamam |
वाक् च हस्तौ च पादौ च पायुर् मेढ्रं तथैव च ॥ (२६।२)
vāk ca hastau ca pādau ca pāyur meḍhraṃ tathaiva ca ||
बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च । (२७।१)
buddhīndriyāṇi caitāni tathā karmendriyāṇi ca |
यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास्तत्त्वदर्शिनः ॥ (२८।२)
yāṃ jñātvā nābhiśocanti brāhmaṇāstattvadarśinaḥ ||
एतद् देहं समाख्यातं त्रैलोक्ये सर्वदेहिषु । (२९।१)
etad dehaṃ samākhyātaṃ trailokye sarvadehiṣu |
यच्च मूर्तिमयं किंचित् सर्वत्रैतन्निदर्शनम् ॥ (३२।२)
yacca mūrtimayaṃ kiṃcit sarvatraitannidarśanam ||
स्थानं देहवताम् अस्ति इत्येवम् अनुशुश्रुम ॥ (३३।२)
sthānaṃ dehavatām asti ityevam anuśuśruma ||
कृत्स्नम् एतावतस्तात क्षरते व्यक्तसंज्ञकम् । (३४।१)
kṛtsnam etāvatastāta kṣarate vyaktasaṃjñakam |
एतद् अक्षरम् इत्युक्तं क्षरतीदं यथा जगत् । (३५।१)
etad akṣaram ityuktaṃ kṣaratīdaṃ yathā jagat |
जगन्मोहात्मकं प्राहुर् अव्यक्तं व्यक्तसंज्ञकम् ॥ (३५।२)
jaganmohātmakaṃ prāhur avyaktaṃ vyaktasaṃjñakam ||
महांश्चैवाग्रजो नित्यम् एतत् क्षरनिदर्शनम् । (३६।१)
mahāṃścaivāgrajo nityam etat kṣaranidarśanam |
पञ्चविंशतिमो विष्णुर् निस्तत्त्वस्तत्त्वसंज्ञकः । (३७।१)
pañcaviṃśatimo viṣṇur nistattvastattvasaṃjñakaḥ |
तत्त्वसंश्रयणाद् एतत् तत्त्वम् आहुर् मनीषिणः ॥ (३७।२)
tattvasaṃśrayaṇād etat tattvam āhur manīṣiṇaḥ ||
यद् अमूर्त्यसृजद् व्यक्तं तत् तन्मूर्त्यधितिष्ठति । (३८।१)
yad amūrtyasṛjad vyaktaṃ tat tanmūrtyadhitiṣṭhati |
चतुर्विंशतिमो व्यक्तो ह्यमूर्तः पञ्चविंशकः ॥ (३८।२)
caturviṃśatimo vyakto hyamūrtaḥ pañcaviṃśakaḥ ||
स एव हृदि सर्वासु मूर्तिष्वातिष्ठते ऽऽत्मवान् । (३९।१)
sa eva hṛdi sarvāsu mūrtiṣvātiṣṭhate ''tmavān |
चेतयंश्चेतनो नित्यः सर्वमूर्तिर् अमूर्तिमान् ॥ (३९।२)
cetayaṃścetano nityaḥ sarvamūrtir amūrtimān ||
गोचरे वर्तते नित्यं निर्गुणो गुणसंज्ञकः ॥ (४०।२)
gocare vartate nityaṃ nirguṇo guṇasaṃjñakaḥ ||
विकुर्वाणः प्रकृतिमान् अभिमन्यत्यबुद्धिमान् ॥ (४१।२)
vikurvāṇaḥ prakṛtimān abhimanyatyabuddhimān ||
लीयते ऽप्रतिबुद्धत्वाद् अबुद्धजनसेवनात् ॥ (४२।२)
līyate 'pratibuddhatvād abuddhajanasevanāt ||
सहवासो निवासात्मा नान्यो ऽहम् इति मन्यते । (४३।१)
sahavāso nivāsātmā nānyo 'ham iti manyate |
यो ऽहं सो ऽहम् इति ह्युक्त्वा गुणान् अनु निवर्तते ॥ (४३।२)
yo 'haṃ so 'ham iti hyuktvā guṇān anu nivartate ||
तमसा तामसान् भावान् विविधान् प्रतिपद्यते । (४४।१)
tamasā tāmasān bhāvān vividhān pratipadyate |
रजसा राजसांश्चैव सात्त्विकान् सत्त्वसंश्रयात् ॥ (४४।२)
rajasā rājasāṃścaiva sāttvikān sattvasaṃśrayāt ||
सर्वाण्येतानि रूपाणि जानीहि प्राकृतानि वै ॥ (४५।२)
sarvāṇyetāni rūpāṇi jānīhi prākṛtāni vai ||
सात्त्विका देवलोकाय गच्छन्ति सुखभागिनः ॥ (४६।२)
sāttvikā devalokāya gacchanti sukhabhāginaḥ ||
निष्कैवल्येन पापेन तिर्यग्योनिम् अवाप्नुयात् । (४७।१)
niṣkaivalyena pāpena tiryagyonim avāpnuyāt |
पञ्चविंशतिमो यो ऽयं ज्ञानाद् एव प्रवर्तते ॥ (४८।२)
pañcaviṃśatimo yo 'yaṃ jñānād eva pravartate ||
Data courtesy of The Digital Corpus of Sanskrit.