महाभारतMahābhārata

MBh, 3, 107

405 of 1995 · 56 verses

Select a line for its word-by-word analysis.

1.1१.१

लोमश उवाच । (१।१)

lomaśa uvāca

1.2१.२

स तु राजा महेष्वासश् चक्रवर्ती महारथः । (१।२)

sa tu rājā maheṣvāsaś cakravartī mahārathaḥ |

1.3१.३

बभूव सर्वलोकस्य मनोनयननन्दनः ॥ (१।३)

babhūva sarvalokasya manonayananandanaḥ ||

2.1२.१

स शुश्राव महाबाहुः कपिलेन महात्मना । (२।१)

sa śuśrāva mahābāhuḥ kapilena mahātmanā |

2.2२.२

पितॄणां निधनं घोरम् अप्राप्तिं त्रिदिवस्य च ॥ (२।२)

pitṝṇāṃ nidhanaṃ ghoram aprāptiṃ tridivasya ca ||

3.1३.१

स राज्यं सचिवे न्यस्य हृदयेन विदूयता । (३।१)

sa rājyaṃ sacive nyasya hṛdayena vidūyatā |

3.2३.२

जगाम हिमवत्पार्श्वं तपस् तप्तुं नरेश्वरः ॥ (३।२)

jagāma himavatpārśvaṃ tapas taptuṃ nareśvaraḥ ||

4.1४.१

आरिराधयिषुर् गङ्गां तपसा दग्धकिल्बिषः । (४।१)

ārirādhayiṣur gaṅgāṃ tapasā dagdhakilbiṣaḥ |

4.2४.२

सो ऽपश्यत नरश्रेष्ठ हिमवन्तं नगोत्तमम् ॥ (४।२)

so 'paśyata naraśreṣṭha himavantaṃ nagottamam ||

5.1५.१

शृङ्गैर् बहुविधाकारैर् धातुमद्भिर् अलंकृतम् । (५।१)

śṛṅgair bahuvidhākārair dhātumadbhir alaṃkṛtam |

5.2५.२

पवनालम्बिभिर् मेघैः परिष्वक्तं समन्ततः ॥ (५।२)

pavanālambibhir meghaiḥ pariṣvaktaṃ samantataḥ ||

6.1६.१

नदीकुञ्जनितम्बैश् च सोदकैर् उपशोभितम् । (६।१)

nadīkuñjanitambaiś ca sodakair upaśobhitam |

6.2६.२

गुहाकन्दरसंलीनैः सिंहव्याघ्रैर् निषेवितम् ॥ (६।२)

guhākandarasaṃlīnaiḥ siṃhavyāghrair niṣevitam ||

7.1७.१

शकुनैश् च विचित्राङ्गैः कूजद्भिर् विविधा गिरः । (७।१)

śakunaiś ca vicitrāṅgaiḥ kūjadbhir vividhā giraḥ |

7.2७.२

भृङ्गराजैस् तथा हंसैर् दात्यूहैर् जलकुक्कुटैः ॥ (७।२)

bhṛṅgarājais tathā haṃsair dātyūhair jalakukkuṭaiḥ ||

8.1८.१

मयूरैः शतपत्त्रैश् च कोकिलैर् जीवजीवकैः । (८।१)

mayūraiḥ śatapattraiś ca kokilair jīvajīvakaiḥ |

8.2८.२

चकोरैर् असितापाङ्गैस् तथा पुत्रप्रियैर् अपि ॥ (८।२)

cakorair asitāpāṅgais tathā putrapriyair api ||

9.1९.१

जलस्थानेषु रम्येषु पद्मिनीभिश् च संकुलम् । (९।१)

jalasthāneṣu ramyeṣu padminībhiś ca saṃkulam |

9.2९.२

सारसानां च मधुरैर् व्याहृतैः समलंकृतम् ॥ (९।२)

sārasānāṃ ca madhurair vyāhṛtaiḥ samalaṃkṛtam ||

10.1१०.१

किंनरैर् अप्सरोभिश् च निषेवितशिलातलम् । (१०।१)

kiṃnarair apsarobhiś ca niṣevitaśilātalam |

10.2१०.२

दिशागजविषाणाग्रैः समन्ताद् घृष्टपादपम् ॥ (१०।२)

diśāgajaviṣāṇāgraiḥ samantād ghṛṣṭapādapam ||

11.1११.१

विद्याधरानुचरितं नानारत्नसमाकुलम् । (११।१)

vidyādharānucaritaṃ nānāratnasamākulam |

11.2११.२

विषोल्बणैर् भुजंगैश् च दीप्तजिह्वैर् निषेवितम् ॥ (११।२)

viṣolbaṇair bhujaṃgaiś ca dīptajihvair niṣevitam ||

12.1१२.१

क्वचित् कनकसंकाशं क्वचिद् रजतसंनिभम् । (१२।१)

kvacit kanakasaṃkāśaṃ kvacid rajatasaṃnibham |

12.2१२.२

क्वचिद् अञ्जनपुञ्जाभं हिमवन्तम् उपागमत् ॥ (१२।२)

kvacid añjanapuñjābhaṃ himavantam upāgamat ||

13.1१३.१

स तु तत्र नरश्रेष्ठस् तपो घोरं समाश्रितः । (१३।१)

sa tu tatra naraśreṣṭhas tapo ghoraṃ samāśritaḥ |

13.2१३.२

फलमूलाम्बुभक्षो ऽभूत् सहस्रं परिवत्सरान् ॥ (१३।२)

phalamūlāmbubhakṣo 'bhūt sahasraṃ parivatsarān ||

14.1१४.१

संवत्सरसहस्रे तु गते दिव्ये महानदी । (१४।१)

saṃvatsarasahasre tu gate divye mahānadī |

14.2१४.२

दर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम् ॥ (१४।२)

darśayāmāsa taṃ gaṅgā tadā mūrtimatī svayam ||

15.1१५.१

गङ्गोवाच । (१५।१)

gaṅgovāca |

15.2१५.२

किम् इच्छसि महाराज मत्तः किं च ददानि ते । (१५।२)

kim icchasi mahārāja mattaḥ kiṃ ca dadāni te |

15.3१५.३

तद् ब्रवीहि नरश्रेष्ठ करिष्यामि वचस् तव ॥ (१५।३)

tad bravīhi naraśreṣṭha kariṣyāmi vacas tava ||

16.1१६.१

लोमश उवाच । (१६।१)

lomaśa uvāca

16.2१६.२

एवम् उक्तः प्रत्युवाच राजा हैमवतीं तदा । (१६।२)

evam uktaḥ pratyuvāca rājā haimavatīṃ tadā |

16.3१६.३

पितामहा मे वरदे कपिलेन महानदि । (१६।३)

pitāmahā me varade kapilena mahānadi |

16.4१६.४

अन्वेषमाणास् तुरगं नीता वैवस्वतक्षयम् ॥ (१६।४)

anveṣamāṇās turagaṃ nītā vaivasvatakṣayam ||

17.1१७.१

षष्टिस् तानि सहस्राणि सागराणां महात्मनाम् । (१७।१)

ṣaṣṭis tāni sahasrāṇi sāgarāṇāṃ mahātmanām |

17.2१७.२

कापिलं तेज आसाद्य क्षणेन निधनं गताः ॥ (१७।२)

kāpilaṃ teja āsādya kṣaṇena nidhanaṃ gatāḥ ||

18.1१८.१

तेषाम् एवं विनष्टानां स्वर्गे वासो न विद्यते । (१८।१)

teṣām evaṃ vinaṣṭānāṃ svarge vāso na vidyate |

18.2१८.२

यावत् तानि शरीराणि त्वं जलैर् नाभिषिञ्चसि ॥ (१८।२)

yāvat tāni śarīrāṇi tvaṃ jalair nābhiṣiñcasi ||

19.1१९.१

स्वर्गं नय महाभागे मत्पितॄन् सगरात्मजान् । (१९।१)

svargaṃ naya mahābhāge matpitṝn sagarātmajān |

19.2१९.२

तेषाम् अर्थे ऽभियाचामि त्वाम् अहं वै महानदि ॥ (१९।२)

teṣām arthe 'bhiyācāmi tvām ahaṃ vai mahānadi ||

20.1२०.१

एतच्छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृता । (२०।१)

etacchrutvā vaco rājño gaṅgā lokanamaskṛtā |

20.2२०.२

भगीरथम् इदं वाक्यं सुप्रीता समभाषत ॥ (२०।२)

bhagīratham idaṃ vākyaṃ suprītā samabhāṣata ||

21.1२१.१

करिष्यामि महाराज वचस् ते नात्र संशयः । (२१।१)

kariṣyāmi mahārāja vacas te nātra saṃśayaḥ |

21.2२१.२

वेगं तु मम दुर्धार्यं पतन्त्या गगनाच्च्युतम् ॥ (२१।२)

vegaṃ tu mama durdhāryaṃ patantyā gaganāccyutam ||

22.1२२.१

न शक्तस् त्रिषु लोकेषु कश्चिद् धारयितुं नृप । (२२।१)

na śaktas triṣu lokeṣu kaścid dhārayituṃ nṛpa |

22.2२२.२

अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात् ॥ (२२।२)

anyatra vibudhaśreṣṭhānnīlakaṇṭhānmaheśvarāt ||

23.1२३.१

तं तोषय महाबाहो तपसा वरदं हरम् । (२३।१)

taṃ toṣaya mahābāho tapasā varadaṃ haram |

23.2२३.२

स तु मां प्रच्युतां देवः शिरसा धारयिष्यति । (२३।२)

sa tu māṃ pracyutāṃ devaḥ śirasā dhārayiṣyati |

23.3२३.३

करिष्यति च ते कामं पितॄणां हितकाम्यया ॥ (२३।३)

kariṣyati ca te kāmaṃ pitṝṇāṃ hitakāmyayā ||

24.1२४.१

एतच्छ्रुत्वा वचो राजन् महाराजो भगीरथः । (२४।१)

etacchrutvā vaco rājan mahārājo bhagīrathaḥ |

24.2२४.२

कैलासं पर्वतं गत्वा तोषयामास शंकरम् ॥ (२४।२)

kailāsaṃ parvataṃ gatvā toṣayāmāsa śaṃkaram ||

25.1२५.१

ततस् तेन समागम्य कालयोगेन केनचित् । (२५।१)

tatas tena samāgamya kālayogena kenacit |

25.2२५.२

अगृह्णाच्च वरं तस्माद् गङ्गाया धारणं नृप । (२५।२)

agṛhṇācca varaṃ tasmād gaṅgāyā dhāraṇaṃ nṛpa |

25.3२५.३

स्वर्गवासं समुद्दिश्य पितॄणां स नरोत्तमः ॥ (२५।३)

svargavāsaṃ samuddiśya pitṝṇāṃ sa narottamaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 3, 107

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit