महाभारतMahābhārata

MBh, 3, 257

555 of 1995 · 24 verses

Select a line for its word-by-word analysis.

1.1१.१

जनमेजय उवाच । (१।१)

janamejaya uvāca

1.2१.२

एवं हृतायां कृष्णायां प्राप्य क्लेशम् अनुत्तमम् । (१।२)

evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśam anuttamam |

1.3१.३

अत ऊर्ध्वं नरव्याघ्राः किम् अकुर्वत पाण्डवाः ॥ (१।३)

ata ūrdhvaṃ naravyāghrāḥ kim akurvata pāṇḍavāḥ ||

2.1२.१

वैशम्पायन उवाच । (२।१)

vaiśampāyana uvāca

2.2२.२

एवं कृष्णां मोक्षयित्वा विनिर्जित्य जयद्रथम् । (२।२)

evaṃ kṛṣṇāṃ mokṣayitvā vinirjitya jayadratham |

2.3२.३

आसांचक्रे मुनिगणैर् धर्मराजो युधिष्ठिरः ॥ (२।३)

āsāṃcakre munigaṇair dharmarājo yudhiṣṭhiraḥ ||

3.1३.१

तेषां मध्ये महर्षीणां शृण्वताम् अनुशोचताम् । (३।१)

teṣāṃ madhye maharṣīṇāṃ śṛṇvatām anuśocatām |

3.2३.२

मार्कण्डेयम् इदं वाक्यम् अब्रवीत् पाण्डुनन्दनः ॥ (३।२)

mārkaṇḍeyam idaṃ vākyam abravīt pāṇḍunandanaḥ ||

4.1४.१

मन्ये कालश् च बलवान् दैवं च विधिनिर्मितम् । (४।१)

manye kālaś ca balavān daivaṃ ca vidhinirmitam |

4.2४.२

भवितव्यं च भूतानां यस्य नास्ति व्यतिक्रमः ॥ (४।२)

bhavitavyaṃ ca bhūtānāṃ yasya nāsti vyatikramaḥ ||

5.1५.१

कथं हि पत्नीम् अस्माकं धर्मज्ञां धर्मचारिणीम् । (५।१)

kathaṃ hi patnīm asmākaṃ dharmajñāṃ dharmacāriṇīm |

5.2५.२

संस्पृशेद् ईदृशो भावः शुचिं स्तैन्यम् इवानृतम् ॥ (५।२)

saṃspṛśed īdṛśo bhāvaḥ śuciṃ stainyam ivānṛtam ||

6.1६.१

न हि पापं कृतं किंचित् कर्म वा निन्दितं क्वचित् । (६।१)

na hi pāpaṃ kṛtaṃ kiṃcit karma vā ninditaṃ kvacit |

6.2६.२

द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान् ॥ (६।२)

draupadyā brāhmaṇeṣveva dharmaḥ sucarito mahān ||

7.1७.१

तां जहार बलाद् राजा मूढबुद्धिर् जयद्रथः । (७।१)

tāṃ jahāra balād rājā mūḍhabuddhir jayadrathaḥ |

7.2७.२

तस्याः संहरणात् प्राप्तः शिरसः केशवापनम् । (७।२)

tasyāḥ saṃharaṇāt prāptaḥ śirasaḥ keśavāpanam |

7.3७.३

पराजयं च संग्रामे ससहायः समाप्तवान् ॥ (७।३)

parājayaṃ ca saṃgrāme sasahāyaḥ samāptavān ||

8.1८.१

प्रत्याहृता तथास्माभिर् हत्वा तत् सैन्धवं बलम् । (८।१)

pratyāhṛtā tathāsmābhir hatvā tat saindhavaṃ balam |

8.2८.२

तद् दारहरणं प्राप्तम् अस्माभिरवितर्कितम् ॥ (८।२)

tad dāraharaṇaṃ prāptam asmābhiravitarkitam ||

9.1९.१

दुःखश्चायं वने वासो मृगयायां च जीविका । (९।१)

duḥkhaścāyaṃ vane vāso mṛgayāyāṃ ca jīvikā |

9.2९.२

हिंसा च मृगजातीनां वनौकोभिर्वनौकसाम् । (९।२)

hiṃsā ca mṛgajātīnāṃ vanaukobhirvanaukasām |

9.3९.३

ज्ञातिभिर् विप्रवासश्च मिथ्या व्यवसितैरयम् ॥ (९।३)

jñātibhir vipravāsaśca mithyā vyavasitairayam ||

10.1१०.१

अस्ति नूनं मया कश्चिद् अल्पभाग्यतरो नरः । (१०।१)

asti nūnaṃ mayā kaścid alpabhāgyataro naraḥ |

10.2१०.२

भवता दृष्टपूर्वो वा श्रुतपूर्वो ऽपि वा भवेत् ॥ (१०।२)

bhavatā dṛṣṭapūrvo vā śrutapūrvo 'pi vā bhavet ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 3, 257

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit