MBh, 4, 4
Select a line for its word-by-word analysis.
कर्माण्युक्तानि युष्माभिर् यानि तानि करिष्यथ । (१।२)
karmāṇyuktāni yuṣmābhir yāni tāni kariṣyatha |
पुरोहितो ऽयम् अस्माकम् अग्निहोत्राणि रक्षतु । (२।१)
purohito 'yam asmākam agnihotrāṇi rakṣatu |
यान्तु द्वारवतीं शीघ्रम् इति मे वर्तते मतिः ॥ (३।२)
yāntu dvāravatīṃ śīghram iti me vartate matiḥ ||
इमाश्च नार्यो द्रौपद्याः सर्वशः परिचारिकाः । (४।१)
imāśca nāryo draupadyāḥ sarvaśaḥ paricārikāḥ |
सर्वैर् अपि च वक्तव्यं न प्रज्ञायन्त पाण्डवाः । (५।१)
sarvair api ca vaktavyaṃ na prajñāyanta pāṇḍavāḥ |
गता ह्यस्मान् अपाकीर्य सर्वे द्वैतवनाद् इति ॥ (५।२)
gatā hyasmān apākīrya sarve dvaitavanād iti ||
यथा राजकुलं प्राप्य चरन् प्रेष्यो न रिष्यति ॥ (७।२)
yathā rājakulaṃ prāpya caran preṣyo na riṣyati ||
दिष्टद्वारो लभेद् द्वारं न च राजसु विश्वसेत् । (९।१)
diṣṭadvāro labhed dvāraṃ na ca rājasu viśvaset |
तद् एवासनम् अन्विच्छेद् यत्र नाभिषजेत् परः ॥ (९।२)
tad evāsanam anvicched yatra nābhiṣajet paraḥ ||
नास्य यानं न पर्यङ्कं न पीठं न गजं रथम् । (१०।१)
nāsya yānaṃ na paryaṅkaṃ na pīṭhaṃ na gajaṃ ratham |
आरोहेत् संमतो ऽस्मीति स राजवसतिं वसेत् ॥ (१०।२)
ārohet saṃmato 'smīti sa rājavasatiṃ vaset ||
अथ यत्रैनम् आसीनं शङ्केरन् दुष्टचारिणः । (११।१)
atha yatrainam āsīnaṃ śaṅkeran duṣṭacāriṇaḥ |
न चानुशिष्येद् राजानम् अपृच्छन्तं कदाचन । (१२।१)
na cānuśiṣyed rājānam apṛcchantaṃ kadācana |
तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा ॥ (१३।२)
tathaiva cāvamanyante mantriṇaṃ vādinaṃ mṛṣā ||
नैषां दारेषु कुर्वीत मैत्रीं प्राज्ञः कथंचन । (१४।१)
naiṣāṃ dāreṣu kurvīta maitrīṃ prājñaḥ kathaṃcana |
अन्तःपुरचरा ये च द्वेष्टि यानहिताश्च ये ॥ (१४।२)
antaḥpuracarā ye ca dveṣṭi yānahitāśca ye ||
विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि । (१५।१)
vidite cāsya kurvīta kāryāṇi sulaghūnyapi |
एवं विचरतो राज्ञो न क्षतिर् जायते क्वचित् ॥ (१५।२)
evaṃ vicarato rājño na kṣatir jāyate kvacit ||
अनृतेनोपचीर्णो हि हिंस्याद् एनम् असंशयम् ॥ (१६।२)
anṛtenopacīrṇo hi hiṃsyād enam asaṃśayam ||
यच्च भर्तानुयुञ्जीत तद् एवाभ्यनुवर्तयेत् । (१७।१)
yacca bhartānuyuñjīta tad evābhyanuvartayet |
संवर्णयेत् तद् एवास्य प्रियाद् अपि हितं वदेत् ॥ (१८।२)
saṃvarṇayet tad evāsya priyād api hitaṃ vadet ||
अप्रियं चाहितं यत् स्यात् तद् अस्मै नानुवर्णयेत् ॥ (१९।२)
apriyaṃ cāhitaṃ yat syāt tad asmai nānuvarṇayet ||
नाहम् अस्य प्रियो ऽस्मीति मत्वा सेवेत पण्डितः । (२०।१)
nāham asya priyo 'smīti matvā seveta paṇḍitaḥ |
अप्रमत्तश्च यत्तश्च हितं कुर्यात् प्रियं च यत् ॥ (२०।२)
apramattaśca yattaśca hitaṃ kuryāt priyaṃ ca yat ||
नास्यानिष्टानि सेवेत नाहितैः सह संवसेत् । (२१।१)
nāsyāniṣṭāni seveta nāhitaiḥ saha saṃvaset |
स्वस्थानान्न विकम्पेत स राजवसतिं वसेत् ॥ (२१।२)
svasthānānna vikampeta sa rājavasatiṃ vaset ||
दक्षिणं वाथ वामं वा पार्श्वम् आसीत पण्डितः । (२२।१)
dakṣiṇaṃ vātha vāmaṃ vā pārśvam āsīta paṇḍitaḥ |
रक्षिणां ह्यात्तशस्त्राणां स्थानं पश्चाद् विधीयते । (२२।२)
rakṣiṇāṃ hyāttaśastrāṇāṃ sthānaṃ paścād vidhīyate |
नित्यं विप्रतिषिद्धं तु पुरस्ताद् आसनं महत् ॥ (२२।३)
nityaṃ vipratiṣiddhaṃ tu purastād āsanaṃ mahat ||
न च संदर्शने किंचित् प्रवृद्धम् अपि संजपेत् । (२३।१)
na ca saṃdarśane kiṃcit pravṛddham api saṃjapet |
अपि ह्येतद् दरिद्राणां व्यलीकस्थानम् उत्तमम् ॥ (२३।२)
api hyetad daridrāṇāṃ vyalīkasthānam uttamam ||
न मृषाभिहितं राज्ञो मनुष्येषु प्रकाशयेत् । (२४।१)
na mṛṣābhihitaṃ rājño manuṣyeṣu prakāśayet |
यं चासूयन्ति राजानः पुरुषं न वदेच्च तम् ॥ (२४।२)
yaṃ cāsūyanti rājānaḥ puruṣaṃ na vadecca tam ||
शूरो ऽस्मीति न दृप्तः स्याद् बुद्धिमान् इति वा पुनः । (२५।१)
śūro 'smīti na dṛptaḥ syād buddhimān iti vā punaḥ |
प्रियम् एवाचरन् राज्ञः प्रियो भवति भोगवान् ॥ (२५।२)
priyam evācaran rājñaḥ priyo bhavati bhogavān ||
ऐश्वर्यं प्राप्य दुष्प्रापं प्रियं प्राप्य च राजतः । (२६।१)
aiśvaryaṃ prāpya duṣprāpaṃ priyaṃ prāpya ca rājataḥ |
अप्रमत्तो भवेद् राज्ञः प्रियेषु च हितेषु च ॥ (२६।२)
apramatto bhaved rājñaḥ priyeṣu ca hiteṣu ca ||
कस्तस्य मनसापीच्छेद् अनर्थं प्राज्ञसंमतः ॥ (२७।२)
kastasya manasāpīcched anarthaṃ prājñasaṃmataḥ ||
न चोष्ठौ निर्भुजेज्जातु न च वाक्यं समाक्षिपेत् । (२८।१)
na coṣṭhau nirbhujejjātu na ca vākyaṃ samākṣipet |
सदा क्षुतं च वातं च ष्ठीवनं चाचरेच्छनैः ॥ (२८।२)
sadā kṣutaṃ ca vātaṃ ca ṣṭhīvanaṃ cācarecchanaiḥ ||
हास्यवस्तुषु चाप्यस्य वर्तमानेषु केषुचित् । (२९।१)
hāsyavastuṣu cāpyasya vartamāneṣu keṣucit |
नातिगाढं प्रहृष्येत न चाप्युन्मत्तवद्धसेत् ॥ (२९।२)
nātigāḍhaṃ prahṛṣyeta na cāpyunmattavaddhaset ||
न चातिधैर्येण चरेद् गुरुतां हि व्रजेत् तथा । (३०।१)
na cātidhairyeṇa cared gurutāṃ hi vrajet tathā |
स्मितं तु मृदुपूर्वेण दर्शयेत प्रसादजम् ॥ (३०।२)
smitaṃ tu mṛdupūrveṇa darśayeta prasādajam ||
लाभे न हर्षयेद् यस्तु न व्यथेद् यो ऽवमानितः । (३१।१)
lābhe na harṣayed yastu na vyathed yo 'vamānitaḥ |
अमात्यः पण्डितो भूत्वा स चिरं तिष्ठति श्रियम् ॥ (३२।२)
amātyaḥ paṇḍito bhūtvā sa ciraṃ tiṣṭhati śriyam ||
प्रगृहीतश्च यो ऽमात्यो निगृहीतश्च कारणैः । (३३।१)
pragṛhītaśca yo 'mātyo nigṛhītaśca kāraṇaiḥ |
न निर्बध्नाति राजानं लभते प्रग्रहं पुनः ॥ (३३।२)
na nirbadhnāti rājānaṃ labhate pragrahaṃ punaḥ ||
प्रत्यक्षं च परोक्षं च गुणवादी विचक्षणः । (३४।१)
pratyakṣaṃ ca parokṣaṃ ca guṇavādī vicakṣaṇaḥ |
उपजीवी भवेद् राज्ञो विषये चापि यो वसेत् ॥ (३४।२)
upajīvī bhaved rājño viṣaye cāpi yo vaset ||
अमात्यो हि बलाद् भोक्तुं राजानं प्रार्थयेत् तु यः । (३५।१)
amātyo hi balād bhoktuṃ rājānaṃ prārthayet tu yaḥ |
न स तिष्ठेच्चिरं स्थानं गच्छेच्च प्राणसंशयम् ॥ (३५।२)
na sa tiṣṭhecciraṃ sthānaṃ gacchecca prāṇasaṃśayam ||
श्रेयः सदात्मनो दृष्ट्वा परं राज्ञा न संवदेत् । (३६।१)
śreyaḥ sadātmano dṛṣṭvā paraṃ rājñā na saṃvadet |
सत्यवादी मृदुर् दान्तः स राजवसतिं वसेत् ॥ (३७।२)
satyavādī mṛdur dāntaḥ sa rājavasatiṃ vaset ||
अन्यस्मिन् प्रेष्यमाणे तु पुरस्ताद् यः समुत्पतेत् । (३८।१)
anyasmin preṣyamāṇe tu purastād yaḥ samutpatet |
उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा । (३९।१)
uṣṇe vā yadi vā śīte rātrau vā yadi vā divā |
यो वै गृहेभ्यः प्रवसन् प्रियाणां नानुसंस्मरेत् । (४०।१)
yo vai gṛhebhyaḥ pravasan priyāṇāṃ nānusaṃsmaret |
दुःखेन सुखम् अन्विच्छेत् स राजवसतिं वसेत् ॥ (४०।२)
duḥkhena sukham anvicchet sa rājavasatiṃ vaset ||
समवेषं न कुर्वीत नात्युच्चैः संनिधौ हसेत् । (४१।१)
samaveṣaṃ na kurvīta nātyuccaiḥ saṃnidhau haset |
मन्त्रं न बहुधा कुर्याद् एवं राज्ञः प्रियो भवेत् ॥ (४१।२)
mantraṃ na bahudhā kuryād evaṃ rājñaḥ priyo bhavet ||
न कर्मणि नियुक्तः सन् धनं किंचिद् उपस्पृशेत् । (४२।१)
na karmaṇi niyuktaḥ san dhanaṃ kiṃcid upaspṛśet |
प्राप्नोति हि हरन् द्रव्यं बन्धनं यदि वा वधम् ॥ (४२।२)
prāpnoti hi haran dravyaṃ bandhanaṃ yadi vā vadham ||
यानं वस्त्रम् अलंकारं यच्चान्यत् सम्प्रयच्छति । (४३।१)
yānaṃ vastram alaṃkāraṃ yaccānyat samprayacchati |
तद् एव धारयेन्नित्यम् एवं प्रियतरो भवेत् ॥ (४३।२)
tad eva dhārayennityam evaṃ priyataro bhavet ||
अनुशिष्टाः स्म भद्रं ते नैतद् वक्तास्ति कश्चन । (४५।२)
anuśiṣṭāḥ sma bhadraṃ te naitad vaktāsti kaścana |
कुन्तीम् ऋते मातरं नो विदुरं च महामतिम् ॥ (४५।३)
kuntīm ṛte mātaraṃ no viduraṃ ca mahāmatim ||
यद् एवानन्तरं कार्यं तद् भवान् कर्तुम् अर्हति । (४६।१)
yad evānantaraṃ kāryaṃ tad bhavān kartum arhati |
एवम् उक्तस्ततो राज्ञा धौम्यो ऽथ द्विजसत्तमः । (४७।२)
evam uktastato rājñā dhaumyo 'tha dvijasattamaḥ |
अकरोद् विधिवत् सर्वं प्रस्थाने यद् विधीयते ॥ (४७।३)
akarod vidhivat sarvaṃ prasthāne yad vidhīyate ||
तेषां समिध्य तान् अग्नीन्मन्त्रवच्च जुहाव सः । (४८।१)
teṣāṃ samidhya tān agnīnmantravacca juhāva saḥ |
अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च तपोधनान् । (४९।१)
agniṃ pradakṣiṇaṃ kṛtvā brāhmaṇāṃśca tapodhanān |
याज्ञसेनीं पुरस्कृत्य षड् एवाथ प्रवव्रजुः ॥ (४९।२)
yājñasenīṃ puraskṛtya ṣaḍ evātha pravavrajuḥ ||
Data courtesy of The Digital Corpus of Sanskrit.