MBh, 12, 111
Select a line for its word-by-word analysis.
क्लिश्यमानेषु भूतेषु तैस्तैर् भावैस्ततस्ततः । (१।२)
kliśyamāneṣu bhūteṣu taistair bhāvaistatastataḥ |
वर्तन्ते संयतात्मानो दुर्गाण्यतितरन्ति ते ॥ (२।३)
vartante saṃyatātmāno durgāṇyatitaranti te ||
ये दम्भान्न जपन्ति स्म येषां वृत्तिश्च संवृता । (३।१)
ye dambhānna japanti sma yeṣāṃ vṛttiśca saṃvṛtā |
विषयांश्च निगृह्णन्ति दुर्गाण्यतितरन्ति ते ॥ (३।२)
viṣayāṃśca nigṛhṇanti durgāṇyatitaranti te ||
वासयन्त्यतिथीन्नित्यं नित्यं ये चानसूयकाः । (४।१)
vāsayantyatithīnnityaṃ nityaṃ ye cānasūyakāḥ |
नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते ॥ (४।२)
nityaṃ svādhyāyaśīlāśca durgāṇyatitaranti te ||
मातापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः । (५।१)
mātāpitrośca ye vṛttiṃ vartante dharmakovidāḥ |
वर्जयन्ति दिवास्वप्नं दुर्गाण्यतितरन्ति ते ॥ (५।२)
varjayanti divāsvapnaṃ durgāṇyatitaranti te ||
स्वेषु दारेषु वर्तन्ते न्यायवृत्तेष्व् ऋताव् ऋतौ । (६।१)
sveṣu dāreṣu vartante nyāyavṛtteṣv ṛtāv ṛtau |
ये न लोभान्नयन्त्यर्थान् राजानो रजसावृताः । (७।१)
ye na lobhānnayantyarthān rājāno rajasāvṛtāḥ |
धर्मेण जयम् इच्छन्तो दुर्गाण्यतितरन्ति ते ॥ (८।२)
dharmeṇa jayam icchanto durgāṇyatitaranti te ||
निक्षिप्तदण्डा भूतेषु दुर्गाण्यतितरन्ति ते ॥ (९।२)
nikṣiptadaṇḍā bhūteṣu durgāṇyatitaranti te ||
ये वदन्तीह सत्यानि प्राणत्यागे ऽप्युपस्थिते । (१०।१)
ye vadantīha satyāni prāṇatyāge 'pyupasthite |
प्रमाणभूता भूतानां दुर्गाण्यतितरन्ति ते ॥ (१०।२)
pramāṇabhūtā bhūtānāṃ durgāṇyatitaranti te ||
अनध्यायेषु ये विप्राः स्वाध्यायं नैव कुर्वते । (११।१)
anadhyāyeṣu ye viprāḥ svādhyāyaṃ naiva kurvate |
कर्माण्यकुहकार्थानि येषां वाचश्च सूनृताः । (१२।१)
karmāṇyakuhakārthāni yeṣāṃ vācaśca sūnṛtāḥ |
येषाम् अर्थाश्च साध्वर्था दुर्गाण्यतितरन्ति ते ॥ (१२।२)
yeṣām arthāśca sādhvarthā durgāṇyatitaranti te ||
विद्यावेदव्रतस्नाता दुर्गाण्यतितरन्ति ते ॥ (१३।२)
vidyāvedavratasnātā durgāṇyatitaranti te ||
सत्ये स्थिता महात्मानो दुर्गाण्यतितरन्ति ते ॥ (१४।२)
satye sthitā mahātmāno durgāṇyatitaranti te ||
येषां न कश्चित् त्रसति त्रसन्ति न च कस्यचित् । (१५।१)
yeṣāṃ na kaścit trasati trasanti na ca kasyacit |
येषाम् आत्मसमो लोको दुर्गाण्यतितरन्ति ते ॥ (१५।२)
yeṣām ātmasamo loko durgāṇyatitaranti te ||
परश्रिया न तप्यन्ते ये सन्तः पुरुषर्षभाः । (१६।१)
paraśriyā na tapyante ye santaḥ puruṣarṣabhāḥ |
ग्राम्याद् अन्नान्निवृत्ताश्च दुर्गाण्यतितरन्ति ते ॥ (१६।२)
grāmyād annānnivṛttāśca durgāṇyatitaranti te ||
सर्वान् देवान्नमस्यन्ति सर्वान् धर्मांश्च शृण्वते । (१७।१)
sarvān devānnamasyanti sarvān dharmāṃśca śṛṇvate |
ये श्रद्दधाना दान्ताश्च दुर्गाण्यतितरन्ति ते ॥ (१७।२)
ye śraddadhānā dāntāśca durgāṇyatitaranti te ||
ये न मानितम् इच्छन्ति मानयन्ति च ये परम् । (१८।१)
ye na mānitam icchanti mānayanti ca ye param |
मान्यमाना न मन्यन्ते दुर्गाण्यतितरन्ति ते ॥ (१८।२)
mānyamānā na manyante durgāṇyatitaranti te ||
ये श्राद्धानि च कुर्वन्ति तिथ्यां तिथ्यां प्रजार्थिनः । (१९।१)
ye śrāddhāni ca kurvanti tithyāṃ tithyāṃ prajārthinaḥ |
ये क्रोधं नैव कुर्वन्ति क्रुद्धान् संशमयन्ति च । (२०।१)
ye krodhaṃ naiva kurvanti kruddhān saṃśamayanti ca |
न च कुप्यन्ति भृत्येभ्यो दुर्गाण्यतितरन्ति ते ॥ (२०।२)
na ca kupyanti bhṛtyebhyo durgāṇyatitaranti te ||
मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः । (२१।१)
madhu māṃsaṃ ca ye nityaṃ varjayantīha mānavāḥ |
जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते ॥ (२१।२)
janmaprabhṛti madyaṃ ca durgāṇyatitaranti te ||
यात्रार्थं भोजनं येषां संतानार्थं च मैथुनम् । (२२।१)
yātrārthaṃ bhojanaṃ yeṣāṃ saṃtānārthaṃ ca maithunam |
वाक् सत्यवचनार्थाय दुर्गाण्यतितरन्ति ते ॥ (२२।२)
vāk satyavacanārthāya durgāṇyatitaranti te ||
भक्ता नारायणं ये च दुर्गाण्यतितरन्ति ते ॥ (२३।२)
bhaktā nārāyaṇaṃ ye ca durgāṇyatitaranti te ||
सुहृद् भ्राता च मित्रं च संबन्धी च तवाच्युतः ॥ (२४।२)
suhṛd bhrātā ca mitraṃ ca saṃbandhī ca tavācyutaḥ ||
य इमान् सकलांल् लोकांश्चर्मवत् परिवेष्टयेत् । (२५।१)
ya imān sakalāṃl lokāṃścarmavat pariveṣṭayet |
इच्छन् प्रभुर् अचिन्त्यात्मा गोविन्दः पुरुषोत्तमः ॥ (२५।२)
icchan prabhur acintyātmā govindaḥ puruṣottamaḥ ||
स्थितः प्रियहिते जिष्णोः स एष पुरुषर्षभ । (२६।१)
sthitaḥ priyahite jiṣṇoḥ sa eṣa puruṣarṣabha |
राजंस्तव च दुर्धर्षो वैकुण्ठः पुरुषोत्तमः ॥ (२६।२)
rājaṃstava ca durdharṣo vaikuṇṭhaḥ puruṣottamaḥ ||
य एनं संश्रयन्तीह भक्त्या नारायणं हरिम् । (२७।१)
ya enaṃ saṃśrayantīha bhaktyā nārāyaṇaṃ harim |
ते तरन्तीह दुर्गाणि न मे ऽत्रास्ति विचारणा ॥ (२७।२)
te tarantīha durgāṇi na me 'trāsti vicāraṇā ||
पाठयन्ति च विप्रेभ्यो दुर्गाण्यतितरन्ति ते ॥ (२८।२)
pāṭhayanti ca viprebhyo durgāṇyatitaranti te ||
Data courtesy of The Digital Corpus of Sanskrit.