MBh, 1, 8
Select a line for its word-by-word analysis.
स चापि च्यवनो ब्रह्मन् भार्गवो ऽजनयत् सुतम् । (१।२)
sa cāpi cyavano brahman bhārgavo 'janayat sutam |
सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम् ॥ (१।३)
sukanyāyāṃ mahātmānaṃ pramatiṃ dīptatejasam ||
जातस्तपसि तीव्रे च स्थितः स्थिरयशास्ततः ॥ (२।५)
jātastapasi tīvre ca sthitaḥ sthirayaśāstataḥ ||
तस्य ब्रह्मन् रुरोः सर्वं चरितं भूरितेजसः । (३।१)
tasya brahman ruroḥ sarvaṃ caritaṃ bhūritejasaḥ |
विस्तरेण प्रवक्ष्यामि तच्छृणु त्वम् अशेषतः ॥ (३।२)
vistareṇa pravakṣyāmi tacchṛṇu tvam aśeṣataḥ ||
ऋषिर् आसीन् महान् पूर्वं तपोविद्यासमन्वितः । (४।१)
ṛṣir āsīn mahān pūrvaṃ tapovidyāsamanvitaḥ |
एतस्मिन्न् एव काले तु मेनकायां प्रजज्ञिवान् । (५।१)
etasminn eva kāle tu menakāyāṃ prajajñivān |
गन्धर्वराजो विप्रर्षे विश्वावसुर् इति श्रुतः ॥ (५।२)
gandharvarājo viprarṣe viśvāvasur iti śrutaḥ ||
उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम ह । (७।१)
utsṛjya caiva taṃ garbhaṃ nadyāstīre jagāma ha |
कन्याम् अमरगर्भाभां ज्वलन्तीम् इव च श्रिया ॥ (७।३)
kanyām amaragarbhābhāṃ jvalantīm iva ca śriyā ||
तां ददर्श समुत्सृष्टां नदीतीरे महान् ऋषिः । (८।१)
tāṃ dadarśa samutsṛṣṭāṃ nadītīre mahān ṛṣiḥ |
स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम् ॥ (८।२)
sthūlakeśaḥ sa tejasvī vijane bandhuvarjitām ||
स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः । (९।१)
sa tāṃ dṛṣṭvā tadā kanyāṃ sthūlakeśo dvijottamaḥ |
जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च । (९।२)
jagrāhātha muniśreṣṭhaḥ kṛpāviṣṭaḥ pupoṣa ca |
जातकर्म क्रियाश्चास्या विधिपूर्वं यथाक्रमम् । (९।४)
jātakarma kriyāścāsyā vidhipūrvaṃ yathākramam |
ततः प्रमद्वरेत्यस्या नाम चक्रे महान् ऋषिः ॥ (१०।२)
tataḥ pramadvaretyasyā nāma cakre mahān ṛṣiḥ ||
ताम् आश्रमपदे तस्य रुरुर् दृष्ट्वा प्रमद्वराम् । (११।१)
tām āśramapade tasya rurur dṛṣṭvā pramadvarām |
पितरं सखिभिः सो ऽथ वाचयामास भार्गवः । (१२।१)
pitaraṃ sakhibhiḥ so 'tha vācayāmāsa bhārgavaḥ |
प्रमतिश्चाभ्ययाच्छ्रुत्वा स्थूलकेशं यशस्विनम् । (१२।२)
pramatiścābhyayācchrutvā sthūlakeśaṃ yaśasvinam |
याचयामास तां कन्यां पुत्रार्थे वरवर्णिनीम् ॥ (१२।३)
yācayāmāsa tāṃ kanyāṃ putrārthe varavarṇinīm ||
ततः प्रादात् पिता कन्यां रुरवे तां प्रमद्वराम् । (१३।१)
tataḥ prādāt pitā kanyāṃ rurave tāṃ pramadvarām |
विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते ॥ (१३।२)
vivāhaṃ sthāpayitvāgre nakṣatre bhagadaivate ||
सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी ॥ (१४।२)
sakhībhiḥ krīḍatī sārdhaṃ sā kanyā varavarṇinī ||
नापश्यत प्रसुप्तं वै भुजगं तिर्यग् आयतम् । (१५।१)
nāpaśyata prasuptaṃ vai bhujagaṃ tiryag āyatam |
पदा चैनं समाक्रामन् मुमूर्षुः कालचोदिता ॥ (१५।२)
padā cainaṃ samākrāman mumūrṣuḥ kālacoditā ||
स तस्याः संप्रमत्तायाश्चोदितः कालधर्मणा । (१६।१)
sa tasyāḥ saṃpramattāyāścoditaḥ kāladharmaṇā |
विषोपलिप्तान् दशनान् भृशम् अङ्गे न्यपातयत् ॥ (१६।२)
viṣopaliptān daśanān bhṛśam aṅge nyapātayat ||
निरानन्दकरी तेषां बन्धूनां मुक्तमूर्धजा । (१७।३)
nirānandakarī teṣāṃ bandhūnāṃ muktamūrdhajā |
व्यसुर् अप्रेक्षणीयापि प्रेक्षणीयतमाकृतिः ॥ (१७।४)
vyasur aprekṣaṇīyāpi prekṣaṇīyatamākṛtiḥ ||
ददर्श तां पिता चैव ते चैवान्ये तपस्विनः । (१९।१)
dadarśa tāṃ pitā caiva te caivānye tapasvinaḥ |
ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः । (२०।१)
tataḥ sarve dvijavarāḥ samājagmuḥ kṛpānvitāḥ |
स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः । (२०।२)
svastyātreyo mahājānuḥ kuśikaḥ śaṅkhamekhalaḥ |
भारद्वाजः कौणकुत्स आर्ष्टिषेणो ऽथ गौतमः । (२१।१)
bhāradvājaḥ kauṇakutsa ārṣṭiṣeṇo 'tha gautamaḥ |
तां ते कन्यां व्यसुं दृष्ट्वा भुजगस्य विषार्दिताम् । (२२।१)
tāṃ te kanyāṃ vyasuṃ dṛṣṭvā bhujagasya viṣārditām |
रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर् ययौ । (२२।२)
ruruduḥ kṛpayāviṣṭā rurustvārto bahir yayau |
ते च सर्वे द्विजश्रेष्ठास्तत्रैवोपाविशंस्तदा ॥ (२२।३)
te ca sarve dvijaśreṣṭhāstatraivopāviśaṃstadā ||
Data courtesy of The Digital Corpus of Sanskrit.