महाभारतMahābhārata

MBh, 1, 39

39 of 1995 · 91 verses

Select a line for its word-by-word analysis.

1.1१.१

तक्षक उवाच । (१।१)

takṣaka uvāca

1.2१.२

दष्टं यदि मयेह त्वं शक्तः किंचिच्चिकित्सितुम् । (१।२)

daṣṭaṃ yadi mayeha tvaṃ śaktaḥ kiṃciccikitsitum |

1.3१.३

ततो वृक्षं मया दष्टम् इमं जीवय काश्यप ॥ (१।३)

tato vṛkṣaṃ mayā daṣṭam imaṃ jīvaya kāśyapa ||

2.1२.१

परं मन्त्रबलं यत् ते तद् दर्शय यतस्व च । (२।१)

paraṃ mantrabalaṃ yat te tad darśaya yatasva ca |

2.2२.२

न्यग्रोधम् एनं धक्ष्यामि पश्यतस्ते द्विजोत्तम । (२।२)

nyagrodham enaṃ dhakṣyāmi paśyataste dvijottama |

2.3२.३

सूतः । (२।३)

sūtaḥ |

2.4२.४

एवम् उक्तस्तक्षकेण काश्यपः पुनर् अब्रवीत् ॥ (२।४)

evam uktastakṣakeṇa kāśyapaḥ punar abravīt ||

3.1३.१

काश्यप उवाच । (३।१)

kāśyapa uvāca

3.2३.२

दश नागेन्द्र वृक्षं त्वं यम् एनम् अभिमन्यसे । (३।२)

daśa nāgendra vṛkṣaṃ tvaṃ yam enam abhimanyase |

3.3३.३

अहम् एनं त्वया दष्टं जीवयिष्ये भुजंगम । (३।३)

aham enaṃ tvayā daṣṭaṃ jīvayiṣye bhujaṃgama |

3.4३.४

पश्य मन्त्रबलं मे ऽद्य न्यग्रोधं दश पन्नग ॥ (३।४)

paśya mantrabalaṃ me 'dya nyagrodhaṃ daśa pannaga ||

4.1४.१

सूत उवाच । (४।१)

sūta uvāca

4.2४.२

एवम् उक्तः स नागेन्द्रः काश्यपेन महात्मना । (४।२)

evam uktaḥ sa nāgendraḥ kāśyapena mahātmanā |

4.3४.३

अदशद् वृक्षम् अभ्येत्य न्यग्रोधं पन्नगोत्तमः ॥ (४।३)

adaśad vṛkṣam abhyetya nyagrodhaṃ pannagottamaḥ ||

5.1५.१

स वृक्षस्तेन दष्टः सन् सद्य एव महाद्युते । (५।१)

sa vṛkṣastena daṣṭaḥ san sadya eva mahādyute |

5.2५.२

आशीविषविषोपेतः प्रजज्वाल समन्ततः ॥ (५।२)

āśīviṣaviṣopetaḥ prajajvāla samantataḥ ||

6.1६.१

तं दग्ध्वा स नगं नागः काश्यपं पुनर् अब्रवीत् । (६।१)

taṃ dagdhvā sa nagaṃ nāgaḥ kāśyapaṃ punar abravīt |

6.2६.२

कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम् ॥ (६।२)

kuru yatnaṃ dvijaśreṣṭha jīvayainaṃ vanaspatim ||

7.1७.१

भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा । (७।१)

bhasmībhūtaṃ tato vṛkṣaṃ pannagendrasya tejasā |

7.2७.२

भस्म सर्वं समाहृत्य काश्यपो वाक्यम् अब्रवीत् ॥ (७।२)

bhasma sarvaṃ samāhṛtya kāśyapo vākyam abravīt ||

8.1८.१

विद्याबलं पन्नगेन्द्र पश्य मे ऽस्मिन् वनस्पतौ । (८।१)

vidyābalaṃ pannagendra paśya me 'smin vanaspatau |

8.2८.२

अहं संजीवयाम्येनं पश्यतस्ते भुजंगम ॥ (८।२)

ahaṃ saṃjīvayāmyenaṃ paśyataste bhujaṃgama ||

9.1९.१

ततः स भगवान् विद्वान् काश्यपो द्विजसत्तमः । (९।१)

tataḥ sa bhagavān vidvān kāśyapo dvijasattamaḥ |

9.2९.२

भस्मराशीकृतं वृक्षं विद्यया समजीवयत् ॥ (९।२)

bhasmarāśīkṛtaṃ vṛkṣaṃ vidyayā samajīvayat ||

10.1१०.१

अङ्कुरं तं स कृतवांस्ततः पर्णद्वयान्वितम् । (१०।१)

aṅkuraṃ taṃ sa kṛtavāṃstataḥ parṇadvayānvitam |

10.2१०.२

पलाशिनं शाखिनं च तथा विटपिनं पुनः ॥ (१०।२)

palāśinaṃ śākhinaṃ ca tathā viṭapinaṃ punaḥ ||

11.1११.१

तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना । (११।१)

taṃ dṛṣṭvā jīvitaṃ vṛkṣaṃ kāśyapena mahātmanā |

11.2११.२

उवाच तक्षको ब्रह्मन्न् एतद् अत्यद्भुतं त्वयि ॥ (११।२)

uvāca takṣako brahmann etad atyadbhutaṃ tvayi ||

12.1१२.१

विप्रेन्द्र यद् विषं हन्या मम वा मद्विधस्य वा । (१२।१)

viprendra yad viṣaṃ hanyā mama vā madvidhasya vā |

12.2१२.२

कं त्वम् अर्थम् अभिप्रेप्सुर् यासि तत्र तपोधन ॥ (१२।२)

kaṃ tvam artham abhiprepsur yāsi tatra tapodhana ||

13.1१३.१

यत् ते ऽभिलषितं प्राप्तुं फलं तस्मान् नृपोत्तमात् । (१३।१)

yat te 'bhilaṣitaṃ prāptuṃ phalaṃ tasmān nṛpottamāt |

13.2१३.२

अहम् एव प्रदास्यामि तत् ते यद्यपि दुर्लभम् ॥ (१३।२)

aham eva pradāsyāmi tat te yadyapi durlabham ||

14.1१४.१

विप्रशापाभिभूते च क्षीणायुषि नराधिपे । (१४।१)

vipraśāpābhibhūte ca kṣīṇāyuṣi narādhipe |

14.2१४.२

घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् ॥ (१४।२)

ghaṭamānasya te vipra siddhiḥ saṃśayitā bhavet ||

15.1१५.१

ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम् । (१५।१)

tato yaśaḥ pradīptaṃ te triṣu lokeṣu viśrutam |

15.2१५.२

विरश्मिर् इव घर्मांशुर् अन्तर्धानम् इतो व्रजेत् ॥ (१५।२)

viraśmir iva gharmāṃśur antardhānam ito vrajet ||

16.1१६.१

काश्यप उवाच । (१६।१)

kāśyapa uvāca

16.2१६.२

धनार्थी याम्यहं तत्र तन् मे दित्स भुजंगम । (१६।२)

dhanārthī yāmyahaṃ tatra tan me ditsa bhujaṃgama |

16.3१६.३

ततो ऽहं विनिवर्तिष्ये गृहायोरगसत्तम । (१६।३)

tato 'haṃ vinivartiṣye gṛhāyoragasattama |

16.4१६.४

यत्तेयं च प्रगृह्य वै विनिवर्ते भुजंगम ॥ (१६।४)

yatteyaṃ ca pragṛhya vai vinivarte bhujaṃgama ||

17.1१७.१

तक्षक उवाच । (१७।१)

takṣaka uvāca

17.2१७.२

यावद् धनं प्रार्थयसे तस्माद् राज्ञस्ततो ऽधिकम् । (१७।२)

yāvad dhanaṃ prārthayase tasmād rājñastato 'dhikam |

17.3१७.३

अहं ते ऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम । (१७।३)

ahaṃ te 'dya pradāsyāmi nivartasva dvijottama |

17.4१७.४

तद् धनं तस्य वो राजा न ग्रहीष्यति किंचन । (१७।४)

tad dhanaṃ tasya vo rājā na grahīṣyati kiṃcana |

17.5१७.५

इमे नागा वहिष्यन्ति दत्तं हेम मया बहु ॥ (१७।५)

ime nāgā vahiṣyanti dattaṃ hema mayā bahu ||

18.1१८.१

सूत उवाच । (१८।१)

sūta uvāca

18.2१८.२

तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः । (१८।२)

takṣakasya vacaḥ śrutvā kāśyapo dvijasattamaḥ |

18.3१८.३

प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान् ॥ (१८।३)

pradadhyau sumahātejā rājānaṃ prati buddhimān ||

19.1१९.१

दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा । (१९।१)

divyajñānaḥ sa tejasvī jñātvā taṃ nṛpatiṃ tadā |

19.2१९.२

क्षीणायुषं पाण्डवेयम् अपावर्तत काश्यपः । (१९।२)

kṣīṇāyuṣaṃ pāṇḍaveyam apāvartata kāśyapaḥ |

19.3१९.३

दशको प्रस्तं मे देहि धनं पन्नगसत्तम । (१९।३)

daśako prastaṃ me dehi dhanaṃ pannagasattama |

19.4१९.४

न राजानं गमिष्यामि किं तेन नृपसूनुना । (१९।४)

na rājānaṃ gamiṣyāmi kiṃ tena nṛpasūnunā |

19.5१९.५

इत्युक्तस्तक्षकस्तेन विंशत् कोटीर् धनं ददौ । (१९।५)

ityuktastakṣakastena viṃśat koṭīr dhanaṃ dadau |

19.6१९.६

स जगाम ततो विप्रो धनं लब्ध्वा यथासुखम् । (१९।६)

sa jagāma tato vipro dhanaṃ labdhvā yathāsukham |

19.7१९.७

लब्ध्वा वित्तं मुनिवरस्तक्षकाद् यावद् ईप्सितम् ॥ (१९।७)

labdhvā vittaṃ munivarastakṣakād yāvad īpsitam ||

20.1२०.१

निवृत्ते काश्यपे तस्मिन् समयेन महात्मनि । (२०।१)

nivṛtte kāśyape tasmin samayena mahātmani |

20.2२०.२

जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम् ॥ (२०।२)

jagāma takṣakastūrṇaṃ nagaraṃ nāgasāhvayam ||

21.1२१.१

अथ शुश्राव गच्छन् स तक्षको जगतीपतिम् । (२१।१)

atha śuśrāva gacchan sa takṣako jagatīpatim |

21.2२१.२

मन्त्रागदैर् विषहरै रक्ष्यमाणं प्रयत्नतः ॥ (२१।२)

mantrāgadair viṣaharai rakṣyamāṇaṃ prayatnataḥ ||

22.1२२.१

स चिन्तयामास तदा मायायोगेन पार्थिवः । (२२।१)

sa cintayāmāsa tadā māyāyogena pārthivaḥ |

22.2२२.२

मया वञ्चयितव्यो ऽसौ क उपायो भवेद् इति ॥ (२२।२)

mayā vañcayitavyo 'sau ka upāyo bhaved iti ||

23.1२३.१

ततस्तापसरूपेण प्राहिणोत् स भुजंगमान् । (२३।१)

tatastāpasarūpeṇa prāhiṇot sa bhujaṃgamān |

23.2२३.२

फलपत्रोदकं गृह्य राज्ञे नागो ऽथ तक्षकः ॥ (२३।२)

phalapatrodakaṃ gṛhya rājñe nāgo 'tha takṣakaḥ ||

24.1२४.१

तक्षक उवाच । (२४।१)

takṣaka uvāca

24.2२४.२

गच्छध्वं यूयम् अव्यग्रा राजानं कार्यवत्तया । (२४।२)

gacchadhvaṃ yūyam avyagrā rājānaṃ kāryavattayā |

24.3२४.३

फलपत्रोदकं नाम प्रतिग्राहयितुं नृपम् ॥ (२४।३)

phalapatrodakaṃ nāma pratigrāhayituṃ nṛpam ||

25.1२५.१

सूत उवाच । (२५।१)

sūta uvāca

25.2२५.२

ते तक्षकसमादिष्टास्तथा चक्रुर् भुजंगमाः । (२५।२)

te takṣakasamādiṣṭāstathā cakrur bhujaṃgamāḥ |

25.3२५.३

उपनिन्युस्तथा राज्ञे दर्भान् आपः फलानि च ॥ (२५।३)

upaninyustathā rājñe darbhān āpaḥ phalāni ca ||

26.1२६.१

तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान् । (२६।१)

tacca sarvaṃ sa rājendraḥ pratijagrāha vīryavān |

26.2२६.२

कृत्वा च तेषां कार्याणि गम्यताम् इत्युवाच तान् ॥ (२६।२)

kṛtvā ca teṣāṃ kāryāṇi gamyatām ityuvāca tān ||

27.1२७.१

गतेषु तेषु नागेषु तापसच्छद्मरूपिषु । (२७।१)

gateṣu teṣu nāgeṣu tāpasacchadmarūpiṣu |

27.2२७.२

अमात्यान् सुहृदश्चैव प्रोवाच स नराधिपः ॥ (२७।२)

amātyān suhṛdaścaiva provāca sa narādhipaḥ ||

28.1२८.१

भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः । (२८।१)

bhakṣayantu bhavanto vai svādūnīmāni sarvaśaḥ |

28.2२८.२

तापसैर् उपनीतानि फलानि सहिता मया ॥ (२८।२)

tāpasair upanītāni phalāni sahitā mayā ||

29.1२९.१

ततो राजा ससचिवः फलान्यादातुम् ऐच्छत । (२९।१)

tato rājā sasacivaḥ phalānyādātum aicchata |

29.2२९.२

विधिना सम्प्रयुक्तो वै ऋषिवाक्येन तेन तु । (२९।२)

vidhinā samprayukto vai ṛṣivākyena tena tu |

29.3२९.३

यस्मिन्न् एव फले नागस्तम् एवाभक्षयत् स्वयम् । (२९।३)

yasminn eva phale nāgastam evābhakṣayat svayam |

29.4२९.४

यद् गृहीतं फलं राज्ञा तत्र कृमिर् अभूद् अणुः । (२९।४)

yad gṛhītaṃ phalaṃ rājñā tatra kṛmir abhūd aṇuḥ |

29.5२९.५

ह्रस्वकः कृष्णनयनस्ताम्रो वर्णेन शौनक ॥ (२९।५)

hrasvakaḥ kṛṣṇanayanastāmro varṇena śaunaka ||

30.1३०.१

स तं गृह्य नृपश्रेष्ठः सचिवान् इदम् अब्रवीत् । (३०।१)

sa taṃ gṛhya nṛpaśreṣṭhaḥ sacivān idam abravīt |

30.2३०.२

अस्तम् अभ्येति सविता विषाद् अद्य न मे भयम् ॥ (३०।२)

astam abhyeti savitā viṣād adya na me bhayam ||

31.1३१.१

सत्यवाग् अस्तु स मुनिः कृमिको मां दशत्वयम् । (३१।१)

satyavāg astu sa muniḥ kṛmiko māṃ daśatvayam |

31.2३१.२

तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् ॥ (३१।२)

takṣako nāma bhūtvā vai tathā parihṛtaṃ bhavet ||

32.1३२.१

ते चैनम् अन्ववर्तन्त मन्त्रिणः कालचोदिताः । (३२।१)

te cainam anvavartanta mantriṇaḥ kālacoditāḥ |

32.2३२.२

एवम् उक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह । (३२।२)

evam uktvā sa rājendro grīvāyāṃ saṃniveśya ha |

32.3३२.३

कृमिकं प्राहसत् तूर्णं मुमूर्षुर् नष्टचेतनः ॥ (३२।३)

kṛmikaṃ prāhasat tūrṇaṃ mumūrṣur naṣṭacetanaḥ ||

33.1३३.१

हसन्न् एव च भोगेन तक्षकेणाभिवेष्टितः । (३३।१)

hasann eva ca bhogena takṣakeṇābhiveṣṭitaḥ |

33.2३३.२

तस्मात् फलाद् विनिष्क्रम्य यत् तद् राज्ञे निवेदितम् । (३३।२)

tasmāt phalād viniṣkramya yat tad rājñe niveditam |

33.3३३.३

वेष्टयित्वा च भोगेन विनद्य च महास्वनम् । (३३।३)

veṣṭayitvā ca bhogena vinadya ca mahāsvanam |

33.4३३.४

अदशत् पृथिवीपालं तक्षकः पन्नगेश्वरः ॥ (३३।४)

adaśat pṛthivīpālaṃ takṣakaḥ pannageśvaraḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 1, 39

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit