MBh, 16, 9
Select a line for its word-by-word analysis.
प्रविशन्न् अर्जुनो राजन्न् आश्रमं सत्यवादिनः । (१।२)
praviśann arjuno rājann āśramaṃ satyavādinaḥ |
स तम् आसाद्य धर्मज्ञम् उपतस्थे महाव्रतम् । (२।१)
sa tam āsādya dharmajñam upatasthe mahāvratam |
अर्जुनो ऽस्मीति नामास्मै निवेद्याभ्यवदत् ततः ॥ (२।२)
arjuno 'smīti nāmāsmai nivedyābhyavadat tataḥ ||
स्वागतं ते ऽस्त्व् इति प्राह मुनिः सत्यवतीसुतः । (३।१)
svāgataṃ te 'stv iti prāha muniḥ satyavatīsutaḥ |
निर्विण्णमनसं दृष्ट्वा पार्थं व्यासो ऽब्रवीद् इदम् ॥ (४।२)
nirviṇṇamanasaṃ dṛṣṭvā pārthaṃ vyāso 'bravīd idam ||
अवीरजो ऽभिघातस् ते ब्राह्मणो वा हतस् त्वया । (५।१)
avīrajo 'bhighātas te brāhmaṇo vā hatas tvayā |
श्रोतव्यं चेन् मया पार्थ क्षिप्रम् आख्यातुम् अर्हसि ॥ (६।२)
śrotavyaṃ cen mayā pārtha kṣipram ākhyātum arhasi ||
स कृष्णः सह रामेण त्यक्त्वा देहं दिवं गतः ॥ (७।३)
sa kṛṣṇaḥ saha rāmeṇa tyaktvā dehaṃ divaṃ gataḥ ||
भोजवृष्ण्यन्धका ब्रह्मन्न् अन्योन्यं तैर् हतं युधि ॥ (९।२)
bhojavṛṣṇyandhakā brahmann anyonyaṃ tair hataṃ yudhi ||
त एरकाभिर् निहताः पश्य कालस्य पर्ययम् ॥ (१०।२)
ta erakābhir nihatāḥ paśya kālasya paryayam ||
पुनः पुनर् न मृश्यामि विनाशम् अमितौजसाम् । (१२।१)
punaḥ punar na mṛśyāmi vināśam amitaujasām |
चिन्तयानो यदूनां च कृष्णस्य च यशस्विनः ॥ (१२।२)
cintayāno yadūnāṃ ca kṛṣṇasya ca yaśasvinaḥ ||
नभसः पतनं चैव शैत्यम् अग्नेस् तथैव च ॥ (१३।२)
nabhasaḥ patanaṃ caiva śaityam agnes tathaiva ca ||
अश्रद्धेयम् अहं मन्ये विनाशं शार्ङ्गधन्वनः । (१४।१)
aśraddheyam ahaṃ manye vināśaṃ śārṅgadhanvanaḥ |
न चेह स्थातुम् इच्छामि लोके कृष्णविनाकृतः ॥ (१४।२)
na ceha sthātum icchāmi loke kṛṣṇavinākṛtaḥ ||
इतः कष्टतरं चान्यच्छृणु तद् वै तपोधन । (१५।१)
itaḥ kaṣṭataraṃ cānyacchṛṇu tad vai tapodhana |
मनो मे दीर्यते येन चिन्तयानस्य वै मुहुः ॥ (१५।२)
mano me dīryate yena cintayānasya vai muhuḥ ||
पश्यतो वृष्णिदाराश् च मम ब्रह्मन् सहस्रशः । (१६।१)
paśyato vṛṣṇidārāś ca mama brahman sahasraśaḥ |
यथा पुरा च मे वीर्यं भुजयोर् न तथाभवत् ॥ (१७।२)
yathā purā ca me vīryaṃ bhujayor na tathābhavat ||
शराश् च क्षयम् आपन्नाः क्षणेनैव समन्ततः ॥ (१८।२)
śarāś ca kṣayam āpannāḥ kṣaṇenaiva samantataḥ ||
चतुर्भुजः पीतवासा श्यामः पद्मायतेक्षणः ॥ (१९।२)
caturbhujaḥ pītavāsā śyāmaḥ padmāyatekṣaṇaḥ ||
यः स याति पुरस्तान् मे रथस्य सुमहाद्युतिः । (२०।१)
yaḥ sa yāti purastān me rathasya sumahādyutiḥ |
प्रदहन् रिपुसैन्यानि न पश्याम्य् अहम् अद्य तम् ॥ (२०।२)
pradahan ripusainyāni na paśyāmy aham adya tam ||
येन पूर्वं प्रदग्धानि शत्रुसैन्यानि तेजसा । (२१।१)
yena pūrvaṃ pradagdhāni śatrusainyāni tejasā |
शरैर् गाण्डीवनिर्मुक्तैर् अहं पश्चाद् व्यनाशयम् ॥ (२१।२)
śarair gāṇḍīvanirmuktair ahaṃ paścād vyanāśayam ||
परिनिर्विण्णचेताश् च शान्तिं नोपलभे ऽपि च ॥ (२२।२)
parinirviṇṇacetāś ca śāntiṃ nopalabhe 'pi ca ||
विना जनार्दनं वीरं नाहं जीवितुम् उत्सहे । (२३।१)
vinā janārdanaṃ vīraṃ nāhaṃ jīvitum utsahe |
श्रुत्वैव हि गतं विष्णुं ममापि मुमुहुर् दिशः ॥ (२३।२)
śrutvaiva hi gataṃ viṣṇuṃ mamāpi mumuhur diśaḥ ||
प्रनष्टज्ञातिवीर्यस्य शून्यस्य परिधावतः । (२४।१)
pranaṣṭajñātivīryasya śūnyasya paridhāvataḥ |
उपदेष्टुं मम श्रेयो भवान् अर्हति सत्तम ॥ (२४।२)
upadeṣṭuṃ mama śreyo bhavān arhati sattama ||
ब्रह्मशापविनिर्दग्धा वृष्ण्यन्धकमहारथाः । (२५।२)
brahmaśāpavinirdagdhā vṛṣṇyandhakamahārathāḥ |
विनष्टाः कुरुशार्दूल न ताञ्शोचितुम् अर्हसि ॥ (२५।३)
vinaṣṭāḥ kuruśārdūla na tāñśocitum arhasi ||
भवितव्यं तथा तद्धि दिष्टम् एतन् महात्मनाम् । (२६।१)
bhavitavyaṃ tathā taddhi diṣṭam etan mahātmanām |
उपेक्षितं च कृष्णेन शक्तेनापि व्यपोहितुम् ॥ (२६।२)
upekṣitaṃ ca kṛṣṇena śaktenāpi vyapohitum ||
त्रैलोक्यम् अपि कृष्णो हि कृत्स्नं स्थावरजङ्गमम् । (२७।१)
trailokyam api kṛṣṇo hi kṛtsnaṃ sthāvarajaṅgamam |
प्रसहेद् अन्यथा कर्तुं किमु शापं मनीषिणाम् ॥ (२७।२)
prasahed anyathā kartuṃ kimu śāpaṃ manīṣiṇām ||
तव स्नेहात् पुराणर्षिर् वासुदेवश् चतुर्भुजः ॥ (२८।२)
tava snehāt purāṇarṣir vāsudevaś caturbhujaḥ ||
मोक्षयित्वा जगत् सर्वं गतः स्वस्थानम् उत्तमम् ॥ (२९।२)
mokṣayitvā jagat sarvaṃ gataḥ svasthānam uttamam ||
त्वया त्विह महत् कर्म देवानां पुरुषर्षभ । (३०।१)
tvayā tviha mahat karma devānāṃ puruṣarṣabha |
कृतकृत्यांश् च वो मन्ये संसिद्धान् कुरुपुंगव । (३१।१)
kṛtakṛtyāṃś ca vo manye saṃsiddhān kurupuṃgava |
गमनं प्राप्तकालं च तद्धि श्रेयो मतं मम ॥ (३१।२)
gamanaṃ prāptakālaṃ ca taddhi śreyo mataṃ mama ||
बलं बुद्धिश् च तेजश् च प्रतिपत्तिश् च भारत । (३२।१)
balaṃ buddhiś ca tejaś ca pratipattiś ca bhārata |
स एव बलवान् भूत्वा पुनर् भवति दुर्बलः । (३४।१)
sa eva balavān bhūtvā punar bhavati durbalaḥ |
स एवेशश् च भूत्वेह परैर् आज्ञाप्यते पुनः ॥ (३४।२)
sa eveśaś ca bhūtveha parair ājñāpyate punaḥ ||
कृतकृत्यानि चास्त्राणि गतान्य् अद्य यथागतम् । (३५।१)
kṛtakṛtyāni cāstrāṇi gatāny adya yathāgatam |
पुनर् एष्यन्ति ते हस्तं यदा कालो भविष्यति ॥ (३५।२)
punar eṣyanti te hastaṃ yadā kālo bhaviṣyati ||
कालो गन्तुं गतिं मुख्यां भवताम् अपि भारत । (३६।१)
kālo gantuṃ gatiṃ mukhyāṃ bhavatām api bhārata |
प्रविश्य च पुरीं वीरः समासाद्य युधिष्ठिरम् । (३८।१)
praviśya ca purīṃ vīraḥ samāsādya yudhiṣṭhiram |
आचष्ट तद् यथावृत्तं वृष्ण्यन्धकजनं प्रति ॥ (३८।२)
ācaṣṭa tad yathāvṛttaṃ vṛṣṇyandhakajanaṃ prati ||
Data courtesy of The Digital Corpus of Sanskrit.