MBh, 1, 115
Select a line for its word-by-word analysis.
न मे ऽस्ति त्वयि संतापो विगुणे ऽपि परंतप । (२।१)
na me 'sti tvayi saṃtāpo viguṇe 'pi paraṃtapa |
नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा ॥ (२।३)
nāvaratve varārhāyāḥ sthitvā cānagha nityadā ||
गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा । (३।१)
gāndhāryāścaiva nṛpate jātaṃ putraśataṃ tathā |
श्रुत्वा न मे तथा दुःखम् अभवत् कुरुनन्दन ॥ (३।२)
śrutvā na me tathā duḥkham abhavat kurunandana ||
इदं तु मे महद् दुःखं तुल्यतायाम् अपुत्रता । (४।१)
idaṃ tu me mahad duḥkhaṃ tulyatāyām aputratā |
दिष्ट्या त्विदानीं भर्तुर् मे कुन्त्याम् अप्यस्ति संततिः ॥ (४।२)
diṣṭyā tvidānīṃ bhartur me kuntyām apyasti saṃtatiḥ ||
कुर्याद् अनुग्रहो मे स्यात् तव चापि हितं भवेत् ॥ (५।२)
kuryād anugraho me syāt tava cāpi hitaṃ bhavet ||
स्तम्भो हि मे सपत्नीत्वाद् वक्तुं कुन्तिसुतां प्रति । (६।१)
stambho hi me sapatnītvād vaktuṃ kuntisutāṃ prati |
यदि तु त्वं प्रसन्नो मे स्वयम् एनां प्रचोदय ॥ (६।२)
yadi tu tvaṃ prasanno me svayam enāṃ pracodaya ||
न तु त्वां प्रसहे वक्तुम् इष्टानिष्टविवक्षया ॥ (७।३)
na tu tvāṃ prasahe vaktum iṣṭāniṣṭavivakṣayā ||
तव त्विदं मतं ज्ञात्वा प्रयतिष्याम्यतः परम् । (८।१)
tava tvidaṃ mataṃ jñātvā prayatiṣyāmyataḥ param |
मन्ये ध्रुवं मयोक्ता सा वचो मे प्रतिपत्स्यते ॥ (८।२)
manye dhruvaṃ mayoktā sā vaco me pratipatsyate ||
ततः कुन्तीं पुनः पाण्डुर् विविक्त इदम् अब्रवीत् । (९।२)
tataḥ kuntīṃ punaḥ pāṇḍur vivikta idam abravīt |
मत्प्रियार्थं च कल्याणि कुरु कल्याणम् उत्तमम् । (१०।२)
matpriyārthaṃ ca kalyāṇi kuru kalyāṇam uttamam |
कुलस्य पिण्डवृद्धिश्च कुलस्य कुलसंततिः । (१०।३)
kulasya piṇḍavṛddhiśca kulasya kulasaṃtatiḥ |
मम चेष्टस्य निर्वृत्तिस्तव चापि परं यशः ॥ (१०।४)
mama ceṣṭasya nirvṛttistava cāpi paraṃ yaśaḥ ||
यशसो ऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम् । (११।१)
yaśaso 'rthāya caiva tvaṃ kuru karma suduṣkaram |
प्राप्याधिपत्यम् इन्द्रेण यज्ञैर् इष्टं यशोऽर्थिना ॥ (११।२)
prāpyādhipatyam indreṇa yajñair iṣṭaṃ yaśo'rthinā ||
तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम् । (१२।१)
tathā mantravido viprāstapastaptvā suduṣkaram |
गुरून् अभ्युपगच्छन्ति यशसो ऽर्थाय भामिनि ॥ (१२।२)
gurūn abhyupagacchanti yaśaso 'rthāya bhāmini ||
तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः । (१३।१)
tathā rājarṣayaḥ sarve brāhmaṇāśca tapodhanāḥ |
चक्रुर् उच्चावचं कर्म यशसो ऽर्थाय दुष्करम् । (१३।२)
cakrur uccāvacaṃ karma yaśaso 'rthāya duṣkaram |
यशोऽर्थं धर्मयुक्तानि चक्रुः कर्माणि शोभने ॥ (१३।४)
yaśo'rthaṃ dharmayuktāni cakruḥ karmāṇi śobhane ||
सा त्वं माद्रीं प्लवेनेव तारयेमाम् अनिन्दिते । (१४।१)
sā tvaṃ mādrīṃ plaveneva tārayemām anindite |
धर्मं वै धर्मशास्त्रोक्तं यथा वदसि तत् तथा । (१४।३)
dharmaṃ vai dharmaśāstroktaṃ yathā vadasi tat tathā |
तस्माद् अनुग्रहं माद्र्याः कुरुष्व वरवर्णिनि ॥ (१४।४)
tasmād anugrahaṃ mādryāḥ kuruṣva varavarṇini ||
एवम् उक्ताब्रवीन् माद्रीं सकृच्चिन्तय दैवतम् । (१५।१)
evam uktābravīn mādrīṃ sakṛccintaya daivatam |
तस्मात् ते भवितापत्यम् अनुरूपम् असंशयम् । (१५।२)
tasmāt te bhavitāpatyam anurūpam asaṃśayam |
कुन्त्या मन्त्रे कृते तस्मिन् विधिदृष्टेन कर्मणा । (१५।३)
kuntyā mantre kṛte tasmin vidhidṛṣṭena karmaṇā |
कर्मतो भक्तितश्चैव बलतो ऽपि नयैस्तथा ॥ (१७।३)
karmato bhaktitaścaiva balato 'pi nayaistathā ||
भक्त्या च कर्मणा चैव तथाशीर्भिर् विशां पते ॥ (१९।२)
bhaktyā ca karmaṇā caiva tathāśīrbhir viśāṃ pate ||
ज्येष्ठं युधिष्ठिरेत्याहुर् भीमसेनेति मध्यमम् । (२०।१)
jyeṣṭhaṃ yudhiṣṭhiretyāhur bhīmaseneti madhyamam |
अर्जुनेति तृतीयं च कुन्तीपुत्रान् अकल्पयन् ॥ (२०।२)
arjuneti tṛtīyaṃ ca kuntīputrān akalpayan ||
माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः । (२१।२)
mādrīputrāvakathayaṃste viprāḥ prītamānasāḥ |
पाण्डुपुत्रा व्यराजन्त पञ्च संवत्सरा इव । (२१।४)
pāṇḍuputrā vyarājanta pañca saṃvatsarā iva |
अन्ववर्तन्त पार्थाश्च माद्रीपुत्रौ तथैव च । (२१।५)
anvavartanta pārthāśca mādrīputrau tathaiva ca |
पाण्डुर् दृष्ट्वा सुतांस्तांस्तु देवरूपान् महौजसः । (२१।७)
pāṇḍur dṛṣṭvā sutāṃstāṃstu devarūpān mahaujasaḥ |
प्रिया बभूवुस्तासां च तथैव मुनियोषिताम् ॥ (२१।१०)
priyā babhūvustāsāṃ ca tathaiva muniyoṣitām ||
कुन्तीम् अथ पुनः पाण्डुर् माद्र्यर्थे समचोदयत् । (२२।१)
kuntīm atha punaḥ pāṇḍur mādryarthe samacodayat |
तम् उवाच पृथा राजन् रहस्युक्ता सती सदा ॥ (२२।२)
tam uvāca pṛthā rājan rahasyuktā satī sadā ||
उक्ता सकृद् द्वन्द्वम् एषा लेभे तेनास्मि वञ्चिता । (२३।१)
uktā sakṛd dvandvam eṣā lebhe tenāsmi vañcitā |
बिभेम्यस्याः परिभवान् नारीणां गतिर् ईदृशी ॥ (२३।२)
bibhemyasyāḥ paribhavān nārīṇāṃ gatir īdṛśī ||
नाज्ञासिषम् अहं मूढा द्वन्द्वाह्वाने फलद्वयम् । (२४।१)
nājñāsiṣam ahaṃ mūḍhā dvandvāhvāne phaladvayam |
तस्मान् नाहं नियोक्तव्या त्वयैषो ऽस्तु वरो मम ॥ (२४।२)
tasmān nāhaṃ niyoktavyā tvayaiṣo 'stu varo mama ||
एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः । (२५।१)
evaṃ pāṇḍoḥ sutāḥ pañca devadattā mahābalāḥ |
सम्भूताः कीर्तिमन्तस्ते कुरुवंशविवर्धनाः । (२५।२)
sambhūtāḥ kīrtimantaste kuruvaṃśavivardhanāḥ |
देवौजसः सत्त्ववन्तः सर्वशास्त्रविशारदाः । (२५।३)
devaujasaḥ sattvavantaḥ sarvaśāstraviśāradāḥ |
दिव्यसंहननाः सर्वे सर्वे भास्वरमूर्तयः ॥ (२५।४)
divyasaṃhananāḥ sarve sarve bhāsvaramūrtayaḥ ||
सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः । (२६।२)
siṃhadarpā maheṣvāsāḥ siṃhavikrāntagāminaḥ |
सिंहोरस्काः सिंहसत्त्वाः सिंहाक्षाः सिंहविक्रमाः । (२६।३)
siṃhoraskāḥ siṃhasattvāḥ siṃhākṣāḥ siṃhavikramāḥ |
सिंहग्रीवा मनुष्येन्द्रा ववृधुर् देवविक्रमाः ॥ (२६।४)
siṃhagrīvā manuṣyendrā vavṛdhur devavikramāḥ ||
विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ । (२७।१)
vivardhamānāste tatra puṇye haimavate girau |
सर्वे ववृधुर् अल्पेन कालेनाप्स्विव नीरजाः । (२८।२)
sarve vavṛdhur alpena kālenāpsviva nīrajāḥ |
पाण्डोः पुत्रान् अमन्यन्त तापसाः स्वान् इवात्मजान् । (२८।५)
pāṇḍoḥ putrān amanyanta tāpasāḥ svān ivātmajān |
पाण्डुः शापभयाद् भीतः शतशृङ्गम् उपेयिवान् । (२८।७)
pāṇḍuḥ śāpabhayād bhītaḥ śataśṛṅgam upeyivān |
तत्रैव मुनिभिः सार्धं तापसो ऽभूत् तपश्चरन् । (२८।८)
tatraiva munibhiḥ sārdhaṃ tāpaso 'bhūt tapaścaran |
प्रब्रुवन्ति स्म बहवस्तच्छ्रुत्वा शोककर्शिताः । (२८।११)
prabruvanti sma bahavastacchrutvā śokakarśitāḥ |
पाण्डोः प्रीतिसमायुक्ताः कदा श्रोष्याम सत्कथाः । (२८।१२)
pāṇḍoḥ prītisamāyuktāḥ kadā śroṣyāma satkathāḥ |
इत्येवं कथयन्तस्ते वृष्णयः सह बान्धवैः । (२८।१३)
ityevaṃ kathayantaste vṛṣṇayaḥ saha bāndhavaiḥ |
पाण्डोः पुत्रागमं श्रुत्वा सर्वे हर्षसमन्विताः । (२८।१४)
pāṇḍoḥ putrāgamaṃ śrutvā sarve harṣasamanvitāḥ |
सभाजयन्तस्ते ऽन्योन्यं वसुदेवं वचो ऽब्रुवन् । (२८।१५)
sabhājayantaste 'nyonyaṃ vasudevaṃ vaco 'bruvan |
न भवेरन् क्रियाहीनाः पाण्डोः पुत्रा महाबलाः । (२८।१६)
na bhaveran kriyāhīnāḥ pāṇḍoḥ putrā mahābalāḥ |
पाण्डोः प्रियहितान्वेषी प्रेषय त्वं पुरोहितम् । (२८।१७)
pāṇḍoḥ priyahitānveṣī preṣaya tvaṃ purohitam |
वसुदेवस्तथेत्युक्त्वा विससर्ज पुरोहितम् । (२८।१८)
vasudevastathetyuktvā visasarja purohitam |
युक्तानि च कुमाराणां पारिबर्हाण्यनेकशः । (२८।१९)
yuktāni ca kumārāṇāṃ pāribarhāṇyanekaśaḥ |
कुन्तीं माद्रीं च संदिश्य दासदासीपरिच्छदम् । (२८।२०)
kuntīṃ mādrīṃ ca saṃdiśya dāsadāsīparicchadam |
गावो हिरण्यं रूप्यं च प्रेषयामास भारत । (२८।२१)
gāvo hiraṇyaṃ rūpyaṃ ca preṣayāmāsa bhārata |
तानि सर्वाणि संगृह्य प्रययौ स पुरोहितः । (२८।२२)
tāni sarvāṇi saṃgṛhya prayayau sa purohitaḥ |
तम् आगतं द्विजश्रेष्ठं काश्यपं वै पुरोहितम् । (२८।२३)
tam āgataṃ dvijaśreṣṭhaṃ kāśyapaṃ vai purohitam |
पृथा माद्री च संहृष्टे वसुदेवं प्रशंसताम् । (२८।२५)
pṛthā mādrī ca saṃhṛṣṭe vasudevaṃ praśaṃsatām |
ततः पाण्डुः क्रियाः सर्वाः पाण्डवानाम् अकारयत् । (२८।२६)
tataḥ pāṇḍuḥ kriyāḥ sarvāḥ pāṇḍavānām akārayat |
काश्यपः कृतवान् सर्वम् उपाकर्म च भारत । (२८।२८)
kāśyapaḥ kṛtavān sarvam upākarma ca bhārata |
चौलोपनयनाद् ऊर्ध्वं वृषभाक्षा यशस्विनः । (२८।२९)
caulopanayanād ūrdhvaṃ vṛṣabhākṣā yaśasvinaḥ |
शर्यातेः पृषतः पुत्रः शुको नाम परंतपः । (२८।३१)
śaryāteḥ pṛṣataḥ putraḥ śuko nāma paraṃtapaḥ |
अश्वमेधशतैर् इष्ट्वा स महात्मा महामखैः । (२८।३३)
aśvamedhaśatair iṣṭvā sa mahātmā mahāmakhaiḥ |
आराध्य देवताः सर्वाः पितॄन् अपि महामतिः । (२८।३४)
ārādhya devatāḥ sarvāḥ pitṝn api mahāmatiḥ |
तेनोपकरणश्रेष्ठैः शिक्षया चोपबृंहिताः । (२८।३६)
tenopakaraṇaśreṣṭhaiḥ śikṣayā copabṛṃhitāḥ |
तत्प्रसादाद् धनुर्वेदे समपद्यन्त पारगाः । (२८।३७)
tatprasādād dhanurvede samapadyanta pāragāḥ |
गदायां पारगो भीमस्तोमरेषु युधिष्ठिरः । (२८।३८)
gadāyāṃ pārago bhīmastomareṣu yudhiṣṭhiraḥ |
असिचर्मणि निष्णातौ यमौ सत्त्ववतां वरौ । (२८।३९)
asicarmaṇi niṣṇātau yamau sattvavatāṃ varau |
शुकेन समनुज्ञातो मत्समो ऽयम् इति प्रभो । (२८।४१)
śukena samanujñāto matsamo 'yam iti prabho |
अनुज्ञाय ततो राजा शक्तिं खड्गं तथा शरान् । (२८।४२)
anujñāya tato rājā śaktiṃ khaḍgaṃ tathā śarān |
धनुश्च ददतां श्रेष्ठस्तालमात्रं महाप्रभम् । (२८।४३)
dhanuśca dadatāṃ śreṣṭhastālamātraṃ mahāprabham |
विपाठक्षुरनाराचान् गृध्रपक्षान् अलंकृतान् । (२८।४४)
vipāṭhakṣuranārācān gṛdhrapakṣān alaṃkṛtān |
ददौ पार्थाय संहृष्टो महोरगसमप्रभान् । (२८।४५)
dadau pārthāya saṃhṛṣṭo mahoragasamaprabhān |
अवाप्य सर्वशस्त्राणि मुदितो वासवात्मजः । (२८।४६)
avāpya sarvaśastrāṇi mudito vāsavātmajaḥ |
मेने सर्वान् महीपालान् अपर्याप्तान् स्वतेजसा । (२८।४७)
mene sarvān mahīpālān aparyāptān svatejasā |
एकवर्षान्तरास्त्वेवं परस्परम् अरिंदमाः । (२८।४८)
ekavarṣāntarāstvevaṃ parasparam ariṃdamāḥ |
अन्ववर्धन्त पार्थाश्च माद्रीपुत्रौ तथैव च । (२८।४९)
anvavardhanta pārthāśca mādrīputrau tathaiva ca |
पाण्डवानां तथायुस्त्वं शृणु कौरवनन्दन । (२८।५०)
pāṇḍavānāṃ tathāyustvaṃ śṛṇu kauravanandana |
जगाम हास्तिनपुरं षोडशाब्दो युधिष्ठिरः । (२८।५१)
jagāma hāstinapuraṃ ṣoḍaśābdo yudhiṣṭhiraḥ |
भीमसेनः पञ्चदशे बीभत्सुर् वै चतुर्दशे । (२८।५२)
bhīmasenaḥ pañcadaśe bībhatsur vai caturdaśe |
त्रयोदशाब्दौ च यमौ जग्मतुर् नागसाह्वयम् । (२८।५३)
trayodaśābdau ca yamau jagmatur nāgasāhvayam |
तत्र त्रयोदशाब्दानि धार्तराष्ट्रैः सहोषिताः । (२८।५४)
tatra trayodaśābdāni dhārtarāṣṭraiḥ sahoṣitāḥ |
षट् च मासाञ् जतुगृहान् मुक्ता जातो घटोत्कचः । (२८।५५)
ṣaṭ ca māsāñ jatugṛhān muktā jāto ghaṭotkacaḥ |
षण्मासान् एकचक्रायां वर्षं पाञ्चालके गृहे । (२८।५६)
ṣaṇmāsān ekacakrāyāṃ varṣaṃ pāñcālake gṛhe |
धार्तराष्ट्रैः सहोषित्वा पञ्च वर्षाणि भारत । (२८।५७)
dhārtarāṣṭraiḥ sahoṣitvā pañca varṣāṇi bhārata |
इन्द्रप्रस्थे ऽवसंस्तत्र त्रीणि वर्षाणि विंशतिम् । (२८।५८)
indraprasthe 'vasaṃstatra trīṇi varṣāṇi viṃśatim |
द्वादशाब्दान् अथैकं च विभ्रमद्यूतनिर्जिताः । (२८।५९)
dvādaśābdān athaikaṃ ca vibhramadyūtanirjitāḥ |
भुङ्क्त्वा षट्त्रिंशतं राज्यं सागरान्तां वसुंधराम् । (२८।६०)
bhuṅktvā ṣaṭtriṃśataṃ rājyaṃ sāgarāntāṃ vasuṃdharām |
मासैः षड्भिर् महात्मानः सर्वे कृष्णपरायणाः । (२८।६१)
māsaiḥ ṣaḍbhir mahātmānaḥ sarve kṛṣṇaparāyaṇāḥ |
राज्ये परिक्षितं स्थाप्य इष्टां गतिम् अवाप्नुवन् । (२८।६२)
rājye parikṣitaṃ sthāpya iṣṭāṃ gatim avāpnuvan |
एवं युधिष्ठिरस्यापि आयुर् अष्टोत्तरं शतम् । (२८।६३)
evaṃ yudhiṣṭhirasyāpi āyur aṣṭottaraṃ śatam |
अर्जुनात् केशवो ज्येष्ठस्त्रिभिर् मासैर् महाभुजः । (२८।६४)
arjunāt keśavo jyeṣṭhastribhir māsair mahābhujaḥ |
कृष्णात् संकर्षणो ज्येष्ठस्त्रिभिर् मासैर् महाबलः ॥ (२८।६५)
kṛṣṇāt saṃkarṣaṇo jyeṣṭhastribhir māsair mahābalaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.