MBh, 5, 110
Select a line for its word-by-word analysis.
नय मां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी ॥ (१।३)
naya māṃ tārkṣya pūrveṇa yatra dharmasya cakṣuṣī ||
पूर्वम् एतां दिशं गच्छ या पूर्वं परिकीर्तिता । (२।१)
pūrvam etāṃ diśaṃ gaccha yā pūrvaṃ parikīrtitā |
दैवतानां हि सांनिध्यम् अत्र कीर्तितवान् असि ॥ (२।२)
daivatānāṃ hi sāṃnidhyam atra kīrtitavān asi ||
अत्र सत्यं च धर्मश्च त्वया सम्यक् प्रकीर्तितः । (३।१)
atra satyaṃ ca dharmaśca tvayā samyak prakīrtitaḥ |
इच्छेयं तु समागन्तुं समस्तैर् दैवतैर् अहम् । (३।२)
iccheyaṃ tu samāgantuṃ samastair daivatair aham |
भूयश्च तान् सुरान् द्रष्टुम् इच्छेयम् अरुणानुज ॥ (३।३)
bhūyaśca tān surān draṣṭum iccheyam aruṇānuja ||
भास्करस्येव पूर्वाह्णे सहस्रांशोर् विवस्वतः ॥ (५।३)
bhāskarasyeva pūrvāhṇe sahasrāṃśor vivasvataḥ ||
तुल्यरूपाननान्मत्स्यांस्तिमिमत्स्यांस्तिमिंगिलान् । (९।१)
tulyarūpānanānmatsyāṃstimimatsyāṃstimiṃgilān |
नागांश्च नरवक्त्रांश्च पश्याम्युन्मथितान् इव ॥ (९।२)
nāgāṃśca naravaktrāṃśca paśyāmyunmathitān iva ||
महार्णवस्य च रवैः श्रोत्रे मे बधिरीकृते । (१०।१)
mahārṇavasya ca ravaiḥ śrotre me badhirīkṛte |
न शृणोमि न पश्यामि नात्मनो वेद्मि कारणम् ॥ (१०।२)
na śṛṇomi na paśyāmi nātmano vedmi kāraṇam ||
शनैः साधु भवान् यातु ब्रह्महत्याम् अनुस्मरन् । (११।१)
śanaiḥ sādhu bhavān yātu brahmahatyām anusmaran |
न दृश्यते रविस्तात न दिशो न च खं खग ॥ (११।२)
na dṛśyate ravistāta na diśo na ca khaṃ khaga ||
मणीव जात्यौ पश्यामि चक्षुषी ते ऽहम् अण्डज ॥ (१२।२)
maṇīva jātyau paśyāmi cakṣuṣī te 'ham aṇḍaja ||
पदे पदे तु पश्यामि सलिलाद् अग्निम् उत्थितम् ॥ (१३।२)
pade pade tu paśyāmi salilād agnim utthitam ||
स मे निर्वाप्य सहसा चक्षुषी शाम्यते पुनः । (१४।१)
sa me nirvāpya sahasā cakṣuṣī śāmyate punaḥ |
गुरवे संश्रुतानीह शतान्यष्टौ हि वाजिनाम् । (१६।१)
gurave saṃśrutānīha śatānyaṣṭau hi vājinām |
एकतः श्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम् ॥ (१६।२)
ekataḥ śyāmakarṇānāṃ śubhrāṇāṃ candravarcasām ||
तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज । (१७।१)
teṣāṃ caivāpavargāya mārgaṃ paśyāmi nāṇḍaja |
ततो ऽयं जीवितत्यागे दृष्टो मार्गो मयात्मनः ॥ (१७।२)
tato 'yaṃ jīvitatyāge dṛṣṭo mārgo mayātmanaḥ ||
नैव मे ऽस्ति धनं किंचिन्न धनेनान्वितः सुहृत् । (१८।१)
naiva me 'sti dhanaṃ kiṃcinna dhanenānvitaḥ suhṛt |
न चार्थेनापि महता शक्यम् एतद् व्यपोहितुम् ॥ (१८।२)
na cārthenāpi mahatā śakyam etad vyapohitum ||
प्रत्युवाच व्रजन्न् एव प्रहसन् विनतात्मजः ॥ (१९।३)
pratyuvāca vrajann eva prahasan vinatātmajaḥ ||
नातिप्रज्ञो ऽसि विप्रर्षे यो ऽऽत्मानं त्यक्तुम् इच्छसि । (२०।१)
nātiprajño 'si viprarṣe yo ''tmānaṃ tyaktum icchasi |
न चापि कृत्रिमः कालः कालो हि परमेश्वरः ॥ (२०।२)
na cāpi kṛtrimaḥ kālaḥ kālo hi parameśvaraḥ ||
उपायो ऽत्र महान् अस्ति येनैतद् उपपद्यते ॥ (२१।२)
upāyo 'tra mahān asti yenaitad upapadyate ||
अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव ॥ (२२।२)
atra viśramya bhuktvā ca nivartiṣyāva gālava ||
Data courtesy of The Digital Corpus of Sanskrit.