MBh, 1, 41
Select a line for its word-by-word analysis.
चचार पृथिवीं कृत्स्नां यत्रसायंगृहो मुनिः ॥ (१।३)
cacāra pṛthivīṃ kṛtsnāṃ yatrasāyaṃgṛho muniḥ ||
चरन् दीक्षां महातेजा दुश्चराम् अकृतात्मभिः । (२।१)
caran dīkṣāṃ mahātejā duścarām akṛtātmabhiḥ |
तीर्थेष्वाप्लवनं कुर्वन् पुण्येषु विचचार ह ॥ (२।२)
tīrtheṣvāplavanaṃ kurvan puṇyeṣu vicacāra ha ||
वायुभक्षो निराहारः शुष्यन्न् अहरहर् मुनिः । (३।१)
vāyubhakṣo nirāhāraḥ śuṣyann aharahar muniḥ |
स ददर्श पितॄन् गर्ते लम्बमानान् अधोमुखान् ॥ (३।२)
sa dadarśa pitṝn garte lambamānān adhomukhān ||
एकतन्त्ववशिष्टं वै वीरणस्तम्बम् आश्रितान् । (४।१)
ekatantvavaśiṣṭaṃ vai vīraṇastambam āśritān |
तं च तन्तुं शनैर् आखुम् आददानं बिलाश्रयम् ॥ (४।२)
taṃ ca tantuṃ śanair ākhum ādadānaṃ bilāśrayam ||
निराहारान् कृशान् दीनान् गर्त आर्तांस्त्राणम् इच्छतः । (५।१)
nirāhārān kṛśān dīnān garta ārtāṃstrāṇam icchataḥ |
के भवन्तो ऽवलम्बन्ते वीरणस्तम्बम् आश्रिताः । (६।१)
ke bhavanto 'valambante vīraṇastambam āśritāḥ |
वीरणस्तम्बके मूलं यद् अप्येकम् इह स्थितम् । (७।१)
vīraṇastambake mūlaṃ yad apyekam iha sthitam |
तद् अप्ययं शनैर् आखुर् आदत्ते दशनैः शितैः ॥ (७।२)
tad apyayaṃ śanair ākhur ādatte daśanaiḥ śitaiḥ ||
छेत्स्यते ऽल्पावशिष्टत्वाद् एतद् अप्यचिराद् इव । (८।१)
chetsyate 'lpāvaśiṣṭatvād etad apyacirād iva |
ततः स्थ पतितारो ऽत्र गर्ते अस्मिन्न् अधोमुखाः ॥ (८।२)
tataḥ stha patitāro 'tra garte asminn adhomukhāḥ ||
ततो मे दुःखम् उत्पन्नं दृष्ट्वा युष्मान् अधोमुखान् । (९।१)
tato me duḥkham utpannaṃ dṛṣṭvā yuṣmān adhomukhān |
कृच्छ्राम् आपदम् आपन्नान् प्रियं किं करवाणि वः ॥ (९।२)
kṛcchrām āpadam āpannān priyaṃ kiṃ karavāṇi vaḥ ||
अर्धेन वापि निस्तर्तुम् आपदं ब्रूत माचिरम् ॥ (१०।२)
ardhena vāpi nistartum āpadaṃ brūta māciram ||
भवन्तः सर्व एवास्मात् कामम् एवं विधीयताम् ॥ (११।२)
bhavantaḥ sarva evāsmāt kāmam evaṃ vidhīyatām ||
ऋद्धो भवान् ब्रह्मचारी यो नस्त्रातुम् इहेच्छति । (१२।२)
ṛddho bhavān brahmacārī yo nastrātum ihecchati |
न तु विप्राग्र्य तपसा शक्यम् एतद् व्यपोहितुम् ॥ (१२।३)
na tu viprāgrya tapasā śakyam etad vyapohitum ||
संतानप्रक्षयाद् ब्रह्मन् पतामो निरये ऽशुचौ । (१३।२)
saṃtānaprakṣayād brahman patāmo niraye 'śucau |
लम्बताम् इह नस्तात न ज्ञानं प्रतिभाति वै । (१४।१)
lambatām iha nastāta na jñānaṃ pratibhāti vai |
येन त्वां नाभिजानीमो लोके विख्यातपौरुषम् ॥ (१४।२)
yena tvāṃ nābhijānīmo loke vikhyātapauruṣam ||
ऋद्धो भवान् महाभागो यो नः शोच्यान् सुदुःखितान् । (१५।१)
ṛddho bhavān mahābhāgo yo naḥ śocyān suduḥkhitān |
शोच्यान् सुदुःखितान् अस्मान् कस्माद् वेदविदां वर । (१५।२)
śocyān suduḥkhitān asmān kasmād vedavidāṃ vara |
शोचस्युपेत्य कारुण्याच्छृणु ये वै वयं द्विज ॥ (१५।३)
śocasyupetya kāruṇyācchṛṇu ye vai vayaṃ dvija ||
लोकात् पुण्याद् इह भ्रष्टाः संतानप्रक्षयाद् विभो ॥ (१६।२)
lokāt puṇyād iha bhraṣṭāḥ saṃtānaprakṣayād vibho ||
प्रनष्टं नस्तपः पुण्यं न हि नस्तन्तुर् अस्ति वै । (१७।१)
pranaṣṭaṃ nastapaḥ puṇyaṃ na hi nastantur asti vai |
अस्ति त्वेको ऽद्य नस्तन्तुः सो ऽपि नास्ति यथा तथा ॥ (१७।२)
asti tveko 'dya nastantuḥ so 'pi nāsti yathā tathā ||
मन्दभाग्यो ऽल्पभाग्यानां बन्धुः स किल नः कुले । (१८।१)
mandabhāgyo 'lpabhāgyānāṃ bandhuḥ sa kila naḥ kule |
तेन स्म तपसो लोभात् कृच्छ्रम् आपादिता वयम् । (१९।१)
tena sma tapaso lobhāt kṛcchram āpāditā vayam |
न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश्चन ॥ (१९।२)
na tasya bhāryā putro vā bāndhavo vāsti kaścana ||
तस्माल्लम्बामहे गर्ते नष्टसंज्ञा ह्यनाथवत् । (२०।१)
tasmāllambāmahe garte naṣṭasaṃjñā hyanāthavat |
स वक्तव्यस्त्वया दृष्ट्वा अस्माकं नाथवत्तया ॥ (२०।२)
sa vaktavyastvayā dṛṣṭvā asmākaṃ nāthavattayā ||
पितरस्ते ऽवलम्बन्ते गर्ते दीना अधोमुखाः । (२१।१)
pitaraste 'valambante garte dīnā adhomukhāḥ |
साधु दारान् कुरुष्वेति प्रजायस्वेति चाभिभो । (२१।२)
sādhu dārān kuruṣveti prajāyasveti cābhibho |
न तच्च कुतपोदानैः प्राप्यते फलम् उत्तमम् । (२१।३)
na tacca kutapodānaiḥ prāpyate phalam uttamam |
यच्च कुदारसंतानप्राप्तौ सम्प्राप्यते ऽमितम् । (२१।४)
yacca kudārasaṃtānaprāptau samprāpyate 'mitam |
अथान्यथा वर्तमाना वार्याः स्युस्त्रिदिवौकसाम् । (२१।७)
athānyathā vartamānā vāryāḥ syustridivaukasām |
त्वं तात सम्यग् जानीहि धर्मज्ञः सन् न वेत्सि किम् । (२१।८)
tvaṃ tāta samyag jānīhi dharmajñaḥ san na vetsi kim |
कुलतन्तुर् हि नः शिष्टस्त्वम् एवैकस्तपोधन ॥ (२१।९)
kulatantur hi naḥ śiṣṭastvam evaikastapodhana ||
यं तु पश्यसि नो ब्रह्मन् वीरणस्तम्बम् आश्रितान् । (२२।१)
yaṃ tu paśyasi no brahman vīraṇastambam āśritān |
एषो ऽस्माकं कुलस्तम्ब आसीत् स्वकुलवर्धनः ॥ (२२।२)
eṣo 'smākaṃ kulastamba āsīt svakulavardhanaḥ ||
यानि पश्यसि वै ब्रह्मन् मूलानीहास्य वीरुधः । (२३।१)
yāni paśyasi vai brahman mūlānīhāsya vīrudhaḥ |
यत् त्वेतत् पश्यसि ब्रह्मन् मूलम् अस्यार्धभक्षितम् । (२४।१)
yat tvetat paśyasi brahman mūlam asyārdhabhakṣitam |
तत्र लम्बामहे सर्वे सो ऽप्येकस्तप आस्थितः ॥ (२४।२)
tatra lambāmahe sarve so 'pyekastapa āsthitaḥ ||
यम् आखुं पश्यसि ब्रह्मन् काल एष महाबलः । (२५।१)
yam ākhuṃ paśyasi brahman kāla eṣa mahābalaḥ |
स तं तपोरतं मन्दं शनैः क्षपयते तुदन् । (२५।२)
sa taṃ taporataṃ mandaṃ śanaiḥ kṣapayate tudan |
जरत्कारुं तपोलुब्धं मन्दात्मानम् अचेतसम् ॥ (२५।३)
jaratkāruṃ tapolubdhaṃ mandātmānam acetasam ||
नरकप्रतिष्ठान् पश्यास्मान् यथा दुष्कृतिनस्तथा ॥ (२६।३)
narakapratiṣṭhān paśyāsmān yathā duṣkṛtinastathā ||
अस्मासु पतितेष्वत्र सह पूर्वैः पितामहैः । (२७।१)
asmāsu patiteṣvatra saha pūrvaiḥ pitāmahaiḥ |
छिन्नः कालेन सो ऽप्यत्र गन्ता वै नरकं ततः ॥ (२७।२)
chinnaḥ kālena so 'pyatra gantā vai narakaṃ tataḥ ||
तपो वाप्यथवा यज्ञो यच्चान्यत् पावनं महत् । (२८।१)
tapo vāpyathavā yajño yaccānyat pāvanaṃ mahat |
तत् सर्वं न समं तात संतत्येति सतां मतम् ॥ (२८।२)
tat sarvaṃ na samaṃ tāta saṃtatyeti satāṃ matam ||
स तात दृष्ट्वा ब्रूयास्त्वं जरत्कारुं तपस्विनम् । (२९।१)
sa tāta dṛṣṭvā brūyāstvaṃ jaratkāruṃ tapasvinam |
यथादृष्टम् इदं चास्मै त्वयाख्येयम् अशेषतः ॥ (२९।२)
yathādṛṣṭam idaṃ cāsmai tvayākhyeyam aśeṣataḥ ||
यथा दारान् प्रकुर्यात् स पुत्रांश्चोत्पादयेद् यथा । (३०।१)
yathā dārān prakuryāt sa putrāṃścotpādayed yathā |
तथा ब्रह्मंस्त्वया वाच्यः सो ऽस्माकं नाथवत्तया । (३०।२)
tathā brahmaṃstvayā vācyaḥ so 'smākaṃ nāthavattayā |
बान्धवानां हितस्येह यथा चात्मकुलं तथा । (३०।३)
bāndhavānāṃ hitasyeha yathā cātmakulaṃ tathā |
कस्त्वं बन्धुम् इवास्माकम् अनुशोचसि सत्तम । (३०।४)
kastvaṃ bandhum ivāsmākam anuśocasi sattama |
श्रोतुम् इच्छाम सर्वेषां को भवान् इह तिष्ठति ॥ (३०।५)
śrotum icchāma sarveṣāṃ ko bhavān iha tiṣṭhati ||
Data courtesy of The Digital Corpus of Sanskrit.