MBh, 1, 171
Select a line for its word-by-word analysis.
उक्तवान् अस्मि यां क्रोधात् प्रतिज्ञां पितरस्तदा । (१।२)
uktavān asmi yāṃ krodhāt pratijñāṃ pitarastadā |
अनिस्तीर्णो हि मां रोषो दहेद् अग्निर् इवारणिम् ॥ (२।२)
anistīrṇo hi māṃ roṣo dahed agnir ivāraṇim ||
यो हि कारणतः क्रोधं संजातं क्षन्तुम् अर्हति । (३।१)
yo hi kāraṇataḥ krodhaṃ saṃjātaṃ kṣantum arhati |
नालं स मनुजः सम्यक् त्रिवर्गं परिरक्षितुम् ॥ (३।२)
nālaṃ sa manujaḥ samyak trivargaṃ parirakṣitum ||
स्थाने रोषः प्रयुक्तः स्यान् नृपैः स्वर्गजिगीषुभिः ॥ (४।२)
sthāne roṣaḥ prayuktaḥ syān nṛpaiḥ svargajigīṣubhiḥ ||
आरावं मातृवर्गस्य भृगूणां क्षत्रियैर् वधे ॥ (५।२)
ārāvaṃ mātṛvargasya bhṛgūṇāṃ kṣatriyair vadhe ||
सामरैर् हि यदा लोकैर् भृगूणां क्षत्रियाधमैः । (६।१)
sāmarair hi yadā lokair bhṛgūṇāṃ kṣatriyādhamaiḥ |
आ गर्भोत्सादनं क्षान्तं तदा मां मन्युर् आविशत् ॥ (६।२)
ā garbhotsādanaṃ kṣāntaṃ tadā māṃ manyur āviśat ||
तान् भृगूणां तदा दारान् कश्चिन् नाभ्यवपद्यत । (८।१)
tān bhṛgūṇāṃ tadā dārān kaścin nābhyavapadyata |
यदा तु प्रतिषेद्धारं पापो न लभते क्वचित् । (१०।१)
yadā tu pratiṣeddhāraṃ pāpo na labhate kvacit |
जानन्न् अपि च यः पापं शक्तिमान् न नियच्छति । (११।१)
jānann api ca yaḥ pāpaṃ śaktimān na niyacchati |
ईशः सन् सो ऽपि तेनैव कर्मणा सम्प्रयुज्यते ॥ (११।२)
īśaḥ san so 'pi tenaiva karmaṇā samprayujyate ||
शक्तैर् न शकितास् त्रातुम् इष्टं मत्वेह जीवितम् ॥ (१२।२)
śaktair na śakitās trātum iṣṭaṃ matveha jīvitam ||
अत एषाम् अहं क्रुद्धो लोकानाम् ईश्वरो ऽद्य सन् । (१३।१)
ata eṣām ahaṃ kruddho lokānām īśvaro 'dya san |
उपेक्षमाणस्य पुनर् लोकानां किल्बिषाद् भयम् ॥ (१४।२)
upekṣamāṇasya punar lokānāṃ kilbiṣād bhayam ||
यश्चायं मन्युजो मे ऽग्निर् लोकान् आदातुम् इच्छति । (१५।१)
yaścāyaṃ manyujo me 'gnir lokān ādātum icchati |
तस्माद् विदध्वं यच्छ्रेयो लोकानां मम चेश्वराः ॥ (१६।२)
tasmād vidadhvaṃ yacchreyo lokānāṃ mama ceśvarāḥ ||
य एष मन्युजस्ते ऽग्निर् लोकान् आदातुम् इच्छति । (१७।२)
ya eṣa manyujaste 'gnir lokān ādātum icchati |
अप्सु तं मुञ्च भद्रं ते लोका ह्य् अप्सु प्रतिष्ठिताः । (१७।३)
apsu taṃ muñca bhadraṃ te lokā hy apsu pratiṣṭhitāḥ |
कुरु तात वचो ऽस्माकं मा लोकान् हिंसि चाधुना ॥ (१७।४)
kuru tāta vaco 'smākaṃ mā lokān hiṃsi cādhunā ||
तस्माद् अप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम ॥ (१८।२)
tasmād apsu vimuñcemaṃ krodhāgniṃ dvijasattama ||
मन्युजो ऽग्निर् दहन्न् आपो लोका ह्यापोमयाः स्मृताः ॥ (१९।२)
manyujo 'gnir dahann āpo lokā hyāpomayāḥ smṛtāḥ ||
ततस्तं क्रोधजं तात और्वो ऽग्निं वरुणालये । (२१।२)
tatastaṃ krodhajaṃ tāta aurvo 'gniṃ varuṇālaye |
महद्धयशिरो भूत्वा यत् तद् वेदविदो विदुः । (२२।१)
mahaddhayaśiro bhūtvā yat tad vedavido viduḥ |
तम् अग्निम् उद्गिरन् वक्त्रात् पिबत्यापो महोदधौ ॥ (२२।२)
tam agnim udgiran vaktrāt pibatyāpo mahodadhau ||
तस्मात् त्वम् अपि भद्रं ते न लोकान् हन्तुम् अर्हसि । (२३।१)
tasmāt tvam api bhadraṃ te na lokān hantum arhasi |
पराशर परान् धर्माञ् जानञ् ज्ञानवतां वर ॥ (२३।२)
parāśara parān dharmāñ jānañ jñānavatāṃ vara ||
Data courtesy of The Digital Corpus of Sanskrit.