MBh, 12, 41
Select a line for its word-by-word analysis.
श्रुत्वा युधिष्ठिरो राजाथोत्तरं प्रत्यभाषत ॥ (१।३)
śrutvā yudhiṣṭhiro rājāthottaraṃ pratyabhāṣata ||
धन्याः पाण्डुसुता लोके येषां ब्राह्मणपुंगवाः । (२।१)
dhanyāḥ pāṇḍusutā loke yeṣāṃ brāhmaṇapuṃgavāḥ |
तथ्यान् वाप्यथ वातथ्यान् गुणान् आहुः समागताः ॥ (२।२)
tathyān vāpyatha vātathyān guṇān āhuḥ samāgatāḥ ||
यत्रैवं गुणसम्पन्नान् अस्मान् ब्रूथ विमत्सराः ॥ (३।२)
yatraivaṃ guṇasampannān asmān brūtha vimatsarāḥ ||
शासने ऽस्य प्रिये चैव स्थेयं मत्प्रियकाङ्क्षिभिः ॥ (४।२)
śāsane 'sya priye caiva stheyaṃ matpriyakāṅkṣibhiḥ ||
अस्य शुश्रूषणं कार्यं मया नित्यम् अतन्द्रिणा ॥ (५।२)
asya śuśrūṣaṇaṃ kāryaṃ mayā nityam atandriṇā ||
धृतराष्ट्रे यथापूर्वं वृत्तिं वर्तितुम् अर्हथ ॥ (६।२)
dhṛtarāṣṭre yathāpūrvaṃ vṛttiṃ vartitum arhatha ||
अस्यैव पृथिवी कृत्स्ना पाण्डवाः सर्व एव च । (७।२)
asyaiva pṛthivī kṛtsnā pāṇḍavāḥ sarva eva ca |
मन्त्रे च निश्चये चैव षाड्गुण्यस्य च चिन्तने । (९।१)
mantre ca niścaye caiva ṣāḍguṇyasya ca cintane |
विदुरं बुद्धिसम्पन्नं प्रीतिमान् वै समादिशत् ॥ (९।२)
viduraṃ buddhisampannaṃ prītimān vai samādiśat ||
संजयं योजयामास ऋद्धम् ऋद्धैर् गुणैर् युतम् ॥ (१०।२)
saṃjayaṃ yojayāmāsa ṛddham ṛddhair guṇair yutam ||
नकुलं व्यादिशद् राजा कर्मिणाम् अन्ववेक्षणे ॥ (११।२)
nakulaṃ vyādiśad rājā karmiṇām anvavekṣaṇe ||
युधिष्ठिरो महाराजः फल्गुनं व्यादिदेश ह ॥ (१२।२)
yudhiṣṭhiro mahārājaḥ phalgunaṃ vyādideśa ha ||
द्विजानां वेदकार्येषु कार्येष्वन्येषु चैव हि । (१३।१)
dvijānāṃ vedakāryeṣu kāryeṣvanyeṣu caiva hi |
धौम्यं पुरोधसां श्रेष्ठं व्यादिदेश परंतपः ॥ (१३।२)
dhaumyaṃ purodhasāṃ śreṣṭhaṃ vyādideśa paraṃtapaḥ ||
तेन गोप्यो हि नृपतिः सर्वावस्थो विशां पते ॥ (१४।२)
tena gopyo hi nṛpatiḥ sarvāvastho viśāṃ pate ||
यान् यान् अमन्यद् योग्यांश्च येषु येष्विह कर्मसु । (१५।१)
yān yān amanyad yogyāṃśca yeṣu yeṣviha karmasu |
तांस्तांस्तेष्वेव युयुजे प्रीयमाणो महीपतिः ॥ (१५।२)
tāṃstāṃsteṣveva yuyuje prīyamāṇo mahīpatiḥ ||
विदुरं संजयं चैव युयुत्सुं च महामतिम् । (१६।१)
viduraṃ saṃjayaṃ caiva yuyutsuṃ ca mahāmatim |
अब्रवीत् परवीरघ्नो धर्मात्मा धर्मवत्सलः ॥ (१६।२)
abravīt paravīraghno dharmātmā dharmavatsalaḥ ||
उत्थायोत्थाय यत् कार्यम् अस्य राज्ञः पितुर् मम । (१७।१)
utthāyotthāya yat kāryam asya rājñaḥ pitur mama |
सर्वं भवद्भिः कर्तव्यम् अप्रमत्तैर् यथातथम् ॥ (१७।२)
sarvaṃ bhavadbhiḥ kartavyam apramattair yathātatham ||
राजानं समनुज्ञाप्य तानि कार्याणि धर्मतः ॥ (१८।२)
rājānaṃ samanujñāpya tāni kāryāṇi dharmataḥ ||
Data courtesy of The Digital Corpus of Sanskrit.