MBh, 16, 6
Select a line for its word-by-word analysis.
दारुको ऽपि कुरून् गत्वा दृष्ट्वा पार्थान्महारथान् । (१।२)
dāruko 'pi kurūn gatvā dṛṣṭvā pārthānmahārathān |
श्रुत्वा विनष्टान् वार्ष्णेयान् सभोजकुकुरान्धकान् । (२।१)
śrutvā vinaṣṭān vārṣṇeyān sabhojakukurāndhakān |
ततो ऽर्जुनस्तान् आमन्त्र्य केशवस्य प्रियः सखा । (३।१)
tato 'rjunastān āmantrya keśavasya priyaḥ sakhā |
प्रययौ मातुलं द्रष्टुं नेदम् अस्तीति चाब्रवीत् ॥ (३।२)
prayayau mātulaṃ draṣṭuṃ nedam astīti cābravīt ||
ददर्श द्वारकां वीरो मृतनाथाम् इव स्त्रियम् ॥ (४।२)
dadarśa dvārakāṃ vīro mṛtanāthām iva striyam ||
तास्त्वनाथास्तदा नाथं पार्थं दृष्ट्वा विचुक्रुशुः ॥ (५।२)
tāstvanāthāstadā nāthaṃ pārthaṃ dṛṣṭvā vicukruśuḥ ||
तासाम् आसीन्महान्नादो दृष्ट्वैवार्जुनम् आगतम् ॥ (६।२)
tāsām āsīnmahānnādo dṛṣṭvaivārjunam āgatam ||
तास्तु दृष्ट्वैव कौरव्यो बाष्पेण पिहितो ऽर्जुनः । (७।१)
tāstu dṛṣṭvaiva kauravyo bāṣpeṇa pihito 'rjunaḥ |
हीनाः कृष्णेन पुत्रैश्च नाशकत् सो ऽभिवीक्षितुम् ॥ (७।२)
hīnāḥ kṛṣṇena putraiśca nāśakat so 'bhivīkṣitum ||
तां स वृष्ण्यन्धकजलां हयमीनां रथोडुपाम् । (८।१)
tāṃ sa vṛṣṇyandhakajalāṃ hayamīnāṃ rathoḍupām |
तां ददर्शार्जुनो धीमान् विहीनां वृष्णिपुंगवैः । (११।१)
tāṃ dadarśārjuno dhīmān vihīnāṃ vṛṣṇipuṃgavaiḥ |
गतश्रियं निरानन्दां पद्मिनीं शिशिरे यथा ॥ (११।२)
gataśriyaṃ nirānandāṃ padminīṃ śiśire yathā ||
तां दृष्ट्वा द्वारकां पार्थस्ताश्च कृष्णस्य योषितः । (१२।१)
tāṃ dṛṣṭvā dvārakāṃ pārthastāśca kṛṣṇasya yoṣitaḥ |
सात्राजिती ततः सत्या रुक्मिणी च विशां पते । (१३।१)
sātrājitī tataḥ satyā rukmiṇī ca viśāṃ pate |
ततस्ताः काञ्चने पीठे समुत्थायोपवेश्य च । (१४।१)
tatastāḥ kāñcane pīṭhe samutthāyopaveśya ca |
अब्रुवन्त्यो महात्मानं परिवार्योपतस्थिरे ॥ (१४।२)
abruvantyo mahātmānaṃ parivāryopatasthire ||
ततः संस्तूय गोविन्दं कथयित्वा च पाण्डवः । (१५।१)
tataḥ saṃstūya govindaṃ kathayitvā ca pāṇḍavaḥ |
आश्वास्य ताः स्त्रियश्चापि मातुलं द्रष्टुम् अभ्यगात् ॥ (१५।२)
āśvāsya tāḥ striyaścāpi mātulaṃ draṣṭum abhyagāt ||
Data courtesy of The Digital Corpus of Sanskrit.