MBh, 3, 211
Select a line for its word-by-word analysis.
अग्निः पुष्टिमतिर् नाम तुष्टः पुष्टिं प्रयच्छति । (१।३)
agniḥ puṣṭimatir nāma tuṣṭaḥ puṣṭiṃ prayacchati |
अग्निर् यस् तु शिवो नाम शक्तिपूजापरश् च सः । (२।१)
agnir yas tu śivo nāma śaktipūjāparaś ca saḥ |
दुःखार्तानां स सर्वेषां शिवकृत् सततं शिवः ॥ (२।२)
duḥkhārtānāṃ sa sarveṣāṃ śivakṛt satataṃ śivaḥ ||
तपसस् तु फलं दृष्ट्वा सम्प्रवृद्धं तपो महत् । (३।१)
tapasas tu phalaṃ dṛṣṭvā sampravṛddhaṃ tapo mahat |
उद्धर्तुकामो मतिमान् पुत्रो जज्ञे पुरंदरः ॥ (३।२)
uddhartukāmo matimān putro jajñe puraṃdaraḥ ||
ऊष्मा चैवोष्मणो जज्ञे सो ऽग्निर् भूतेषु लक्ष्यते । (४।१)
ūṣmā caivoṣmaṇo jajñe so 'gnir bhūteṣu lakṣyate |
अग्निश्चापि मनुर् नाम प्राजापत्यम् अकारयत् ॥ (४।२)
agniścāpi manur nāma prājāpatyam akārayat ||
शम्भुम् अग्निम् अथ प्राहुर् ब्राह्मणा वेदपारगाः । (५।१)
śambhum agnim atha prāhur brāhmaṇā vedapāragāḥ |
आवसथ्यं द्विजाः प्राहुर् दीप्तम् अग्निं महाप्रभम् ॥ (५।२)
āvasathyaṃ dvijāḥ prāhur dīptam agniṃ mahāprabham ||
प्रशान्ते ऽग्निर् महाभाग परिश्रान्तो गवांपतिः । (७।१)
praśānte 'gnir mahābhāga pariśrānto gavāṃpatiḥ |
असुराञ्जनयन् घोरान् मर्त्यांश्चैव पृथग्विधान् ॥ (७।२)
asurāñjanayan ghorān martyāṃścaiva pṛthagvidhān ||
तपसश् च मनुं पुत्रं भानुं चाप्यङ्गिरासृजत् । (८।१)
tapasaś ca manuṃ putraṃ bhānuṃ cāpyaṅgirāsṛjat |
बृहद्भानुं तु तं प्राहुर् ब्राह्मणा वेदपारगाः ॥ (८।२)
bṛhadbhānuṃ tu taṃ prāhur brāhmaṇā vedapāragāḥ ||
भानोर् भार्या सुप्रजा तु बृहद्भासा तु सोमजा । (९।१)
bhānor bhāryā suprajā tu bṛhadbhāsā tu somajā |
असृजेतां तु षट् पुत्राञ्शृणु तासां प्रजाविधिम् ॥ (९।२)
asṛjetāṃ tu ṣaṭ putrāñśṛṇu tāsāṃ prajāvidhim ||
दुर्बलानां तु भूतानां तनुं यः सम्प्रयच्छति । (१०।१)
durbalānāṃ tu bhūtānāṃ tanuṃ yaḥ samprayacchati |
तम् अग्निं बलदं प्राहुः प्रथमं भानुतः सुतम् ॥ (१०।२)
tam agniṃ baladaṃ prāhuḥ prathamaṃ bhānutaḥ sutam ||
यः प्रशान्तेषु भूतेषु मन्युर् भवति दारुणः । (११।१)
yaḥ praśānteṣu bhūteṣu manyur bhavati dāruṇaḥ |
अग्निः स मन्युमान् नाम द्वितीयो भानुतः सुतः ॥ (११।२)
agniḥ sa manyumān nāma dvitīyo bhānutaḥ sutaḥ ||
दर्शे च पौर्णमासे च यस्येह हविर् उच्यते । (१२।१)
darśe ca paurṇamāse ca yasyeha havir ucyate |
विष्णुर् नामेह यो ऽग्निस् तु धृतिमान् नाम सो ऽङ्गिराः ॥ (१२।२)
viṣṇur nāmeha yo 'gnis tu dhṛtimān nāma so 'ṅgirāḥ ||
इन्द्रेण सहितं यस्य हविर् आग्रयणं स्मृतम् । (१३।१)
indreṇa sahitaṃ yasya havir āgrayaṇaṃ smṛtam |
अग्निर् आग्रयणो नाम भानोर् एवान्वयस् तु सः ॥ (१३।२)
agnir āgrayaṇo nāma bhānor evānvayas tu saḥ ||
चातुर्मास्येषु नित्यानां हविषां यो निरग्रहः । (१४।१)
cāturmāsyeṣu nityānāṃ haviṣāṃ yo niragrahaḥ |
चतुर्भिः सहितः पुत्रैर् भानोर् एवान्वयस् तु सः ॥ (१४।२)
caturbhiḥ sahitaḥ putrair bhānor evānvayas tu saḥ ||
निशां त्वजनयत् कन्याम् अग्नीषोमावुभौ तथा । (१५।१)
niśāṃ tvajanayat kanyām agnīṣomāvubhau tathā |
मनोर् एवाभवद् भार्या सुषुवे पञ्च पावकान् ॥ (१५।२)
manor evābhavad bhāryā suṣuve pañca pāvakān ||
पूज्यते हविषाग्र्येण चातुर्मास्येषु पावकः । (१६।१)
pūjyate haviṣāgryeṇa cāturmāsyeṣu pāvakaḥ |
पर्जन्यसहितः श्रीमान् अग्निर् वैश्वानरस् तु सः ॥ (१६।२)
parjanyasahitaḥ śrīmān agnir vaiśvānaras tu saḥ ||
अस्य लोकस्य सर्वस्य यः पतिः परिपठ्यते । (१७।१)
asya lokasya sarvasya yaḥ patiḥ paripaṭhyate |
सो ऽग्निर् विश्वपतिर् नाम द्वितीयो वै मनोः सुतः । (१७।२)
so 'gnir viśvapatir nāma dvitīyo vai manoḥ sutaḥ |
ततः स्विष्टं भवेद् आज्यं स्विष्टकृत् परमः स्मृतः ॥ (१७।३)
tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ ||
कर्मणासौ बभौ भार्या स वह्निः स प्रजापतिः ॥ (१८।२)
karmaṇāsau babhau bhāryā sa vahniḥ sa prajāpatiḥ ||
प्राणम् आश्रित्य यो देहं प्रवर्तयति देहिनाम् । (१९।१)
prāṇam āśritya yo dehaṃ pravartayati dehinām |
शुक्लकृष्णगतिर् देवो यो बिभर्ति हुताशनम् । (२०।१)
śuklakṛṣṇagatir devo yo bibharti hutāśanam |
अकल्मषः कल्मषाणां कर्ता क्रोधाश्रितस् तु सः ॥ (२०।२)
akalmaṣaḥ kalmaṣāṇāṃ kartā krodhāśritas tu saḥ ||
कपिलं परमर्षिं च यं प्राहुर् यतयः सदा । (२१।१)
kapilaṃ paramarṣiṃ ca yaṃ prāhur yatayaḥ sadā |
अग्निः स कपिलो नाम सांख्ययोगप्रवर्तकः ॥ (२१।२)
agniḥ sa kapilo nāma sāṃkhyayogapravartakaḥ ||
अग्निर् यच्छति भूतानि येन भूतानि नित्यदा । (२२।१)
agnir yacchati bhūtāni yena bhūtāni nityadā |
कर्मस्विह विचित्रेषु सो ऽग्रणीर् वह्निर् उच्यते ॥ (२२।२)
karmasviha vicitreṣu so 'graṇīr vahnir ucyate ||
इमान् अन्यान् समसृजत् पावकान् प्रथितान् भुवि । (२३।१)
imān anyān samasṛjat pāvakān prathitān bhuvi |
अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थम् उल्बणान् ॥ (२३।२)
agnihotrasya duṣṭasya prāyaścittārtham ulbaṇān ||
संस्पृशेयुर् यदान्योन्यं कथंचिद् वायुनाग्नयः । (२४।१)
saṃspṛśeyur yadānyonyaṃ kathaṃcid vāyunāgnayaḥ |
इष्टिर् अष्टाकपालेन कार्या वै शुचये ऽग्नये ॥ (२४।२)
iṣṭir aṣṭākapālena kāryā vai śucaye 'gnaye ||
दक्षिणाग्निर् यदा द्वाभ्यां संसृजेत तदा किल । (२५।१)
dakṣiṇāgnir yadā dvābhyāṃ saṃsṛjeta tadā kila |
इष्टिर् अष्टाकपालेन कार्या वै वीतये ऽग्नये ॥ (२५।२)
iṣṭir aṣṭākapālena kāryā vai vītaye 'gnaye ||
यद्यग्नयो हि स्पृश्येयुर् निवेशस्था दवाग्निना । (२६।१)
yadyagnayo hi spṛśyeyur niveśasthā davāgninā |
इष्टिर् अष्टाकपालेन कार्या तु शुचये ऽग्नये ॥ (२६।२)
iṣṭir aṣṭākapālena kāryā tu śucaye 'gnaye ||
अग्निं रजस्वला चेत् स्त्री संस्पृशेद् अग्निहोत्रिकम् । (२७।१)
agniṃ rajasvalā cet strī saṃspṛśed agnihotrikam |
इष्टिर् अष्टाकपालेन कार्या दस्युमते ऽग्नये ॥ (२७।२)
iṣṭir aṣṭākapālena kāryā dasyumate 'gnaye ||
इष्टिर् अष्टाकपालेन कर्तव्याभिमते ऽग्नये ॥ (२८।२)
iṣṭir aṣṭākapālena kartavyābhimate 'gnaye ||
आर्तो न जुहुयाद् अग्निं त्रिरात्रं यस् तु ब्राह्मणः । (२९।१)
ārto na juhuyād agniṃ trirātraṃ yas tu brāhmaṇaḥ |
इष्टिर् अष्टाकपालेन कार्या स्याद् उत्तराग्नये ॥ (२९।२)
iṣṭir aṣṭākapālena kāryā syād uttarāgnaye ||
दर्शं च पौर्णमासं च यस्य तिष्ठेत् प्रतिष्ठितम् । (३०।१)
darśaṃ ca paurṇamāsaṃ ca yasya tiṣṭhet pratiṣṭhitam |
इष्टिर् अष्टाकपालेन कार्या पथिकृते ऽग्नये ॥ (३०।२)
iṣṭir aṣṭākapālena kāryā pathikṛte 'gnaye ||
सूतिकाग्निर् यदा चाग्निं संस्पृशेद् अग्निहोत्रिकम् । (३१।१)
sūtikāgnir yadā cāgniṃ saṃspṛśed agnihotrikam |
इष्टिर् अष्टाकपालेन कार्या चाग्निमते ऽग्नये ॥ (३१।२)
iṣṭir aṣṭākapālena kāryā cāgnimate 'gnaye ||
Data courtesy of The Digital Corpus of Sanskrit.