महाभारतMahābhārata

MBh, 2, 35

261 of 1995 · 61 verses

Select a line for its word-by-word analysis.

1.1१.१

वैशंपायन उवाच । (१।१)

vaiśaṃpāyana uvāca

1.2१.२

ततो युधिष्ठिरो राजा शिशुपालम् उपाद्रवत् । (१।२)

tato yudhiṣṭhiro rājā śiśupālam upādravat |

1.3१.३

उवाच चैनं मधुरं सान्त्वपूर्वम् इदं वचः ॥ (१।३)

uvāca cainaṃ madhuraṃ sāntvapūrvam idaṃ vacaḥ ||

2.1२.१

नेदं युक्तं महीपाल यादृशं वै त्वम् उक्तवान् । (२।१)

nedaṃ yuktaṃ mahīpāla yādṛśaṃ vai tvam uktavān |

2.2२.२

अधर्मश्च परो राजन् पारुष्यं च निरर्थकम् ॥ (२।२)

adharmaśca paro rājan pāruṣyaṃ ca nirarthakam ||

3.1३.१

न हि धर्मं परं जातु नावबुध्येत पार्थिव । (३।१)

na hi dharmaṃ paraṃ jātu nāvabudhyeta pārthiva |

3.2३.२

भीष्मः शांतनवस्त्वेनं मावमंस्था अतो ऽन्यथा ॥ (३।२)

bhīṣmaḥ śāṃtanavastvenaṃ māvamaṃsthā ato 'nyathā ||

4.1४.१

पश्य चेमान्महीपालांस्त्वत्तो वृद्धतमान् बहून् । (४।१)

paśya cemānmahīpālāṃstvatto vṛddhatamān bahūn |

4.2४.२

मृष्यन्ते चार्हणां कृष्णे तद्वत् त्वं क्षन्तुम् अर्हसि ॥ (४।२)

mṛṣyante cārhaṇāṃ kṛṣṇe tadvat tvaṃ kṣantum arhasi ||

5.1५.१

वेद तत्त्वेन कृष्णं हि भीष्मश्चेदिपते भृशम् । (५।१)

veda tattvena kṛṣṇaṃ hi bhīṣmaścedipate bhṛśam |

5.2५.२

न ह्येनं त्वं तथा वेत्थ यथैनं वेद कौरवः ॥ (५।२)

na hyenaṃ tvaṃ tathā vettha yathainaṃ veda kauravaḥ ||

6.1६.१

भीष्म उवाच । (६।१)

bhīṣma uvāca

6.2६.२

नास्मा अनुनयो देयो नायम् अर्हति सान्त्वनम् । (६।२)

nāsmā anunayo deyo nāyam arhati sāntvanam |

6.3६.३

लोकवृद्धतमे कृष्णे यो ऽर्हणां नानुमन्यते ॥ (६।३)

lokavṛddhatame kṛṣṇe yo 'rhaṇāṃ nānumanyate ||

7.1७.१

क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः । (७।१)

kṣatriyaḥ kṣatriyaṃ jitvā raṇe raṇakṛtāṃ varaḥ |

7.2७.२

यो मुञ्चति वशे कृत्वा गुरुर् भवति तस्य सः ॥ (७।२)

yo muñcati vaśe kṛtvā gurur bhavati tasya saḥ ||

8.1८.१

अस्यां च समितौ राज्ञाम् एकम् अप्यजितं युधि । (८।१)

asyāṃ ca samitau rājñām ekam apyajitaṃ yudhi |

8.2८.२

न पश्यामि महीपालं सात्वतीपुत्रतेजसा ॥ (८।२)

na paśyāmi mahīpālaṃ sātvatīputratejasā ||

9.1९.१

न हि केवलम् अस्माकम् अयम् अर्च्यतमो ऽच्युतः । (९।१)

na hi kevalam asmākam ayam arcyatamo 'cyutaḥ |

9.2९.२

त्रयाणाम् अपि लोकानाम् अर्चनीयो जनार्दनः ॥ (९।२)

trayāṇām api lokānām arcanīyo janārdanaḥ ||

10.1१०.१

कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः । (१०।१)

kṛṣṇena hi jitā yuddhe bahavaḥ kṣatriyarṣabhāḥ |

10.2१०.२

जगत् सर्वं च वार्ष्णेये निखिलेन प्रतिष्ठितम् ॥ (१०।२)

jagat sarvaṃ ca vārṣṇeye nikhilena pratiṣṭhitam ||

11.1११.१

तस्मात् सत्स्वपि वृद्धेषु कृष्णम् अर्चाम नेतरान् । (११।१)

tasmāt satsvapi vṛddheṣu kṛṣṇam arcāma netarān |

11.2११.२

एवं वक्तुं न चार्हस्त्वं मा भूत् ते बुद्धिर् ईदृशी ॥ (११।२)

evaṃ vaktuṃ na cārhastvaṃ mā bhūt te buddhir īdṛśī ||

12.1१२.१

ज्ञानवृद्धा मया राजन् बहवः पर्युपासिताः । (१२।१)

jñānavṛddhā mayā rājan bahavaḥ paryupāsitāḥ |

12.2१२.२

तेषां कथयतां शौरेर् अहं गुणवतो गुणान् । (१२।२)

teṣāṃ kathayatāṃ śaurer ahaṃ guṇavato guṇān |

12.3१२.३

समागतानाम् अश्रौषं बहून् बहुमतान् सताम् ॥ (१२।३)

samāgatānām aśrauṣaṃ bahūn bahumatān satām ||

13.1१३.१

कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः । (१३।१)

karmāṇyapi ca yānyasya janmaprabhṛti dhīmataḥ |

13.2१३.२

बहुशः कथ्यमानानि नरैर् भूयः श्रुतानि मे ॥ (१३।२)

bahuśaḥ kathyamānāni narair bhūyaḥ śrutāni me ||

14.1१४.१

न केवलं वयं कामाच्चेदिराज जनार्दनम् । (१४।१)

na kevalaṃ vayaṃ kāmāccedirāja janārdanam |

14.2१४.२

न संबन्धं पुरस्कृत्य कृतार्थं वा कथंचन ॥ (१४।२)

na saṃbandhaṃ puraskṛtya kṛtārthaṃ vā kathaṃcana ||

15.1१५.१

अर्चामहे ऽर्चितं सद्भिर् भुवि भौमसुखावहम् । (१५।१)

arcāmahe 'rcitaṃ sadbhir bhuvi bhaumasukhāvaham |

15.2१५.२

यशः शौर्यं जयं चास्य विज्ञायार्चां प्रयुज्महे ॥ (१५।२)

yaśaḥ śauryaṃ jayaṃ cāsya vijñāyārcāṃ prayujmahe ||

16.1१६.१

न हि कश्चिद् इहास्माभिः सुबालो ऽप्यपरीक्षितः । (१६।१)

na hi kaścid ihāsmābhiḥ subālo 'pyaparīkṣitaḥ |

16.2१६.२

गुणैर् वृद्धान् अतिक्रम्य हरिर् अर्च्यतमो मतः ॥ (१६।२)

guṇair vṛddhān atikramya harir arcyatamo mataḥ ||

17.1१७.१

ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः । (१७।१)

jñānavṛddho dvijātīnāṃ kṣatriyāṇāṃ balādhikaḥ |

17.2१७.२

पूज्ये ताविह गोविन्दे हेतू द्वावपि संस्थितौ ॥ (१७।२)

pūjye tāviha govinde hetū dvāvapi saṃsthitau ||

18.1१८.१

वेदवेदाङ्गविज्ञानं बलं चाप्यमितं तथा । (१८।१)

vedavedāṅgavijñānaṃ balaṃ cāpyamitaṃ tathā |

18.2१८.२

नृणां हि लोके कस्यास्ति विशिष्टं केशवाद् ऋते ॥ (१८।२)

nṛṇāṃ hi loke kasyāsti viśiṣṭaṃ keśavād ṛte ||

19.1१९.१

दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर् बुद्धिर् उत्तमा । (१९।१)

dānaṃ dākṣyaṃ śrutaṃ śauryaṃ hrīḥ kīrtir buddhir uttamā |

19.2१९.२

संनतिः श्रीर् धृतिस्तुष्टिः पुष्टिश्च नियताच्युते ॥ (१९।२)

saṃnatiḥ śrīr dhṛtistuṣṭiḥ puṣṭiśca niyatācyute ||

20.1२०.१

तम् इमं सर्वसम्पन्नम् आचार्यं पितरं गुरुम् । (२०।१)

tam imaṃ sarvasampannam ācāryaṃ pitaraṃ gurum |

20.2२०.२

अर्च्यम् अर्चितम् अर्चार्हं सर्वे संमन्तुम् अर्हथ ॥ (२०।२)

arcyam arcitam arcārhaṃ sarve saṃmantum arhatha ||

21.1२१.१

ऋत्विग् गुरुर् विवाह्यश्च स्नातको नृपतिः प्रियः । (२१।१)

ṛtvig gurur vivāhyaśca snātako nṛpatiḥ priyaḥ |

21.2२१.२

सर्वम् एतद्धृषीकेशे तस्माद् अभ्यर्चितो ऽच्युतः ॥ (२१।२)

sarvam etaddhṛṣīkeśe tasmād abhyarcito 'cyutaḥ ||

22.1२२.१

कृष्ण एव हि लोकानाम् उत्पत्तिर् अपि चाप्ययः । (२२।१)

kṛṣṇa eva hi lokānām utpattir api cāpyayaḥ |

22.2२२.२

कृष्णस्य हि कृते भूतम् इदं विश्वं समर्पितम् ॥ (२२।२)

kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ samarpitam ||

23.1२३.१

एष प्रकृतिर् अव्यक्ता कर्ता चैव सनातनः । (२३।१)

eṣa prakṛtir avyaktā kartā caiva sanātanaḥ |

23.2२३.२

परश्च सर्वभूतेभ्यस्तस्माद् वृद्धतमो ऽच्युतः ॥ (२३।२)

paraśca sarvabhūtebhyastasmād vṛddhatamo 'cyutaḥ ||

24.1२४.१

बुद्धिर् मनो महान् वायुस्तेजो ऽम्भः खं मही च या । (२४।१)

buddhir mano mahān vāyustejo 'mbhaḥ khaṃ mahī ca yā |

24.2२४.२

चतुर्विधं च यद् भूतं सर्वं कृष्णे प्रतिष्ठितम् ॥ (२४।२)

caturvidhaṃ ca yad bhūtaṃ sarvaṃ kṛṣṇe pratiṣṭhitam ||

25.1२५.१

आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये । (२५।१)

ādityaścandramāścaiva nakṣatrāṇi grahāśca ye |

25.2२५.२

दिशश्चोपदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम् ॥ (२५।२)

diśaścopadiśaścaiva sarvaṃ kṛṣṇe pratiṣṭhitam ||

26.1२६.१

अयं तु पुरुषो बालः शिशुपालो न बुध्यते । (२६।१)

ayaṃ tu puruṣo bālaḥ śiśupālo na budhyate |

26.2२६.२

सर्वत्र सर्वदा कृष्णं तस्माद् एवं प्रभाषते ॥ (२६।२)

sarvatra sarvadā kṛṣṇaṃ tasmād evaṃ prabhāṣate ||

27.1२७.१

यो हि धर्मं विचिनुयाद् उत्कृष्टं मतिमान्नरः । (२७।१)

yo hi dharmaṃ vicinuyād utkṛṣṭaṃ matimānnaraḥ |

27.2२७.२

स वै पश्येद् यथाधर्मं न तथा चेदिराड् अयम् ॥ (२७।२)

sa vai paśyed yathādharmaṃ na tathā cedirāḍ ayam ||

28.1२८.१

सवृद्धबालेष्वथ वा पार्थिवेषु महात्मसु । (२८।१)

savṛddhabāleṣvatha vā pārthiveṣu mahātmasu |

28.2२८.२

को नार्हं मन्यते कृष्णं को वाप्येनं न पूजयेत् ॥ (२८।२)

ko nārhaṃ manyate kṛṣṇaṃ ko vāpyenaṃ na pūjayet ||

29.1२९.१

अथेमां दुष्कृतां पूजां शिशुपालो व्यवस्यति । (२९।१)

athemāṃ duṣkṛtāṃ pūjāṃ śiśupālo vyavasyati |

29.2२९.२

दुष्कृतायां यथान्यायं तथायं कर्तुम् अर्हति ॥ (२९।२)

duṣkṛtāyāṃ yathānyāyaṃ tathāyaṃ kartum arhati ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 2, 35

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit