MBh, 14, 80
Select a line for its word-by-word analysis.
तथा विलप्योपरता भर्तुः पादौ प्रगृह्य सा । (१।२)
tathā vilapyoparatā bhartuḥ pādau pragṛhya sā |
उपविष्टाभवद् देवी सोच्छ्वासं पुत्रम् ईक्षती ॥ (१।३)
upaviṣṭābhavad devī socchvāsaṃ putram īkṣatī ||
ततः संज्ञां पुनर् लब्ध्वा स राजा बभ्रुवाहनः । (२।१)
tataḥ saṃjñāṃ punar labdhvā sa rājā babhruvāhanaḥ |
निहन्तारं रणे ऽरीणां सर्वशस्त्रभृतां वरम् । (४।१)
nihantāraṃ raṇe 'rīṇāṃ sarvaśastrabhṛtāṃ varam |
मया विनिहतं संख्ये प्रेक्षते दुर्मरं बत ॥ (४।२)
mayā vinihataṃ saṃkhye prekṣate durmaraṃ bata ||
अहो ऽस्या हृदयं देव्या दृढं यन्न विदीर्यते । (५।१)
aho 'syā hṛdayaṃ devyā dṛḍhaṃ yanna vidīryate |
व्यूढोरस्कं महाबाहुं प्रेक्षन्त्या निहतं पतिम् ॥ (५।२)
vyūḍhoraskaṃ mahābāhuṃ prekṣantyā nihataṃ patim ||
यत्र नाहं न मे माता विप्रयुज्येत जीवितात् ॥ (६।२)
yatra nāhaṃ na me mātā viprayujyeta jīvitāt ||
अहो धिक् कुरुवीरस्य ह्युरःस्थं काञ्चनं भुवि । (७।१)
aho dhik kuruvīrasya hyuraḥsthaṃ kāñcanaṃ bhuvi |
भो भो पश्यत मे वीरं पितरं ब्राह्मणा भुवि । (८।१)
bho bho paśyata me vīraṃ pitaraṃ brāhmaṇā bhuvi |
ब्राह्मणाः कुरुमुख्यस्य प्रयुक्ता हयसारिणः । (९।१)
brāhmaṇāḥ kurumukhyasya prayuktā hayasāriṇaḥ |
कुर्वन्तु शान्तिकां त्वद्य रणे यो ऽयं मया हतः ॥ (९।२)
kurvantu śāntikāṃ tvadya raṇe yo 'yaṃ mayā hataḥ ||
व्यादिशन्तु च किं विप्राः प्रायश्चित्तम् इहाद्य मे । (१०।१)
vyādiśantu ca kiṃ viprāḥ prāyaścittam ihādya me |
दुश्चरा द्वादश समा हत्वा पितरम् अद्य वै । (११।१)
duścarā dvādaśa samā hatvā pitaram adya vai |
शिरःकपाले चास्यैव भुञ्जतः पितुर् अद्य मे । (१२।१)
śiraḥkapāle cāsyaiva bhuñjataḥ pitur adya me |
प्रायश्चित्तं हि नास्त्यन्यद्धत्वाद्य पितरं मम ॥ (१२।२)
prāyaścittaṃ hi nāstyanyaddhatvādya pitaraṃ mama ||
कृतं प्रियं मया ते ऽद्य निहत्य समरे ऽर्जुनम् ॥ (१३।२)
kṛtaṃ priyaṃ mayā te 'dya nihatya samare 'rjunam ||
सो ऽहम् अप्यद्य यास्यामि गतिं पितृनिषेविताम् । (१४।१)
so 'ham apyadya yāsyāmi gatiṃ pitṛniṣevitām |
न शक्नोम्यात्मनात्मानम् अहं धारयितुं शुभे ॥ (१४।२)
na śaknomyātmanātmānam ahaṃ dhārayituṃ śubhe ||
सा त्वं मयि मृते मातस्तथा गाण्डीवधन्वनि । (१५।१)
sā tvaṃ mayi mṛte mātastathā gāṇḍīvadhanvani |
उपस्पृश्य महाराज दुःखाद् वचनम् अब्रवीत् ॥ (१६।२)
upaspṛśya mahārāja duḥkhād vacanam abravīt ||
त्वं च मातर् यथा सत्यं ब्रवीमि भुजगोत्तमे ॥ (१७।२)
tvaṃ ca mātar yathā satyaṃ bravīmi bhujagottame ||
यदि नोत्तिष्ठति जयः पिता मे भरतर्षभः । (१८।१)
yadi nottiṣṭhati jayaḥ pitā me bharatarṣabhaḥ |
अस्मिन्न् एव रणोद्देशे शोषयिष्ये कलेवरम् ॥ (१८।२)
asminn eva raṇoddeśe śoṣayiṣye kalevaram ||
न हि मे पितरं हत्वा निष्कृतिर् विद्यते क्वचित् । (१९।१)
na hi me pitaraṃ hatvā niṣkṛtir vidyate kvacit |
नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः ॥ (१९।२)
narakaṃ pratipatsyāmi dhruvaṃ guruvadhārditaḥ ||
वीरं हि क्षत्रियं हत्वा गोशतेन प्रमुच्यते । (२०।१)
vīraṃ hi kṣatriyaṃ hatvā gośatena pramucyate |
पितरं तु निहत्यैवं दुस्तरा निष्कृतिर् मया ॥ (२०।२)
pitaraṃ tu nihatyaivaṃ dustarā niṣkṛtir mayā ||
पिता च मम धर्मात्मा तस्य मे निष्कृतिः कुतः ॥ (२१।२)
pitā ca mama dharmātmā tasya me niṣkṛtiḥ kutaḥ ||
उपस्पृश्याभवत् तूष्णीं प्रायोपेतो महामतिः ॥ (२२।२)
upaspṛśyābhavat tūṣṇīṃ prāyopeto mahāmatiḥ ||
Data courtesy of The Digital Corpus of Sanskrit.