MBh, 3, 182
Select a line for its word-by-word analysis.
मार्कण्डेयं महात्मानमूचुः पाण्डुसुतास् तदा । (१।२)
mārkaṇḍeyaṃ mahātmānamūcuḥ pāṇḍusutās tadā |
माहात्म्यं द्विजमुख्यानां श्रोतुम् इच्छाम कथ्यताम् ॥ (१।३)
māhātmyaṃ dvijamukhyānāṃ śrotum icchāma kathyatām ||
श्रुत्वा दृष्ट्वा च ते तत्र बभूवुर् दीनमानसाः ॥ (७।२)
śrutvā dṛṣṭvā ca te tatra babhūvur dīnamānasāḥ ||
कस्यायम् इति ते सर्वे मार्गमाणास् ततस् ततः । (८।१)
kasyāyam iti te sarve mārgamāṇās tatas tataḥ |
जग्मुश् चारिष्टनेमेस् ते तार्क्ष्यस्याश्रमम् अञ्जसा ॥ (८।२)
jagmuś cāriṣṭanemes te tārkṣyasyāśramam añjasā ||
ते ऽभिवाद्य महात्मानं तं मुनिं संशितव्रतम् । (९।१)
te 'bhivādya mahātmānaṃ taṃ muniṃ saṃśitavratam |
तस्थुः सर्वे स तु मुनिस् तेषां पूजाम् अथाहरत् ॥ (९।२)
tasthuḥ sarve sa tu munis teṣāṃ pūjām athāharat ||
ते तम् ऊचुर् महात्मानं न वयं सत्क्रियां मुने । (१०।१)
te tam ūcur mahātmānaṃ na vayaṃ satkriyāṃ mune |
त्वत्तो ऽर्हाः कर्मदोषेण ब्राह्मणो हिंसितो हि नः ॥ (१०।२)
tvatto 'rhāḥ karmadoṣeṇa brāhmaṇo hiṃsito hi naḥ ||
तान् अब्रवीत् स विप्रर्षिः कथं वो ब्राह्मणो हतः । (११।१)
tān abravīt sa viprarṣiḥ kathaṃ vo brāhmaṇo hataḥ |
क्व चासौ ब्रूत सहिताः पश्यध्वं मे तपोबलम् ॥ (११।२)
kva cāsau brūta sahitāḥ paśyadhvaṃ me tapobalam ||
ते तु तत् सर्वम् अखिलम् आख्यायास्मै यथातथम् । (१२।१)
te tu tat sarvam akhilam ākhyāyāsmai yathātatham |
नापश्यंस् तम् ऋषिं तत्र गतासुं ते समागताः । (१२।२)
nāpaśyaṃs tam ṛṣiṃ tatra gatāsuṃ te samāgatāḥ |
अन्वेषमाणाः सव्रीडाः स्वप्नवद् गतमानसाः ॥ (१२।३)
anveṣamāṇāḥ savrīḍāḥ svapnavad gatamānasāḥ ||
तान् अब्रवीत् तत्र मुनिस् तार्क्ष्यः परपुरंजयः । (१३।१)
tān abravīt tatra munis tārkṣyaḥ parapuraṃjayaḥ |
स्याद् अयं ब्राह्मणः सो ऽथ यो युष्माभिर् विनाशितः । (१३।२)
syād ayaṃ brāhmaṇaḥ so 'tha yo yuṣmābhir vināśitaḥ |
ते तु दृष्ट्वैव तम् ऋषिं विस्मयं परमं गताः । (१४।१)
te tu dṛṣṭvaiva tam ṛṣiṃ vismayaṃ paramaṃ gatāḥ |
महद् आश्चर्यम् इति वै विब्रुवाणा महीपते ॥ (१४।२)
mahad āścaryam iti vai vibruvāṇā mahīpate ||
मृतो ह्ययम् अतो दृष्टः कथं जीवितम् आप्तवान् । (१५।१)
mṛto hyayam ato dṛṣṭaḥ kathaṃ jīvitam āptavān |
किम् एतत् तपसो वीर्यं येनायं जीवितः पुनः । (१५।२)
kim etat tapaso vīryaṃ yenāyaṃ jīvitaḥ punaḥ |
श्रोतुम् इच्छाम विप्रर्षे यदि श्रोतव्यम् इत्युत ॥ (१५।३)
śrotum icchāma viprarṣe yadi śrotavyam ityuta ||
स तान् उवाच नास्माकं मृत्युः प्रभवते नृपाः । (१६।१)
sa tān uvāca nāsmākaṃ mṛtyuḥ prabhavate nṛpāḥ |
कारणं वः प्रवक्ष्यामि हेतुयोगं समासतः ॥ (१६।२)
kāraṇaṃ vaḥ pravakṣyāmi hetuyogaṃ samāsataḥ ||
स्वधर्मम् अनुतिष्ठामस् तस्मान् मृत्युभयं न नः ॥ (१७।२)
svadharmam anutiṣṭhāmas tasmān mṛtyubhayaṃ na naḥ ||
यद् ब्राह्मणानां कुशलं तद् एषां कथयामहे । (१८।१)
yad brāhmaṇānāṃ kuśalaṃ tad eṣāṃ kathayāmahe |
नैषां दुश्चरितं ब्रूमस्तस्मान् मृत्युभयं न नः ॥ (१८।२)
naiṣāṃ duścaritaṃ brūmastasmān mṛtyubhayaṃ na naḥ ||
तेजस्विदेशवासाच्च तस्मान् मृत्युभयं न नः ॥ (१९।२)
tejasvideśavāsācca tasmān mṛtyubhayaṃ na naḥ ||
एतद् वै लेशमात्रं वः समाख्यातं विमत्सराः । (२०।१)
etad vai leśamātraṃ vaḥ samākhyātaṃ vimatsarāḥ |
गच्छध्वं सहिताः सर्वे न पापाद् भयम् अस्ति वः ॥ (२०।२)
gacchadhvaṃ sahitāḥ sarve na pāpād bhayam asti vaḥ ||
एवम् अस्त्विति ते सर्वे प्रतिपूज्य महामुनिम् । (२१।१)
evam astviti te sarve pratipūjya mahāmunim |
Data courtesy of The Digital Corpus of Sanskrit.