MBh, 3, 62
Select a line for its word-by-word analysis.
उवास सार्थः सुमहान् वेलाम् आसाद्य पश्चिमाम् ॥ (५।२)
uvāsa sārthaḥ sumahān velām āsādya paścimām ||
सुप्ते सार्थे परिश्रान्ते हस्तियूथम् उपागमत् । (६।२)
supte sārthe pariśrānte hastiyūtham upāgamat |
मार्गं संरुध्य संसुप्तं पद्मिन्याः सार्थम् उत्तमम् । (७।१)
mārgaṃ saṃrudhya saṃsuptaṃ padminyāḥ sārtham uttamam |
हाहारवं प्रमुञ्चन्तः सार्थिकाः शरणार्थिनः । (८।१)
hāhāravaṃ pramuñcantaḥ sārthikāḥ śaraṇārthinaḥ |
वनगुल्मांश् च धावन्तो निद्रान्धा महतो भयात् । (८।२)
vanagulmāṃś ca dhāvanto nidrāndhā mahato bhayāt |
केचिद् दन्तैः करैः केचित् केचित् पद्भ्यां हता नराः ॥ (८।३)
kecid dantaiḥ karaiḥ kecit kecit padbhyāṃ hatā narāḥ ||
घोरान् नादान् विमुञ्चन्तो निपेतुर् धरणीतले । (१०।१)
ghorān nādān vimuñcanto nipetur dharaṇītale |
वृक्षेष्वासज्य संभग्नाः पतिता विषमेषु च । (१०।२)
vṛkṣeṣvāsajya saṃbhagnāḥ patitā viṣameṣu ca |
तथा तन्निहतं सर्वं समृद्धं सार्थमण्डलम् ॥ (१०।३)
tathā tannihataṃ sarvaṃ samṛddhaṃ sārthamaṇḍalam ||
अथापरेद्युः सम्प्राप्ते हतशिष्टा जनास्तदा । (११।१)
athāparedyuḥ samprāpte hataśiṣṭā janāstadā |
वनगुल्माद्विनिष्क्रम्य शोचन्तो वैशसं कृतम् । (११।२)
vanagulmādviniṣkramya śocanto vaiśasaṃ kṛtam |
भ्रातरं पितरं पुत्रं सखायं च जनाधिप ॥ (११।३)
bhrātaraṃ pitaraṃ putraṃ sakhāyaṃ ca janādhipa ||
अशोचत् तत्र वैदर्भी किं नु मे दुष्कृतं कृतम् । (१२।१)
aśocat tatra vaidarbhī kiṃ nu me duṣkṛtaṃ kṛtam |
यो ऽपि मे निर्जने ऽरण्ये सम्प्राप्तो ऽयं जनार्णवः । (१२।२)
yo 'pi me nirjane 'raṇye samprāpto 'yaṃ janārṇavaḥ |
हतो ऽयं हस्तियूथेन मन्दभाग्यान् ममैव तु ॥ (१२।३)
hato 'yaṃ hastiyūthena mandabhāgyān mamaiva tu ||
प्राप्तव्यं सुचिरं दुःखं मया नूनम् असंशयम् । (१३।१)
prāptavyaṃ suciraṃ duḥkhaṃ mayā nūnam asaṃśayam |
नाप्राप्तकालो म्रियते श्रुतं वृद्धानुशासनम् ॥ (१३।२)
nāprāptakālo mriyate śrutaṃ vṛddhānuśāsanam ||
यन् नाहम् अद्य मृदिता हस्तियूथेन दुःखिता । (१४।१)
yan nāham adya mṛditā hastiyūthena duḥkhitā |
न ह्यदैवकृतं किंचिन् नराणाम् इह विद्यते ॥ (१४।२)
na hyadaivakṛtaṃ kiṃcin narāṇām iha vidyate ||
न च मे बालभावे ऽपि किंचिद् व्यपकृतं कृतम् । (१५।१)
na ca me bālabhāve 'pi kiṃcid vyapakṛtaṃ kṛtam |
कर्मणा मनसा वाचा यद् इदं दुःखम् आगतम् ॥ (१५।२)
karmaṇā manasā vācā yad idaṃ duḥkham āgatam ||
प्रत्याख्याता मया तत्र नलस्यार्थाय देवताः । (१६।२)
pratyākhyātā mayā tatra nalasyārthāya devatāḥ |
नूनं तेषां प्रभावेन वियोगं प्राप्तवत्यहम् ॥ (१६।३)
nūnaṃ teṣāṃ prabhāvena viyogaṃ prāptavatyaham ||
हतशिष्टैः सह तदा ब्राह्मणैर् वेदपारगैः । (१७।३)
hataśiṣṭaiḥ saha tadā brāhmaṇair vedapāragaiḥ |
गच्छन्ती सा चिरात् कालात् पुरम् आसादयन् महत् । (१८।१)
gacchantī sā cirāt kālāt puram āsādayan mahat |
वस्त्रार्धकर्तसंवीता प्रविवेश पुरोत्तमम् ॥ (१८।३)
vastrārdhakartasaṃvītā praviveśa purottamam ||
तां विवर्णां कृशां दीनां मुक्तकेशीम् अमार्जनाम् । (१९।१)
tāṃ vivarṇāṃ kṛśāṃ dīnāṃ muktakeśīm amārjanām |
उन्मत्ताम् इव गच्छन्तीं ददृशुः पुरवासिनः ॥ (१९।२)
unmattām iva gacchantīṃ dadṛśuḥ puravāsinaḥ ||
प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा । (२०।१)
praviśantīṃ tu tāṃ dṛṣṭvā cedirājapurīṃ tadā |
अनुजग्मुस् ततो बाला ग्रामिपुत्राः कुतूहलात् ॥ (२०।२)
anujagmus tato bālā grāmiputrāḥ kutūhalāt ||
सा तैः परिवृतागच्छत् समीपं राजवेश्मनः । (२१।१)
sā taiḥ parivṛtāgacchat samīpaṃ rājaveśmanaḥ |
तां प्रासादगतापश्यद् राजमाता जनैर् वृताम् ॥ (२१।२)
tāṃ prāsādagatāpaśyad rājamātā janair vṛtām ||
सा जनं वारयित्वा तं प्रासादतलम् उत्तमम् । (२२।१)
sā janaṃ vārayitvā taṃ prāsādatalam uttamam |
आरोप्य विस्मिता राजन् दमयन्तीम् अपृच्छत ॥ (२२।२)
āropya vismitā rājan damayantīm apṛcchata ||
भासि विद्युद् इवाभ्रेषु शंस मे कासि कस्य वा ॥ (२३।२)
bhāsi vidyud ivābhreṣu śaṃsa me kāsi kasya vā ||
न हि ते मानुषं रूपं भूषणैर् अपि वर्जितम् । (२४।१)
na hi te mānuṣaṃ rūpaṃ bhūṣaṇair api varjitam |
तच्छ्रुत्वा वचनं तस्या भैमी वचनम् अब्रवीत् । (२५।१)
tacchrutvā vacanaṃ tasyā bhaimī vacanam abravīt |
मानुषीं मां विजानीहि भर्तारं समनुव्रताम् ॥ (२५।२)
mānuṣīṃ māṃ vijānīhi bhartāraṃ samanuvratām ||
सैरन्ध्रीं जातिसम्पन्नां भुजिष्यां कामवासिनीम् । (२६।१)
sairandhrīṃ jātisampannāṃ bhujiṣyāṃ kāmavāsinīm |
असंख्येयगुणो भर्ता मां च नित्यम् अनुव्रतः । (२७।१)
asaṃkhyeyaguṇo bhartā māṃ ca nityam anuvrataḥ |
तस्य दैवात् प्रसङ्गो ऽभूद् अतिमात्रं स्म देवने । (२८।१)
tasya daivāt prasaṅgo 'bhūd atimātraṃ sma devane |
द्यूते स निर्जितश् चैव वनम् एको ऽभ्युपेयिवान् ॥ (२८।२)
dyūte sa nirjitaś caiva vanam eko 'bhyupeyivān ||
आश्वासयन्ती भर्तारम् अहम् अन्वगमं वनम् ॥ (२९।२)
āśvāsayantī bhartāram aham anvagamaṃ vanam ||
स कदाचिद् वने वीरः कस्मिंश्चित् कारणान्तरे । (३०।१)
sa kadācid vane vīraḥ kasmiṃścit kāraṇāntare |
क्षुत्परीतः सुविमनास् तद् अप्येकं व्यसर्जयत् ॥ (३०।२)
kṣutparītaḥ suvimanās tad apyekaṃ vyasarjayat ||
ततो बहुतिथे काले सुप्ताम् उत्सृज्य मां क्वचित् । (३२।१)
tato bahutithe kāle suptām utsṛjya māṃ kvacit |
वाससो ऽर्धं परिच्छिद्य त्यक्तवान् माम् अनागसम् ॥ (३२।२)
vāsaso 'rdhaṃ paricchidya tyaktavān mām anāgasam ||
तं मार्गमाणा भर्तारं दह्यमाना दिनक्षपाः । (३३।१)
taṃ mārgamāṇā bhartāraṃ dahyamānā dinakṣapāḥ |
न विन्दाम्यमरप्रख्यं प्रियं प्राणधनेश्वरम् ॥ (३३।२)
na vindāmyamaraprakhyaṃ priyaṃ prāṇadhaneśvaram ||
ताम् अश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु । (३४।१)
tām aśruparipūrṇākṣīṃ vilapantīṃ tathā bahu |
राजमाताब्रवीद् आर्तां भैमीम् आर्ततरा स्वयम् ॥ (३४।२)
rājamātābravīd ārtāṃ bhaimīm ārtatarā svayam ||
वसस्व मयि कल्याणि प्रीतिर् मे त्वयि वर्तते । (३५।१)
vasasva mayi kalyāṇi prītir me tvayi vartate |
मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम ॥ (३५।२)
mṛgayiṣyanti te bhadre bhartāraṃ puruṣā mama ||
अथ वा स्वयम् आगच्छेत् परिधावन्न् इतस् ततः । (३६।१)
atha vā svayam āgacchet paridhāvann itas tataḥ |
राजमातुर् वचः श्रुत्वा दमयन्ती वचो ऽब्रवीत् । (३७।१)
rājamātur vacaḥ śrutvā damayantī vaco 'bravīt |
उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम् । (३८।१)
ucchiṣṭaṃ naiva bhuñjīyāṃ na kuryāṃ pādadhāvanam |
न चाहं पुरुषान् अन्यान् संभाषेयं कथंचन ॥ (३८।२)
na cāhaṃ puruṣān anyān saṃbhāṣeyaṃ kathaṃcana ||
प्रार्थयेद् यदि मां कश्चिद् दण्ड्यस् ते स पुमान् भवेत् । (३९।१)
prārthayed yadi māṃ kaścid daṇḍyas te sa pumān bhavet |
भर्तुर् अन्वेषणार्थं तु पश्येयं ब्राह्मणान् अहम् ॥ (३९।२)
bhartur anveṣaṇārthaṃ tu paśyeyaṃ brāhmaṇān aham ||
यद्येवम् इह कर्तव्यं वसाम्यहम् असंशयम् । (४०।१)
yadyevam iha kartavyaṃ vasāmyaham asaṃśayam |
अतो ऽन्यथा न मे वासो वर्तते हृदये क्वचित् ॥ (४०।२)
ato 'nyathā na me vāso vartate hṛdaye kvacit ||
सर्वम् एतत् करिष्यामि दिष्ट्या ते व्रतम् ईदृशम् ॥ (४१।२)
sarvam etat kariṣyāmi diṣṭyā te vratam īdṛśam ||
एवम् उक्त्वा ततो भैमीं राजमाता विशां पते । (४२।१)
evam uktvā tato bhaimīṃ rājamātā viśāṃ pate |
सैरन्ध्रीम् अभिजानीष्व सुनन्दे देवरूपिणीम् । (४३।१)
sairandhrīm abhijānīṣva sunande devarūpiṇīm |
Data courtesy of The Digital Corpus of Sanskrit.