महाभारतMahābhārata

MBh, 1, 78

78 of 1995 · 156 verses

Select a line for its word-by-word analysis.

1.1१.१

वैशंपायन उवाच । (१।१)

vaiśaṃpāyana uvāca

1.2१.२

ययातिः । (१।२)

yayātiḥ |

1.3१.३

वैशंपायनः । (१।३)

vaiśaṃpāyanaḥ |

1.4१.४

तस्मिन् नक्षत्रसंयोगे शुक्ले पुण्यर्क्षगेन्दुना । (१।४)

tasmin nakṣatrasaṃyoge śukle puṇyarkṣagendunā |

1.5१.५

स राजा मुमुदे सम्राट् तया शर्मिष्ठया सह । (१।५)

sa rājā mumude samrāṭ tayā śarmiṣṭhayā saha |

1.6१.६

प्रजानां श्रीर् इवाग्र्या मे शर्मिष्ठा ह्यभवद् वधूः । (१।६)

prajānāṃ śrīr ivāgryā me śarmiṣṭhā hyabhavad vadhūḥ |

1.7१.७

पन्नगीवोग्ररूपा वै देवयानी ममाप्यभूत् । (१।७)

pannagīvograrūpā vai devayānī mamāpyabhūt |

1.8१.८

पर्जन्य इव सस्यानां देवानाम् अमृतं यथा । (१।८)

parjanya iva sasyānāṃ devānām amṛtaṃ yathā |

1.9१.९

तद्वन् ममापि सम्भूता शर्मिष्ठा वार्षपर्वणी । (१।९)

tadvan mamāpi sambhūtā śarmiṣṭhā vārṣaparvaṇī |

1.10१.१०

इत्येवं मनसा ध्यात्वा देवयानीम् अवर्जयत् । (१।१०)

ityevaṃ manasā dhyātvā devayānīm avarjayat |

1.11१.११

श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता । (१।११)

śrutvā kumāraṃ jātaṃ tu devayānī śucismitā |

1.12१.१२

चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत ॥ (१।१२)

cintayāmāsa duḥkhārtā śarmiṣṭhāṃ prati bhārata ||

2.1२.१

अभिगम्य च शर्मिष्ठां देवयान्यब्रवीद् इदम् । (२।१)

abhigamya ca śarmiṣṭhāṃ devayānyabravīd idam |

2.2२.२

किम् इदं वृजिनं सुभ्रु कृतं ते कामलुब्धया ॥ (२।२)

kim idaṃ vṛjinaṃ subhru kṛtaṃ te kāmalubdhayā ||

3.1३.१

शर्मिष्ठोवाच । (३।१)

śarmiṣṭhovāca |

3.2३.२

ऋषिर् अभ्यागतः कश्चिद् धर्मात्मा वेदपारगः । (३।२)

ṛṣir abhyāgataḥ kaścid dharmātmā vedapāragaḥ |

3.3३.३

स मया वरदः कामं याचितो धर्मसंहितम् । (३।३)

sa mayā varadaḥ kāmaṃ yācito dharmasaṃhitam |

3.4३.४

अपत्यार्थे स तु मया वृतो वै चारुहासिनि ॥ (३।४)

apatyārthe sa tu mayā vṛto vai cāruhāsini ||

4.1४.१

नाहम् अन्यायतः कामम् आचरामि शुचिस्मिते । (४।१)

nāham anyāyataḥ kāmam ācarāmi śucismite |

4.2४.२

तस्माद् ऋषेर् ममापत्यम् इति सत्यं ब्रवीमि ते ॥ (४।२)

tasmād ṛṣer mamāpatyam iti satyaṃ bravīmi te ||

5.1५.१

देवयान्युवाच । (५।१)

devayānyuvāca |

5.2५.२

शोभनं भीरु सत्यं चेद् अथ स ज्ञायते द्विजः । (५।२)

śobhanaṃ bhīru satyaṃ ced atha sa jñāyate dvijaḥ |

5.3५.३

गोत्रनामाभिजनतो वेत्तुम् इच्छामि तं द्विजम् ॥ (५।३)

gotranāmābhijanato vettum icchāmi taṃ dvijam ||

6.1६.१

शर्मिष्ठोवाच । (६।१)

śarmiṣṭhovāca |

6.2६.२

ओजसा तेजसा चैव दीप्यमानं रविं यथा । (६।२)

ojasā tejasā caiva dīpyamānaṃ raviṃ yathā |

6.3६.३

तं दृष्ट्वा मम संप्रष्टुं शक्तिर् नासीच्छुचिस्मिते ॥ (६।३)

taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīcchucismite ||

7.1७.१

देवयान्युवाच । (७।१)

devayānyuvāca |

7.2७.२

यद्येतद् एवं शर्मिष्ठे न मन्युर् विद्यते मम । (७।२)

yadyetad evaṃ śarmiṣṭhe na manyur vidyate mama |

7.3७.३

अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् ॥ (७।३)

apatyaṃ yadi te labdhaṃ jyeṣṭhācchreṣṭhācca vai dvijāt ||

8.1८.१

वैशंपायन उवाच । (८।१)

vaiśaṃpāyana uvāca

8.2८.२

अन्योन्यम् एवम् उक्त्वा च सम्प्रहस्य च ते मिथः । (८।२)

anyonyam evam uktvā ca samprahasya ca te mithaḥ |

8.3८.३

जगाम भार्गवी वेश्म तथ्यम् इत्येव जज्ञुषी ॥ (८।३)

jagāma bhārgavī veśma tathyam ityeva jajñuṣī ||

9.1९.१

ययातिर् देवयान्यां तु पुत्रावजनयन् नृपः । (९।१)

yayātir devayānyāṃ tu putrāvajanayan nṛpaḥ |

9.2९.२

यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ । (९।२)

yaduṃ ca turvasuṃ caiva śakraviṣṇū ivāparau |

9.3९.३

तस्मिन् काले तु राजर्षिर् ययातिः पृथिवीपतिः । (९।३)

tasmin kāle tu rājarṣir yayātiḥ pṛthivīpatiḥ |

9.4९.४

माध्वीकरसंयुक्तां मदिरां मदवर्धिनीम् । (९।४)

mādhvīkarasaṃyuktāṃ madirāṃ madavardhinīm |

9.5९.५

पाययामास शुक्रस्य तनयां रक्तपिञ्जराम् । (९।५)

pāyayāmāsa śukrasya tanayāṃ raktapiñjarām |

9.6९.६

पीत्वा पीत्वा च मदिरां देवयानी मुमोह सा । (९।६)

pītvā pītvā ca madirāṃ devayānī mumoha sā |

9.7९.७

रुदती गायमाना सा नृत्यन्ती च मुहुर् मुहुः । (९।७)

rudatī gāyamānā sā nṛtyantī ca muhur muhuḥ |

9.8९.८

बहु प्रलपती देवी राजानम् इदम् अब्रवीत् । (९।८)

bahu pralapatī devī rājānam idam abravīt |

9.9९.९

राजवद् रूपवेषौ ते किमर्थं त्वम् इहागतः । (९।९)

rājavad rūpaveṣau te kimarthaṃ tvam ihāgataḥ |

9.10९.१०

केन कार्येण सम्प्राप्तो निर्जनं गहनं वनम् । (९।१०)

kena kāryeṇa samprāpto nirjanaṃ gahanaṃ vanam |

9.11९.११

द्विजश्रेष्ठ नृपश्रेष्ठो ययातिश्चोग्रदर्शनः । (९।११)

dvijaśreṣṭha nṛpaśreṣṭho yayātiścogradarśanaḥ |

9.12९.१२

तस्माद् इतः पलायस्व हितम् इच्छसि चेद् द्विज । (९।१२)

tasmād itaḥ palāyasva hitam icchasi ced dvija |

9.13९.१३

इत्येवं प्रलपन्तीं तां देवयानीं तु नाहुषः । (९।१३)

ityevaṃ pralapantīṃ tāṃ devayānīṃ tu nāhuṣaḥ |

9.14९.१४

भर्त्सयामास वचनैर् अपापां पापवर्धिनीम् । (९।१४)

bhartsayāmāsa vacanair apāpāṃ pāpavardhinīm |

9.15९.१५

ततो वर्षवरान् मूकान् पङ्गून् वृद्धान् सपण्डकान् । (९।१५)

tato varṣavarān mūkān paṅgūn vṛddhān sapaṇḍakān |

9.16९.१६

रक्षणे देवयान्याः स पोषणे च शशास तान् । (९।१६)

rakṣaṇe devayānyāḥ sa poṣaṇe ca śaśāsa tān |

9.17९.१७

ततस्तु नाहुषो राजा शर्मिष्ठां प्राप्य बुद्धिमान् । (९।१७)

tatastu nāhuṣo rājā śarmiṣṭhāṃ prāpya buddhimān |

9.18९.१८

रेमे च सुचिरं कालं तया शर्मिष्ठया सह ॥ (९।१८)

reme ca suciraṃ kālaṃ tayā śarmiṣṭhayā saha ||

10.1१०.१

तस्माद् एव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी । (१०।१)

tasmād eva tu rājarṣeḥ śarmiṣṭhā vārṣaparvaṇī |

10.2१०.२

द्रुह्युं चानुं च पूरुं च त्रीन् कुमारान् अजीजनत् । (१०।२)

druhyuṃ cānuṃ ca pūruṃ ca trīn kumārān ajījanat |

10.3१०.३

शर्मिष्ठाकामुको राजा यदासीत् तद्रताकुलः । (१०।३)

śarmiṣṭhākāmuko rājā yadāsīt tadratākulaḥ |

10.4१०.४

मदिराविवशां कृत्वा रेमे शर्मिष्ठयान्वहम् ॥ (१०।४)

madirāvivaśāṃ kṛtvā reme śarmiṣṭhayānvaham ||

11.1११.१

ततः काले तु कस्मिंश्चिद् देवयानी शुचिस्मिता । (११।१)

tataḥ kāle tu kasmiṃścid devayānī śucismitā |

11.2११.२

ययातिसहिता राजन् निर्जगाम महावनम् ॥ (११।२)

yayātisahitā rājan nirjagāma mahāvanam ||

12.1१२.१

ददर्श च तदा तत्र कुमारान् देवरूपिणः । (१२।१)

dadarśa ca tadā tatra kumārān devarūpiṇaḥ |

12.2१२.२

क्रीडमानान् सुविश्रब्धान् विस्मिता चेदम् अब्रवीत् ॥ (१२।२)

krīḍamānān suviśrabdhān vismitā cedam abravīt ||

13.1१३.१

कस्यैते दारका राजन् देवपुत्रोपमाः शुभाः । (१३।१)

kasyaite dārakā rājan devaputropamāḥ śubhāḥ |

13.2१३.२

वर्चसा रूपतश्चैव सदृशा मे मतास्तव ॥ (१३।२)

varcasā rūpataścaiva sadṛśā me matāstava ||

14.1१४.१

एवं पृष्ट्वा तु राजानं कुमारान् पर्यपृच्छत । (१४।१)

evaṃ pṛṣṭvā tu rājānaṃ kumārān paryapṛcchata |

14.2१४.२

पश्यन्तम् अवनीतलम् । (१४।२)

paśyantam avanītalam |

14.3१४.३

ज्ञात्वा तु तत्कृतं शापम् । (१४।३)

jñātvā tu tatkṛtaṃ śāpam |

14.4१४.४

तस्मिन् काले तु तच्छ्रुत्वा धात्री तेषां वचो ऽब्रवीत् । (१४।४)

tasmin kāle tu tacchrutvā dhātrī teṣāṃ vaco 'bravīt |

14.5१४.५

किं न ब्रूत कुमारा वः पितरं वै द्विजर्षभम् । (१४।५)

kiṃ na brūta kumārā vaḥ pitaraṃ vai dvijarṣabham |

14.6१४.६

किंनामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता । (१४।६)

kiṃnāmadheyagotro vaḥ putrakā brāhmaṇaḥ pitā |

14.7१४.७

प्रब्रूत तत्त्वतः क्षिप्रं कश्चासौ क्व च वर्तते । (१४।७)

prabrūta tattvataḥ kṣipraṃ kaścāsau kva ca vartate |

14.8१४.८

विब्रूत मे यथातथ्यं श्रोतुम् इच्छामि तं ह्यहम् । (१४।८)

vibrūta me yathātathyaṃ śrotum icchāmi taṃ hyaham |

14.9१४.९

एवम् उक्ताः कुमारास्ते देवयान्या सुमध्यया ॥ (१४।९)

evam uktāḥ kumārāste devayānyā sumadhyayā ||

15.1१५.१

ते ऽदर्शयन् प्रदेशिन्या तम् एव नृपसत्तमम् । (१५।१)

te 'darśayan pradeśinyā tam eva nṛpasattamam |

15.2१५.२

शर्मिष्ठां मातरं चैव तस्याचख्युश्च दारकाः । (१५।२)

śarmiṣṭhāṃ mātaraṃ caiva tasyācakhyuśca dārakāḥ |

15.3१५.३

ऋषिश्च ब्राह्मणश्चैव द्विजातिश्चैव नः पिता । (१५।३)

ṛṣiśca brāhmaṇaścaiva dvijātiścaiva naḥ pitā |

15.4१५.४

शर्मिष्ठा नानृतं ब्रूयाद् देवयानि क्षमस्व वै । (१५।४)

śarmiṣṭhā nānṛtaṃ brūyād devayāni kṣamasva vai |

15.5१५.५

तया रहः पृच्छ्यमानास्तथ्यम् ऊचुश्च दारकाः ॥ (१५।५)

tayā rahaḥ pṛcchyamānāstathyam ūcuśca dārakāḥ ||

16.1१६.१

इत्युक्त्वा सहितास्ते तु राजानम् उपचक्रमुः । (१६।१)

ityuktvā sahitāste tu rājānam upacakramuḥ |

16.2१६.२

नाभ्यनन्दत तान् राजा देवयान्यास्तदान्तिके । (१६।२)

nābhyanandata tān rājā devayānyāstadāntike |

16.3१६.३

रुदन्तस्ते ऽथ शर्मिष्ठाम् अभ्ययुर् बालकास्ततः । (१६।३)

rudantaste 'tha śarmiṣṭhām abhyayur bālakāstataḥ |

16.4१६.४

नातिदूराच्च राजानम् अवातिष्ठद् अवाङ्मुखी ॥ (१६।४)

nātidūrācca rājānam avātiṣṭhad avāṅmukhī ||

17.1१७.१

दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति । (१७।१)

dṛṣṭvā tu teṣāṃ bālānāṃ praṇayaṃ pārthivaṃ prati |

17.2१७.२

बुद्ध्वा च तत्त्वतो देवी शर्मिष्ठाम् इदम् अब्रवीत् । (१७।२)

buddhvā ca tattvato devī śarmiṣṭhām idam abravīt |

17.3१७.३

श्रुत्वा तु तेषां बालानां सव्रीड इव पार्थिवः । (१७।३)

śrutvā tu teṣāṃ bālānāṃ savrīḍa iva pārthivaḥ |

17.4१७.४

प्रतिवक्तुम् अशक्तो ऽभूत् तूष्णींभूतो ऽभवन् नृपः । (१७।४)

prativaktum aśakto 'bhūt tūṣṇīṃbhūto 'bhavan nṛpaḥ |

17.5१७.५

गृहीत्वा तु करे रोषाच्छर्मिष्ठां पुनर् अब्रवीत् । (१७।५)

gṛhītvā tu kare roṣāccharmiṣṭhāṃ punar abravīt |

17.6१७.६

देवयान्युवाच । (१७।६)

devayānyuvāca |

17.7१७.७

अभ्यागच्छति मां कश्चिद् ऋषिर् इत्येवम् अब्रवीत् । (१७।७)

abhyāgacchati māṃ kaścid ṛṣir ityevam abravīt |

17.8१७.८

ययातिम् एव नूनं त्वं प्रोत्साहयसि भामिनि । (१७।८)

yayātim eva nūnaṃ tvaṃ protsāhayasi bhāmini |

17.9१७.९

पूर्वम् एव मया प्रोक्तं त्वया तु वृजिनं कृतम् ॥ (१७।९)

pūrvam eva mayā proktaṃ tvayā tu vṛjinaṃ kṛtam ||

18.1१८.१

मदधीना सती कस्माद् अकार्षीर् विप्रियं मम । (१८।१)

madadhīnā satī kasmād akārṣīr vipriyaṃ mama |

18.2१८.२

तम् एवासुरधर्मं त्वम् आस्थिता न बिभेषि किम् ॥ (१८।२)

tam evāsuradharmaṃ tvam āsthitā na bibheṣi kim ||

19.1१९.१

शर्मिष्ठोवाच । (१९।१)

śarmiṣṭhovāca |

19.2१९.२

यद् उक्तम् ऋषिर् इत्येव तत् सत्यं चारुहासिनि । (१९।२)

yad uktam ṛṣir ityeva tat satyaṃ cāruhāsini |

19.3१९.३

न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते ॥ (१९।३)

nyāyato dharmataścaiva carantī na bibhemi te ||

20.1२०.१

यदा त्वया वृतो राजा वृत एव तदा मया । (२०।१)

yadā tvayā vṛto rājā vṛta eva tadā mayā |

20.2२०.२

सखीभर्ता हि धर्मेण भर्ता भवति शोभने ॥ (२०।२)

sakhībhartā hi dharmeṇa bhartā bhavati śobhane ||

21.1२१.१

पूज्यासि मम मान्या च ज्येष्ठा श्रेष्ठा च ब्राह्मणी । (२१।१)

pūjyāsi mama mānyā ca jyeṣṭhā śreṣṭhā ca brāhmaṇī |

21.2२१.२

त्वत्तो ऽपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत् । (२१।२)

tvatto 'pi me pūjyatamo rājarṣiḥ kiṃ na vettha tat |

21.3२१.३

तव पित्रा मे गुरुणा सहदत्ते उभे शुभे । (२१।३)

tava pitrā me guruṇā sahadatte ubhe śubhe |

21.4२१.४

ततो भर्ता च पूज्यश्च पोष्यां पोषयतीह माम् ॥ (२१।४)

tato bhartā ca pūjyaśca poṣyāṃ poṣayatīha mām ||

22.1२२.१

वैशंपायन उवाच । (२२।१)

vaiśaṃpāyana uvāca

22.2२२.२

श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीद् इदम् । (२२।२)

śrutvā tasyāstato vākyaṃ devayānyabravīd idam |

22.3२२.३

राजन् नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया । (२२।३)

rājan nādyeha vatsyāmi vipriyaṃ me kṛtaṃ tvayā |

22.4२२.४

रमस्वेह यथाकामं देव्या शर्मिष्ठया सह । (२२।४)

ramasveha yathākāmaṃ devyā śarmiṣṭhayā saha |

22.5२२.५

प्रतिजज्वाल कोपेन देवयानी तदा भृशम् । (२२।५)

pratijajvāla kopena devayānī tadā bhṛśam |

22.6२२.६

निर्दहन्तीव सव्रीडां शर्मिष्ठां समुदीक्ष्य च । (२२।६)

nirdahantīva savrīḍāṃ śarmiṣṭhāṃ samudīkṣya ca |

22.7२२.७

अपविध्य च सर्वाणि भूषणान्यसितेक्षणा ॥ (२२।७)

apavidhya ca sarvāṇi bhūṣaṇānyasitekṣaṇā ||

23.1२३.१

सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम् । (२३।१)

sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām |

23.2२३.२

त्वरितं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा ॥ (२३।२)

tvaritaṃ sakāśaṃ kāvyasya prasthitāṃ vyathitastadā ||

24.1२४.१

अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन् नृपः । (२४।१)

anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayan nṛpaḥ |

24.2२४.२

न्यवर्तत न चैव स्म क्रोधसंरक्तलोचना ॥ (२४।२)

nyavartata na caiva sma krodhasaṃraktalocanā ||

25.1२५.१

अविब्रुवन्ती किंचित् तु राजानं चारुलोचना । (२५।१)

avibruvantī kiṃcit tu rājānaṃ cārulocanā |

25.2२५.२

अचिराद् इव सम्प्राप्ता काव्यस्योशनसो ऽन्तिकम् ॥ (२५।२)

acirād iva samprāptā kāvyasyośanaso 'ntikam ||

26.1२६.१

सा तु दृष्ट्वैव पितरम् अभिवाद्याग्रतः स्थिता । (२६।१)

sā tu dṛṣṭvaiva pitaram abhivādyāgrataḥ sthitā |

26.2२६.२

अनन्तरं ययातिस्तु पूजयामास भार्गवम् ॥ (२६।२)

anantaraṃ yayātistu pūjayāmāsa bhārgavam ||

27.1२७.१

देवयान्युवाच । (२७।१)

devayānyuvāca |

27.2२७.२

अधर्मेण जितो धर्मः प्रवृत्तम् अधरोत्तरम् । (२७।२)

adharmeṇa jito dharmaḥ pravṛttam adharottaram |

27.3२७.३

शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः ॥ (२७।३)

śarmiṣṭhayātivṛttāsmi duhitrā vṛṣaparvaṇaḥ ||

28.1२८.१

त्रयो ऽस्यां जनिताः पुत्रा राज्ञानेन ययातिना । (२८।१)

trayo 'syāṃ janitāḥ putrā rājñānena yayātinā |

28.2२८.२

दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते ॥ (२८।२)

durbhagāyā mama dvau tu putrau tāta bravīmi te ||

29.1२९.१

धर्मज्ञ इति विख्यात एष राजा भृगूद्वह । (२९।१)

dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha |

29.2२९.२

अतिक्रान्तश्च मर्यादां काव्यैतत् कथयामि ते ॥ (२९।२)

atikrāntaśca maryādāṃ kāvyaitat kathayāmi te ||

30.1३०.१

शुक्र उवाच । (३०।१)

śukra uvāca

30.2३०.२

धर्मज्ञः सन् महाराज यो ऽधर्मम् अकृथाः प्रियम् । (३०।२)

dharmajñaḥ san mahārāja yo 'dharmam akṛthāḥ priyam |

30.3३०.३

तस्माज्जरा त्वाम् अचिराद् धर्षयिष्यति दुर्जया ॥ (३०।३)

tasmājjarā tvām acirād dharṣayiṣyati durjayā ||

31.1३१.१

ययातिर् उवाच । (३१।१)

yayātir uvāca

31.2३१.२

ऋतुं वै याचमानाया भगवन् नान्यचेतसा । (३१।२)

ṛtuṃ vai yācamānāyā bhagavan nānyacetasā |

31.3३१.३

दुहितुर् दानवेन्द्रस्य धर्म्यम् एतत् कृतं मया ॥ (३१।३)

duhitur dānavendrasya dharmyam etat kṛtaṃ mayā ||

32.1३२.१

ऋतुं वै याचमानाया न ददाति पुमान् वृतः । (३२।१)

ṛtuṃ vai yācamānāyā na dadāti pumān vṛtaḥ |

32.2३२.२

भ्रूणहेत्युच्यते ब्रह्मन् स इह ब्रह्मवादिभिः ॥ (३२।२)

bhrūṇahetyucyate brahman sa iha brahmavādibhiḥ ||

33.1३३.१

अभिकामां स्त्रियं यस्तु गम्यां रहसि याचितः । (३३।१)

abhikāmāṃ striyaṃ yastu gamyāṃ rahasi yācitaḥ |

33.2३३.२

नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः । (३३।२)

nopaiti sa ca dharmeṣu bhrūṇahetyucyate budhaiḥ |

33.3३३.३

यद् यद् याचति मां कश्चित् तत् तद् देयम् इति व्रतम् । (३३।३)

yad yad yācati māṃ kaścit tat tad deyam iti vratam |

33.4३३.४

त्वयापि सा च दत्ता मे नान्यं नाथम् इहेच्छति । (३३।४)

tvayāpi sā ca dattā me nānyaṃ nātham ihecchati |

33.5३३.५

मत्वैतन् मम धर्मं तु कृतं ब्रह्मन् क्षमस्व माम् ॥ (३३।५)

matvaitan mama dharmaṃ tu kṛtaṃ brahman kṣamasva mām ||

34.1३४.१

इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह । (३४।१)

ityetāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha |

34.2३४.२

अधर्मभयसंविग्नः शर्मिष्ठाम् उपजग्मिवान् ॥ (३४।२)

adharmabhayasaṃvignaḥ śarmiṣṭhām upajagmivān ||

35.1३५.१

शुक्र उवाच । (३५।१)

śukra uvāca

35.2३५.२

नन्वहं प्रत्यवेक्ष्यस्ते मदधीनो ऽसि पार्थिव । (३५।२)

nanvahaṃ pratyavekṣyaste madadhīno 'si pārthiva |

35.3३५.३

मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष ॥ (३५।३)

mithyācārasya dharmeṣu cauryaṃ bhavati nāhuṣa ||

36.1३६.१

वैशंपायन उवाच । (३६।१)

vaiśaṃpāyana uvāca

36.2३६.२

क्रुद्धेनोशनसा शप्तो ययातिर् नाहुषस्तदा । (३६।२)

kruddhenośanasā śapto yayātir nāhuṣastadā |

36.3३६.३

पूर्वं वयः परित्यज्य जरां सद्यो ऽन्वपद्यत ॥ (३६।३)

pūrvaṃ vayaḥ parityajya jarāṃ sadyo 'nvapadyata ||

37.1३७.१

ययातिर् उवाच । (३७।१)

yayātir uvāca

37.2३७.२

अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह । (३७।२)

atṛpto yauvanasyāhaṃ devayānyāṃ bhṛgūdvaha |

37.3३७.३

प्रसादं कुरु मे ब्रह्मञ् जरेयं मा विशेत माम् ॥ (३७।३)

prasādaṃ kuru me brahmañ jareyaṃ mā viśeta mām ||

38.1३८.१

शुक्र उवाच । (३८।१)

śukra uvāca

38.2३८.२

नाहं मृषा ब्रवीम्येतज्जरां प्राप्तो ऽसि भूमिप । (३८।२)

nāhaṃ mṛṣā bravīmyetajjarāṃ prāpto 'si bhūmipa |

38.3३८.३

जरां त्वेतां त्वम् अन्यस्मै संक्रामय यदीच्छसि ॥ (३८।३)

jarāṃ tvetāṃ tvam anyasmai saṃkrāmaya yadīcchasi ||

39.1३९.१

ययातिर् उवाच । (३९।१)

yayātir uvāca

39.2३९.२

राज्यभाक् स भवेद् ब्रह्मन् पुण्यभाक् कीर्तिभाक् तथा । (३९।२)

rājyabhāk sa bhaved brahman puṇyabhāk kīrtibhāk tathā |

39.3३९.३

यो मे दद्याद् वयः पुत्रस्तद् भवान् अनुमन्यताम् ॥ (३९।३)

yo me dadyād vayaḥ putrastad bhavān anumanyatām ||

40.1४०.१

शुक्र उवाच । (४०।१)

śukra uvāca

40.2४०.२

पुत्रो ज्येष्ठः कनिष्ठो वा यो ददाति वयस्तव । (४०।२)

putro jyeṣṭhaḥ kaniṣṭho vā yo dadāti vayastava |

40.3४०.३

संक्रामयिष्यसि जरां यथेष्टं नहुषात्मज । (४०।३)

saṃkrāmayiṣyasi jarāṃ yatheṣṭaṃ nahuṣātmaja |

40.4४०.४

माम् अनुध्याय भावेन न च पापम् अवाप्स्यसि ॥ (४०।४)

mām anudhyāya bhāvena na ca pāpam avāpsyasi ||

41.1४१.१

वयो दास्यति ते पुत्रो यः स राजा भविष्यति । (४१।१)

vayo dāsyati te putro yaḥ sa rājā bhaviṣyati |

41.2४१.२

आयुष्मान् कीर्तिमांश्चैव बह्वपत्यस्तथैव च ॥ (४१।२)

āyuṣmān kīrtimāṃścaiva bahvapatyastathaiva ca ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 1, 78

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit