MBh, 13, 89
Select a line for its word-by-word analysis.
तानि मे शृणु काम्यानि नक्षत्रेषु पृथक् पृथक् ॥ (१।३)
tāni me śṛṇu kāmyāni nakṣatreṣu pṛthak pṛthak ||
श्राद्धं यः कृत्तिकायोगे कुर्वीत सततं नरः । (२।१)
śrāddhaṃ yaḥ kṛttikāyoge kurvīta satataṃ naraḥ |
क्रूरकर्मा ददच्छ्राद्धम् आर्द्रायां मानवो भवेत् ॥ (३।२)
krūrakarmā dadacchrāddham ārdrāyāṃ mānavo bhavet ||
कृषिभागी भवेन्मर्त्यः कुर्वञ्श्राद्धं पुनर्वसौ । (४।१)
kṛṣibhāgī bhavenmartyaḥ kurvañśrāddhaṃ punarvasau |
पुष्टिकामो ऽथ पुष्येण श्राद्धम् ईहेत मानवः ॥ (४।२)
puṣṭikāmo 'tha puṣyeṇa śrāddham īheta mānavaḥ ||
आश्लेषायां ददच्छ्राद्धं वीरान् पुत्रान् प्रजायते । (५।१)
āśleṣāyāṃ dadacchrāddhaṃ vīrān putrān prajāyate |
ज्ञातीनां तु भवेच्छ्रेष्ठो मघासु श्राद्धम् आवपन् ॥ (५।२)
jñātīnāṃ tu bhavecchreṣṭho maghāsu śrāddham āvapan ||
फल्गुनीषु ददच्छ्राद्धं सुभगः श्राद्धदो भवेत् । (६।१)
phalgunīṣu dadacchrāddhaṃ subhagaḥ śrāddhado bhavet |
चित्रायां तु ददच्छ्राद्धं लभेद् रूपवतः सुतान् । (७।१)
citrāyāṃ tu dadacchrāddhaṃ labhed rūpavataḥ sutān |
बहुपुत्रो विशाखासु पित्र्यम् ईहन् भवेन्नरः । (८।१)
bahuputro viśākhāsu pitryam īhan bhavennaraḥ |
आदिपत्यं व्रजेन्मर्त्यो ज्येष्ठायाम् अपवर्जयन् । (९।१)
ādipatyaṃ vrajenmartyo jyeṣṭhāyām apavarjayan |
मूले त्वारोग्यम् अर्छेत यशो ऽषाढास्वनुत्तमम् । (१०।१)
mūle tvārogyam archeta yaśo 'ṣāḍhāsvanuttamam |
श्राद्धं त्वभिजिता कुर्वन् विद्यां श्रेष्ठाम् अवाप्नुयात् । (११।१)
śrāddhaṃ tvabhijitā kurvan vidyāṃ śreṣṭhām avāpnuyāt |
श्रवणे तु ददच्छ्राद्धं प्रेत्य गच्छेत् परां गतिम् ॥ (११।२)
śravaṇe tu dadacchrāddhaṃ pretya gacchet parāṃ gatim ||
राज्यभागी धनिष्ठायां प्राप्नुयान्नापदं नरः । (१२।१)
rājyabhāgī dhaniṣṭhāyāṃ prāpnuyānnāpadaṃ naraḥ |
नक्षत्रे वारुणे कुर्वन् भिषक्सिद्धिम् अवाप्नुयात् ॥ (१२।२)
nakṣatre vāruṇe kurvan bhiṣaksiddhim avāpnuyāt ||
पूर्वप्रोष्ठपदाः कुर्वन् बहु विन्देद् अजाविकम् । (१३।१)
pūrvaproṣṭhapadāḥ kurvan bahu vinded ajāvikam |
उत्तरास्वथ कुर्वाणो विन्दते गाः सहस्रशः ॥ (१३।२)
uttarāsvatha kurvāṇo vindate gāḥ sahasraśaḥ ||
बहुरूप्यकृतं वित्तं विन्दते रेवतीं श्रितः । (१४।१)
bahurūpyakṛtaṃ vittaṃ vindate revatīṃ śritaḥ |
अश्वांश्चाश्वयुजे वेत्ति भरणीष्वायुर् उत्तमम् ॥ (१४।२)
aśvāṃścāśvayuje vetti bharaṇīṣvāyur uttamam ||
इमं श्राद्धविधिं श्रुत्वा शशबिन्दुस्तथाकरोत् । (१५।१)
imaṃ śrāddhavidhiṃ śrutvā śaśabindustathākarot |
Data courtesy of The Digital Corpus of Sanskrit.