MBh, 13, 37
Select a line for its word-by-word analysis.
अपूर्वं वा भवेत् पात्रम् अथ वापि चिरोषितम् । (१।२)
apūrvaṃ vā bhavet pātram atha vāpi ciroṣitam |
दूराद् अभ्यागतं वापि किं पात्रं स्यात् पितामह ॥ (१।३)
dūrād abhyāgataṃ vāpi kiṃ pātraṃ syāt pitāmaha ||
क्रिया भवति केषांचिद् उपांशुव्रतम् उत्तमम् । (२।२)
kriyā bhavati keṣāṃcid upāṃśuvratam uttamam |
यो यो याचेत यत् किंचित् सर्वं दद्याम इत्युत ॥ (२।३)
yo yo yāceta yat kiṃcit sarvaṃ dadyāma ityuta ||
अपूर्वं वापि यत् पात्रं यच्चापि स्याच्चिरोषितम् । (४।१)
apūrvaṃ vāpi yat pātraṃ yaccāpi syācciroṣitam |
दूराद् अभ्यागतं चापि तत् पात्रं च विदुर् बुधाः ॥ (४।२)
dūrād abhyāgataṃ cāpi tat pātraṃ ca vidur budhāḥ ||
पात्रं विद्याम तत्त्वेन यस्मै दत्तं न संतपेत् ॥ (५।३)
pātraṃ vidyāma tattvena yasmai dattaṃ na saṃtapet ||
ऋत्विक्पुरोहिताचार्याः शिष्याः संबन्धिबान्धवाः । (६।२)
ṛtvikpurohitācāryāḥ śiṣyāḥ saṃbandhibāndhavāḥ |
सर्वे पूज्याश्च मान्याश्च श्रुतवृत्तोपसंहिताः ॥ (६।३)
sarve pūjyāśca mānyāśca śrutavṛttopasaṃhitāḥ ||
अतो ऽन्यथा वर्तमानाः सर्वे नार्हन्ति सत्क्रियाम् । (७।१)
ato 'nyathā vartamānāḥ sarve nārhanti satkriyām |
तस्मान्नित्यं परीक्षेत पुरुषान् प्रणिधाय वै ॥ (७।२)
tasmānnityaṃ parīkṣeta puruṣān praṇidhāya vai ||
अद्रोहो नातिमानश्च ह्रीस्तितिक्षा तपः शमः ॥ (८।२)
adroho nātimānaśca hrīstitikṣā tapaḥ śamaḥ ||
यस्मिन्न् एतानि दृश्यन्ते न चाकार्याणि भारत । (९।१)
yasminn etāni dṛśyante na cākāryāṇi bhārata |
भावतो विनिविष्टानि तत् पात्रं मानम् अर्हति ॥ (९।२)
bhāvato viniviṣṭāni tat pātraṃ mānam arhati ||
अपूर्वं चैव पूर्वं च तत् पात्रं मानम् अर्हति ॥ (१०।२)
apūrvaṃ caiva pūrvaṃ ca tat pātraṃ mānam arhati ||
अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् । (११।१)
aprāmāṇyaṃ ca vedānāṃ śāstrāṇāṃ cātilaṅghanam |
भवेत् पण्डितमानी यो ब्राह्मणो वेदनिन्दकः । (१२।१)
bhavet paṇḍitamānī yo brāhmaṇo vedanindakaḥ |
आन्वीक्षिकीं तर्कविद्याम् अनुरक्तो निरर्थिकाम् ॥ (१२।२)
ānvīkṣikīṃ tarkavidyām anurakto nirarthikām ||
हेतुवादान् ब्रुवन् सत्सु विजेताहेतुवादिकः । (१३।१)
hetuvādān bruvan satsu vijetāhetuvādikaḥ |
आक्रोष्टा चातिवक्ता च ब्राह्मणानां सदैव हि ॥ (१३।२)
ākroṣṭā cātivaktā ca brāhmaṇānāṃ sadaiva hi ||
बोद्धव्यस्तादृशस्तात नरश्वानं हि तं विदुः ॥ (१४।२)
boddhavyastādṛśastāta naraśvānaṃ hi taṃ viduḥ ||
यथा श्वा भषितुं चैव हन्तुं चैवावसृज्यते । (१५।१)
yathā śvā bhaṣituṃ caiva hantuṃ caivāvasṛjyate |
अल्पश्रुताः कुतर्काश्च दृष्टाः स्पृष्टाः कुपण्डिताः ॥ (१५।३)
alpaśrutāḥ kutarkāśca dṛṣṭāḥ spṛṣṭāḥ kupaṇḍitāḥ ||
अनुरुन्ध्याद् बहुज्ञांश्च सारज्ञांश्चैव पण्डितान् ॥ (१६।२)
anurundhyād bahujñāṃśca sārajñāṃścaiva paṇḍitān ||
लोकयात्रा च द्रष्टव्या धर्मश्चात्महितानि च । (१७।१)
lokayātrā ca draṣṭavyā dharmaścātmahitāni ca |
पितॄणाम् अथ विप्राणाम् अतिथीनां च पञ्चमम् ॥ (१८।२)
pitṝṇām atha viprāṇām atithīnāṃ ca pañcamam ||
एवं गृहस्थः कर्माणि कुर्वन् धर्मान्न हीयते ॥ (१९।२)
evaṃ gṛhasthaḥ karmāṇi kurvan dharmānna hīyate ||
Data courtesy of The Digital Corpus of Sanskrit.