महाभारतMahābhārata

MBh, 12, 330

1658 of 1995 · 158 verses

Select a line for its word-by-word analysis.

1.1१.१

श्रीभगवान् उवाच । (१।१)

śrībhagavān uvāca

1.2१.२

सूर्याचन्द्रमसौ शश्वत् केशैर् मे अंशुसंज्ञितैः । (१।२)

sūryācandramasau śaśvat keśair me aṃśusaṃjñitaiḥ |

1.3१.३

बोधयंस्तापयंश्चैव जगद् उत्तिष्ठतः पृथक् ॥ (१।३)

bodhayaṃstāpayaṃścaiva jagad uttiṣṭhataḥ pṛthak ||

2.1२.१

बोधनात् तापनाच्चैव जगतो हर्षणं भवेत् । (२।१)

bodhanāt tāpanāccaiva jagato harṣaṇaṃ bhavet |

2.2२.२

अग्नीषोमकृतैर् एभिः कर्मभिः पाण्डुनन्दन । (२।२)

agnīṣomakṛtair ebhiḥ karmabhiḥ pāṇḍunandana |

2.3२.३

हृषीकेशो ऽहम् ईशानो वरदो लोकभावनः ॥ (२।३)

hṛṣīkeśo 'ham īśāno varado lokabhāvanaḥ ||

3.1३.१

इडोपहूतयोगेन हरे भागं क्रतुष्वहम् । (३।१)

iḍopahūtayogena hare bhāgaṃ kratuṣvaham |

3.2३.२

वर्णश्च मे हरिश्रेष्ठस् तस्माद्धरिर् अहं स्मृतः ॥ (३।२)

varṇaśca me hariśreṣṭhas tasmāddharir ahaṃ smṛtaḥ ||

4.1४.१

धाम सारो हि लोकानाम् ऋतं चैव विचारितम् । (४।१)

dhāma sāro hi lokānām ṛtaṃ caiva vicāritam |

4.2४.२

ऋतधामा ततो विप्रैः सत्यश्चाहं प्रकीर्तितः ॥ (४।२)

ṛtadhāmā tato vipraiḥ satyaścāhaṃ prakīrtitaḥ ||

5.1५.१

नष्टां च धरणीं पूर्वम् अविन्दं वै गुहागताम् । (५।१)

naṣṭāṃ ca dharaṇīṃ pūrvam avindaṃ vai guhāgatām |

5.2५.२

गोविन्द इति मां देवा वाग्भिः समभितुष्टुवुः ॥ (५।२)

govinda iti māṃ devā vāgbhiḥ samabhituṣṭuvuḥ ||

6.1६.१

शिपिविष्टेति चाख्यायां हीनरोमा च यो भवेत् । (६।१)

śipiviṣṭeti cākhyāyāṃ hīnaromā ca yo bhavet |

6.2६.२

तेनाविष्टं हि यत् किंचिच्छिपिविष्टं हि तत् स्मृतम् ॥ (६।२)

tenāviṣṭaṃ hi yat kiṃcicchipiviṣṭaṃ hi tat smṛtam ||

7.1७.१

यास्को माम् ऋषिर् अव्यग्रो नैकयज्ञेषु गीतवान् । (७।१)

yāsko mām ṛṣir avyagro naikayajñeṣu gītavān |

7.2७.२

शिपिविष्ट इति ह्यस्माद् गुह्यनामधरो ह्यहम् ॥ (७।२)

śipiviṣṭa iti hyasmād guhyanāmadharo hyaham ||

8.1८.१

स्तुत्वा मां शिपिविष्टेति यास्क ऋषिर् उदारधीः । (८।१)

stutvā māṃ śipiviṣṭeti yāska ṛṣir udāradhīḥ |

8.2८.२

मत्प्रसादाद् अधो नष्टं निरुक्तम् अभिजग्मिवान् ॥ (८।२)

matprasādād adho naṣṭaṃ niruktam abhijagmivān ||

9.1९.१

न हि जातो न जाये ऽहं न जनिष्ये कदाचन । (९।१)

na hi jāto na jāye 'haṃ na janiṣye kadācana |

9.2९.२

क्षेत्रज्ञः सर्वभूतानां तस्माद् अहम् अजः स्मृतः ॥ (९।२)

kṣetrajñaḥ sarvabhūtānāṃ tasmād aham ajaḥ smṛtaḥ ||

10.1१०.१

नोक्तपूर्वं मया क्षुद्रम् अश्लीलं वा कदाचन । (१०।१)

noktapūrvaṃ mayā kṣudram aślīlaṃ vā kadācana |

10.2१०.२

ऋता ब्रह्मसुता सा मे सत्या देवी सरस्वती ॥ (१०।२)

ṛtā brahmasutā sā me satyā devī sarasvatī ||

11.1११.१

सच्चासच्चैव कौन्तेय मयावेशितम् आत्मनि । (११।१)

saccāsaccaiva kaunteya mayāveśitam ātmani |

11.2११.२

पौष्करे ब्रह्मसदने सत्यं माम् ऋषयो विदुः ॥ (११।२)

pauṣkare brahmasadane satyaṃ mām ṛṣayo viduḥ ||

12.1१२.१

सत्त्वान्न च्युतपूर्वो ऽहं सत्त्वं वै विद्धि मत्कृतम् । (१२।१)

sattvānna cyutapūrvo 'haṃ sattvaṃ vai viddhi matkṛtam |

12.2१२.२

जन्मनीहाभवत् सत्त्वं पौर्विकं मे धनंजय ॥ (१२।२)

janmanīhābhavat sattvaṃ paurvikaṃ me dhanaṃjaya ||

13.1१३.१

निराशीःकर्मसंयुक्तं सात्वतं मां प्रकल्पय । (१३।१)

nirāśīḥkarmasaṃyuktaṃ sātvataṃ māṃ prakalpaya |

13.2१३.२

सात्वतज्ञानदृष्टो ऽहं सात्वतः सात्वतां पतिः ॥ (१३।२)

sātvatajñānadṛṣṭo 'haṃ sātvataḥ sātvatāṃ patiḥ ||

14.1१४.१

कृषामि मेदिनीं पार्थ भूत्वा कार्ष्णायसो महान् । (१४।१)

kṛṣāmi medinīṃ pārtha bhūtvā kārṣṇāyaso mahān |

14.2१४.२

कृष्णो वर्णश्च मे यस्मात् तस्मात् कृष्णो ऽहम् अर्जुन ॥ (१४।२)

kṛṣṇo varṇaśca me yasmāt tasmāt kṛṣṇo 'ham arjuna ||

15.1१५.१

मया संश्लेषिता भूमिर् अद्भिर् व्योम च वायुना । (१५।१)

mayā saṃśleṣitā bhūmir adbhir vyoma ca vāyunā |

15.2१५.२

वायुश्च तेजसा सार्धं वैकुण्ठत्वं ततो मम ॥ (१५।२)

vāyuśca tejasā sārdhaṃ vaikuṇṭhatvaṃ tato mama ||

16.1१६.१

निर्वाणं परमं सौख्यं धर्मो ऽसौ पर उच्यते । (१६।१)

nirvāṇaṃ paramaṃ saukhyaṃ dharmo 'sau para ucyate |

16.2१६.२

तस्मान्न च्युतपूर्वो ऽहम् अच्युतस्तेन कर्मणा ॥ (१६।२)

tasmānna cyutapūrvo 'ham acyutastena karmaṇā ||

17.1१७.१

पृथिवीनभसी चोभे विश्रुते विश्वलौकिके । (१७।१)

pṛthivīnabhasī cobhe viśrute viśvalaukike |

17.2१७.२

तयोः संधारणार्थं हि माम् अधोक्षजम् अञ्जसा ॥ (१७।२)

tayoḥ saṃdhāraṇārthaṃ hi mām adhokṣajam añjasā ||

18.1१८.१

निरुक्तं वेदविदुषो ये च शब्दार्थचिन्तकाः । (१८।१)

niruktaṃ vedaviduṣo ye ca śabdārthacintakāḥ |

18.2१८.२

ते मां गायन्ति प्राग्वंशे अधोक्षज इति स्थितिः ॥ (१८।२)

te māṃ gāyanti prāgvaṃśe adhokṣaja iti sthitiḥ ||

19.1१९.१

शब्द एकमतैर् एष व्याहृतः परमर्षिभिः । (१९।१)

śabda ekamatair eṣa vyāhṛtaḥ paramarṣibhiḥ |

19.2१९.२

नान्यो ह्यधोक्षजो लोके ऋते नारायणं प्रभुम् ॥ (१९।२)

nānyo hyadhokṣajo loke ṛte nārāyaṇaṃ prabhum ||

20.1२०.१

घृतं ममार्चिषो लोके जन्तूनां प्राणधारणम् । (२०।१)

ghṛtaṃ mamārciṣo loke jantūnāṃ prāṇadhāraṇam |

20.2२०.२

घृतार्चिर् अहम् अव्यग्रैर् वेदज्ञैः परिकीर्तितः ॥ (२०।२)

ghṛtārcir aham avyagrair vedajñaiḥ parikīrtitaḥ ||

21.1२१.१

त्रयो हि धातवः ख्याताः कर्मजा इति च स्मृताः । (२१।१)

trayo hi dhātavaḥ khyātāḥ karmajā iti ca smṛtāḥ |

21.2२१.२

पित्तं श्लेष्मा च वायुश्च एष संघात उच्यते ॥ (२१।२)

pittaṃ śleṣmā ca vāyuśca eṣa saṃghāta ucyate ||

22.1२२.१

एतैश्च धार्यते जन्तुर् एतैः क्षीणैश्च क्षीयते । (२२।१)

etaiśca dhāryate jantur etaiḥ kṣīṇaiśca kṣīyate |

22.2२२.२

आयुर्वेदविदस्तस्मात् त्रिधातुं मां प्रचक्षते ॥ (२२।२)

āyurvedavidastasmāt tridhātuṃ māṃ pracakṣate ||

23.1२३.१

वृषो हि भगवान् धर्मः ख्यातो लोकेषु भारत । (२३।१)

vṛṣo hi bhagavān dharmaḥ khyāto lokeṣu bhārata |

23.2२३.२

नैघण्टुकपदाख्यातं विद्धि मां वृषम् उत्तमम् ॥ (२३।२)

naighaṇṭukapadākhyātaṃ viddhi māṃ vṛṣam uttamam ||

24.1२४.१

कपिर् वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते । (२४।१)

kapir varāhaḥ śreṣṭhaśca dharmaśca vṛṣa ucyate |

24.2२४.२

तस्माद् वृषाकपिं प्राह कश्यपो मां प्रजापतिः ॥ (२४।२)

tasmād vṛṣākapiṃ prāha kaśyapo māṃ prajāpatiḥ ||

25.1२५.१

न चादिं न मध्यं तथा नैव चान्तं कदाचिद् विदन्ते सुराश्चासुराश्च । (२५।१)

na cādiṃ na madhyaṃ tathā naiva cāntaṃ kadācid vidante surāścāsurāśca |

25.2२५.२

अनाद्यो ह्यमध्यस् तथा चाप्यनन्तः प्रगीतो ऽहम् ईशो विभुर् लोकसाक्षी ॥ (२५।२)

anādyo hyamadhyas tathā cāpyanantaḥ pragīto 'ham īśo vibhur lokasākṣī ||

26.1२६.१

शुचीनि श्रवणीयानि शृणोमीह धनंजय । (२६।१)

śucīni śravaṇīyāni śṛṇomīha dhanaṃjaya |

26.2२६.२

न च पापानि गृह्णामि ततो ऽहं वै शुचिश्रवाः ॥ (२६।२)

na ca pāpāni gṛhṇāmi tato 'haṃ vai śuciśravāḥ ||

27.1२७.१

एकशृङ्गः पुरा भूत्वा वराहो दिव्यदर्शनः । (२७।१)

ekaśṛṅgaḥ purā bhūtvā varāho divyadarśanaḥ |

27.2२७.२

इमाम् उद्धृतवान् भूमिम् एकशृङ्गस्ततो ह्यहम् ॥ (२७।२)

imām uddhṛtavān bhūmim ekaśṛṅgastato hyaham ||

28.1२८.१

तथैवासं त्रिककुदो वाराहं रूपम् आस्थितः । (२८।१)

tathaivāsaṃ trikakudo vārāhaṃ rūpam āsthitaḥ |

28.2२८.२

त्रिककुत् तेन विख्यातः शरीरस्य तु मापनात् ॥ (२८।२)

trikakut tena vikhyātaḥ śarīrasya tu māpanāt ||

29.1२९.१

विरिञ्च इति यः प्रोक्तः कपिलज्ञानचिन्तकैः । (२९।१)

viriñca iti yaḥ proktaḥ kapilajñānacintakaiḥ |

29.2२९.२

स प्रजापतिर् एवाहं चेतनात् सर्वलोककृत् ॥ (२९।२)

sa prajāpatir evāhaṃ cetanāt sarvalokakṛt ||

30.1३०.१

विद्यासहायवन्तं माम् आदित्यस्थं सनातनम् । (३०।१)

vidyāsahāyavantaṃ mām ādityasthaṃ sanātanam |

30.2३०.२

कपिलं प्राहुर् आचार्याः सांख्या निश्चितनिश्चयाः ॥ (३०।२)

kapilaṃ prāhur ācāryāḥ sāṃkhyā niścitaniścayāḥ ||

31.1३१.१

हिरण्यगर्भो द्युतिमान् एष यश्छन्दसि स्तुतः । (३१।१)

hiraṇyagarbho dyutimān eṣa yaśchandasi stutaḥ |

31.2३१.२

योगैः सम्पूज्यते नित्यं स एवाहं विभुः स्मृतः ॥ (३१।२)

yogaiḥ sampūjyate nityaṃ sa evāhaṃ vibhuḥ smṛtaḥ ||

32.1३२.१

एकविंशतिशाखं च ऋग्वेदं मां प्रचक्षते । (३२।१)

ekaviṃśatiśākhaṃ ca ṛgvedaṃ māṃ pracakṣate |

32.2३२.२

सहस्रशाखं यत् साम ये वै वेदविदो जनाः । (३२।२)

sahasraśākhaṃ yat sāma ye vai vedavido janāḥ |

32.3३२.३

गायन्त्यारण्यके विप्रा मद्भक्तास्ते ऽपि दुर्लभाः ॥ (३२।३)

gāyantyāraṇyake viprā madbhaktāste 'pi durlabhāḥ ||

33.1३३.१

षट्पञ्चाशतम् अष्टौ च सप्तत्रिंशतम् इत्युत । (३३।१)

ṣaṭpañcāśatam aṣṭau ca saptatriṃśatam ityuta |

33.2३३.२

यस्मिञ्शाखा यजुर्वेदे सो ऽहम् आध्वर्यवे स्मृतः ॥ (३३।२)

yasmiñśākhā yajurvede so 'ham ādhvaryave smṛtaḥ ||

34.1३४.१

पञ्चकल्पम् अथर्वाणं कृत्याभिः परिबृंहितम् । (३४।१)

pañcakalpam atharvāṇaṃ kṛtyābhiḥ paribṛṃhitam |

34.2३४.२

कल्पयन्ति हि मां विप्रा अथर्वाणविदस्तथा ॥ (३४।२)

kalpayanti hi māṃ viprā atharvāṇavidastathā ||

35.1३५.१

शाखाभेदाश्च ये केचिद् याश्च शाखासु गीतयः । (३५।१)

śākhābhedāśca ye kecid yāśca śākhāsu gītayaḥ |

35.2३५.२

स्वरवर्णसमुच्चाराः सर्वांस्तान् विद्धि मत्कृतान् ॥ (३५।२)

svaravarṇasamuccārāḥ sarvāṃstān viddhi matkṛtān ||

36.1३६.१

यत् तद्धयशिरः पार्थ समुदेति वरप्रदम् । (३६।१)

yat taddhayaśiraḥ pārtha samudeti varapradam |

36.2३६.२

सो ऽहम् एवोत्तरे भागे क्रमाक्षरविभागवित् ॥ (३६।२)

so 'ham evottare bhāge kramākṣaravibhāgavit ||

37.1३७.१

रामादेशितमार्गेण मत्प्रसादान्महात्मना । (३७।१)

rāmādeśitamārgeṇa matprasādānmahātmanā |

37.2३७.२

पाञ्चालेन क्रमः प्राप्तस्तस्माद् भूतात् सनातनात् । (३७।२)

pāñcālena kramaḥ prāptastasmād bhūtāt sanātanāt |

37.3३७.३

बाभ्रव्यगोत्रः स बभौ प्रथमः क्रमपारगः ॥ (३७।३)

bābhravyagotraḥ sa babhau prathamaḥ kramapāragaḥ ||

38.1३८.१

नारायणाद् वरं लब्ध्वा प्राप्य योगम् अनुत्तमम् । (३८।१)

nārāyaṇād varaṃ labdhvā prāpya yogam anuttamam |

38.2३८.२

क्रमं प्रणीय शिक्षां च प्रणयित्वा स गालवः ॥ (३८।२)

kramaṃ praṇīya śikṣāṃ ca praṇayitvā sa gālavaḥ ||

39.1३९.१

कण्डरीको ऽथ राजा च ब्रह्मदत्तः प्रतापवान् । (३९।१)

kaṇḍarīko 'tha rājā ca brahmadattaḥ pratāpavān |

39.2३९.२

जातीमरणजं दुःखं स्मृत्वा स्मृत्वा पुनः पुनः । (३९।२)

jātīmaraṇajaṃ duḥkhaṃ smṛtvā smṛtvā punaḥ punaḥ |

39.3३९.३

सप्तजातिषु मुख्यत्वाद् योगानां संपदं गतः ॥ (३९।३)

saptajātiṣu mukhyatvād yogānāṃ saṃpadaṃ gataḥ ||

40.1४०.१

पुराहम् आत्मजः पार्थ प्रथितः कारणान्तरे । (४०।१)

purāham ātmajaḥ pārtha prathitaḥ kāraṇāntare |

40.2४०.२

धर्मस्य कुरुशार्दूल ततो ऽहं धर्मजः स्मृतः ॥ (४०।२)

dharmasya kuruśārdūla tato 'haṃ dharmajaḥ smṛtaḥ ||

41.1४१.१

नरनारायणौ पूर्वं तपस्तेपतुर् अव्ययम् । (४१।१)

naranārāyaṇau pūrvaṃ tapastepatur avyayam |

41.2४१.२

धर्मयानं समारूढौ पर्वते गन्धमादने ॥ (४१।२)

dharmayānaṃ samārūḍhau parvate gandhamādane ||

42.1४२.१

तत्कालसमयं चैव दक्षयज्ञो बभूव ह । (४२।१)

tatkālasamayaṃ caiva dakṣayajño babhūva ha |

42.2४२.२

न चैवाकल्पयद् भागं दक्षो रुद्रस्य भारत ॥ (४२।२)

na caivākalpayad bhāgaṃ dakṣo rudrasya bhārata ||

43.1४३.१

ततो दधीचिवचनाद् दक्षयज्ञम् अपाहरत् । (४३।१)

tato dadhīcivacanād dakṣayajñam apāharat |

43.2४३.२

ससर्ज शूलं क्रोधेन प्रज्वलन्तं मुहुर् मुहुः ॥ (४३।२)

sasarja śūlaṃ krodhena prajvalantaṃ muhur muhuḥ ||

44.1४४.१

तच्छूलं भस्मसात्कृत्वा दक्षयज्ञं सविस्तरम् । (४४।१)

tacchūlaṃ bhasmasātkṛtvā dakṣayajñaṃ savistaram |

44.2४४.२

आवयोः सहसागच्छद् बदर्याश्रमम् अन्तिकात् । (४४।२)

āvayoḥ sahasāgacchad badaryāśramam antikāt |

44.3४४.३

वेगेन महता पार्थ पतन्नारायणोरसि ॥ (४४।३)

vegena mahatā pārtha patannārāyaṇorasi ||

45.1४५.१

ततः स्वतेजसाविष्टाः केशा नारायणस्य ह । (४५।१)

tataḥ svatejasāviṣṭāḥ keśā nārāyaṇasya ha |

45.2४५.२

बभूवुर् मुञ्जवर्णास्तु ततो ऽहं मुञ्जकेशवान् ॥ (४५।२)

babhūvur muñjavarṇāstu tato 'haṃ muñjakeśavān ||

46.1४६.१

तच्च शूलं विनिर्धूतं हुंकारेण महात्मना । (४६।१)

tacca śūlaṃ vinirdhūtaṃ huṃkāreṇa mahātmanā |

46.2४६.२

जगाम शंकरकरं नारायणसमाहतम् ॥ (४६।२)

jagāma śaṃkarakaraṃ nārāyaṇasamāhatam ||

47.1४७.१

अथ रुद्र उपाधावत् तावृषी तपसान्वितौ । (४७।१)

atha rudra upādhāvat tāvṛṣī tapasānvitau |

47.2४७.२

तत एनं समुद्धूतं कण्ठे जग्राह पाणिना । (४७।२)

tata enaṃ samuddhūtaṃ kaṇṭhe jagrāha pāṇinā |

47.3४७.३

नारायणः स विश्वात्मा तेनास्य शितिकण्ठता ॥ (४७।३)

nārāyaṇaḥ sa viśvātmā tenāsya śitikaṇṭhatā ||

48.1४८.१

अथ रुद्रविघातार्थम् इषीकां जगृहे नरः । (४८।१)

atha rudravighātārtham iṣīkāṃ jagṛhe naraḥ |

48.2४८.२

मन्त्रैश्च संयुयोजाशु सो ऽभवत् परशुर् महान् ॥ (४८।२)

mantraiśca saṃyuyojāśu so 'bhavat paraśur mahān ||

49.1४९.१

क्षिप्तश्च सहसा रुद्रे खण्डनं प्राप्तवांस्तदा । (४९।१)

kṣiptaśca sahasā rudre khaṇḍanaṃ prāptavāṃstadā |

49.2४९.२

ततो ऽहं खण्डपरशुः स्मृतः परशुखण्डनात् ॥ (४९।२)

tato 'haṃ khaṇḍaparaśuḥ smṛtaḥ paraśukhaṇḍanāt ||

50.1५०.१

अर्जुन उवाच । (५०।१)

arjuna uvāca

50.2५०.२

अस्मिन् युद्धे तु वार्ष्णेय त्रैलोक्यमथने तदा । (५०।२)

asmin yuddhe tu vārṣṇeya trailokyamathane tadā |

50.3५०.३

जयं कः प्राप्तवांस्तत्र शंसैतन्मे जनार्दन ॥ (५०।३)

jayaṃ kaḥ prāptavāṃstatra śaṃsaitanme janārdana ||

51.1५१.१

श्रीभगवान् उवाच । (५१।१)

śrībhagavān uvāca

51.2५१.२

तयोः संलग्नयोर् युद्धे रुद्रनारायणात्मनोः । (५१।२)

tayoḥ saṃlagnayor yuddhe rudranārāyaṇātmanoḥ |

51.3५१.३

उद्विग्नाः सहसा कृत्स्ना लोकाः सर्वे ऽभवंस्तदा ॥ (५१।३)

udvignāḥ sahasā kṛtsnā lokāḥ sarve 'bhavaṃstadā ||

52.1५२.१

नागृह्णात् पावकः शुभ्रं मखेषु सुहुतं हविः । (५२।१)

nāgṛhṇāt pāvakaḥ śubhraṃ makheṣu suhutaṃ haviḥ |

52.2५२.२

वेदा न प्रतिभान्ति स्म ऋषीणां भावितात्मनाम् ॥ (५२।२)

vedā na pratibhānti sma ṛṣīṇāṃ bhāvitātmanām ||

53.1५३.१

देवान् रजस्तमश्चैव समाविविशतुस्तदा । (५३।१)

devān rajastamaścaiva samāviviśatustadā |

53.2५३.२

वसुधा संचकम्पे ऽथ नभश्च विपफाल ह ॥ (५३।२)

vasudhā saṃcakampe 'tha nabhaśca vipaphāla ha ||

54.1५४.१

निष्प्रभाणि च तेजांसि ब्रह्मा चैवासनाच्च्युतः । (५४।१)

niṣprabhāṇi ca tejāṃsi brahmā caivāsanāccyutaḥ |

54.2५४.२

अगाच्छोषं समुद्रश्च हिमवांश्च व्यशीर्यत ॥ (५४।२)

agācchoṣaṃ samudraśca himavāṃśca vyaśīryata ||

55.1५५.१

तस्मिन्न् एवं समुत्पन्ने निमित्ते पाण्डुनन्दन । (५५।१)

tasminn evaṃ samutpanne nimitte pāṇḍunandana |

55.2५५.२

ब्रह्मा वृतो देवगणैर् ऋषिभिश्च महात्मभिः । (५५।२)

brahmā vṛto devagaṇair ṛṣibhiśca mahātmabhiḥ |

55.3५५.३

आजगामाशु तं देशं यत्र युद्धम् अवर्तत ॥ (५५।३)

ājagāmāśu taṃ deśaṃ yatra yuddham avartata ||

56.1५६.१

साञ्जलिप्रग्रहो भूत्वा चतुर्वक्त्रो निरुक्तगः । (५६।१)

sāñjalipragraho bhūtvā caturvaktro niruktagaḥ |

56.2५६.२

उवाच वचनं रुद्रं लोकानाम् अस्तु वै शिवम् । (५६।२)

uvāca vacanaṃ rudraṃ lokānām astu vai śivam |

56.3५६.३

न्यस्यायुधानि विश्वेश जगतो हितकाम्यया ॥ (५६।३)

nyasyāyudhāni viśveśa jagato hitakāmyayā ||

57.1५७.१

यद् अक्षरम् अथाव्यक्तम् ईशं लोकस्य भावनम् । (५७।१)

yad akṣaram athāvyaktam īśaṃ lokasya bhāvanam |

57.2५७.२

कूटस्थं कर्तृनिर्द्वंद्वम् अकर्तेति च यं विदुः ॥ (५७।२)

kūṭasthaṃ kartṛnirdvaṃdvam akarteti ca yaṃ viduḥ ||

58.1५८.१

व्यक्तिभावगतस्यास्य एका मूर्तिर् इयं शिवा । (५८।१)

vyaktibhāvagatasyāsya ekā mūrtir iyaṃ śivā |

58.2५८.२

नरो नारायणश्चैव जातौ धर्मकुलोद्वहौ ॥ (५८।२)

naro nārāyaṇaścaiva jātau dharmakulodvahau ||

59.1५९.१

तपसा महता युक्तौ देवश्रेष्ठौ महाव्रतौ । (५९।१)

tapasā mahatā yuktau devaśreṣṭhau mahāvratau |

59.2५९.२

अहं प्रसादजस्तस्य कस्मिंश्चित् कारणान्तरे । (५९।२)

ahaṃ prasādajastasya kasmiṃścit kāraṇāntare |

59.3५९.३

त्वं चैव क्रोधजस्तात पूर्वसर्गे सनातनः ॥ (५९।३)

tvaṃ caiva krodhajastāta pūrvasarge sanātanaḥ ||

60.1६०.१

मया च सार्धं वरदं विबुधैश्च महर्षिभिः । (६०।१)

mayā ca sārdhaṃ varadaṃ vibudhaiśca maharṣibhiḥ |

60.2६०.२

प्रसादयाशु लोकानां शान्तिर् भवतु माचिरम् ॥ (६०।२)

prasādayāśu lokānāṃ śāntir bhavatu māciram ||

61.1६१.१

ब्रह्मणा त्वेवम् उक्तस्तु रुद्रः क्रोधाग्निम् उत्सृजन् । (६१।१)

brahmaṇā tvevam uktastu rudraḥ krodhāgnim utsṛjan |

61.2६१.२

प्रसादयामास ततो देवं नारायणं प्रभुम् । (६१।२)

prasādayāmāsa tato devaṃ nārāyaṇaṃ prabhum |

61.3६१.३

शरणं च जगामाद्यं वरेण्यं वरदं हरिम् ॥ (६१।३)

śaraṇaṃ ca jagāmādyaṃ vareṇyaṃ varadaṃ harim ||

62.1६२.१

ततो ऽथ वरदो देवो जितक्रोधो जितेन्द्रियः । (६२।१)

tato 'tha varado devo jitakrodho jitendriyaḥ |

62.2६२.२

प्रीतिमान् अभवत् तत्र रुद्रेण सह संगतः ॥ (६२।२)

prītimān abhavat tatra rudreṇa saha saṃgataḥ ||

63.1६३.१

ऋषिभिर् ब्रह्मणा चैव विबुधैश्च सुपूजितः । (६३।१)

ṛṣibhir brahmaṇā caiva vibudhaiśca supūjitaḥ |

63.2६३.२

उवाच देवम् ईशानम् ईशः स जगतो हरिः ॥ (६३।२)

uvāca devam īśānam īśaḥ sa jagato hariḥ ||

64.1६४.१

यस्त्वां वेत्ति स मां वेत्ति यस्त्वाम् अनु स माम् अनु । (६४।१)

yastvāṃ vetti sa māṃ vetti yastvām anu sa mām anu |

64.2६४.२

नावयोर् अन्तरं किंचिन् मा ते भूद् बुद्धिर् अन्यथा ॥ (६४।२)

nāvayor antaraṃ kiṃcin mā te bhūd buddhir anyathā ||

65.1६५.१

अद्य प्रभृति श्रीवत्सः शूलाङ्को ऽयं भवत्वयम् । (६५।१)

adya prabhṛti śrīvatsaḥ śūlāṅko 'yaṃ bhavatvayam |

65.2६५.२

मम पाण्यङ्कितश्चापि श्रीकण्ठस्त्वं भविष्यसि ॥ (६५।२)

mama pāṇyaṅkitaścāpi śrīkaṇṭhastvaṃ bhaviṣyasi ||

66.1६६.१

एवं लक्षणम् उत्पाद्य परस्परकृतं तदा । (६६।१)

evaṃ lakṣaṇam utpādya parasparakṛtaṃ tadā |

66.2६६.२

सख्यं चैवातुलं कृत्वा रुद्रेण सहितावृषी । (६६।२)

sakhyaṃ caivātulaṃ kṛtvā rudreṇa sahitāvṛṣī |

66.3६६.३

तपस्तेपतुर् अव्यग्रौ विसृज्य त्रिदिवौकसः ॥ (६६।३)

tapastepatur avyagrau visṛjya tridivaukasaḥ ||

67.1६७.१

एष ते कथितः पार्थ नारायणजयो मृधे । (६७।१)

eṣa te kathitaḥ pārtha nārāyaṇajayo mṛdhe |

67.2६७.२

नामानि चैव गुह्यानि निरुक्तानि च भारत । (६७।२)

nāmāni caiva guhyāni niruktāni ca bhārata |

67.3६७.३

ऋषिभिः कथितानीह यानि संकीर्तितानि ते ॥ (६७।३)

ṛṣibhiḥ kathitānīha yāni saṃkīrtitāni te ||

68.1६८.१

एवं बहुविधै रूपैश्चरामीह वसुंधराम् । (६८।१)

evaṃ bahuvidhai rūpaiścarāmīha vasuṃdharām |

68.2६८.२

ब्रह्मलोकं च कौन्तेय गोलोकं च सनातनम् । (६८।२)

brahmalokaṃ ca kaunteya golokaṃ ca sanātanam |

68.3६८.३

मया त्वं रक्षितो युद्धे महान्तं प्राप्तवाञ्जयम् ॥ (६८।३)

mayā tvaṃ rakṣito yuddhe mahāntaṃ prāptavāñjayam ||

69.1६९.१

यस्तु ते सो ऽग्रतो याति युद्धे संप्रत्युपस्थिते । (६९।१)

yastu te so 'grato yāti yuddhe saṃpratyupasthite |

69.2६९.२

तं विद्धि रुद्रं कौन्तेय देवदेवं कपर्दिनम् ॥ (६९।२)

taṃ viddhi rudraṃ kaunteya devadevaṃ kapardinam ||

70.1७०.१

कालः स एव कथितः क्रोधजेति मया तव । (७०।१)

kālaḥ sa eva kathitaḥ krodhajeti mayā tava |

70.2७०.२

निहतांस्तेन वै पूर्वं हतवान् असि वै रिपून् ॥ (७०।२)

nihatāṃstena vai pūrvaṃ hatavān asi vai ripūn ||

71.1७१.१

अप्रमेयप्रभावं तं देवदेवम् उमापतिम् । (७१।१)

aprameyaprabhāvaṃ taṃ devadevam umāpatim |

71.2७१.२

नमस्व देवं प्रयतो विश्वेशं हरम् अव्ययम् ॥ (७१।२)

namasva devaṃ prayato viśveśaṃ haram avyayam ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 12, 330

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit