महाभारतMahābhārata

MBh, 3, 190

488 of 1995 · 196 verses

Select a line for its word-by-word analysis.

1.1१.१

वैशंपायन उवाच । (१।१)

vaiśaṃpāyana uvāca

1.2१.२

भूय एव ब्राह्मणमहाभाग्यं वक्तुम् अर्हसीत्यब्रवीत् पाण्डवेयो मार्कण्डेयम् ॥ (१।२)

bhūya eva brāhmaṇamahābhāgyaṃ vaktum arhasītyabravīt pāṇḍaveyo mārkaṇḍeyam ||

2.1२.१

अथाचष्ट मार्कण्डेयः ॥ (२।१)

athācaṣṭa mārkaṇḍeyaḥ ||

3.1३.१

अयोध्यायाम् इक्ष्वाकुकुलोत्पन्नः पार्थिवः परिक्षिन्नाम मृगयाम् अगमत् ॥ (३।१)

ayodhyāyām ikṣvākukulotpannaḥ pārthivaḥ parikṣinnāma mṛgayām agamat ||

4.1४.१

तम् एकाश्वेन मृगम् अनुसरन्तं मृगो दूरम् अपाहरत् ॥ (४।१)

tam ekāśvena mṛgam anusarantaṃ mṛgo dūram apāharat ||

5.1५.१

अथाध्वनि जातश्रमः क्षुत्तृष्णाभिभूतश्च कस्मिंश्चिद् उद्देशे नीलं वनषण्डम् अपश्यत् । (५।१)

athādhvani jātaśramaḥ kṣuttṛṣṇābhibhūtaśca kasmiṃścid uddeśe nīlaṃ vanaṣaṇḍam apaśyat |

5.2५.२

तच्च विवेश ॥ (५।२)

tacca viveśa ||

6.1६.१

ततस्तस्य वनषण्डस्य मध्ये ऽतीव रमणीयं सरो दृष्ट्वा साश्व एव व्यगाहत ॥ (६।१)

tatastasya vanaṣaṇḍasya madhye 'tīva ramaṇīyaṃ saro dṛṣṭvā sāśva eva vyagāhata ||

7.1७.१

अथाश्वस्तः स बिसमृणालम् अश्वस्याग्रे निक्षिप्य पुष्करिणीतीरे समाविशत् ॥ (७।१)

athāśvastaḥ sa bisamṛṇālam aśvasyāgre nikṣipya puṣkariṇītīre samāviśat ||

8.1८.१

ततः शयानो मधुरं गीतशब्दम् अशृणोत् ॥ (८।१)

tataḥ śayāno madhuraṃ gītaśabdam aśṛṇot ||

9.1९.१

स श्रुत्वाचिन्तयत् । (९।१)

sa śrutvācintayat |

9.2९.२

नेह मनुष्यगतिं पश्यामि । (९।२)

neha manuṣyagatiṃ paśyāmi |

9.3९.३

कस्य खल्वयं गीतशब्द इति ॥ (९।३)

kasya khalvayaṃ gītaśabda iti ||

10.1१०.१

अथापश्यत् कन्यां परमरूपदर्शनीयां पुष्पाण्यवचिन्वतीं गायन्तीं च ॥ (१०।१)

athāpaśyat kanyāṃ paramarūpadarśanīyāṃ puṣpāṇyavacinvatīṃ gāyantīṃ ca ||

11.1११.१

अथ सा राज्ञः समीपे पर्यक्रामत् ॥ (११।१)

atha sā rājñaḥ samīpe paryakrāmat ||

12.1१२.१

ताम् अब्रवीद् राजा । (१२।१)

tām abravīd rājā |

12.2१२.२

कस्यासि सुभगे त्वम् इति ॥ (१२।२)

kasyāsi subhage tvam iti ||

13.1१३.१

सा प्रत्युवाच । (१३।१)

sā pratyuvāca |

13.2१३.२

कन्यास्मीति ॥ (१३।२)

kanyāsmīti ||

14.1१४.१

तां राजोवाच । (१४।१)

tāṃ rājovāca |

14.2१४.२

अर्थी त्वयाहम् इति ॥ (१४।२)

arthī tvayāham iti ||

15.1१५.१

अथोवाच कन्या । (१५।१)

athovāca kanyā |

15.2१५.२

समयेनाहं शक्या त्वया लब्धुम् । (१५।२)

samayenāhaṃ śakyā tvayā labdhum |

15.3१५.३

नान्यथेति ॥ (१५।३)

nānyatheti ||

16.1१६.१

तां राजा समयम् अपृच्छत् ॥ (१६।१)

tāṃ rājā samayam apṛcchat ||

17.1१७.१

ततः कन्येदम् उवाच । (१७।१)

tataḥ kanyedam uvāca

17.2१७.२

उदकं मे न दर्शयितव्यम् इति ॥ (१७।२)

udakaṃ me na darśayitavyam iti ||

18.1१८.१

स राजा बाढम् इत्युक्त्वा तां समागम्य तया सहास्ते ॥ (१८।१)

sa rājā bāḍham ityuktvā tāṃ samāgamya tayā sahāste ||

19.1१९.१

तत्रैवासीने राजनि सेनान्वगच्छत् । (१९।१)

tatraivāsīne rājani senānvagacchat |

19.2१९.२

पदेनानुपदं दृष्ट्वा राजानं परिवार्यातिष्ठत् ॥ (१९।२)

padenānupadaṃ dṛṣṭvā rājānaṃ parivāryātiṣṭhat ||

20.1२०.१

पर्याश्वस्तश्च राजा तयैव सह शिबिकया प्रायाद् अविघाटितया । (२०।१)

paryāśvastaśca rājā tayaiva saha śibikayā prāyād avighāṭitayā |

20.2२०.२

स्वनगरम् अनुप्राप्य रहसि तया सह रमन्न् आस्ते । (२०।२)

svanagaram anuprāpya rahasi tayā saha ramann āste |

20.3२०.३

नान्यत् किंचनापश्यत् ॥ (२०।३)

nānyat kiṃcanāpaśyat ||

21.1२१.१

अथ प्रधानामात्यस्तस्याभ्याशचराः स्त्रियो ऽपृच्छत् । (२१।१)

atha pradhānāmātyastasyābhyāśacarāḥ striyo 'pṛcchat |

21.2२१.२

किम् अत्र प्रयोजनं वर्तत इति ॥ (२१।२)

kim atra prayojanaṃ vartata iti ||

22.1२२.१

अथाब्रुवंस्ताः स्त्रियः । (२२।१)

athābruvaṃstāḥ striyaḥ |

22.2२२.२

अपूर्वम् इव पश्याम उदकं नात्र नीयतेति ॥ (२२।२)

apūrvam iva paśyāma udakaṃ nātra nīyateti ||

23.1२३.१

अथामात्यो ऽनुदकं वनं कारयित्वोदारवृक्षं बहुमूलपुष्पफलं रहस्युपगम्य राजानम् अब्रवीत् । (२३।१)

athāmātyo 'nudakaṃ vanaṃ kārayitvodāravṛkṣaṃ bahumūlapuṣpaphalaṃ rahasyupagamya rājānam abravīt |

23.2२३.२

वनम् इदम् उदारम् अनुदकम् । (२३।२)

vanam idam udāram anudakam |

23.3२३.३

साध्वत्र रम्यताम् इति ॥ (२३।३)

sādhvatra ramyatām iti ||

24.1२४.१

स तस्य वचनात् तयैव सह देव्या तद् वनं प्राविशत् । (२४।१)

sa tasya vacanāt tayaiva saha devyā tad vanaṃ prāviśat |

24.2२४.२

स कदाचित् तस्मिन् वने रम्ये तयैव सह व्यवहरत् । (२४।२)

sa kadācit tasmin vane ramye tayaiva saha vyavaharat |

24.3२४.३

अथ क्षुत्तृष्णार्दितः श्रान्तो ऽतिमात्रम् अतिमुक्तागारम् अपश्यत् ॥ (२४।३)

atha kṣuttṛṣṇārditaḥ śrānto 'timātram atimuktāgāram apaśyat ||

25.1२५.१

तत् प्रविश्य राजा सह प्रियया सुधातलसुकृतां विमलसलिलपूर्णां वापीम् अपश्यत् ॥ (२५।१)

tat praviśya rājā saha priyayā sudhātalasukṛtāṃ vimalasalilapūrṇāṃ vāpīm apaśyat ||

26.1२६.१

दृष्ट्वैव च तां तस्या एव तीरे सहैव तया देव्या व्यतिष्ठत् ॥ (२६।१)

dṛṣṭvaiva ca tāṃ tasyā eva tīre sahaiva tayā devyā vyatiṣṭhat ||

27.1२७.१

अथ तां देवीं स राजाब्रवीत् । (२७।१)

atha tāṃ devīṃ sa rājābravīt |

27.2२७.२

साध्ववतर वापीसलिलम् इति ॥ (२७।२)

sādhvavatara vāpīsalilam iti ||

28.1२८.१

सा तद्वचः श्रुत्वावतीर्य वापीं न्यमज्जत् । (२८।१)

sā tadvacaḥ śrutvāvatīrya vāpīṃ nyamajjat |

28.2२८.२

न पुनर् उदमज्जत् ॥ (२८।२)

na punar udamajjat ||

29.1२९.१

तां मृगयमाणो राजा नापश्यत् ॥ (२९।१)

tāṃ mṛgayamāṇo rājā nāpaśyat ||

30.1३०.१

वापीम् अपि निःस्राव्य मण्डूकं श्वभ्रमुखे दृष्ट्वा क्रुद्ध आज्ञापयामास । (३०।१)

vāpīm api niḥsrāvya maṇḍūkaṃ śvabhramukhe dṛṣṭvā kruddha ājñāpayāmāsa |

30.2३०.२

सर्वमण्डूकवधः क्रियताम् इति । (३०।२)

sarvamaṇḍūkavadhaḥ kriyatām iti |

30.3३०.३

यो मयार्थी स मृतकैर् मण्डूकैर् उपायनैर् माम् उपतिष्ठेद् इति ॥ (३०।३)

yo mayārthī sa mṛtakair maṇḍūkair upāyanair mām upatiṣṭhed iti ||

31.1३१.१

अथ मण्डूकवधे घोरे क्रियमाणे दिक्षु सर्वासु मण्डूकान् भयम् आविशत् । (३१।१)

atha maṇḍūkavadhe ghore kriyamāṇe dikṣu sarvāsu maṇḍūkān bhayam āviśat |

31.2३१.२

ते भीता मण्डूकराज्ञे यथावृत्तं न्यवेदयन् ॥ (३१।२)

te bhītā maṇḍūkarājñe yathāvṛttaṃ nyavedayan ||

32.1३२.१

ततो मण्डूकराट् तापसवेषधारी राजानम् अभ्यगच्छत् ॥ (३२।१)

tato maṇḍūkarāṭ tāpasaveṣadhārī rājānam abhyagacchat ||

33.1३३.१

उपेत्य चैनम् उवाच । (३३।१)

upetya cainam uvāca

33.2३३.२

मा राजन् क्रोधवशं गमः । (३३।२)

mā rājan krodhavaśaṃ gamaḥ |

33.3३३.३

प्रसादं कुरु । (३३।३)

prasādaṃ kuru |

33.4३३.४

नार्हसि मण्डूकानाम् अनपराधिनां वधं कर्तुम् इति ॥ (३३।४)

nārhasi maṇḍūkānām anaparādhināṃ vadhaṃ kartum iti ||

34.1३४.१

मा मण्डूकाञ् जिघांस त्वं कोपं संधारयाच्युत । (३४।१)

mā maṇḍūkāñ jighāṃsa tvaṃ kopaṃ saṃdhārayācyuta |

34.2३४.२

श्लोकौ चात्र भवतः । (३४।२)

ślokau cātra bhavataḥ |

34.3३४.३

प्रक्षीयते धनोद्रेको जनानाम् अविजानताम् ॥ (३४।३)

prakṣīyate dhanodreko janānām avijānatām ||

35.1३५.१

प्रतिजानीहि नैतांस्त्वं प्राप्य क्रोधं विमोक्ष्यसे । (३५।१)

pratijānīhi naitāṃstvaṃ prāpya krodhaṃ vimokṣyase |

35.2३५.२

अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर् हि ते ॥ (३५।२)

alaṃ kṛtvā tavādharmaṃ maṇḍūkaiḥ kiṃ hatair hi te ||

36.1३६.१

तम् एवंवादिनम् इष्टजनशोकपरीतात्मा राजा प्रोवाच । (३६।१)

tam evaṃvādinam iṣṭajanaśokaparītātmā rājā provāca |

36.2३६.२

न हि क्षम्यते तन्मया । (३६।२)

na hi kṣamyate tanmayā |

36.3३६.३

हनिष्याम्येतान् । (३६।३)

haniṣyāmyetān |

36.4३६.४

एतैर् दुरात्मभिः प्रिया मे भक्षिता । (३६।४)

etair durātmabhiḥ priyā me bhakṣitā |

36.5३६.५

सर्वथैव मे वध्या मण्डूकाः । (३६।५)

sarvathaiva me vadhyā maṇḍūkāḥ |

36.6३६.६

नार्हसि विद्वन्माम् उपरोद्धुम् इति ॥ (३६।६)

nārhasi vidvanmām uparoddhum iti ||

37.1३७.१

स तद् वाक्यम् उपलभ्य व्यथितेन्द्रियमनाः प्रोवाच । (३७।१)

sa tad vākyam upalabhya vyathitendriyamanāḥ provāca |

37.2३७.२

प्रसीद राजन् । (३७।२)

prasīda rājan |

37.3३७.३

अहम् आयुर् नाम मण्डूकराजः । (३७।३)

aham āyur nāma maṇḍūkarājaḥ |

37.4३७.४

मम सा दुहिता सुशोभना नाम । (३७।४)

mama sā duhitā suśobhanā nāma |

37.5३७.५

तस्या दौःशील्यम् एतत् । (३७।५)

tasyā dauḥśīlyam etat |

37.6३७.६

बहवो हि राजानस्तया विप्रलब्धपूर्वा इति ॥ (३७।६)

bahavo hi rājānastayā vipralabdhapūrvā iti ||

38.1३८.१

तम् अब्रवीद् राजा । (३८।१)

tam abravīd rājā |

38.2३८.२

तयास्म्यर्थी । (३८।२)

tayāsmyarthī |

38.3३८.३

सा मे दीयताम् इति ॥ (३८।३)

sā me dīyatām iti ||

39.1३९.१

अथैनां राज्ञे पितादात् । (३९।१)

athaināṃ rājñe pitādāt |

39.2३९.२

अब्रवीच्चैनाम् । (३९।२)

abravīccainām |

39.3३९.३

एनं राजानं शुश्रूषस्वेति ॥ (३९।३)

enaṃ rājānaṃ śuśrūṣasveti ||

40.1४०.१

स उवाच दुहितरम् । (४०।१)

sa uvāca duhitaram |

40.2४०.२

यस्मात् त्वया राजानो विप्रलब्धास्तस्माद् अब्रह्मण्यानि तवापत्यानि भविष्यन्त्यनृतकत्वात् तवेति ॥ (४०।२)

yasmāt tvayā rājāno vipralabdhāstasmād abrahmaṇyāni tavāpatyāni bhaviṣyantyanṛtakatvāt taveti ||

41.1४१.१

स च राजा ताम् उपलभ्य तस्यां सुरतगुणनिबद्धहृदयो लोकत्रयैश्वर्यम् इवोपलभ्य हर्षबाष्पकलया वाचा प्रणिपत्याभिपूज्य मण्डूकराजानम् अब्रवीत् । (४१।१)

sa ca rājā tām upalabhya tasyāṃ surataguṇanibaddhahṛdayo lokatrayaiśvaryam ivopalabhya harṣabāṣpakalayā vācā praṇipatyābhipūjya maṇḍūkarājānam abravīt |

41.2४१.२

अनुगृहीतो ऽस्मीति ॥ (४१।२)

anugṛhīto 'smīti ||

42.1४२.१

स च मण्डूकराजो जामातरम् अनुज्ञाप्य यथागतम् अगच्छत् ॥ (४२।१)

sa ca maṇḍūkarājo jāmātaram anujñāpya yathāgatam agacchat ||

43.1४३.१

अथ कस्यचित् कालस्य तस्यां कुमारास्त्रयस्तस्य राज्ञः संबभूवुः शलो दलो बलश्चेति । (४३।१)

atha kasyacit kālasya tasyāṃ kumārāstrayastasya rājñaḥ saṃbabhūvuḥ śalo dalo balaśceti |

43.2४३.२

ततस्तेषां ज्येष्ठं शलं समये पिता राज्ये ऽभिषिच्य तपसि धृतात्मा वनं जगाम ॥ (४३।२)

tatasteṣāṃ jyeṣṭhaṃ śalaṃ samaye pitā rājye 'bhiṣicya tapasi dhṛtātmā vanaṃ jagāma ||

44.1४४.१

अथ कदाचिच्छलो मृगयाम् अचरत् । (४४।१)

atha kadācicchalo mṛgayām acarat |

44.2४४.२

मृगं चासाद्य रथेनान्वधावत् ॥ (४४।२)

mṛgaṃ cāsādya rathenānvadhāvat ||

45.1४५.१

सूतं चोवाच । (४५।१)

sūtaṃ covāca |

45.2४५.२

शीघ्रं मां वहस्वेति ॥ (४५।२)

śīghraṃ māṃ vahasveti ||

46.1४६.१

स तथोक्तः सूतो राजानम् अब्रवीत् । (४६।१)

sa tathoktaḥ sūto rājānam abravīt |

46.2४६.२

मा क्रियताम् अनुबन्धः । (४६।२)

mā kriyatām anubandhaḥ |

46.3४६.३

नैष शक्यस्त्वया मृगो ग्रहीतुं यद्यपि ते रथे युक्तौ वाम्यौ स्याताम् इति ॥ (४६।३)

naiṣa śakyastvayā mṛgo grahītuṃ yadyapi te rathe yuktau vāmyau syātām iti ||

47.1४७.१

ततो ऽब्रवीद् राजा सूतम् । (४७।१)

tato 'bravīd rājā sūtam |

47.2४७.२

आचक्ष्व मे वाम्यौ । (४७।२)

ācakṣva me vāmyau |

47.3४७.३

हन्मि वा त्वाम् इति ॥ (४७।३)

hanmi vā tvām iti ||

48.1४८.१

स एवम् उक्तो राजभयभीतो वामदेवशापभीतश्च सन्न् आचख्यौ राज्ञे । (४८।१)

sa evam ukto rājabhayabhīto vāmadevaśāpabhītaśca sann ācakhyau rājñe |

48.2४८.२

वामदेवस्याश्वौ वाम्यौ मनोजवाविति ॥ (४८।२)

vāmadevasyāśvau vāmyau manojavāviti ||

49.1४९.१

अथैनम् एवं ब्रुवाणम् अब्रवीद् राजा । (४९।१)

athainam evaṃ bruvāṇam abravīd rājā |

49.2४९.२

वामदेवाश्रमं याहीति ॥ (४९।२)

vāmadevāśramaṃ yāhīti ||

50.1५०.१

स गत्वा वामदेवाश्रमं तम् ऋषिम् अब्रवीत् । (५०।१)

sa gatvā vāmadevāśramaṃ tam ṛṣim abravīt |

50.2५०.२

भगवन्मृगो मया विद्धः पलायते । (५०।२)

bhagavanmṛgo mayā viddhaḥ palāyate |

50.3५०.३

तं संभावयेयम् । (५०।३)

taṃ saṃbhāvayeyam |

50.4५०.४

अर्हसि मे वाम्यौ दातुम् इति ॥ (५०।४)

arhasi me vāmyau dātum iti ||

51.1५१.१

तम् अब्रवीद् ऋषिः । (५१।१)

tam abravīd ṛṣiḥ |

51.2५१.२

ददानि ते वाम्यौ । (५१।२)

dadāni te vāmyau |

51.3५१.३

कृतकार्येण भवता ममैव निर्यात्यौ क्षिप्रम् इति ॥ (५१।३)

kṛtakāryeṇa bhavatā mamaiva niryātyau kṣipram iti ||

52.1५२.१

स च तावश्वौ प्रतिगृह्यानुज्ञाप्य चर्षिं प्रायाद् वाम्यसंयुक्तेन रथेन मृगं प्रति । (५२।१)

sa ca tāvaśvau pratigṛhyānujñāpya carṣiṃ prāyād vāmyasaṃyuktena rathena mṛgaṃ prati |

52.2५२.२

गच्छंश्चाब्रवीत् सूतम् । (५२।२)

gacchaṃścābravīt sūtam |

52.3५२.३

अश्वरत्नाविमावयोग्यौ ब्राह्मणानाम् । (५२।३)

aśvaratnāvimāvayogyau brāhmaṇānām |

52.4५२.४

नैतौ प्रतिदेयौ वामदेवायेति ॥ (५२।४)

naitau pratideyau vāmadevāyeti ||

53.1५३.१

एवम् उक्त्वा मृगम् अवाप्य स्वनगरम् एत्याश्वावन्तःपुरे ऽस्थापयत् ॥ (५३।१)

evam uktvā mṛgam avāpya svanagaram etyāśvāvantaḥpure 'sthāpayat ||

54.1५४.१

अथर्षिश्चिन्तयामास । (५४।१)

atharṣiścintayāmāsa |

54.2५४.२

तरुणो राजपुत्रः कल्याणं पत्रम् आसाद्य रमते । (५४।२)

taruṇo rājaputraḥ kalyāṇaṃ patram āsādya ramate |

54.3५४.३

न मे प्रतिनिर्यातयति । (५४।३)

na me pratiniryātayati |

54.4५४.४

अहो कष्टम् इति ॥ (५४।४)

aho kaṣṭam iti ||

55.1५५.१

मनसा निश्चित्य मासि पूर्णे शिष्यम् अब्रवीत् । (५५।१)

manasā niścitya māsi pūrṇe śiṣyam abravīt |

55.2५५.२

गच्छात्रेय । (५५।२)

gacchātreya |

55.3५५.३

राजानं ब्रूहि । (५५।३)

rājānaṃ brūhi |

55.4५५.४

यदि पर्याप्तं निर्यातयोपाध्यायवाम्याविति ॥ (५५।४)

yadi paryāptaṃ niryātayopādhyāyavāmyāviti ||

56.1५६.१

स गत्वैवं तं राजानम् अब्रवीत् ॥ (५६।१)

sa gatvaivaṃ taṃ rājānam abravīt ||

57.1५७.१

तं राजा प्रत्युवाच । (५७।१)

taṃ rājā pratyuvāca |

57.2५७.२

राज्ञाम् एतद् वाहनम् । (५७।२)

rājñām etad vāhanam |

57.3५७.३

अनर्हा ब्राह्मणा रत्नानाम् एवंविधानाम् । (५७।३)

anarhā brāhmaṇā ratnānām evaṃvidhānām |

57.4५७.४

किं च ब्राह्मणानाम् अश्वैः कार्यम् । (५७।४)

kiṃ ca brāhmaṇānām aśvaiḥ kāryam |

57.5५७.५

साधु प्रतिगम्यताम् इति ॥ (५७।५)

sādhu pratigamyatām iti ||

58.1५८.१

स गत्वैवम् उपाध्यायायाचष्ट ॥ (५८।१)

sa gatvaivam upādhyāyāyācaṣṭa ||

59.1५९.१

तच्छ्रुत्वा वचनम् अप्रियं वामदेवः क्रोधपरीतात्मा स्वयम् एव राजानम् अभिगम्याश्वार्थम् अभ्यचोदयत् । (५९।१)

tacchrutvā vacanam apriyaṃ vāmadevaḥ krodhaparītātmā svayam eva rājānam abhigamyāśvārtham abhyacodayat |

59.2५९.२

न चादाद् राजा ॥ (५९।२)

na cādād rājā ||

60.1६०.१

वामदेव उवाच । (६०।१)

vāmadeva uvāca

60.2६०.२

प्रयच्छ वाम्यौ मम पार्थिव त्वं कृतं हि ते कार्यम् अन्यैर् अशक्यम् । (६०।२)

prayaccha vāmyau mama pārthiva tvaṃ kṛtaṃ hi te kāryam anyair aśakyam |

60.3६०.३

मा त्वा वधीद् वरुणो घोरपाशैर् ब्रह्मक्षत्रस्यान्तरे वर्तमानः ॥ (६०।३)

mā tvā vadhīd varuṇo ghorapāśair brahmakṣatrasyāntare vartamānaḥ ||

61.1६१.१

राजोवाच । (६१।१)

rājovāca |

61.2६१.२

अनड्वाहौ सुव्रतौ साधु दान्ताव् एतद् विप्राणां वाहनं वामदेव । (६१।२)

anaḍvāhau suvratau sādhu dāntāv etad viprāṇāṃ vāhanaṃ vāmadeva |

61.3६१.३

ताभ्यां याहि त्वं यत्र कामो महर्षे छन्दांसि वै त्वादृशं संवहन्ति ॥ (६१।३)

tābhyāṃ yāhi tvaṃ yatra kāmo maharṣe chandāṃsi vai tvādṛśaṃ saṃvahanti ||

62.1६२.१

वामदेव उवाच । (६२।१)

vāmadeva uvāca

62.2६२.२

छन्दांसि वै मादृशं संवहन्ति लोके ऽमुष्मिन् पार्थिव यानि सन्ति । (६२।२)

chandāṃsi vai mādṛśaṃ saṃvahanti loke 'muṣmin pārthiva yāni santi |

62.3६२.३

अस्मिंस्तु लोके मम यानम् एतद् अस्मद्विधानाम् अपरेषां च राजन् ॥ (६२।३)

asmiṃstu loke mama yānam etad asmadvidhānām apareṣāṃ ca rājan ||

63.1६३.१

राजोवाच । (६३।१)

rājovāca |

63.2६३.२

चत्वारो वा गर्दभास्त्वां वहन्तु श्रेष्ठाश्वतर्यो हरयो वा तुरंगाः । (६३।२)

catvāro vā gardabhāstvāṃ vahantu śreṣṭhāśvataryo harayo vā turaṃgāḥ |

63.3६३.३

तैस्त्वं याहि क्षत्रियस्यैष वाहो मम वाम्यौ न तवैतौ हि विद्धि ॥ (६३।३)

taistvaṃ yāhi kṣatriyasyaiṣa vāho mama vāmyau na tavaitau hi viddhi ||

64.1६४.१

वामदेव उवाच । (६४।१)

vāmadeva uvāca

64.2६४.२

घोरं व्रतं ब्राह्मणस्यैतद् आहुर् एतद् राजन् यद् इहाजीवमानः । (६४।२)

ghoraṃ vrataṃ brāhmaṇasyaitad āhur etad rājan yad ihājīvamānaḥ |

64.3६४.३

अयस्मया घोररूपा महान्तो वहन्तु त्वां शितशूलाश्चतुर्धा ॥ (६४।३)

ayasmayā ghorarūpā mahānto vahantu tvāṃ śitaśūlāścaturdhā ||

65.1६५.१

राजोवाच । (६५।१)

rājovāca |

65.2६५.२

ये त्वा विदुर् ब्राह्मणं वामदेव वाचा हन्तुं मनसा कर्मणा वा । (६५।२)

ye tvā vidur brāhmaṇaṃ vāmadeva vācā hantuṃ manasā karmaṇā vā |

65.3६५.३

ते त्वां सशिष्यम् इह पातयन्तु मद्वाक्यनुन्नाः शितशूलासिहस्ताः ॥ (६५।३)

te tvāṃ saśiṣyam iha pātayantu madvākyanunnāḥ śitaśūlāsihastāḥ ||

66.1६६.१

वामदेव उवाच । (६६।१)

vāmadeva uvāca

66.2६६.२

नानुयोगा ब्राह्मणानां भवन्ति वाचा राजन्मनसा कर्मणा वा । (६६।२)

nānuyogā brāhmaṇānāṃ bhavanti vācā rājanmanasā karmaṇā vā |

66.3६६.३

यस्त्वेवं ब्रह्म तपसान्वेति विद्वांस् तेन श्रेष्ठो भवति हि जीवमानः ॥ (६६।३)

yastvevaṃ brahma tapasānveti vidvāṃs tena śreṣṭho bhavati hi jīvamānaḥ ||

67.1६७.१

मार्कण्डेय उवाच । (६७।१)

mārkaṇḍeya uvāca

67.2६७.२

एवम् उक्ते वामदेवेन राजन् समुत्तस्थू राक्षसा घोररूपाः । (६७।२)

evam ukte vāmadevena rājan samuttasthū rākṣasā ghorarūpāḥ |

67.3६७.३

तैः शूलहस्तैर् वध्यमानः स राजा प्रोवाचेदं वाक्यम् उच्चैस्तदानीम् ॥ (६७।३)

taiḥ śūlahastair vadhyamānaḥ sa rājā provācedaṃ vākyam uccaistadānīm ||

68.1६८.१

इक्ष्वाकवो यदि ब्रह्मन् दलो वा विधेया मे यदि वान्ये विशो ऽपि । (६८।१)

ikṣvākavo yadi brahman dalo vā vidheyā me yadi vānye viśo 'pi |

68.2६८.२

नोत्स्रक्ष्ये ऽहं वामदेवस्य वाम्यौ नैवंविधा धर्मशीला भवन्ति ॥ (६८।२)

notsrakṣye 'haṃ vāmadevasya vāmyau naivaṃvidhā dharmaśīlā bhavanti ||

69.1६९.१

एवं ब्रुवन्न् एव स यातुधानैर् हतो जगामाशु महीं क्षितीशः । (६९।१)

evaṃ bruvann eva sa yātudhānair hato jagāmāśu mahīṃ kṣitīśaḥ |

69.2६९.२

ततो विदित्वा नृपतिं निपातितम् इक्ष्वाकवो वै दलम् अभ्यषिञ्चन् ॥ (६९।२)

tato viditvā nṛpatiṃ nipātitam ikṣvākavo vai dalam abhyaṣiñcan ||

70.1७०.१

राज्ये तदा तत्र गत्वा स विप्रः प्रोवाचेदं वचनं वामदेवः । (७०।१)

rājye tadā tatra gatvā sa vipraḥ provācedaṃ vacanaṃ vāmadevaḥ |

70.2७०.२

दलं राजानं ब्राह्मणानां हि देयम् एवं राजन् सर्वधर्मेषु दृष्टम् ॥ (७०।२)

dalaṃ rājānaṃ brāhmaṇānāṃ hi deyam evaṃ rājan sarvadharmeṣu dṛṣṭam ||

71.1७१.१

बिभेषि चेत् त्वम् अधर्मान्नरेन्द्र प्रयच्छ मे शीघ्रम् एवाद्य वाम्यौ । (७१।१)

bibheṣi cet tvam adharmānnarendra prayaccha me śīghram evādya vāmyau |

71.2७१.२

एतच्छ्रुत्वा वामदेवस्य वाक्यं स पार्थिवः सूतम् उवाच रोषात् ॥ (७१।२)

etacchrutvā vāmadevasya vākyaṃ sa pārthivaḥ sūtam uvāca roṣāt ||

72.1७२.१

एकं हि मे सायकं चित्ररूपं दिग्धं विषेणाहर संगृहीतम् । (७२।१)

ekaṃ hi me sāyakaṃ citrarūpaṃ digdhaṃ viṣeṇāhara saṃgṛhītam |

72.2७२.२

येन विद्धो वामदेवः शयीत संदश्यमानः श्वभिर् आर्तरूपः ॥ (७२।२)

yena viddho vāmadevaḥ śayīta saṃdaśyamānaḥ śvabhir ārtarūpaḥ ||

73.1७३.१

वामदेव उवाच । (७३।१)

vāmadeva uvāca

73.2७३.२

जानामि पुत्रं दशवर्षं तवाहं जातं महिष्यां श्येनजितं नरेन्द्र । (७३।२)

jānāmi putraṃ daśavarṣaṃ tavāhaṃ jātaṃ mahiṣyāṃ śyenajitaṃ narendra |

73.3७३.३

तं जहि त्वं मद्वचनात् प्रणुन्नस् तूर्णं प्रियं सायकैर् घोररूपैः ॥ (७३।३)

taṃ jahi tvaṃ madvacanāt praṇunnas tūrṇaṃ priyaṃ sāyakair ghorarūpaiḥ ||

74.1७४.१

मार्कण्डेय उवाच । (७४।१)

mārkaṇḍeya uvāca

74.2७४.२

एवम् उक्तो वामदेवेन राजन्न् अन्तःपुरे राजपुत्रं जघान । (७४।२)

evam ukto vāmadevena rājann antaḥpure rājaputraṃ jaghāna |

74.3७४.३

स सायकस्तिग्मतेजा विसृष्टः श्रुत्वा दलस्तच्च वाक्यं बभाषे ॥ (७४।३)

sa sāyakastigmatejā visṛṣṭaḥ śrutvā dalastacca vākyaṃ babhāṣe ||

75.1७५.१

इक्ष्वाकवो हन्त चरामि वः प्रियं निहन्मीमं विप्रम् अद्य प्रमथ्य । (७५।१)

ikṣvākavo hanta carāmi vaḥ priyaṃ nihanmīmaṃ vipram adya pramathya |

75.2७५.२

आनीयताम् अपरस्तिग्मतेजाः पश्यध्वं मे वीर्यम् अद्य क्षितीशाः ॥ (७५।२)

ānīyatām aparastigmatejāḥ paśyadhvaṃ me vīryam adya kṣitīśāḥ ||

76.1७६.१

वामदेव उवाच । (७६।१)

vāmadeva uvāca

76.2७६.२

यं त्वम् एनं सायकं घोररूपं विषेण दिग्धं मम संदधासि । (७६।२)

yaṃ tvam enaṃ sāyakaṃ ghorarūpaṃ viṣeṇa digdhaṃ mama saṃdadhāsi |

76.3७६.३

न त्वम् एनं शरवर्यं विमोक्तुं संधातुं वा शक्ष्यसि मानवेन्द्र ॥ (७६।३)

na tvam enaṃ śaravaryaṃ vimoktuṃ saṃdhātuṃ vā śakṣyasi mānavendra ||

77.1७७.१

राजोवाच । (७७।१)

rājovāca |

77.2७७.२

इक्ष्वाकवः पश्यत मां गृहीतं न वै शक्नोम्येष शरं विमोक्तुम् । (७७।२)

ikṣvākavaḥ paśyata māṃ gṛhītaṃ na vai śaknomyeṣa śaraṃ vimoktum |

77.3७७.३

न चास्य कर्तुं नाशम् अभ्युत्सहामि आयुष्मान् वै जीवतु वामदेवः ॥ (७७।३)

na cāsya kartuṃ nāśam abhyutsahāmi āyuṣmān vai jīvatu vāmadevaḥ ||

78.1७८.१

वामदेव उवाच । (७८।१)

vāmadeva uvāca

78.2७८.२

संस्पृशैनां महिषीं सायकेन ततस्तस्माद् एनसो मोक्ष्यसे त्वम् ॥ (७८।२)

saṃspṛśaināṃ mahiṣīṃ sāyakena tatastasmād enaso mokṣyase tvam ||

79.1७९.१

मार्कण्डेय उवाच । (७९।१)

mārkaṇḍeya uvāca

79.2७९.२

ततस्तथा कृतवान् पार्थिवस्तु ततो मुनिं राजपुत्री बभाषे । (७९।२)

tatastathā kṛtavān pārthivastu tato muniṃ rājaputrī babhāṣe |

79.3७९.३

यथा युक्तं वामदेवाहम् एनं दिने दिने संविशन्ती व्यशंसम् । (७९।३)

yathā yuktaṃ vāmadevāham enaṃ dine dine saṃviśantī vyaśaṃsam |

79.4७९.४

ब्राह्मणेभ्यो मृगयन्ती सूनृतानि तथा ब्रह्मन् पुण्यलोकं लभेयम् ॥ (७९।४)

brāhmaṇebhyo mṛgayantī sūnṛtāni tathā brahman puṇyalokaṃ labheyam ||

80.1८०.१

वामदेव उवाच । (८०।१)

vāmadeva uvāca

80.2८०.२

त्वया त्रातं राजकुलं शुभेक्षणे वरं वृणीष्वाप्रतिमं ददानि ते । (८०।२)

tvayā trātaṃ rājakulaṃ śubhekṣaṇe varaṃ vṛṇīṣvāpratimaṃ dadāni te |

80.3८०.३

प्रशाधीमं स्वजनं राजपुत्रि इक्ष्वाकुराज्यं सुमहच्चाप्यनिन्द्ये ॥ (८०।३)

praśādhīmaṃ svajanaṃ rājaputri ikṣvākurājyaṃ sumahaccāpyanindye ||

81.1८१.१

राजपुत्र्युवाच । (८१।१)

rājaputryuvāca |

81.2८१.२

वरं वृणे भगवन्न् एकम् एव विमुच्यतां किल्बिषाद् अद्य भर्ता । (८१।२)

varaṃ vṛṇe bhagavann ekam eva vimucyatāṃ kilbiṣād adya bhartā |

81.3८१.३

शिवेन चाध्याहि सपुत्रबान्धवं वरो वृतो ह्येष मया द्विजाग्र्य ॥ (८१।३)

śivena cādhyāhi saputrabāndhavaṃ varo vṛto hyeṣa mayā dvijāgrya ||

82.1८२.१

मार्कण्डेय उवाच । (८२।१)

mārkaṇḍeya uvāca

82.2८२.२

श्रुत्वा वचः स मुनी राजपुत्र्यास् तथास्त्विति प्राह कुरुप्रवीर । (८२।२)

śrutvā vacaḥ sa munī rājaputryās tathāstviti prāha kurupravīra |

82.3८२.३

ततः स राजा मुदितो बभूव वाम्यौ चास्मै सम्प्रददौ प्रणम्य ॥ (८२।३)

tataḥ sa rājā mudito babhūva vāmyau cāsmai sampradadau praṇamya ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 3, 190

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit